जयन्तस्य श्वित्ररोगनिवारणवर्णनम्

जयन्तस्य श्वित्ररोगनिवारणवर्णनम्

(शिवगौरीसंवादे) ईश्वरः - पुरा जयन्तः शक्रस्य तनयो मोहमास्थितः । ऐरावतसुतं नागं समारुह्य जवात्तदा ॥ ३८॥ समागतो देवगणैर्मध्येमार्ग द्विजस्य हि । गोवत्सो मर्दितः पादैस्तेनोन्मत्तेन हस्तिना ॥ ३९॥ शतर्चनः शशापैनं जयन्तं पाकशासनिम् । श्वित्री भवेति च तदा शापाच्छ्वित्र्यभवत्तदा ॥ ४०॥ इन्द्रमिन्द्रगुरुः गत्वा तत्सर्वं शापकारितम् । जयन्तः प्राह दुःखेन प्रणम्य पितरं गुरुम् ॥ ४१॥ --- जयन्तः - अज्ञानाद्यौवनोन्मादाद्धस्तिपादावमर्दितः । तर्णकस्तस्य विप्रस्य क्रुद्वो मयि शतर्चनः ॥ ४२॥ तस्याद्य निष्कृतिं ब्रूतं युवां यद्ब्रूत तद्व्रतम् । करिष्यामि न सन्देहः सुखोपायं वदाधुना ॥ ४३॥ --- ईश्वरः - जयन्तवाक्यं तच्छ्रुत्वा शक्रस्यानुमते पुनः । बृहस्पतिस्तदा प्राह प्रभासं क्षेत्रमुत्तमम् ॥ ४४॥ सिद्धेश्वरं प्रणम्याथ स्नात्वा वेणानदीजले । संवत्सरं वस प्रीत्या जप रुद्रं महेश्वरम् ॥ ४५॥ बिल्वपत्रैः समभ्यर्च्य मुक्तो भवसि नान्यथा । तदा गुरुवचः श्रुत्वा जयन्तस्तौ प्रणम्य च ॥ ४६॥ इन्द्रेण चाभ्यनुज्ञातः प्रभासे मां समागतः । स्नात्वा वेणानदीतोये तपोऽतप्यत दुष्करम् ॥ ४७॥ भस्मत्रिपुण्ड्ररुद्राक्षमालालङ्कृतविग्रहः । नमस्कारैर्महादेवं रुद्राध्यायेन शङ्करम् ॥ ४८॥ शक्रात्मजस्तदा गौरि सिद्धेशाख्यं तदा मुदा । बिल्वपत्रैः समभ्यर्च्य प्रदक्षिणपुरःसरम् ॥ ४९॥ स्तुवन् जपन् सदा ध्यायन् मां निरीक्षंश्च भक्तितः । तुष्टावाथ जयन्तो मां प्रणिपत्य कृताञ्जलिः ॥ ५०॥ --- जयन्तः - सिद्धीनां निलयस्त्वमीश दयया आगस्कृतं पाहि मां विश्वाधीश्वर विश्वनाथ भगवन् श्रीचन्द्रचूड प्रभो । त्वं शक्रादिसुरासुरार्चितपदो निर्द्वन्द्वनित्यो विभुः गुप्तो मूढधियां सुसूक्ष्मकधिया पश्यन्ति यं योगिनः ॥ ५१॥ सान्द्रानन्दमयं दयामयतनुं प्राप्तोऽस्मि पादं तव । मां सद्यः सुखयाशु पाहि दयया सिद्धेश भद्रं कुरु ॥ ५२॥ --- ईश्वरः - इति सम्प्रार्थितस्तेन जयन्तेन मनोरमे । तस्माच्छ्वित्राद्विनिर्मुक्तो नत्वा शक्रं मुदा गतः ॥ ५३॥ इत्थं प्रभासक्षेत्रस्य महिमायं तवोदितः । सिद्धिप्रदमिदं क्षेत्रं सिद्धेशस्यास्य दर्शनात् ॥ ५४॥ --- सूतः - शिवप्रणतिसम्भवं फलमपारपुण्याधिकं न तत् क्रतुशतार्जितैः फलगणैः समानं भवेत् । अनन्तमहिमास्पदं विविधपातकोच्छेदकं शिवद्रुहि जने सदा न खलु वाच्यमेतद् द्विजैः ॥ ५५॥ --- ॥ इति शिवरहस्यान्तर्गते प्रभासक्षेत्रमाहात्म्ये जयन्तस्य श्वित्ररोगनिवारणवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३४॥ ३८-५५॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 34.. 38-55.. Notes: Prabhas Shiva Kshetra, is abode to Siddheshwara (Siddhesha) Linga and is located on the banks of River Vena (Venika). Shakra's (Indra's) son - Jayanta, incurred leucoderma after a calf got killed while he (Jayanta) was racing around on the Elephant Airavat. Jayanta was relieved of the illness after due repentance in Prabhas Kshetra, as advised by Devaguru Brihaspati. Shiva iterates that worship at Siddheshwara Linga, promptly bestows Siddhies. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Jayantasya Shvitraroganivarana Varnanam
% File name             : jayantasyashvitraroganivAraNavarNanam.itx
% itxtitle              : jayantasya shvitraroganivAraNavarNanam (shivarahasyAntargatA)
% engtitle              : jayantasya shvitraroganivAraNavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 34|| 38-55||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org