काशीक्षेत्रमाहात्म्यम्

काशीक्षेत्रमाहात्म्यम्

- शिवगौरीसंवादे - पञ्चक्रोशात्मकं रम्यं काशीक्षेत्रमनुत्तमम् । तत्तु ज्योतिर्मयं लिङ्ग वेदवेद्यं पुरातनम् ॥ ७॥ सहस्रकनकद्वारपरिवेष्टितमुन्नतम् । वज्रसङ्घट्टितश्रेष्ठसहस्रावरणान्वितम् ॥ ८॥ अत्यूर्ध्वलोकगश्रेष्ठरत्नगोपुरराजितम् । नानाविधसुधासौधश‍ृङ्गकान्तिविराजितम् ॥ ९॥ तद्गोपुराग्रभागेषु विमलेषु कदाचन । न भाति भानुसञ्चारचश्चलाक्षि वरानने ॥ १०॥ तद्गोपुरेषु विमलाश्चन्द्रस्यापि न रश्मयः । नवग्रहगणस्यापि कान्तिरन्यस्य वा छविः ॥ ११॥ प्रत्युप्तैतद्गोपुरस्य छविप्रतिहतप्रभाः । निष्प्रभा एव तिष्ठन्ति सर्वे सूर्यादयः शिवे ॥ १२॥ काशीगोपुरश‍ृङ्गाणि रम्याण्यत्युन्नतानि च । दृष्ट्वा सुमेरुरुच्चोऽपि लज्जितो भवति ध्रुवम् ॥ १३॥ अमूल्यानर्घरत्नौघरचितं श‍ृङ्गमुन्नतम् । सर्वान् लोकानतीत्यैव याति पश्य वरानने ॥ १४॥ एतत्पुरोवर्तिश‍ृङ्गमूले भानुविधुग्रहाः । तिष्ठन्ति निष्प्रभा नित्यं श‍ृङ्गप्रभहतप्रभाः ॥ १५॥ कथमुच्चतरो भाति पुण्यस्तम्भ इवामलः । ईदृशान्येव श‍ृङ्गाणि सन्ति काश्यामनेकधा ॥ १६॥ काशीगोपुरश‍ृङ्गाणामग्रभागदिदृक्षया । पुरा पूर्वं मया देवि कदाचिद्गतमादरात् ॥ १७॥ वृषेशप्रमुखाः सर्वे धी(ऽपी)श्वरप्रमथाधिपाः । ततः सर्वेऽनिवेद्यैव परावृत्ताः शुभानने ॥ १८॥ वृषेश्वराधिरूढेन मयैव गतमग्रतः । गमने कति वा मासा याताः सङ्ख्या न सा कृता ॥ १९॥ ततः परं वाममेकं श‍ृङ्गाग्रं रत्नरञ्जितम् । गच्छदूर्ध्वं मया स्पृष्टं (दृष्टं) तत्करेण धृतं ततः ॥ २०॥ धृतमप्यतिवेगेन गतमूर्ध्वं तदन्तिके । ममाश्चर्यमभूच्छीघ्रं गमनं तस्य पश्यतः ॥ २१॥ वायोरपि तथावेगो न दृष्टोऽपि कदाचन । तच्छृङ्गाग्रं दृश्यमानमदृश्यमभवत्क्षणात् ॥ २२॥ तदानीमेव तद्दृष्ट्वा वृषेशो विस्मयं गतः । महदाश्चर्यसम्पन्नः ततः परमहं शुभे ॥ २३॥ समागतोऽस्मि कैलासमारुह्य वृषभाधिपम् । हर्म्यगोपुरश‍ृङ्गाणि परस्परजिगीषया ॥ २४॥ गच्छन्त्यत्यन्तवेगेन सदा रत्नमयानि हि । अष्टदिक्षु गणाधीशाः शूलमुद्गरपाणयः ॥ २५॥ असङ्ख्याताः सदा देवि वसन्त्यमितविक्रमाः । सहस्रार्बुदभूतेशाः शितशूलकराः सदा ॥ २६॥ निवसन्ति प्रतिद्वारि तीक्ष्णाक्षा विवृताननाः । शक्तिसङ्घाश्च बहवः प्रतिद्वारि वरानने ॥ २७॥ ज्वलद्वह्निनिभाः सन्ति भैरवाः स्वबलोन्नताः । रविरक्ताक्षगन्धर्वः कश्चिदद्भुतविक्रमः ॥ २८॥ काशीदक्षिणदिग्भागे दुर्धर्षस्तिष्ठति प्रिये । धतोर्ध्वमुष्टिरुन्मत्तः शूलदन्तकरायुधः ॥ २९॥ प्रज्वल्लद्वह्निसङ्काशः सूर्यमण्डलसन्निभः । तद्भृत्यास्तादृशा वीरा बलमानविजृम्भिताः ॥ ३०॥ रक्तवस्त्रा रक्तकायाः शत्रुरक्तैकजीवनाः । उन्मत्तभैरवो नाम कश्चिदस्ति महाबलः ॥ ३१॥ तस्यामेव दिशि श्रेष्ठः कोटियोजनमुन्नतः । मन्दराचलसङ्काशो महाकायो भयानकः ॥ ३२॥ कोटिकोटिगणाधीशसङ्काशाङ्गुलिविक्रमः । श्वेतोर्ध्वदीर्घरदनः पिङ्गलाक्षिशिरोरुहः ॥ ३३॥ सित(शित)वज्रनिभानन्तकररोमा मदोद्धतः । क्रूराक्षिपातमात्रेण निहत्यारिकुलान् बहून् ॥ ३४॥ पाताले भुवि नाके वा तत्तुल्यो नैव दृश्यते । तत्क्रूरदृष्टिपातेन भस्म सञ्जायते गिरिः ॥ ३५॥ तत्क्रूरदृष्ट्या पृथिवी कम्पमानेव तिष्ठति । क्षीराब्धिरेकदा पूर्व पीतस्तेन ततः परम् ॥ ३६॥ महाभुजो महाकायी(यः) क्रूरदृष्टिरलोलुपः । सर्वे समुद्राः सरितः पीतास्तेनैव लीलया ॥ ३७॥ शैलेन्द्राः पूर्वमेतेन भक्षिता बहवो मुदा । कदाचिदूर्ध्वं पृथिवी नीयते पृथुबाहुना ॥ ३८॥ छत्रीकृता तदा सैव तेन शैलवनान्विता । बहुकालं प्रयत्नेन सुरगन्धर्ववीक्षितः ॥ ३९॥ चक्रवद्भ्रामयामास नखाग्रे सन्निवेश्य च । अनेनैवातिमत्तेन लोका व्यत्यासिताः पुरा ॥ ४०॥ ततः स कृपया लोकान् यथापूर्वं चकार च । इन्द्रादिलोकपालाश्च कृताञ्जलिपुटास्सदा ॥ ४१॥ संसेवन्ते भयग्रस्ताः कम्पमानास्तमादरात् । तपसा सम्यगाराध्य तमेव तदनुग्रहात् ॥ ४२॥ काशीप्रवेशमिच्छन्ति स्वर्गलोकनिवासिनः । अनिवेद्य गतःपूर्वं तमेव चतुराननः ॥ ४३॥ काश्यां ततः क्रूरदृष्टिर्लीलया चतुराननम् । शीघ्र निष्क्रामयामास प्रलयान्तं स भैरवः ॥ ४४॥ काशीप्रवेशो नैवास्य तदाप्रभृति सर्वथा । दुःखितः स विधिस्तेन विकृतो वनमाययौ ॥ ४५॥ प्रलपन् वनमाश्रित्य सरस्वत्या स तिष्ठति । इदानीं विधिरत्यन्तं काशीदर्शनलालसः ॥ ४६॥ तमेव तपसा सम्यगाराधयति सादरम् । तस्य काशीप्रवेशार्थमाज्ञां दास्यत्यसंशयम् ॥ ४७॥ अयमेतादृशो देवि काशीपालनतत्परः । इतोऽपि प्रबलाःसन्ति काशीसंरक्षणक्षमाः ॥ ४८॥ तेषां तेजो बलं वीर्यं शौर्यमौदार्यमुत्कटम् । वक्तुं न शक्यते देवि सहस्रवदनैरपि ॥ ४९॥ काशीसंरक्षका वीराः यावन्तः सन्ति तावताम् । प्रसादेन विना काशी प्रवेष्टुं नैत्र शक्यते ॥ ५०॥ भिन्नप्रकृतिगाः क्रूराः काशीसंरक्षकाः सदा । अनन्ता दुर्मदाःसर्वे परस्परजिगींषवः ॥ ५१॥ अनल्पाराधनप्रीता बहुसेवाभिलाषिणः । छिद्रान्वेषणलोलाक्षाः पक्षपातविवर्जिताः ॥ ५२॥ तत्प्रसादाय यत्नोऽपि कर्तुं नैव हि शक्यते । तत्प्रसादस्वरूपं तु फलं केनोपलक्ष्यते ॥ ५३॥ अनन्तजन्मभिः क्लेशाः केन कार्याः प्रयत्नतः । केन वा तत्प्रसादोऽपि प्राप्तव्यः क्लेशसाधितः ॥ ५४॥ केन सूच्यग्रमारुह्य तपः कर्तव्यमादरात् । केनोपवासाः कर्तव्याः काशीप्राप्त्यै निरन्तरम् ॥ ५५॥ केन सन्दीप्य पञ्चाग्निज्वाला सह्यातिदुस्सहा । केन पर्णाशनं कार्यं काशीप्राप्त्यै निरन्तरम् ॥ ५६॥ केन मृष्टान्नपानादि त्यक्त्वा निःस्पृहमादरात् । स्वल्पं वाताशनं कार्यं काशीप्राप्त्यै निरन्तरम् ॥ ५७॥ केनाऽऽगलं जले स्थित्वा हिमकाले दुरासदे । पञ्चाक्षरजपः कार्यंः काशीप्राप्त्यै निरन्तरम् ॥ ५८॥ केनाधोमुखमासाद्य धूमः पेयोऽतिदुःसहः । केनेन्द्रियजयः कार्यः काशीप्राप्त्यै निरन्तरम् ॥ ५९॥ केन स्रक्चन्दनश्रेष्ठवनिताकनकादयः । अविषादं कथं त्याज्याः काशीप्राप्त्यै निरन्तरम् ॥ ६०॥ केन मुक्तावली त्याज्या नानारत्नविराजिता । रुद्राक्षधारणं कार्यं काशीप्राप्त्यै निरन्तरम् ॥ ६१॥ केन नानाविधाः सौधास्त्याज्याः श‍ृङ्गविराजिताः । अरण्ये वसतिः कार्या काशीप्राप्त्यै निरन्तरम् ॥ ६२॥ केन त्यक्त्वा पटुस्पष्टदृढनारीकुचासनम् । कुशासनं परिग्राह्यं काशीप्राप्त्यै निरन्तरम् ॥ ६३॥ केन कान्तासमाक्रान्तां शय्यां त्यक्त्वा मनोरमाम् । भस्मशय्या परिग्राह्या काशीप्राप्त्यै निरन्तरम् ॥ ६४॥ कस्यचिद्भरिपुण्येन बहुजन्मार्जितेन हि । महेशानुग्रहे जाते काशीप्राप्तिर्भंविष्यति ॥ ६५॥ निरन्तरं कृता भक्तिः येन मय्यनपायिनी । तेन काशीपुरं प्राप्यं नान्येन शुभदर्शने ॥ ६६॥ यस्य भक्तिर्दृढा नित्यं मय्येवाव्यभिचारिणी । तस्यैव काशी सुलभा नान्यस्य वरवर्णिनि ॥ ६७॥ यस्य लिङ्गार्चने प्रीतिर्यस्य रुद्रजपे मतिः । तस्यैव काशी सुलभा स एव मम सम्मतः ॥ ६८॥ शिवक्षेत्राटनं येन बहुधा कृतमादरात् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ६९॥ शिवपूजैव सततं कृता येन भविष्यति । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ७०॥ त्रिपुण्ड्रधारणं येन कृतं स्याद्विधिपूर्वकम् । तेनैवकाशी सम्प्राप्या नान्येन कमलानने ॥ ७१॥ कृतं येन सदा भक्त्या शिवक्षेत्रस्य मार्जनम् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ७२॥ शिवपूजार्थमनिशं येन बिल्वार्जनं कृतम् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ७३॥ शिवस्थानानि येनैव कारितानि कृतानि च । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ७४॥ शिवभक्तैः सदा प्रीतिः कृता येन भविष्यति । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ७५॥ येन बिल्ववनं रम्यं सम्यक्कृतमनामयम् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ७६॥ येन मूर्ध्नि गले कर्णे रुद्राक्षाः सततं धृताः । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ७७॥ रुद्राभिषेकपानीयं येन पीतं सदा मुदा । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ७८॥ येन शाङ्गं लिङ्गदानं कृतं स्याद्भक्तिपूर्वकम् । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ७९॥ येन शैवाः शिवप्रीत्यै भोजिताः साधुसाधनैः । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ८०॥ येन पार्थिवलिङ्गानि पूजितान्यनिशं मुदा । तेनैव काशी सम्प्राप्या नान्येन कमलानने ॥ ८१॥ शैलाश्चूर्णयितुं शक्या मन्दरप्रमुखा दृढाः । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ ८२॥ सद्यःशोषयितुं शक्याः निःशेषमतिवेलगाः । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ ८३॥ क्षीराब्धिप्रमुखादीनां पारं कर्तुं हि शक्यते । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ ८४॥ व्यत्यासः सर्वलोकानां शक्यते कर्तुमेकदा । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ ८५॥ इन्दुः कन्दुकवत्कर्तुं शक्यते भानुमानपि । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ ८६॥ प्रज्वलद्वह्निमध्ये तु शक्यते स्थातुमन्वहम् । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ ८७॥ बहुधा विविधं द्रव्यं बहु दातुं च शक्यते । कदाचित्केनचित्सम्यक्काशी प्राप्तुं न शक्यते ॥ ८८॥ पुरा कश्चिद्विजाधीशः शिवमूर्तिरिति श्रुतः । सर्ववेदार्थतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ ८९॥ नीतिमान् निपुणो मन्त्री सर्वदा शिवपूजकः । असङ्ख्यातधनाध्यक्षस्तुरङ्गगजपालकः ॥ ९०॥ पुराणश्रवणासक्तः काशीमाहात्म्यमुत्तमम् । श्रोत्रानन्दकरं रम्यं श्रुश्रावाघौघनाशनम् ॥ ९१॥ ततः स मन्मथाकारो नवमन्मथकनिन्दकः । उपार्जितगजाश्वादिधनधान्यादिकं स्वकम् ॥ ९२॥ रूपलावण्यसौन्दर्यनवयौवनदर्पिताम् । स्वभार्यां च विलोक्याथ बभाषे वचनं मुदा ॥ ९३॥ श्रीशिवमूर्तिरुचवाच - अपि(यि) भार्ये वचो युक्तं श‍ृणु कर्णैकभूषणम् ॥ ९४॥ काशीक्षेत्रस्य माहात्म्यं श्रुतमद्य मया धुना । दिवि वाऽन्यत्र वा लेके काशीस्थलसमं स्थलम् ॥ ९५॥ न दृष्टं न श्रुतं क्वापि नास्ति चेति कथा श्रुता । बहुजन्मतपःसाध्या काशीप्राप्तिः किलामला ॥ ९६॥ अलभ्या किल सा काशी विरिञ्चिप्रमुखैरपि । दुर्धर्षांः प्रबला वीरा नानाशस्त्रास्त्रपारगाः ॥ ९७॥ विवृत्तास्या मदोन्मत्ताः श्रीकाशीपालकाः किल । तादृशानां प्रसादेन विना काशी शिवात्मिका ॥ ९८॥ न दृश्यते किलामर्त्यैर्मनुजैर्दृश्यते कथम् । विश्वेश्वरादिभिः (भिधं) लिङ्ग ज्योतीरूपं सनातनम् ॥ ९९॥ वेदवेदान्तसंवेद्यमेकमस्तीति संश्रुतम् । तल्लिङ्गदर्शनात्सद्यो मुच्यते किल पातकैः ॥ १००॥ तदेवाराध्यममलं मत्यैर्देवासुरैरपि । तद्वैश्वेश्वरमुत्कृष्टमनाद्यन्तमनामयम् ॥ १०१॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे काशीक्षेत्रमाहत्म्यं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ३ । ७-१०१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 3 . 7-101.. Notes: Śiva शिव describes to Devī देवी the splendor and layout of Pañcakrośātmaka Kaśī पञ्चक्रोशात्मक काशी, and mentions the presence of the Eternal (Sanātana सनातन) Viśveśvara Jyotirliṅga विश्वेश्वर ज्योतिर्लिङ्ग in Kaśī काशी. He delineates the attributes of those who can attain the fortune of being able to reach and be in Kaśī काशी; and outlines the merits of being able to do so. Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Kashikshetramahatmyam
% File name             : kAshIkShetramAhAtmyam.itx
% itxtitle              : kAshIkShetramAhAtmyam (shivarahasyAntargatam)
% engtitle              : kAshIkShetramAhAtmyam
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 3 | 7-101||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org