गौरीपतिशतनामावलिः
बृहस्पतिरुवाच -
ॐ रुद्राय नमः । नीलाय । भीमाय । परमात्मने । कपर्दिने । सुरेशाय ।
व्योमकेशाय । वृषभध्वजाय । सोमाय । सोमनाथाय । शम्भवे ।
दिगम्बराय । भर्गाय । उमाकान्ताय । तपोमयाय । भव्याय । शिवाय ।
श्रेष्ठाय । विष्णवे । व्यालप्रियाय नमः । २०
ॐ व्यालाय नमः । व्यालानां पतये । महीधराय । व्याघ्राय । पशूनां
पतये । पुरान्तकाय । सिंहाय । शार्दूलाय । मखाय । मीनाय ।
मीननाथाय । सिद्धाय । परमेष्ठिने । कामान्तकाय । बुद्धाय ।
बुद्धीनां पतये । कपोताय । विशिष्टाय । शिष्टाय ।
सकलात्मने नमः । ४०
ॐ वेदाय नमः । वेदजीवाय । वेदगुह्याय । दीर्घाय । दीर्घरूपाय ।
दीर्घार्थाय । अविनाशिने । जगत्प्रतिष्ठाय । व्योमरूपाय ।
गजासुरमहाकालाय । अन्धकासुरभेदिने । नीलरूपाय । लोहितरूपाय ।
शुक्लरूपाय । चण्डमुण्डप्रियाय । भक्तिप्रियाय । देवाय । ज्ञात्रे ।
ज्ञानिने । अव्ययाय नमः । ६०
ॐ महेशाय नमः । महादेवाय । हराय । त्रिनेत्राय । त्रिवेदाय ।
वेदाङ्गाय । अर्थाय । अर्थरूपाय । परमार्थाय । विश्वभूपाय ।
विश्वाय । विश्वनाथाय । शङ्कराय । कालाय । कालावयवरूपिणे ।
अरूपाय । विरूपाय । सूक्ष्मसूक्ष्माय । श्मशानवासिने ।
कृत्तिवाससे नमः । ८०
ॐ भूम्ने नमः । शशाङ्कशेखराय । ईशाय । उग्रभूमिशयाय ।
दुर्गाय । दुर्गपाराय । दुर्गावयवसाक्षिणे । लिङ्गरूपाय । लिङ्गाय ।
लिङ्गानां पतये । प्रलयरूपाय । प्रणवार्थाय । कारणकारणाय ।
मृत्युञ्जयाय । आत्मभवस्वरूपिणे । श्रीत्र्यम्बकाय । असितकण्ठाय ।
शर्वाय । गौरीपतये । सकलमङ्गलहेतवे नमः । १००
Proofread by PSA Easwaran