काशीस्थितज्ञानवापीरक्षक दण्डपाणीतिहासकथनम्
- शिवपार्वतीसंवादे -
श्रीपार्वत्युवाच -
शिवानन्दमयानन्त ज्ञानवापीतटे शुभे ।
केन पुण्यप्रभावेण दण्डपाणिः स्थिरं स्थितः ॥ १॥
पुराचीर्णं किमेतेन तपश्चर्या कथं कृता ।
कुत्र स्थितं पुराऽनेन तत्सर्वं वदशङ्कर ॥ २॥
श्रीशिव उवाच -
हरिकेशवनं नाम काश्यामेकं वरानने ।
शीघ्रसिद्धिकरं रम्यं विलासाश्रयमस्ति मे ॥ ३॥
बिल्वमन्दारपुन्नाग पूगलोध्रद्रुमावृतम् ।
द्राक्षारसालरुद्राक्षकोविदार वनाश्रयम् ॥ ४॥
खर्जूरनारिकेलाम्र करवीरैर्विराजितम् ।
जम्बीरहेमकदलीतालसालसमावृतम् ॥ ५॥
आम्रातकार्जुनाश्वत्थकेतकीतरुसंवृतम् ।
नानाविधलताकीर्णं नानाद्रुम विराजितम ॥ ६॥
नानाविधलताकुञ्जमञ्जुलं नयनप्रियम ।
वसन्तप्रमुखानेकै ऋतुभिः संश्रितं सदा ॥ ७॥
नानाविधानेकपुष्पसङ्कुलं सर्वदा शुभम् ।
नानाविधफलाकीर्णं ध्वनि(घन)छायमघापहम् ॥ ८॥
एतादृशे वने रम्ये हेमराजीविराजितम् ।
रत्नसोपान सम्बन्धं सरः समभवत्प्रिये ॥ ९॥
चलद्विमल कल्लोलकुलसङ्कुलितं सदा ।
परागपूर्णं परितः सरः सुरवरार्चितम् ॥ १०॥
तत्प्रान्तदेशेसरितं (देशं परितः) शैवाः शिवपरायणाः ।
भस्मोद्धूलितसर्वाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः ॥ ११॥
रुद्राक्षमालाभरणाः शिवनामामृतोत्सुकाः ।
शिवैकदेवा विमलाः शिवाचाररताः सदा ॥ १२॥
शिवैकशरणाः शुद्धाश्च पञ्चाक्षरपरायणाः ।
निष्कल्मषा निरातङ्का निवसन्ति शिवार्चकाः ॥ १३॥
शिवाराधनसंसक्ताः शैवशास्त्रविशारदाः ।
पञ्चाग्निमध्ये सततं काशीमरणकाङ्क्षया ॥ १४॥
तपः कुर्वन्ति सततमनन्ता विजितेन्द्रियाः ।
जीर्णपर्णाशनाः केचित्केचिदम्बुकणाशनाः ॥ १५॥
केचिद्बताशनाः केचिन्निराहाराः शिवप्रियाः ।
शुद्धान्तः करणाः शुद्धाः शिवतत्त्वैकचिन्तकाः ॥ १६॥
तत्रैव विमले स्थाने दण्डपाणिरयं शुभे ।
पञ्चवत्सरको बालस्तपश्चक्रे दृढव्रतः ॥ १७॥
पुरा हिमालये रम्ये नानाधातुविराजिते ।
तपस्तप्तमनेनैव महद्धोरतरं मुदा ॥ १८॥
स कोटियुगपर्यन्तं पञ्चाग्न्यन्तरगः सदा ।
रुद्राध्यायजपासक्तः शिवलिङ्गैकपूजकः ॥ १९॥
निमीलिताक्षो नियतो निःसङ्गः शिवचिन्तकः ।
एकेनैवाङ्घ्रिणा स्थित्वा चक्रे घोरतरं तपः ॥ २०॥
सर्वोत्तमं वेदवेद्यं सर्वाधारं जगत्प्रभुम् ।
ध्यायन्नेव महादेवं गौरीरमणमव्ययम् ॥ २१॥
तद्घोरतपसा भाता भूताः सर्वे दिवानिशम् ।
नत्वा कृताञ्जलिपुटास्तिष्टन्तिनतकन्धराः ॥ २२॥
लिङ्गपूजारतं दृष्ट्वा तरवः पुष्पसङ्कुला ।
कम्पितास्तरवः सर्वे स्वतएव नमन्ति ते ॥ २३॥
प्रज्वलन्त्यग्नयो नित्यं स्वतः कमललोचने ।
तपः प्रभावभीतास्ते ज्वलिता इव सर्वदा ॥ २४॥
एवं बहुविधं घोरं तपः कृत्वा स्थितं मुदा ।
लिङ्गार्चन रतेनेत्थं बालकेनैव तेन हि ॥ २५॥
ततः कदाचिन्नन्दीशमारुह्य वरवर्णिनि ।
मया गतं ततस्तेन मह्यं पूजा कृता शुभा ॥ २६॥
बहुधाचकृतं स्तोत्रं कृताच नतयो मुदा ।
वरोऽपि याचितस्तेन शिवे भक्तिर्दृढास्त्विति ॥ २७॥
दत्तो वरो मया तस्मै सततं सादरं पुनः ।
तपश्चकार विमलो मौनव्रतपरायणः ॥ २८॥
बहुकालं तपस्तप्तं तपः परमपि प्रिये ।
ततः पुनर्मया तत्र गतं तेनार्चितं प्रिये ॥ २९॥
तदा मया स पृष्टोऽभूत्तपस्वी विजितेन्द्रियः ।
शिवैकशरणः शुद्धः पञ्चाक्षरपरायणः ॥ ३०॥
तपो घोरतरं नित्यं किमर्थं क्रियते त्वया ।
किं तवाभीप्सितं तद्धि दास्ये वृणु वरं परम् ॥ ३१॥
इति पृष्टस्ततः सोऽपि वव्रे वरमनुत्तमम् ।
काशीप्राप्तिर्मम श्रीमन्नास्तीति प्रीतमानसः ॥ ३२॥
श्रुत्वा तदुक्तं वचनं विविच्य च पुनः पुनः ।
वरो दत्तोमया देवि तत्सन्तोषार्थमुत्तमम् ॥ ३३॥
इतो जन्म सहस्रान्ते काशी सम्प्राप्यते त्वया ।
एवमेव महद्घोरं करिष्यति(सि) तपो यदि ॥ ३४॥
ततः काश्यां स्वधर्मेण स्थित्वा नियतमानसः ।
तत्र घोरतरं भूयः करिष्यति(सि) तपोऽनघ ॥ ३५॥
इति दत्तो वरस्तस्मै तदनु प्रतिजन्मनि ।
जातिस्मरं(रः) तपो घोरं भूयो भूयश्चकार सः ॥ ३६॥
ततः काशीमां प्राप्य तपश्चक्रे स बालकः ।
विघ्नैः संविघ्नितोऽप्यत्र भक्त्या भृशमनुत्तमम् ॥ ३७॥
तेनैव लज्जिताः सर्वे मुनयो ब्रह्मवादिनः ।
आश्चर्यं मुनयश्चक्रुर्दृष्ट्वा बालकमुत्तमम् ॥ ३८॥
दृढव्रतं शिवरतं निमीलितविलोचनम् ।
तं दृष्ट्वा मुनयः सर्वें प्रणमन्ति पुनः पुनः ॥ ३९॥
अस्थिमात्रावशिष्टाङ्ग लिङ्गाभ्यर्चनतत्परम् ।
दृष्ट्वैव भूताः सर्वेऽपि नमन्त्यनुदिनं मुहुः ॥ ४०॥
कृताञ्जलिपुटा देवा निवसन्ति प्रणम्यतम् ।
सिद्धगन्धर्व यक्षाद्याः पूजयन्ति मुहुर्मुहुः ॥ ४१॥
विघ्नाननेकान् संहृत्य लिङ्गपूजनतत्परः ।
तपस्तीव्रतरं चक्रे हरिकेश वने शुभे ॥ ४२॥
एवं निवसतस्तस्य पुनः प्रीत्या गतं मया ।
ततः समागतं दृष्ट्वा मामस्तौषी स तु बालकः ॥ ४३॥
स्तुत्वैवं बहुधा बालः प्रणम्य च मुहुर्मुहुः ।
कृताञ्जलिपुटो भूत्वा तस्थौ सन्तुष्टमानसः ