॥ हरिहरस्तोत्रम् ॥

श्रीगणेशाय नमः ॥ धर्मार्थकाममोक्षाख्यचतुर्वर्गप्रदायिनौ । वन्दे हरिहरौ देवौ त्रैलोक्यपरिपायिनौ ॥ १॥ एकमूर्ती द्विधा भिन्नौ संसारार्णवतारकौ । वन्देऽहं कामदौ देवौ सततं शिवकेशवौ ॥ २॥ दयामयौ दीनदरिद्रतापहौ महौजसौ मान्यतमौ सदा समौ । उदारलीलाललितौ सितासितौ नमामि नित्यं शिवकेशवावहम् ॥ ३॥ अनन्तमाहात्म्यनिधी विधिस्तुतौ श्रिया युतौ लोकविधानकारिणौ । सुरासुराधीशनुतौ नुतौ जगत्पती सदा विधत्तां शिवकेशवौ शिवम् ॥ ४॥ जगत्त्रयीपालननाशकारकौ प्रसन्नहासौ विलसत्सदाननौ । महाबलौ मञ्जुलमूर्तिधारिणौ शिवं विधत्तां शिवकेशवौ सदा ॥ ५॥ महस्विनौ मोदकरौ परौ वरौ मुनीश्वरैः सेवितपादपङ्कजौ । अजौ सुजातौ जगदीश्वरौ सदा शिवं विधत्तां शिवकेशवौ मम ॥ ६॥ नमोऽस्तु नित्यं शिविकेशवाभ्यां स्वभक्तसंरक्षणतत्पराभ्याम् । देवेश्वराभ्यां करुणाकराभ्यां लोकत्रयीनिर्मितिकारणाभ्याम् ॥ ७॥ सलीलशीलौ महनीयमूर्ती दयाकरौ मञ्जुलसच्चरित्रौ । महोदयौ विश्वविनोदहेतू नमामि देवौ शिवकेशवौ तौ ॥ ८॥ त्रिशूलपाणिं वरचक्रपाणिं पीताम्बरं स्पष्टदिगम्बरं च । चतुर्भुजं वा दशबाहुयुक्तं हरिं हरं वा प्रणमामि नित्यम् ॥ ९॥ कपालमालाललितं शिवं च सद्वैजयन्तीस्रगुदारशोभम् । विष्णुं च नित्यं प्रणिपत्य याचे भवत्पदाम्भोरुहयोः स्मृतिः स्तात् ॥ १०॥ शिव त्वमेवाऽसि हरिस्वरूपो हरे त्वमेवाऽसि शिवस्वरूपः । भ्रान्त्या जनास्त्वां द्विविधस्वरूपं पश्यन्ति मूढा ननु नाशहेतोः ॥ ११॥ हरे जना ये शिवरूपिणं त्वां त्वद्रूपमीशं कलयन्ति नित्यम् । ते भाग्यवन्तः पुरुषाः कदाऽपि न यान्ति भास्वत्तनयस्य गेहम् ॥ १२॥ शम्भो जना ये हरिरूपिणं त्वां भवत्स्वरूपं कमलालयेशम् । पश्यन्ति भक्त्या खलु ते महान्तौ यमस्य नो यान्ति पुरं कदाचित् ॥ १३॥ शिवे हरौ भेदधियाऽऽधियुक्ता मुक्तिं लभन्ते न जना दुरापाम् । भुक्तिं च नैवेह परन्तु दुःखं संसारकूपे पतिताः प्रयान्ति ॥ १४॥ हरे हरौ भेददृशो भृशं वै संसारसिन्धौ पतिताः सतापाः । पापाशया मोहमयान्धकारे भ्रान्ता महादुःखभरं लभन्ते ॥ १५॥ सन्तो लसन्तः सुतरां हरौ च हरे च नित्यं वहुभक्तिमन्तः । अन्तर्महान्तौ शिवकेशवौ तौ ध्यायन्त उच्चैर्मुदमाप्नुवन्ति ॥ १६॥ हरौ हरे चैक्यमुदारशीलाः पश्यन्ति शश्वत्सुखदायिलीलाः । ते भुक्तिमुक्ती समवाप्य नूनं सुखं दुरापं सुतरां लभन्ते ॥ १७॥ शिवे शिवेशेऽपि च केशवे च पद्मापतौ देववरे महान्तः । भेदं न पश्यन्ति परन्तु सन्तस्तयोरभेदं कलयन्ति सत्यम् ॥ १८॥ रमापतिं वा गिरिजापतिं वा विश्वेश्वरं वा जगदीश्वरं वा । पिनाकपाणिं खलु शार्ङ्गपाणिं हरि हरं वा प्रणमामि नित्यम् ॥ १९॥ सुरेश्वरं वा परमेश्वरं वा वैकुण्ठलोकस्थितमच्युतं वा । कैलासशैलस्थितमीश्वरं वा विष्णुं च शम्भुं च नमामि नित्यम् ॥ २०॥ हरिर्दयार्द्राशयतां प्रयातो हरो दयालूत्तमभावमाप्तः । अनेकदिव्यास्त्रधरः परेशः पायादजस्रं कृपया नतं माम् ॥ २१॥ शेषोऽस्ति यस्याभरणत्वमाप्तो यद्वा सुशय्यात्वमितः सदैव । देवः स कोऽपीह हरिर्हरो वा करोतु मे मञ्जुलमङ्गलं द्राक् ॥ २२॥ हरिं हरं चापि भजन्ति भक्त्या विभेदबुद्धिं प्रविहाय नूनम् । सिद्धा महान्तो मुनयो महेच्छाः स्वच्छाशया नारदपर्वताद्याः ॥ २३॥ सनत्कुमारादय उन्नतेच्छा मोहेन हीना मुनयो महान्तः । स्वान्तःस्थितं शङ्करमच्युतं च भेदं परित्यज्य सदा भजन्ते ॥ २४॥ शिष्टा वसिष्ठादय आत्मनिष्ठाः श्रेष्ठाः स्वधर्मावनकर्मचित्ताः । हृत्तापहारं मलहीनचित्ता हरिं हरं चैकतया भजन्ते ॥ २५॥ अन्ये महात्मान उदारशीला भृग्वादयो ये परमर्षयस्ते । पश्यन्ति चैक्यं हरिशर्वयोः श्रीसंयुक्तयोरत्र न संशयोऽस्ति ॥ २६॥ इन्द्रादयो देववरा उदारा त्रैलोक्यसंरक्षणदत्तचित्ताः । हरिं हरं चैकस्वरूपमेव पश्यन्ति भक्त्या च भजन्ति नूनम् ॥ २७॥ सर्वेषु वेदेषु खलु प्रसिद्धवैकुण्ठकैलासगयोः सुधाम्नोः । मुकुन्दबालेन्दुवतंसयोः सच्चरित्रयोरीश्वरयोरभेदः ॥ २८॥ सर्वाणि शास्त्राणि वदन्ति नूनं हरेर्हरस्यैक्यमुदारमूर्तेः । नास्त्यत्र सन्देहलवोऽपि सत्यं नित्यं जना धर्मधना गदन्ति ॥ २९॥ सर्वैः पुराणैरिदमेव सूक्तं यद्विष्णुशम्भोर्महनीयमूर्त्योः । ऐक्यं सदैवाऽस्ति न भेदलेशोऽप्यस्तीह चिन्त्यं सुजनैस्तदेवम् ॥ ३०॥ भेदं प्रपश्यन्ति नराधमा ये विष्णौ च शम्भौ च दयानिधाने । ते यान्ति पापाः परितापयुक्ता घोरं विशालं निरयस्य वासम् ॥ ३१॥ भूताधिपं वा विबुधाधिपं वा रमेश्वरं वा परमेश्वरं वा । पीताम्बरं वा हरिदम्बरं वा हरिं हरं वा पुरुषा भजध्वम् ॥ ३२॥ महस्विवर्यं कमनीयदेहमुदारसारं सुखदायिचेष्टम् । सर्वेष्टदेवं दुरितापहारं विष्णुं शिवं वा सततं भजध्वम् ॥ ३३॥ शिवस्य विष्णोश्च विभात्यभेदो व्यासादयोऽपीह महर्षयस्ते । सर्वज्ञभावं दधतो नितान्तं वदन्ति चैवं कलयन्ति सन्तः ॥ ३४॥ महाशया धर्मविधानदक्षा रक्षापरा निर्जितमानसा ये । तेऽपीह विज्ञाः समदर्शिनो वै शिवस्य विष्णोः कलयन्त्यभेदम् ॥ ३५॥ हरिरेव हरो हर एव हरिर्न हि भेदलवोऽपि तयोः प्रथितः । इति सिद्धमुनीशयतीशवरा निगदन्ति सदा विमदाः सुजनाः ॥ ३६॥ हर एव हरिर्हरिरेव हरो हरिणा च हरेण च विश्वमिदम् । प्रविनिर्मितमेतदवेहि सदा विमदो भव तौ भज भावयुतः ॥ ३७॥ हरिरेव बभूव हरः परमो हर एव बभूव हरिः परमः । हरिता हरता च तथा मिलिता रचयत्यखिलं खलु विश्वमिदम् ॥ ३८॥ वृषध्वजं वा गरुडध्वजं वा गिरीश्वरं वा भुवनेश्वरं वा । पतिं पशूनामथवा यदूनां कृष्णं शिवं वा विबुधा भजन्ते ॥ ३९॥ भीमाकृतिं वा रुचिराकृतिं वा त्रिलोचनं वा समलोचनं वा । उमापतिं वाऽथ रमापतिं वा हरिं हरं वा मुनयो भजन्ते ॥ ४०॥ हरिः स्वयं वै हरतां प्रयातो हरस्तु साक्षाद्धरिभावमाप्तः । हरिर्हरश्चापि जगज्जनानामुपास्यदेवौ स्त इति प्रसिद्धिः ॥ ४१॥ हरिर्हि साक्षत् हर एव सिद्धो हरो हि साक्षाद्धदिरेव चास्ते । हीरर्हरश्च स्वयमेव चैको द्विरूपतां कार्यवशात् प्रयातः ॥ ४२॥ हरिर्जगत्पालनकृत्प्रसिद्धो हरो जगन्नाशकरः परात्मा । स्वरूपमात्रेण भिदामवाप्तौ द्वावेकरूपौ स्त इमौ सुरेशौ ॥ ४३॥ दयनिधानं विलसद्विधानं देवप्रधानं ननु सावधानम् । सानन्दसन्मानसभासमानं देवं शिवं वा भज केशवं वा ॥ ४४॥ श्रीकौस्तुभाभरणमिन्दुकलावतंसं कालीविलासिनमथो कमलाविलासम् । देवं मुरारिमथ वा त्रिपुरारिमीशं भेदं विहाय भज भो भज भूरि भक्त्या ॥ ४५॥ विष्णुः साक्षाच्छम्भुरेव प्रसिद्धः शम्भुः साक्षाद्विष्णुरेवास्ति नूनम् । नास्ति स्वल्पोऽपीह भेदावकाशः सिद्धान्तोऽयं सज्जनानां समुक्तः ॥ ४६॥ शम्भुर्विष्णुश्चैकरूपो द्विमूर्तिः सत्यं सत्यं गद्यते निश्चितं सत् । अस्मिन्मिथ्या संशयं कुर्वते ये पापाचारास्ते नरा राक्षसाख्याः ॥ ४७॥ विष्णौ शम्भौ नास्ति भेदावभासः सङ्ख्यावन्तः सन्त एवं वदन्ति । अन्तः किञ्चित्संविचिन्त्य स्वयं द्राक् भेदं त्यक्त्वा तौ भजस्व प्रकामम् ॥ ४८॥ विष्णोर्भक्ताः शम्भुविद्वेषसक्ताः शम्भोर्भक्ता विष्णुविद्वेषिणो ये । कामक्रोधान्धाः सुमन्दाः सनिन्दा विन्दन्ति द्राक् ते नरा दुःखजालम् ॥ ४९॥ विष्णौ शम्भौ भेदबुद्धिं विहाय भक्त्या युक्ताः सज्जना ये भजन्ते । तेषां भाग्यं वस्तुमीशो गुरुर्नो सत्यं सत्यं वच्म्यंह विद्धि तत्त्वम् ॥ ५०॥ हरेर्विरोधी च हरस्य भक्तो हरस्य वैरी च हरेश्च भक्तः । साक्षादसौ राक्षस एव नूनं नास्त्यत्र सन्देहलवोऽपि सत्यम् ॥ ५१॥ शिवं च विष्णुं च विभिन्नदेहं पश्यन्ति ये मूढधियोऽतिनीचाः । ते किं सुसद्भिः सुतरां महद्भिः सम्भाषणीयाः पुरुषा भवन्ति ॥ ५२॥ अनेकरूपं विदितैकरूपं महान्तमुच्चैरतिशान्तचित्तम् । दान्तं नितान्तं शुभदं सुकान्तं विष्णुं शिवं वा भज भूरिभक्त्या ॥ ५३॥ हरे मुरारे हर हे पुरारे विष्णो दयालो शिव हे कृपालो । दीनं जनं सर्वगुणैर्विहीनं मां भक्तमार्तं परिपाहि नित्यम् ॥ ५४॥ हे हे विष्णो शम्भुरूपस्त्वमेव हे हे शम्भो विष्णुरूपस्त्वमेव । सत्यं सर्वे सन्त एवं वदन्तः संसाराब्धिं ह्यञ्जसा सन्तरन्ति ॥ ५५॥ विष्णुः शम्भुः शम्भुरेवास्ति विष्णुः शम्भुर्विष्णुर्विष्णुरेवास्ति शम्भुः । शम्भौ विष्णौ चैकरूपत्वमिष्टं शिष्टा एवं सर्वदा सञ्जपन्ति ॥ ५६॥ दैवी सम्पद्विद्यते यस्य पुंसः श्रीमान् सोऽयं सर्वदा भक्तियुक्तः । शम्भुं विष्णुं चैकरूपं द्विदेहं भेदं त्यक्त्वा सम्भजन्मोक्षमेति ॥ ५७॥ येषां पुंसामासुरी सम्पदास्ते मृत्योर्ग्रासाः कामलोभाभिभूताः । क्रोधेनान्धा बन्धयुक्ता जनास्ते शम्भुं विष्णुं भेदबुद्ध्या भजन्ते ॥ ५८॥ कल्याणकारं सुखदप्रकारं विनिर्विकारं विहितोपकारम् । स्वाकारमीशं न कृतापकारं शिवं भजध्वं किल केशवं च ॥ ५९॥ सच्चित्स्वरूपं करुणासुकूपं गीर्वाणभूपं वरधर्मयूपम् । संसारसारं सुरुचिप्रसारं देवं हरिं वा भज भो हरं वा ॥ ६०॥ आनन्दसिन्धुं परदीनबन्धुं मोहान्धकारस्य निकारहेतुम् । सद्धर्मसेतुं रिपुधूमकेतुं भजस्व विष्णुं शिवमेकबुद्ध्या ॥ ६१॥ वेदान्तसिद्धान्तमयं दयालुं सत्साङ्ख्यशास्त्रप्रतिपाद्यमानम् । न्यायप्रसिद्धं सुतरां समिद्धं भजस्व विष्णुं शिवमेकबुद्ध्या ॥ ६२॥ पापापहारं रुचिरप्रचारं कृतोपकारं विलसद्विहारम् । सद्धर्मधारं कमनीयदारं सारं हरिं वा भज भो हरं वा ॥ ६३॥ विष्णौ हरौ भेदमवेक्षमाणः प्राणी नितान्तं खलु तान्तचेताः । - आद्देद्। प्रेताधिपस्यैति पुरं दुरन्तं दुःखं च तत्र प्रथितं प्रयाति ॥ ६४॥ भो भो जना ज्ञानधना मनागप्यर्च्ये हरौ चापि हरे च नूनम् । भेदं परित्यज्य मनो निरुध्य सुखं भवन्तः खलु तौ भजन्तु ॥ ६५॥ आनन्दसन्मन्दिरमिन्दुकान्तं शान्तं नितान्तं भुवनानि पान्तम् । भान्तं सुदान्तं विहितासुरान्तं देवं शिवं वा भज केशवं वा ॥ ६६॥ हे हे हरे कृष्ण जनार्दनेश शम्भो शशाङ्काभरणाधिदेव । नारायण श्रीश जगत्स्वरूप मां पाहि नित्यं शरणं प्रपन्नम् ॥ ६७॥ विष्णो दयालोऽच्युत शार्ङ्गपाणे भूतेश शम्भो शिव शर्व नाथ । मुकुन्द गोविन्द रमाधिपेश मां पाहि नित्यं शरणं प्रपन्नम् ॥ ६८॥ कल्याणकारिन् कमलापते हे गैरीपते भीम भवेश शर्व । गिरीश गौरीप्रिय शूलपाणे मां पाहि नित्यं शरणं प्रपत्रम् ॥ ६९॥ हे शर्व हे शङ्कर हे पुरारे हे केशव हे कृष्ण हरे मुरारे । हे दीनबन्धो करुणैकसिन्धो मां पाहि नित्यं शरणं प्रपन्नम् ॥ ७०॥ हे चन्द्रमौले हरिरूप शम्भो हे चक्रपाणे शिवरूप विष्णो । हे कामशत्रो खलु कामतात मां पाहि नित्यं भगवन्नमस्ते ॥ ७१॥ सकललोकपशोकविनाशिनौ परमरम्यतया प्रविकाशिनौ । अघसमूहविदारणकारिणौ हरिहरौ भज मूढ भिदां त्यज ॥ ७२॥ हरिः साक्षाद्धरः प्रोक्तो हरः साक्षाद्धरिः स्मृतः । उभयोरन्तरं नास्ति सत्यं सत्यं नं संशयः ॥ ७३॥ यो हरौ च हरे साक्षादेकमूर्तौ द्विधा स्थिते । भेदं करोति मूढात्मा स याति नरकं ध्रुवम् ॥ ७४॥ यस्य बुद्धिर्हरौ चापि हरे भेदं च पश्यति । स नराधमतां यातो रोगी भवति मानवः ॥ ७५॥ यो हरौ च हरे चापि भेदबुद्धिं करोत्यहो । तस्मान्मूढतमो लोके नान्यः कश्चन विद्यते ॥ ७६॥ मुक्तिमिच्छसि चेत्तर्हि भेदं त्यज हरौ हरे । अन्यथा जन्मलक्षेषु मुक्तिः खलु सुदुर्लभा ॥ ७७॥ विष्णोः शिवस्य चाभेदज्ञानान्मुक्तिः प्रजायते । इति सद्वेदवाक्यानां सिद्धान्तः प्रतिपादितः ॥ ७८॥ विष्णुः शिवः शिवो विष्णुरिति ज्ञानं प्रशिष्यते । एतज्ज्ञानयुतो ज्ञानि नान्यथा ज्ञानमिष्यते ॥ ७९॥ हरिर्हरो हरश्चापि हरिरस्तीति भावयन् । धर्मार्थकाममोक्षाणामधिकारी भवेन्नरः ॥ ८०॥ हरिं हरं भिन्नरूपं भावयत्यधमो नरः । स वर्णसङ्करो नूनं विज्ञेयो भावितात्मभिः ॥ ८१॥ हर शम्भो हरे विष्णो शम्भो हर हरे हर । इति नित्यं जपन् जन्तुर्जीवन्मुक्तो हि जायते ॥ ८२॥ न हरिं च हरं चापि भेदबुद्ध्या विलोकयेत् । यदीच्छेदात्मनः क्षेमं बुद्धिमान् कुशलो नरः ॥ ८३॥ हरे हर दयालो मां पाहि पाहि कृपां कुरु । इति सञ्जपनादेव मुक्तिः प्राणौ प्रतिष्ठिता ॥ ८४॥ हरिं हरं द्विधा भिन्नं वस्तुतस्त्वेकरूपकम् । प्रणमामि सदा भक्त्या रक्षतां तौ महेश्वरौ ॥ ८५॥ इदं हरिहरस्तोत्रं सूक्तं परमदुर्लभम् । धर्मार्थकाममोक्षाणां दायकं दिव्यमुत्तमम् ॥ ८६॥ शिवकेशवयोरैक्यप्रतिपादकमीडितम् । पठेयुः कृतिनः शान्ता दान्ता मोक्षाभिलाषिणः ॥ ८७॥ एतस्य पठनात्सर्वाः सिद्धयो वशगास्तथा । देवयोर्विष्णुशिवयोर्भक्तिर्भवति भूतिदा ॥ ८८॥ धर्मार्थी लभते धर्ममर्थार्थी चार्थमश्नुते । कामार्थी लभते कामं मोक्षार्थी मोक्षमश्नुते ॥ ८९॥ दुर्गमे घोरसङ्ग्रामे कानने वधबन्धने । कारागारेऽस्य पठनाज्जायते तत्क्षणं सुखी ॥ ९०॥ वेदे यथा सामवेदो वेदान्तो दर्शने यथा । स्मृतौ मनुस्मृतिर्यद्वत् वर्णेषु ब्राह्मणो यथा ॥ ९१॥ यथाऽऽश्रमेषु सन्न्यासो यथा देवेषु वासवः । यथाऽश्वत्थः पादपेषु यथा गङ्गा नदीषु च ॥ ९२॥ पुराणेषु यथा श्रेष्ठं महाभारतमुच्यते । यथा सर्वेषु लोकेषु वैकुण्ठः परमोत्तमः ॥ ९३॥ यथा तीर्थेषु सर्वेषु प्रयागः श्रेष्ठ ईरितः । यथा पुरीषु सर्वासु वरा वाराणसी मता ॥ ९४॥ यथा दानेषु सर्वेषु चान्नदानं महत्तमम् । यथा सर्वेषु धर्मेषु चाहिंसा परमा स्मृता ॥ ९५॥ यथा सर्वेषु सौख्येषु भोजनं प्राहुरुत्तमम् । तथा स्तोत्रेषु सर्वेषु स्तोत्रमेतत्परात्परम् ॥ ९६॥ अन्यानि यानि स्तोत्राणि तानि सर्वाणि निश्चितम् । अस्य स्तोत्रस्य नो यान्ति षोडशीमपि सत्कलाम् ॥ ९७॥ भूतप्रेतपिशाचाद्या बालवृद्धग्रहाश्च ये । ते सर्वे नाशमायान्ति स्तोत्रस्यास्य प्रभावतः ॥ ९८॥ यत्रास्य पाठो भवति स्तोत्रस्य महतो धुवम् । तत्र साक्षात्सदा लक्ष्मीर्वसत्येव न संशयः ॥ ९९॥ अस्य स्तोत्रस्य पाठेन विश्वेशौ शिवकेशवौ । सर्वान्मनोरथान्पुंसां पूरयेतां न संशयः ॥ १००॥ पुण्यं पुण्यं महत्पुण्यं स्तोत्रमेतद्धि दुर्लभम् । भो भो मुमुक्षवः सर्वे यूयं पठत सर्वदा ॥ १०१॥ इत्यच्युताश्रमस्वामिविरचितं श्रीहरिहराद्वैतस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : hariharastotram
% File name             : hariharastotram.itx
% itxtitle              : hariharastotram athavA shrIhariharAdvaitastotraM (achyutAshramasvAmivirachitam)
% engtitle              : hariharastotram
% Category              : shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Achyutashramasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP