जप्येशाष्टप्रासशतकम्
श्रीकालीश लसत्कटाक्षगलदस्तो का नुकम्पाझरी-
सेकाशेषविमृष्टसर्वविनमल्लोकाघ विश्वाधिप ।
राकाब्जानन योगिसत्कृतिपरीपाकायुतार्कोज्ज्वला-
लोकास्मद्धृदयाम्बुजे वस चिरं हे कामितार्थप्रद ॥ १॥
एकाकी स्वयमीश्वरो जगति योऽनेकात्मना राजते
पाकारिप्रमुखैः सदैव निखिलैर्नाकालयैरर्चितः ।
लोकातङ्कहरः प्रभुर्भवनदीनौकायिताङ्घ्रिद्वयःं
शोकापोहनमादरात् स तनुतां मे कामवैरी शिवः ॥ २॥
यं कालाभिधशैलखण्डनविधौ टङ्कायिताङ्घ्रि हरं
कङ्कालाभरणं निषेव्य गतहृत्पङ्का भृशं योगिनः ।
शङ्कामं प्रतिपेदिरे विनतहृत्पङ्कापनोदोद्यतं
तं कामद्विषमन्तरान्यमधुना कं कातरो नौम्यहम् ॥ ३॥
किं कार्यं पतितौघपालनकलाशङ्काकुलैर्निजरै-
र्यं कारुण्यनिधिं समेति विगताहङ्कारमृण्यावलिः ।
अङ्कासीनगिरीन्द्रजास्तनतटालङ्कारकस्तूरिका-
पङ्कालङ्कृतवक्षसं पशुपतिं तं कालकण्ठं भजे ॥ ४॥
सङ्केतं निखिला इवेत्य सुगुणा यं केलिभूमिं नता-
तङ्केलाधरवज्रमङ्घ्रिमगमन् पङ्केरुहश्रीमुषम् ।
कङ्केलिप्रसवप्रभं प्रणमतां तं केवलं पालने
शङ्के सन्धृतरागमीश्वर तवाहं केशवाद्यर्चित ॥ ५॥
(Variation लङ्केशोऽस्तुवदीश्वरं श्रुतिगणैर्य केवलं सर्वदा-
नङ्केन्दूज्ज्वलमस्तकं वरगुणाः सङ्केतमेत्येव ते ।
स्वं केलीभवनं यमापुर खिलास्तं केशवाराधितं
पङ्केषु भ्रमतामवन्तमिह हृत्परु भावये ॥ ५॥)
त्वां कैरीशमतर्पयं सुचरितैर्धूकैः समः सर्वतो
भीकैः सार्धमटन् वृथानयमहो हा कैतवाढ्यैर्जनिम् ।
हे कैलासपते करोम्यपि तथा श्लोकैनुतिं केवलै-
रेकैश्वर्यनिधे भृशं मम नमोवाकैश्च हृष्टो भव ॥ ६॥
एकोऽप्यद्य कृतो मया नहि वृषो हा कोऽपि देवोऽर्चितः
काकोलं हरतस्तवाच्युतनुत श्लोकोत्तमप्रस्तुतौ ।
मूकोऽस्म्यज्ञतयाहमित्थमभवं काकोदरालङ्कृते
मा कोपं कुरु मद्धृदब्जमुकुलं व्यकोचयात्यादरात् ॥ ७॥
चक्रास्त्रादिदुरूहनैजमहिमन् चक्रायितेन्दीवरेट्
चक्राप्ताखिललोक नाथ विनमञ्चक्रावनैकवत ।
शक्राभीष्टद साम्ब मां भवमहाचक्राज्जवादुद्धर
प्रक्रामन्ति यतो विमोहनकृते वक्रा हि कामादयः ॥ ८॥
लेखाधीशमुखेष्टदाद्य हिमरुग्लेखात्तमौले नम-
द्रेखाक्ष्युत्पलचन्द्रिकायितलसन्मैखाभ शम्भो विभो ।
रेखाब्जान्वितमुक्तिदाङ्घ्रियुगलीलेखार्धवाहद्युस-
च्छाखावद्गण भूरि मे विरचयर्क्छाखादिगेय श्रियम् ॥ ९॥
शिख्याकाशरवीन्दुवायुजलभूमख्यात्मना यः प्रभु-
विख्यातो भगवान् विभाति सुमनोमुख्यादिभिः सेवितः ।
सङ्ख्यानन्दितभृत्यकिन्नरपतेर्दुःख्यार्तिहं पङ्कज-
प्रख्याभं प्रतिपद्य तस्य चरणं सुख्याश्वहं स्यां कदा ॥ १०॥
रागाहङ्कृतिमुख्यशत्रुशमनो योऽगाधिनाथात्मजा-
योगातिस्फुरदङ्गको मुनिवरैर्योगादिभिः सेव्यते ।
यागाद्यैश्च सदा सभक्तिकमलं नागाजिनाच्छादनो
नागाधीशविभूषणो भवभयत्यागाय स स्यान्मम ॥ ११॥
इङ्गालीकृतसर्वलोकमदकृच्छृङ्गारयोनिं बुधा
भङ्गायाघकुलस्य यन्ति मुनिद्रङ्गात्तनाट्यादरम् ।
पिङ्गाबद्धजटाभरं मम मनः सङ्गाहते भूमिभृ-
च्छृङ्गागारमगात्मजाश्रितवरोत्सङ्गाभिरामं शिवम् ॥ १२॥
यं गायन्ति बुधा विमुक्तविषयासङ्गा जटान्तोद्भव-
गङ्गानीरजरा जिलोलविनदाङ्गालिङ्कारम् ।
तुङ्गालेपयुताद्रिजाकुचपरिष्वङ्गाभिराम रसं
शृङ्गारैकनिकेतनं तमिह भाव्यङ्गापनुत्त्यै भजे ॥ १३॥
योगीशैः परतत्त्वमित्यविरतं यो गीयते प्राक्तना
वागीष्टेऽपि न वर्णितुं यमतुलं भोगीशभूषोज्ज्वलम् ।
भो गीर्वाणकुलैर्विभावितपदा वागीशमुख्यैस्त्वया
द्रागीश स्मरणीय एष भवरुग्भागीदृशोऽहं विभो ॥ १४॥
प्राग्यामापरतिं मनस्तु विषये राग्याशु तन्मेऽधुना
योग्यामङ्घ्रिसुसङ्गतिं तव भजेद् भोग्या च मुक्तिर्यथा ।
योग्यावेद्यपदाद्विजावरतपोभाग्याद्य कृत्वा तथा
द्राग् याच्ञां मम पूरयाखिलमहारोग्यार्तिविध्वंसन ॥ १५॥
उग्रा रिजहत् सदाक्ऱितकवागग्राधिगम्यं ह्ऱिदा -
प्यग्राह्यं विबुधैर्हतार्तजनतारुग् राजते यत् पदम् ।
उग्र।त्यद्भुतविश्वसर्जनगुणोदग्राशु मोहादयो
निग्राह्या मम चित्तमोहनकृतिव्यग्रा हि तेन त्वया ॥ १६॥
श्लाघा का कुरुषे दयां यदि विभो वैघानसानां परा-
मोघायात्मवतां सतां भव शरन्मेघाभ विश्वेश्वर ।
मेऽघानि त्वमपोह्य वामचरणव्याघातधूतान्तका-
मोघामीश नुतिं विधेहि कृपया मोघार्तिविध्वंसनाम् ॥ १७॥
आचारैर्विधिचोदितैरसुलभं प्राचामलक्ष्यं च यं
वाचामेति वटद्रुमूलनिलयं त्वाचार्यमृप्यावलिः ।
आचामत्यतुलं यदङ्घ्रिभजनं नीचारिवर्गं क्षणा-
द्धे चामीकरशैलचाप भवसङ्कोचाय मे त्वं भव ॥ १८॥
इच्छाकार्यजगत्कृतिस्थितिलय स्वच्छाम्बुवाहच्छटा -
सच्छायाङ्ग विभो कपर्दकुहरप्रच्छादिताम्र पग ।
पृच्छामीश्वर मा कुरु त्वमिह भो यच्छाद्रिजाताप्रभो
यच्छान्तोऽनुभवत्यलं मुनिगणस्तच्छाश्वतं मे सुखम् ॥ १९॥
हृच्छाखामृग निष्फले भववने तुच्छाटसि त्वं वृथा
प्रच्छायं परिरब्धपीनकुचसद्गुच्छाढ्यगौरीलतम् ।
सच्छझरीरकलभ्यमिष्टफलदं सच्छाखिनं सादरं
गच्छाद्यं गिरिशं शिवाख्यमतुलं मच्छासनात् सत्वरम् ॥ २०॥
यो जायाङ्गरुचा विचित्रितलसत्तेजा विभाति घुस-
द्वाजाद्यानत सर्वकाम्यदपदाम्भोजाद्य स त्वं विभो ।
भो जातादरमीश देहि कृपयाव्याजामजस्रं जग-
द्वीजातीव तवाङ्घ्रिभक्तिमतुलां राजार्धचूडेश्वर ॥ २१॥
सञ्जातप्रणयं सदैव तरुणीपुञ्जान्तरे मूढ हे
किं जाल्माटसि दुर्बिनीत हृदय त्वं जागरूकं भृशम् ।
यं जानन्ति सुखैकहेतुममराः कञ्जाक्षमुख्याः परं
तं जानीहि परायणं पशुपतिं कञ्जार्धचूडोज्ज्वलम् ॥ २२॥
प्रज्ञावद्भिरतीव तत्त्वमतुलं जिज्ञासुभिर्यः सदा
यज्ञाद्यैः परिसेव्यते सुकृतिभिर्विज्ञानरूपः शिवः ।
अज्ञानान्त्रतमः कदम्बतपनावज्ञातकालादरात्
सज्ज्ञानं त्वमुमेश देहि नितरामज्ञाय मह्यं विभो ॥ २३॥
खाटाधीशमुखैर्निषेवित सुरैश्चेटायमानैस्त्रयी-
घोटाध्यूढ महीरथोत्तम जटाजूटा स्थिताआपग ।
कीट।द्याखिलजन्तुरक्षक विभो कूटायितोर्वीधरेट्-
कूटाद्येश्वर देव पालितनमत्कूटाशु मां पालय ॥ २४॥
चेटीभूत चतुर्मुखादिदिविषत्कोटीशिरःप्रोल्लस-
त्कोटीरोज्ज्वलदिव्यरत्नकुलभाघाटीविराजत्पदम् ।
पाटीरादिलसच्छिवाकुचतटीकोटीविलीढोरसं
शाटीभूतमृगाजिनं मुनिमनःपेटीधनं भावये ॥ २५॥
दुष्टा यस्तु पुरो ददाह जगतोऽनिष्ठापनुत्त्यै परं
तुष्टा यं कृतिनो भजन्ति गिरिजाष्टिआङ्गकं यन्मुदे ।
इष्टाद्यं वृषमाचरन्ति सततं शिष्टा भृशं यत्र सा
दृष्टा भाति दयालुता वितनुतामिष्टार्थसिद्धिं स मे ॥ २६॥
स्रष्टाभूत् करुणां प्रपद्य जगदुत्कृष्टाद्यतः पद्मभूः
पुष्टा येन दयाब्धिना त्रिजगती हृष्टा परं राजते ।
नष्टाज्ञानहृदन्तैरैर्मुनिवरैर्जुष्टाङ्घ्रिपद्मो भव-
