देवकृतोपनिषत्सार शिवस्तवः

देवकृतोपनिषत्सार शिवस्तवः

ब्रह्मैव त्वं त्रिधोर्ध्वस्त्वं गतिः पुष्टिर्महेश्वरः । विश्वञ्च विश्वातीतस्त्वं हुतं प्रहुतमेव च ॥ २२॥ कृतं चाकृतमेते च परमं च परायणम् । नारायणादिजनको ह्यर्यम्णो वरुणस्य हि ॥ २३॥ जनिता त्वं तथा वायोर्द्यावाभूस्योर्महेश्वरः । सर्वेशस्सर्वसाक्षी च सर्व एवं त्वमेव हि ॥ २४॥ अग्राह्यस्सर्वभूतेषु सर्वेन्द्रियगुणातिगः । अलिङ्गोस्यशरीरस्त्वं व्यापकश्च सनातनः ॥ २५॥ वामनं त्वां महादेवं सर्वेदेवा उपासते । त्वत्तो जातं जगच्छम्भो स्थितं त्वय्येव लीयते ॥ २६॥ त्वत्तो नास्ति पृथक्किञ्चिन्न भिन्नं परमार्थतः ॥ २७॥ अजां मायां लोहितशुक्लकृष्णां बहूनस्माञ्जनयन्तीं सरूपाम् । अजस्त्वमेको जुषमाणोऽनुशेषे जहात्येनां भुक्तभोगामजस्त्वम् ॥ २८॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तवावयवसम्भूतैर्व्याप्तं सर्वमिदं जगत् ॥ २९॥ नेह नानास्ति किञ्चिद्वै त्वदधिष्ठितमेव हि । त्वामवज्ञाय दुर्मेधाः कृतकृत्योऽभिमन्यते ॥ ३०॥ न साम्परायं प्रविदाम बाला मूढा वयं केवलं त्वद्विहीनाः । किञ्चित्तृणं चालयितुं च नेशास्त्वं नो गतिः परमं चासि शम्भो ॥ ३१॥ त्वयावृतं लोकमिदं समग्रं को वा हीनं चेतते त्वद्विहीनः । एको रुद्रस्त्वं हि सर्वस्य कर्ता विश्वातीतः परमश्चेतकोऽसि ॥ ३२॥ सर्वभूतातिगश्चात्मा कोशातीतः परात्परः । महाग्रासस्त्वमेवेश मृत्युस्त्वदुपसेचनः ॥ ३३॥ ओदनं तव भूतेश ब्रह्मक्षत्रं जगत्तथा । ब्रह्मपुच्छं प्रतिष्ठा त्वं शान्तिरक्षरमेव च ॥ ३४॥ हृदिस्था देवतास्सर्वा हृदि प्राणे प्रतिष्ठिताः । हृदयं पुरुषोऽसि त्वं तिस्रो मात्राः परश्च सः ॥ ३५॥ ओङ्कारः प्रणवो व्यापी ह्यनन्तोऽनन्तविक्रमः । तारं सूक्ष्मं वैद्युतस्त्वं शुक्लं सर्वशरीरगम् ॥ ३६॥ ईशानो भगवान् रुद्रो महादेवस्त्वमीश्वरः । परं ब्रह्म परं धाम परः पारः परायणः ॥ ३७॥ शूरो वीरः पुरुषो भूतसंस्थो विश्वो विश्वेशः प्राणदश्चाव्ययात्मा । चक्षुषश्चक्षुश्श्रोत्र एव त्वमीश मनसो मनो बुद्धेर्बोद्धा त्वमेव ॥ ३८॥ पतिः पतीनां पशवो वयं चाप्यस्मानहो पासि तथात्सि देव । त्वदुद्भवं सर्वमीशस्त्वमेको नानेव भासि पुरुषस्य मायया ॥ ३९॥ तिलेषु तैलं दधिनीव सर्पिरापस्त्रोतस्वरणीषु वह्निः । एवं प्रोतं त्वय्यद्वितीये महेश त्वज्जं त्वल्लं त्वदनं चैतदेव ॥ ४०॥ न विद्यते गुणकर्मादि नामरूपादिशक्तिर्ज्ञानशक्त्या विभिन्नः । हृदयस्त्वं भूतभव्यः पुराणो ह्येको वीरो वेदगुणैकवेद्यः ॥ ४१॥ ओङ्कारादिस्वररूपो महेश विधामा त्वं वरणीयस्तथाणुः । महान् जेता जिग्यश्चापराजितो ह्यभ्रावकाशः खञ्च कञ्च त्वमेव ॥ ४२॥ विभ्राट् संराट् भूमधामा त्वमेव पितासि माता भ्रातृकश्चादिवेद्यः । रुजां हरस्त्वं भिषक्पापहीनो ह्यपाणिपादो निर्विकारस्त्वमात्मा ॥ ४३॥ स्वयं भानः पर एको ज्योतिरेव त्वत्तो न ओजस्त्विष्टतमोऽस्ति देवः । त्वं न दिवा नैव रात्रिस्त्वमीशस्त्वं सीमा विश्वतश्चक्षुरीशः ॥ ४४॥ न वेदान्ता नापि वेदाश्च ते वै तव ज्ञानं मनसैवाद्य वृत्तम् । आकाशः पृथिवी सलिलं च वायुस्तेजश्चासि प्रथितं ते जगच्च ॥ ४५॥ विश्वस्य नेता विश्वभर्ता त्वमीशस्तव ज्ञानात्सर्वमेवेह विन्देत् । तवाज्ञानान्मोहितास्सर्व एव तव प्रसादादम्बया बोधितास्स्मः ॥ ४६॥ अवस्थातीतः पर आत्मा त्वमेव ब्रह्मैव त्वं संसरस्यादिरूपः । विशोको विमृत्युरजिघृत्सोऽपिपासश्शरीरहीनोऽप्यजरः पुराणः ॥ ४७॥ ऋतं सत्यं नामरूपातिगस्त्वं तवामेयरूपं को हि वेदेदमेव । ऋचो अक्षरे परमस्त्वं महेश नान्यत्वत्तो यद्भवेदेदमार्तम् ॥ ४८॥ नान्यदृक्पश्यति पश्यकस्त्वं दृष्टेर्दृष्टा वाच्यवाचादिहीनः । विद्याधीशस्स्वर एको महेशस्त्वमेव त्वं वेद योऽसीश एव ॥ ४९॥ नमस्ते हरसे शोचिषे ते नमस्ते अस्त्वर्चिषे देवदेवविश्वाधीशशङ्करो वेदवेद्यः । अन्यत्तपन्तु हेतयो घोररूपा भक्तेषु त्वं शिवो भव शत्रूनस्माकं जहि शूलेन शम्भो ॥ ५०॥ य इमं विश्वं भुवनं यासि जुह्वद्दष्टिः प्रथमो वो मनःपद्मसंस्थः । त्वमाशिषं द्रविणं धेहि शम्भो विश्वकर्ता मनसा सम्प्रदृश्यो धाता विधाता परमेप्यसन्दृक् ॥ ५१॥ तेषामिष्टानि तव पादपूजया सर्वं लभत्येव न हि संशयोऽत्र । त्वं नो माता त्वं पिता चोपनेता माता बन्धुः परमोवै गुरुस्त्वम् ॥ ५२॥ त्वं देवेषु प्रथितो नामतस्त्वेक एवेदं रुद्रस्त्वा मनाक्पूर्वसूराः । वेत्तुं च त्वां नूतनाश्चापि शम्भो ह्यपूतपूर्तं जगदेकं त्वयार्तम् ॥ ५३॥ यद्भूतजालं निखिलं वै विसृष्टमेतादृशं त्वां न विदन्ति केचिद्द्दृष्ट्यान्तरेण परिपश्यन्ति मूढाः । मायानीहारप्रावृताशास्त्रजन्याः असूस्तृप्या भोगभाजो भुवः के ॥ ५४॥ यज्ञैर्दानैः कामकामैश्च बाला दिवः परः पृथिव्यास्त्वं परश्च । देवासुरैस्त्वं पुरो मूढगर्भो भूतानां त्वं महिमा गर्भरूपः ॥ ५५॥ कस्त्वां वेद भूतवर्गैर्विहीनं वेदैर्विश्वं यत्व लीनं त्वयीशे । अज त्वन्नाभौ जगदेतद्विचित्रं मध्येऽपितं यस्मिन् विश्वं भुवनं च त्वमेव ॥ ५६॥ ततो गन्धर्वा ओषधीशोऽपि शम्भो सर्वेन्द्रियाणि मनसा त्वां नमामः । हृदा पश्यन्ति मनसा मनीषिणो ये ब्रह्ममन्वान उपासते त्वाम् ॥ ५७॥ त्वामीदृशं गूढमनुप्रविष्टं सहैव सन्तं न विजानन्ति देवाः । विश्वस्य चक्षुर्विश्ववक्त्रोरुबाहुर्विश्वस्पतिर्भुवनस्यास्य गोप्ता ॥ ५८॥ द्यावाभूमी त्वत्त एवेद्धरश्मिस्सूर्यो भ्राजति खे सोमतारैर्गृहैश्च । नान्ये जानन्ति तव भक्त्या विहीना ह्यजातं त्वामीशं शरणं प्रपन्नाः ॥ ५९॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवकृतोपनिषत्सार शिवस्तवः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५४ - देवकृतोपनिषत्स्तुतिः । २२-५९॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 54 - devakRRitopaniShatstutiH . 22-59.. Notes: Deva-s देवाः eulogize Śiva शिव as The One Who is Almighty and Above All, as propounded in The Upaniṣat उपनिषत् - the mystery that rests underneath the external system of things. Encoded and proofread by Ruma Dewan
% Text title            : Devakritopanishatsara Shiva Stava
% File name             : devakRRitopaniShatsArashivastavaH.itx
% itxtitle              : shivastavaH devakRitopaniShatsAra (shivarahasyAntargataH)
% engtitle              : devakRitopaniShatsAra shivastavaH
% Category              : shiva, shivarahasya, stava, upanishhat, upaniShat
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 54 - devakRitopaniShatstutiH | 22-59||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org