गोकर्णक्षेत्रमाहात्म्यम्

गोकर्णक्षेत्रमाहात्म्यम्

(शिवगौरीसंवादे) ईश्वरः - ममास्ति देवि सुभगे क्षेत्रं गोकर्णसञ्ज्ञकम् । गोकर्णेशं समाराध्य विमुक्ता बहवो जनाः ॥ १॥ पश्चिमे सागरोपान्ते तत्क्षेत्रं मम कामदम् । भोगमोक्षप्रदं देवि सर्वपापविनाशकम् ॥ २॥ तत्रैव ब्रह्मविष्ण्वाद्या मुनयः काश्यपादयः । पुलस्त्यभार्गवाद्याश्च विश्वामित्रपराशराः ॥ ३॥ पौलस्त्याद्याश्च तत्रैव रावणाद्या महौजसः । गन्धर्वाः किन्नारा यक्षा नागा विद्याधरा गणाः ॥ ४॥ नन्दिभृङ्गिप्रभृतयो नारदाद्या मुनीश्वराः । दैत्यनाथाश्च तत्रैव तप्त्वाऽमितबला भवन् ॥ ५॥ अन्ये सुरासुराः सर्वे मुनयस्तापसास्तथा । गोकर्णेशं समाराध्य लेभिरे तपसः फलम् ॥ ६॥ गोकर्णेशमहो दृष्ट्वा महाबलमनुत्तमम् । तत्रैव भार्गवो रामो रेणुकातनयः शिवे ॥ ७॥ निःक्षत्रियकृतं पापं त्यक्त्वा मां शरणं गतः । वामदेवोऽपि सार्वात्म्यं यत्र प्राप महाबले ॥ ८॥ गोकर्णेशं समाराध्य मुनयो भक्तितत्पराः । ज्ञानं वेदान्तवाक्योत्थं लेभिरे मुक्तिदायकम् ॥ ९॥ गोकर्णसञ्ज्ञकं लिङ्गं दर्शनान्मुक्तिदायकम् । संसारपाशबद्धानां मोचकं भवभेषजम् ॥ १०॥ शक्रो दुर्वाससा शप्तो निःश्रीकश्चाभवतु पुरा । गोकर्णेशं समाराध्य महतीं श्रियमाप्तवान् ॥ ११॥ गोकर्णे सागरैः पूजा कृता भक्तिपुरःसरम् । अत्र सन्ति महाशैवाः सदा भस्माङ्गपाण्डराः ॥ १२॥ रुद्राक्षमालाभरणा रुद्रावर्तनतत्पराः । पञ्चाक्षरपरा नित्यं मम लिङ्गार्चनादराः ॥ १३॥ भवभक्तार्चनपरा मन्नामजपतत्पराः । वेदवेदान्ततत्त्वज्ञा यतयश्च तथाम्बिके ॥ १४॥ गृहस्था यतयश्चैव वनस्थाश्च तथा परे । वर्णिनोऽपि तथा गौरि पर्णाम्बुफलभोजनाः ॥ १५॥ गोकर्णनिलयं शम्भुमपर्णापतिमीश्वरम् । बिल्वपत्रैः समभ्यर्च्य नित्यं नैवेद्यभोजिनः ॥ १६॥ अगस्त्योऽपि सदा भक्त्या नित्यं मां स्तौति शङ्करि । रुद्रसूक्तैर्महादेवि बिल्वपत्रैः समर्च्य च ॥ १७॥ वेदाः साङ्गोपनिषदो मूर्तिमन्तः सदाम्बिके । सेवावसरमालोक्य महाबलमुपासते ॥ १८॥ ब्रह्मा चतुर्भिर्वदनैश्चातुर्होत्रैः स्तुवत्तदा । षण्मुखोऽपि सदा भक्त्या मामुपास्तेऽम्बिकासुतः ॥ १९॥ गणेशाऽपि सदा देवि बिल्वैरभ्यर्चयत्सदा । शेषः प्रत्यहमागत्य पातालविवरादुमे ॥ २०॥ स्वफणामणिमाणिक्यैर्बिल्वैः सम्पूज्य मां सदा । सहस्रवदनैरीशं नामभिश्च सहस्रकैः ॥ २१॥ कोमलैर्बिल्वपत्रैश्च कमलैः पूजयत्युमे । दिग्गजाश्च सदा गौरि स्वशुण्डाबलयोद्धृतैः ॥ २२॥ पानीयैः बिल्वपत्रैश्च साब्जनालैस्तथाम्बिके । पूजयन्ति महालिङ्गे गोकर्णेशं महाबलम् ॥ २३॥ विष्णुश्चात्रातपत्देवि दानवैश्च पराजितः । पुनराप्यायितश्चासीत्मत्कटाक्षेण शोभने ॥ २४॥ ब्रह्मणापि तपस्तप्तं सृष्टिविज्ञानहेतवे । भूम्यन्तरिक्षगा रुद्रा ये दिव्यप्सु प्रतिष्ठिताः ॥ २५॥ निषङ्गिणः कवचिनः खङ्गखेटधनुर्धराः । ईशानप्रमुखाः सर्वे महाबलमुपासते ॥ २६॥ अश्विनौ मरुतश्चापि वस्वादित्या दिगीश्वराः । तप्स्यन्ति मत्प्रसादार्थं धनदोऽपि सदा मुदा ॥ २७॥ मत्प्रसादात्धनेशत्वं सखित्वं तस्य चाभवत् । अत्र चन्द्रोऽपि देवेशि तपस्तप्त्वा सुदुष्करम् ॥ २८॥ गुरुदाररतात्पापान्मुक्तोऽभून्मत्प्रसादतः । चण्डांशुरपि देवेशि गोकर्णेशं समर्चयन् ॥ २९॥ छायात्यागजपापेन मुक्तोऽभूदत्र सुन्दरि । गोकर्णेशं समाराध्य महतीं श्रियमाप्तवान् ॥ ३०॥ दैत्यराजस्तथा बाणो विरोचनसुतो बली । प्रचित्तिर्विघसश्चैव मुरो जन्मस्तथान्धकः ॥ ३१॥ वृत्रश्च नमुचिश्चैव असुरौ मधुकैटभौ । सुन्दोपसुन्दौ देवेशि शूरस्तारक एव च ॥ ३२॥ हिरण्याक्षश्च कशिपुः प्रह्लादो मन्थरस्तथा । बलो नामासुरेन्द्रश्च महतीं प्राप्नुवन्श्रियम् ॥ ३३॥ शक्रोऽपि वृत्रवध्यातोऽप्यहल्यासङ्गपातकात । विमुक्तः सर्वदा विप्राः गोकर्णेशसमर्चनात् ॥ ३४॥ एते सर्वे तपस्तप्त्वा गोकर्णेशं समर्च्य च । सर्वे प्रापतबलाः शूराः शत्रुवित्रासकाः सदा ॥ ३५॥ गोकर्णेशं समाराध्य पूजया तपसाऽपि च । गन्धर्वाद्या महाभागे चित्रवर्मा हहाहुहूः ॥ ३६॥ तुम्बुरुश्चापि कण्डुश्च नारदो देवगायनः । गान्धर्वमेदमखिलं प्राप्नुवन्मत्प्रसादतः ॥ ३७॥ नागनाथा महाभागे गोकर्णेशार्चने रताः । धृतराष्ट्रः शङ्खपालः कम्बलाश्वतरौ तथा ॥ ३८॥ अनन्तो वासुकिश्चैव तक्षकः कुण्डरस्तथा । स्वफणाभिर्महालिङ्गं छाद्य सम्पूज्य बिल्वजैः ॥ ३९॥ कोमलैः कमलैरीशं दलैः सम्पूजयन्ति हि । कामधेनुगणाश्चापि सुरभिर्नन्दिनी तथा ॥ ४०॥ स्वोधःसम्भूतपयसा सफेनेनाभ्यषेचयन् । बिल्वैर्महाबलेशानं सम्पूज्य मुदमाप्नुवन् ॥ ४१॥ धर्मोऽपि वृषरूपेण तपस्तप्त्वात्र मां शिवे । मत्तो लब्धवरो देवि मां वहत्येव पृष्ठतः ॥ ४२॥ गोकर्णेशप्रसादेन चन्द्रसूर्यान्वयोद्भवाः । राजानश्च सहस्राणि नित्यं मां पर्युपासते ॥ ४३॥ मनुर्विकुक्षिः कुक्षिश्च शशबिन्दुर्भगीरथः । रघुश्चैवाथ मान्धाता युवनाश्वो गयस्तथा ॥ ४४॥ रन्तिदेवः पृथुर्वैन्यो मुचुकुन्दो दृढाश्वकः । दिलीपः सगरो विंशो नाभागश्च करन्धमः ॥ ४५॥ आयुष पुरुश्च भरतो ययातिर्नहुषः कुरुः । खट्वङ्गोऽथ नृगोऽरिष्टस्तथा संवरणो नृपः ॥ ४६॥ गोकर्णेशं समाराध्य पृथिव्याः पतयोऽभवन् । देवि किं बहुनोक्तेन गोकर्णेशप्रसादतः ॥ ४७॥ समभ्यर्च्य महालिङ्गं स्वं स्वं स्थानं सुरासुराः । लेभिरे परमेशानि महाबलसमर्चनात् ॥ ४८॥ भुक्तिमुक्तिप्रदं क्षेत्रं सर्वसम्पत्प्रदायकम् । अत्र जप्तोऽथ यः कश्चिन्मन्त्रसिद्धिं गमिष्यति ॥ ४९॥ पञ्चाग्निमध्यनिरता वायुभक्षास्तथाऽपरे । जटोरुशिरसः केचिद्दन्तोलूखलिनः परे ॥ ५०॥ भस्माभ्यक्ताः सदा केचिद् रुद्राध्यायजपादराः । पञ्चाक्षरपराः केचिद्केचिन्मन्नामजापकाः ॥ ५१॥ शिव शङ्कर देवेश गोकर्णेश महेश्वर । प्रसीद परमेशेति तत्र शैवा वदन्ति माम् ॥ ५२॥ केचिल्लिङ्गार्चनपराः बिल्वपत्रादिभिः शिवे । साग्नयोऽनग्नयः केचिद् यतयो भक्तिभाविताः ॥ ५३॥ वर्णिनो वनसंस्थाश्च ब्राह्मणा मामुपासते । ब्रह्मण्यपतिरेवाहं महाब्राह्मण ईश्वरः ॥ ५४॥ वसन्ति शैवा गोकर्णे मन्नैवेद्यैकभोजनाः । अत्र शैवं समभ्यर्च्य मम लोके वसेन्नरः ॥ ५५॥ अत्र सर्वेषु कालेषु सागरस्नानकृन्नरः । एकं शैवं भोजयित्वा मत्प्रीत्यर्थमुमे शुभे ॥ ५६॥ भक्ष्यभोज्यैः सदन्नैश्च स मां भोजयिताम्बिके । गोकर्णेशं पूजयित्वा बिल्वपत्रादिसाधनैः ॥ ५७॥ कोटिलिङ्गार्चनफलं प्राप्नोति स वरानने । ५८-१ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे गोकर्णक्षेत्रमाहात्म्यम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २३॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 23.. Notes: Shiva describes to Devi about Gokarna Shiva Kshetra and the merits of worshipping Him at this place where He is known as Gokarneshwara. The shlokas are maintained per the source text. Proofread by Ruma Dewan
% Text title            : Gokarna Kshetra Mahatmyam
% File name             : gokarNakShetramAhAtmyam.itx
% itxtitle              : gokarNakShetramAhAtmyam (shivarahasyAntargatA)
% engtitle              : gokarNakShetramAhAtmyam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 23||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org