क्लिष्टान्तःकरणस्य मे स तनुतात् कष्टापनोदं शिवः ॥ २७॥
शुण्डालास्यषडास्यनन्दक नमत्षण्डा खिलैनस्तम-
श्चण्डांशो मणिकुण्डलद्युतिलसद्गुण्डानुकम्पाम्बुधे ।
तुण्डाब्जाटदुमाकटाक्षमधुपाखण्डात्मरूपोडुराट्-
खण्डालङ्कृतमस्तकाभयददोर्दण्डाव मामादरात् ॥ २८॥
सोढारं निखिलागसां श्रुतिशिरोगूढार्थमाहुर्बुधा
वोढारं जगतां च यं मुनिमनोलीढाङ्घ्रिपद्मद्वयम् ।
ऊढा येन नगात्मजा नतरुजागाढान्धकारारुणो
मूढायाशु स मे प्रयच्छतु धियं प्रौढामतीवेश्वरः ॥ २९॥
क्षोणावाविरभूद्धनञ्जयपरित्राणाय भिल्लात्मना
बाणाद्यर्चितपद्वयो वसति यः प्राणात्मना जन्तुषु ।
स्थाणावेव ममान्वहं च रमतामेणाश्रितात्युल्लस-
त्पाणावानतखेदतूलकमहाप्राणायिताङ्घ्रौ मनः ॥ ३०॥
क्षोणी यस्य रथोऽभवत् पुरजये वाणीपतिः सारथि -
स्तूणीरो जलधिर्हरस्य सुमनःश्रेणीष्टकर्तुर्विभोः ।
क्षोणीघ्रोऽपि शरासनं सुरनदी वेणी विराजजट
बाणीभूतहरिं तमीडितुमलं वाणी मदीया कथम् ॥ ३१॥
पुण्यात्मोह्यपदं जगन्मदकरीट्सृण्यायितेच्छं भवा-
रण्याग्निं लत्रु यत्स्मितार्चिषि पुरैस्तृण्यायितं तं भवम् ।
पुण्याल्युत्तमभूषणप्रविलसन्मण्याढ्यगात्रं सुधा-
घृण्यापीडमुपास्महे हृदि सदागण्यातुलप्राभवम् ॥ ३२॥
पाता यो यमुमाप येन रविभूराताडि यस्मै तपो-
जातानि प्रभवेऽर्पयन्ति सुकृतित्राता हि यस्मात् प्रजाः ।
जाता यस्य हरस्य सारथिवरो धाता स यस्मिन् भृशं
ख्याता सर्वदयालुता स भगवान् दाता सुखस्यास्तु नः ॥ ३३॥
श्वेताभ्रव्रजगर्वभञ्जनरुचिर्भूताधिपः संसृते-
र्भीतानामभयङ्करः सुरगणैर्गीतापदानावलिः ।
चाताशाधिपभूषणोज्ज्वलतनुर्जातादरं लोकसं-
त्राता वृत्तिमिमां व्यपोहतु परां मे तामसीमीश्वरः ॥ ३४॥
पूतान्तःकरणार्चितस्य मकुटानीतान्तरिक्षापगा-
शीतांशोः परिरब्धभूमिधरराड्जाताङ्गभास्वत्तनोः ।
आताम्राभिविसारिकान्तिनिकरक्रीताम्बुजं तस्य मां
वीतांहोब्रजमीश्वरस्य तनुताद् धृतान्तकं पद्वयम् ॥ ३५॥
यन्तारं जगतां बुधाः पशुपतिं सन्तापविध्वंसिनं
सन्तानायितपादमिष्टभरणेऽनन्तादिसंसेवितम् ।
हन्तारं च पुरां नगाधिपभुवो रन्तारमाहुर्विभुं
तं तावत् सततं भवाख्यजलधेः सन्तारणार्थं भजे ॥ ३६॥
दान्ता यं हि विभावयन्ति नितरां शान्ता महायोगिनः
स्वान्ताब्जे शिवमादरेण च सदा चान्तार्तखेदं परम् ।
कान्ताश्लिष्टकलेवरो भवमहाकान्तारसञ्चारिणं
शान्तातङ्कमिमं तनोतु भगवान् मां तादृशः शङ्करः ॥ ३७॥
भ्रान्तानां भवकाननेऽसि शरणं क्षान्तानतागाः ? समा-
क्रान्तानेकविधप्रपञ्चदुरितध्वान्तार्क शम्भो ततः ।
त्वां तापत्रयभञ्जनं परमहं श्रान्तावनं रोहिणी-
कान्तापीडमहं श्रितः शिव भवान्मां तारयाशु प्रभो ॥ ३८॥
त्यक्ताहङ्कृतयोऽपि यं मुनिवराः शक्ता न वेत्तुं विभुं
व्यक्ताव्यक्तमनन्तमाद्यमगजायुक्तार्धगात्रं शिवम् ।
मुक्ता यत्करुणाकटाक्षलहरीसिक्ता भृशं यत्पदा -
सक्तान्तःकरणा बुधास्तमनिशं भक्तानुकम्पं भजे ॥ ३९॥
दृप्ता येन पुरोऽल्पहासशुचिना तप्ताः क्षणादेव भी -
र्लुप्ता नाकनिवासिनां त्रिजगती गुप्ता दयाम्भोधिना ।
सप्ताबद्धसुरापगः पशुपतिः सप्ताश्वनक्षत्रराट्-
सप्तार्चिर्नयनो जवादवतु नः कॢतार्तलोकावनः ॥ ४०॥
मस्तारोपितचन्द्र मोहबलतो ग्रस्तात्मचेताः परं
दुस्तायें भवसागरे पशुपतेऽधस्तान्निमग्नं दृढम् ।
त्रस्तावल्यभयप्रदानविदधद्धस्ताशु चोत्तार्य मां
ध्वस्तातङ्कमिमं विधाय कुतुकं विस्तारयार्यापते ॥ ४१॥
कृत्याकृत्यविवेकशून्यहृदयोऽगत्या भवाब्धौ भ्रमन्
मत्या त्वां नहि पारयाम्यचलया सत्याहमारा घितुम् ।
नत्या केवलया भजाम्यगवरापत्याधिप त्वं समु-
द्धृत्यार्तं करुणाकराशु शिव मामत्याहितात् पालय ॥ ४२॥
नित्यानन्दमयः सदैव मुनिसन्तत्या विरिञ्चादिम-
स्तुत्यात्मीयपदाम्बुजो हृदि महानत्यादरान्मृग्यते ।
श्रुत्याम्रेडितवैभवाय विभवे सत्यात्मने सन्ततं
भृत्यातङ्कमहान्धकारनिवहादित्याय तस्मै नमः ॥ ४३॥
दैत्यारिप्रमुखार्चिते मुनिमनो वेत्त्यादरादिष्टदे
यात्यामृष्टविनम्रसंसृतिमहाभीत्यादिके यत्पदे ।
भात्यानन्दमयश्च यः पशुपतिः कात्यायनीशोऽञ्जसो-
पेत्यापद्यनुकम्पया स भगवान् प्रीत्या च मां रक्षतु ॥ ४४॥
वृत्रारिप्रमुखा भजन्ति निखिलाः सत्रातिभक्त्या सदा
सत्रासा गिरिशं मृकण्डुमुनिराट्पुत्रार्तिहं यं परम् ।
यत्रातीव मनांसि भान्ति कृतिनां चित्रात्मकृत्ये परे
हृत्त्रासाद् भवजाद् दयाब्धिरिह मां स त्रायतामीश्वरः ॥ ४५॥
नेत्राग्निक्षपिताङ्गजो जयति यो नेत्रायिताशो जग-
न्नेत्रा येन हताः पुरः शतजगन्नेत्रातितेजस्विना ।
धात्राद्यैर्विनयात् सदैव कलितस्तोत्राय विश्वात्मने
गोत्राधीश्वरकन्यकाश्रितलसद्द्वात्राय तस्मै नमः ॥ ४६॥
यं त्रातारमुदाहरन्ति सुमहामन्त्रार्थलक्ष्यं बुधा-
स्तन्त्राणामपि सम्प्रवर्तकमलं यन्त्रावलीनामपि ।
हन्त्रा येन पुरां कृताः सुरगणाः सन्त्रासहीनाः परं
नन्त्रार्तिक्षपणेन तेन जगतां यन्त्रा सनाथोऽस्म्यहम् ॥ ४७॥
वित्तेशादिसुहृजनाय नितरां दत्तेप्सितार्थ प्रभो
कृत्तेष्टावलिसंसृतिद्रुमतते मत्तेभचर्माम्बर ।
यत्तेऽगस्त्यमुखा भजन्ति हृदि यद्धत्ते सरोजद्युतिं
चित्ते मे स्फुरतु प्रकाममनिशं तत्ते शिवाङ्घ्रिद्वयम् ॥ ४८॥
श्रुत्वा सद्गुरुभाषितं हृदि परं धृत्वा तदत्यादरा-
द्धित्वाज्ञानपरम्परामरिगणान् जित्वाशु कामादिमान् ।
भित्त्वा चाशु हृदब्जकोशमनिशं तत्त्वात्मकं तत्र यत्
तत्त्वाद्यं विभु वस्तु साम्बमतुलं धृत्वा सुखी स्यां कदा ॥ ४९॥
हत्वा मोहमदादिदुर्जयमहासत्त्वान् भवारण्यगान्
गत्वा चाशु गिरीशमाद्यमतुलं नत्वा मुहुः शङ्करम् ।
कृत्वा मूर्ध्नि दृढाञ्जलिं सविनयं स्तुत्वा पुरस्तस्य तु
स्थित्वाहं सुखतस्तृणाय विबुधान् कृत्वा कदा स्यां कृती ॥ ५०॥
यः स्थाणुर्भगवान् निरन्तरसुखावस्थानमिन्द्रादिमान्
स्वस्थानाशु ररक्ष चान्धकमुखान् प्रस्थाप्य याम्यं पुरम् ।
दुःस्थानाद्विषयान्निवृत्य तरसा हृत् स्थापयित्वा नता-
वस्थाजालहरस्य तस्य चरणे स्वस्था भवामः कदा ॥ ५१॥
यो दाता सकलश्रियां प्रतिदिनं पादाब्जमासेदुषां
श्रीदानन्दविवर्धनस्त्रिजगतीखेदापहः शङ्करः ।
वेदार्थप्रतिपाद्य कॢप्तविनतामोदाद्य संसाररुङ्-
नोदायेश भव प्रभो मम हृदाह्रादाय स त्वं क्षणात् ॥ ५२॥
मन्दाकिन्यधिवासभासुरजटं वृन्दारकानीतस-
न्मन्दारादिसुमस्रवन्मधुरसस्यन्दार्द्रपादाम्बुजम् ।
दासायितविष्टपं परचिदानन्दात्मकं योगिनां
वृन्दानन्दनमीश्वरं शुभकरं वन्दामहे सादरम् ॥ ५३॥
यं दीव्यन्निजकान्तिसन्ततिझरीबन्दीकृतार्कप्रभं
नन्दीशार्चितमामनन्ति परमस्यन्दीति च ब्रह्म सत् ।
तं दीनावनतत्परं हृदि भजन्निन्दीवरेट्छेखरं
मन्दीभूतभवामयश्च परमानन्दी कदा स्यामहम् ॥ ५४॥
यं देवं मुनयो भजन्ति मतहृत्सन्देहमत्यादरात्
कुन्देन्दुस्फटिकप्रभं प्रणिपतद्वृन्देप्सितार्थप्रदम् ।
तं देव्याश्रितवामभागमधुनाहं देवराजार्चितं
वन्दे भक्तढयापरं पशुपतिं मन्देतर श्रेयसे ॥ ५५॥
यद्यार्तं विषये भ्रमन्तमिह सत्पद्यामलव्व्वा सदा-
विद्याक्रान्तमुपेक्षसेऽखिलजगद्धद्याद्रिजानाथ माम् ।
अद्यान्यं कमुपैमि देव शरणं मद्याचनां कस्त्रयी-
विद्यागोचर पूरयेद् बद वियन्नद्यात्तमौले विभो ॥ ५६॥
हृद्राज्याद् भगवन् ममारिनिवहान् क्षुद्रानवार्यान् परं
छिद्रान्वेषणतत्परानतिखलान् रुद्राशु कामादिमान् ।
विद्राव्येश विधाय तेऽङ्घ्रिजलरुण्मुद्रामिहार्यापते
भद्राकार चिरं गिरीश वस चिद्भद्रासनाधिष्ठितः ॥ ५७॥
यो धात्रीधरवर्यकूटविलसत्सौधाघिवासी विभु-
वेन्धा नीरजलोचनः शिव इति त्रेवा बुधैरुच्यते ।
आधारेण सुरास्तु येन जगतां बाधाविहीनाः सदा
मेवामाशु स मे करोतु परचिद्वोधानुकूलां शिवः ॥ ५८॥
रुद्धाः प्राक्तनकर्मणाद्य विषये बद्धादरा मायया
विद्धाः संसृतिसम्भ्रमज्जनिमतामुद्धारके त्वत्पदे ।
सिद्धादिप्रणुते प्रपद्य शुभदे शुद्धात्मलभ्ये शिव
श्रद्धाभक्तियुता भवेम भगवन् सिद्धाभिलाषा कदा ॥ ५९॥
किं धावस्यभितोऽपि मानस वचः सन्धार्य मे चित्तभू-
गन्धानेकपकेसरिण्ययि कृपासिन्धावतीवादरात् ।
त्वं धातृप्रमुखार्चिते वस भवाध्यन्याश्रितार्तिच्छटा-
रुन्धाने चिरमीश्वरे गिरिसुताबन्धावुदारे सुखम् ॥ ६०॥
बुद्धया निर्मलया मुनीन्द्र निव हैरध्यात्मविद्यापरै-
र्यद्ध्यापन्नभयापहं-बहुतपः सिद्ध्याप्तये सादरम् ।
अध्यास्याङ्ङ्घ्रियुगं मनस्यविरतं निध्यायते ते विभो
विध्याद्यर्चित साम्ब मे कुरु मनस्तद्ध्यानसक्तं सदा ॥ ६१॥
येनापालि पुरा मृकण्डतनयः कीनाशदर्पच्छिदा
यो नालीकभवादिकॢप्तसुयशोगानानुरक्तः शिवः ।
नानातङ्कनिदानसंसृतिस्र्जा दूनानिमान् नः प्रभो
का नाम त्वमुपेक्षसे यदिह ते दीनानुकम्पप्रथा ॥ ६२॥
यो नागाभरणः प्रपन्नजनमुद्दानानुरक्तः परं
येनासर्जि महात्मना जगदिदं नानाविधं पाल्यते ।
सूनास्त्रस्मयभञ्जनेन भवरुङ्म्लानार्तिविध्वंसिना
श्रीनाथाक्षिसरोजपूजितपदा तेनानुकम्प्योऽस्म्यहम् ॥ ६३॥
स्नानाराधनहोमदर्पणजपध्यानादिसत्कर्मभि-
हीन्नायार्थतृषाटते तत इतो मानादिकं मुञ्चते ।
भो नार्याश्रितगात्र मोचितनताल्येना विभो त्वं परं
सेनानीप्रिय सुप्रसीद भगवन् ज्ञानादिशून्याय मे ॥ ६४॥
अन्या भूतपतेस्तु या दिवि च वावन्यामनोकास्थिता
जन्यातङ्कविलङ्घना न खलु ता मन्यामहे देवताः ।
धन्या यत्पदसेवका भवमहावन्यादवं यं विदु-
र्मुन्याराधितपवयं तमगराट्क्न्याश्रिताङ्गं भजे ॥ ६५॥
कापालीयंविभूषणं नतमहातापापहाङ्घ्रिद्वय-
व्यापारं परमेश्वरं मुनिवरैर्द्वैपायनाद्यैर्नृतम् ।
तापापोहनतत्परं त्रिजगतां चापायिताद्रि कृपा-
कूपारं प्रणमामि सन्ततमहं श्रीपार्वतीवल्लभम् ॥ ६६॥
योऽपास्तानतलोकभीर्जयति यत्कोपाकुलालीकदृग्-
दीपार्चिष्यवशो भृशं शलभतामापारविन्दाशुगः ।
शापास्त्रार्चितसत्त्वमीश्वरजगद्रूपाद्य मायामहा-
कूपादाशु दयाम्बुधे पशुपते भो पालयोद्धृत्य माम् ॥ ६७॥
कल्पान्तोज्ज्वलभीष्मपावक शिखाकरूपातितीव्र-
प्रभानल्पावार्यविषाग्निशोषणयशोजरुपाककण्ठद्युते ।
कल्पाद्यस्मयहृत्पदाय गिरिराट्तल्पाय भस्मोज्ज्वला-
कल्पायाखिललोकहर्षकरसङ्कल्पाय तुभ्यं नमः ॥ ६८॥
आभात्यद्रिसुताप्रियो नतमनः क्षोभापनोदोद्यतो
यो भारत्यघिपादिगेयसुमहालोभार्थरक्षाप्रथः ।
आभा यस्य परां रुचं प्रहसति प्राभाकरीमम्बुरु-
नाभाराध्यपदाम्बुजो भवतु मे लाभाय स श्रेयसाम् ॥ ६९॥
डम्भाहङ्कृतिवर्जितात्मसुलभं यं भार्गवीशस्वभू-
जम्भार्यादिसुरा भजन्ति मुनयोऽहम्भावहीनाः परम् ।
तं भाव्युद्भवहानये श्रुतिशिरःसम्भाव्यमार्यापरी-
रम्भातिस्फुरदङ्गकं हृदि सदाहं भावये शङ्करम् ॥ ७०॥
कुम्भीन्द्राजिनधारिणं मृगधरं कुम्भीभवाराधितं
कुम्भीपाकनिवास हेत्वघहरं कुम्भीनसालङ्कृतिम् ।
गम्भीरोरुभवाब्धिवाडवमलं यं भीममाहुर्बुधा-
स्तं भीतौघभ्यापहं हृदि जे स्तम्भीकृतक्ष्वेडकम् ॥ ७१॥
किं भोगैर्नयसे वृथैव दिवसान् रम्भोरुभिर्बञ्चित
त्वं भोगीशशयार्चितं निगमवाम्गुम्भोह्यमानं परम् ।
अम्भोजासनभाव्यमानमतुलं दम्भोलिभृद्वन्दितं
शम्भोरङ्घ्रिसरोरुहं भज मनः शं भो भजस्व द्रुतम् ॥ ७२॥
शुभ्रा यस्य रुचिर्विभोरपहसत्यभ्रावलीं शारदीं
बिभ्राणं कथयन्ति यं भववने विभ्र/म्यतः प्राणिनः ।
श्वभ्रादाशु भवाभिधादवतु मामभ्रापगावीचिका-
विभ्राण्मौलिरगात्मजार्धतनुभाविभ्राजमानः शिवः ॥ ७३॥
कामापूरणतत्परं प्रणमतां भीमार्तिहं यं नगेड्-
धामानं स्फटिकेन्दुशङ्खविलसद्धामानमाहुर्बुधाः ।
हेमाद्रीशशरासनः स भगवान् रामाश्रितात्युल्लसद्-
बामाङ्गः करुणापयोधिरनिशं मामाशु पायाच्छिवः ॥ ७४॥
कामादिस्मयभञ्जनानतजनक्षेमावहाद्य प्रभो
सोमार्येश कृपाकर श्रुतिशिरःसीमा यिताङ्ङ्घ्रयम्बुज ।
त्वामाहुर्भवरोगपीडितजनस्तोमार्तिविध्वंसिनं
मामार्तं त्वमुपेक्षसे पशुपते सोमार्धमौले कथम् ॥ ७९॥
यः स्मार्यो यमुपासते मुनिगणा भस्माशु येनाङ्गकं
तत् स्मारं कृतमामनन्ति विबुधा यस्मा अलं नो परः ।
यस्माद्यस्य तुलापि नास्ति भुवनादस्मान्न यस्मिन् भिदा
तस्मादस्तु निरन्तरं पशुपतेरस्माकमीशात् सुखम् ॥ ७६॥
यो मीनध्वजभञ्जनोऽखिलजगत्स्वामी महायोगिहृद्-
गामी दीनजनौघरक्षणपरः सामीन्दुचूडो विभुः ।
श्यामीभूतशिरोघरं तमनिशं त्वामीश निःश्रेयसं
कामी शङ्करमादरेण शिरसा नौमीप्सितार्थप्रदम् ॥ ७७॥
गेया यस्य महात्मनः श्रुतिगिरामेया गुणा योगिभि-
र्मायामुक्तहृदम्बुजैः सुकृतिभिर्ज्ञेया यदीयाकृतिः ।
जायार्धाङ्गसमन्वितप्रविलसत्कायार्धभागो भवा-
पायादाशु स मामनाथमतुलः पायादजस्रं शिवः ॥ ७८॥
वर्या यं हि विभावयन्ति यमिनां पर्याप्तभाग्या मनो-
दर्यामादरतोऽविलङ्घितवचोमर्यादमिष्टार्थदम् ।
निर्याते शमितुं विषे सुमनसां धुर्याविरासाशु यः
कुर्यादद्विसुताप्रियः स भृशमैश्वर्याणि मह्यं शिवः ॥ ७९॥
आर्यानाथ दयासमुद्र भगवन् नार्याप्त मायातमः-
सूर्यास्माकमियं प्रभो गिरिश वाग् धार्या त्वया चेतसि ।
कार्यास्मासु दया नितान्तमरयो वार्या हि कामादयो
दार्या देव भवाम्बुधेः पशुपते तार्या वयं सत्वरम् ॥ ८०॥
आरामं २ पतितावनत्वयशसं दाराश्रिताङ्गं दया-
सारापास्तनता र्त्यवग्रहभयं हारायितास्थ्यावलिम् ।
आराध्यं मुनिसत्तमैर्हदि शरद्धाराधर श्रेणिका -
गौराभं सततं विभुं श्रुतिनदीपारायिताङ्घ्रि भजे ॥ ८१॥
चोरा मे सुमनोऽपहृत्य च महासारा हि कामादयः
क्रूरा मां व्यथयन्ति हा भवमहाकारागृहे शत्रवः ।
मारारे भवमोचनेश्वर कियद्वारानहं वच्मि मा-
मारादेत्य कटाक्षनिस्रुतकृपापू । शु -पाहि प्रभो ॥ ८२॥
स्मेरास्यः पतितावनः श्रुतिशिरःसार।यिताङ्घ्रयम्बुजः
सूराभापहसद्रुचिः पशुपतिर्यो राजते शाश्वतः ।
तारानाथकलातिभास्वरजटाभाराय तस्मै चिदा-
कायाकलये महर्षिहृदयराय तस्मै नमः ॥ ८३॥
वैरी यः शमनस्य सज्जनमनश्धारी महेशः कृपा-
वारीशो भगवान् विभाति सुतरामुरीकृतार्तावनः ।
भूरीष्टानि तनोतु नित्यमतुलो दूरीकृताघत्रजो
गौरीशः सकलप्रपञ्चभरणे पारीण आद्यः स मे ॥ ८४॥
योऽलावीन्मदवारणं नततमस्तूलानलः शङ्करः
कालारिर्भवसिन्धुमग्नजनताकोलायिताङ्ङ्घ्रिद्वयः ।
कैलासाचलवासिने त्रिजगतीपालाय तस्मै नम-
ज्जालाभीष्टफलप्रदाङ्घ्रिसुमनःसालाय कुर्मोऽञ्जलिम् ॥ ८५॥
हेलावारितविश्वशोषकमहाहालाहलोग्रानल-
शालायाकलयेऽञ्जलिं शिव महाकालाय तुभ्यं सदा ॥ ८६॥
यो लीलाजितमन्मथो घनकृपाशाली विभुगूढप-
न्माली येन रिपुत्रजात् सुरगणोऽपालीश्वरेणादरात् ।
शूली मोहजुषो व्यपोह्य तरसा शालीनतां स श्रुति-
व्यालीढो निजपवये वितनुतां मे लीनमीशो मनः ॥ ८७॥
प्रालेय/ चलकन्यकाश्रिततनो फालेक्षणाद्य त्रयी-
वेलेष्टार्थददत्पदाम्बुज हरिच्चेलेश्वरात्यादरात् ।
नीलेन्दीवरबन्धुकन्धरविभो बालेन्दुलेखालस-
न्मौले मामव तादृशे च चरमे काले दयाम्भोनिधे ॥ ८८॥
कालोऽयं कलिनावृतोऽघनिलयः कालो भृशं निर्दयो
भो लोकेश भवाम्बुधेरसुलभा कूलोपलब्धिः परम् ।
आलोच्येत्थमतीव मेऽद्य हृदयं व्यालोलमास्तरां
बालोऽहं बत किं करोमि तरसा शैलोद्भवेशाव माम् ॥ ८९॥
कल्याणीरमणस्तनोतु नितरां कल्याणमिष्टार्थदः
कल्याणाचलकार्मुको विनतहृच्छयापहो मे विभुः ।
कल्यातङ्कहरः सदैव सुतपःकल्यात्मवित्तापसा-
वल्याराधितपादपद्मयुगलोऽतुल्यात्मभूमेश्वरः ॥ ९०॥
सेवा यस्य भवाधिभीतजनताजीवातुरेनोऽटवी-
दावाग्निं यमुदाहरन्ति करुणास्वावासभूमिं बुधाः ।
देवाधीशनुताय शश्वदसितग्र वाय सर्वात्मने
जीवानामभयङ्कराय महते देवाय तस्मै नमः ॥ ९१॥
निर्वाणैकनिकेतनं त्रिजगती सर्वार्ति विध्वंसकं
गुर्वाद्यैर्निखिलैर्यदुग्रचरितं स्वर्वासिभिर्गीयते ।
दुर्वारो गरलानलो भगवता निर्वापितो येन भोः
शर्वाशु त्वमुमासहाय नितरां कुर्वादरान्मे मुदम् ॥ ९२॥
गुर्वीशानमहीधरं भुजबलादुर्वीत उन्मूलयन्
गर्वी येन निपीडितो दशमुखो निर्वीर्यमाक्रन्दयन् ।
खर्वीभूतभवाधिरेत्य जनतादवकरालङ्कृतिं
कुर्वीश त्वमुमापते मयि कृपां गुर्वीमनन्याश्रये ॥ ९३॥
अव्यादिष्टफलप्रदः पशुपतिः पव्यायुधाद्यर्चितो
रख्याभो भगवान् जटान्तरलसद्दिव्यापगः शङ्करः ।
अव्याजं सततं कृपाजलनिधिर्भव्यं करोत्यादरात्
अव्यात्मप्रभवाचितप्रविलसत्सव्यागात्रः स माम् ॥ ९४॥
दीव्यन्नाकिशिरोमणिद्युतिलसत्सेव्यं यदङ्प्रयम्बुजं
भाव्यं योगिवरैश्च येन तरसालाव्यन्तकस्य स्मयः ।
श्राव्यं यस्य विचित्रपुण्यचरितं सोऽव्यन्तवासी शिवो
देव्यङ्गार्धलसत्तनुर्भवतु मे भाव्यङ्गविच्छित्तये ॥ ९५॥
आशापूरणतत्परस्य नमतामाशाधिपत्यं कृपा-
लेशाद्यस्य शतक्रतुप्रभृतयः श्रीशार्चितस्याभवन् ।
ईशानं प्रणतौघचित्तजलरुट्कोशाब्जबन्धुं जग-
त्क्लेशापोहनतत्परं भवमहापाशापहं तं भजे ॥ ९६॥
पूषाब्ज । ग्निविलोचनाय महते भूषायभाणैः परं
शेषाद्यैर्भुजगाधिपैः प्रविलसद्वेषाय लोकात्मने ।
आशापूर्तिकरस्य यस्य नमतामाशाधिपाः सत्कृपा-
लेशादिन्द्रमुखा निरस्तनिखिलक्लेशा विधूतारयः ।
दाशाकारभृदर्जुनेऽषभरणे कोशायिता भ्रः स मा-
मीशानः प्रणतौ घचित्तजलरुट्कोशारुणोऽव्यात् सदा । ९६॥ -म् ।
एषा मेऽस्तु कृता नतिर्नतमनस्तोषावहायादराद्
योषारत्नगिरीन्द्रजाविरचिताश्लेषार्धगात्राय ते ॥ ९७॥
प्रासार्ता विरसा चमत्कृतिपदोल्लासा दिहीना परं
हासार्हा निरलङ्कृतिः पशुपते या साहितिर्भूपतिम् ।
आसाद्याशु तदीयचित्तकमलोच्छ्वासाय सा स्यात् कथं
भासा निर्जितसूर्यकोटिरतुलो दासायमानैः सुरै-
योऽसावाश्रितपट्र्यो बहुकृपावासायितापाङ्गकः ।
व्यासाद्यैर्विनुताय क्लृप्तगरलग्रासाय हेमाचले-
सोऽसावीश्वर किं वदाद्य हृदयाश्वासाय मे त्वां विना ॥ ९८॥
व्वासायाकलये सदा हृतनुतत्रासाय तस्मै नमः ॥ ९९॥
संसाराकुलचेतसामपि हृदा पुंसामगम्यं जग-
द्धिंसातत्परदुर्मदत्रिपुरविध्वंसात्तकीर्तिस्मितम् ।
यं साधुव्रजमानसाम्बुजवनीहंसायमानं विदु-
आस्याभाजितचन्द्रमा मुनिगणाशास्याद्भुतानन्दकृ-
ल्लास्यासक्तमनाश्च यो हृदयभूशास्यार्तरक्षापरः ।
हास्यापास्तपुरस्य तस्य १तव पद्दास्यानुरक्तः प्रभो
स्तं साम्बं सततं नमामि शिरसाहं सादरं शङ्करम् ॥ १००॥
देहालङ्कृतनागभूषणभरं वाहायितप्राक्तन-
व्याहारं सदयं नमद्भवमहामोहापहं शङ्करम् ।
ईहामात्रविनिर्मितत्रिभुवनं गेहायिताद्रीश्वरं
नीहाराद्रिसुताप्रियं कृतसुरव्यूहावनं भावये ॥ १०२॥
उहं त्वत्पदबुद्धये कलयितुं सोऽहं कथं शक्नुयां
गाहङ्गाहमवार्यमेव विषये साहन्तमस्मन्मनः ।
हा हन्ताटति किं करोमि विनमग्रीहन्तरीशान स-
स्नेहं त्वं कुरु सर्वदा मयि कृपां भो हंसवाहार्चित ॥ १०३॥
ताळ/भैकनगात्मजाकुचतटीचोळायितालङ्कृति-
व्याळाधीशफण प्रभो प्रशमितक्ष्वेळाशु मे त्वं नय ।
श्रीळानाथनुते भवव्यसनतो डोळायमानं मनो
व्याळानेकपमीशभक्तहृदि भेडाळानके त्वत्पदे ॥ १०४॥
नाळीकायि त केशवः प्रणमतां योऽळीकविध्वंसकृ-
न्नाळीकप्रभवादिमादितिभुवामाळीभिराराधितः ।
हेळीन्द्वग्निविलोचनं पशुपतिं काळीपतिं संसृति -
व्याळीवित्रसदाप्तपालनकलाकेळीपरं तं भजे ॥ १०५॥
यक्षाद्याखिलखेचरार्चितपदे दक्षाध्वरध्वंसिने
वृक्षागा ब्धिमहीजनात्मकजगद्रक्षापरायादरात् ।
ऋक्षाधीशकलाधराय नितरामुक्षाधिवाहाय ते
शिक्षात्रस्तयमाय भूतपतये त्र्यक्षाय कुर्मोऽञ्जलिम् ॥ १०६॥
चीक्षाशिक्षितमीनकेतुमनिशं मोक्षार्थदानाध्वरे
दीक्षातत्परपवयं विधिसहस्राक्षादिभिर्वन्दितम् ।
दाक्षायण्यधिपार्कवह्निनयनं दाक्षायणीवल्लभं
प्रेक्षावद्धृदयाव्जभावितपदं साक्षात्करोमीश्वरम् ॥ १०७॥
अक्षोभ्योग्रभवार्तपालनकलादक्षोऽनुलिप्ताद्रिजा-
वक्षोजद्वयमुद्रितप्रविलसद्वक्षोऽभिरामः प्रभुः ।
स क्षोणीघ्रगृहो ममाशु दुरितं प्रक्षोदयित्वाखिलं
रक्षोनाथनुतम्तनोतु नमतां हृत्क्षोभहारी मुदम् ॥ १०८॥
शम्भो वेङ्कटसुब्च एष भवरुग्भीत्येत्थमत्यद्भुता-
स्थान त्वत्सुगुणौघवारिधिकणस्तोत्रं परं तारकम् ।
अष्टप्रासयुताष्टकाधिकशतश्लोकैरतानीत् प्रभो
स्वामिंस्त्वं परिगृह्य सादरमिदं रक्षानुकम्पानिधे ॥ १०९॥
इति वेङ्कटसुब्बकविकृतं श्रीजप्येशाष्टप्रासशतकं सम्पूर्णम् ।
Proofread by Sivakumar Thyagarajan Iyer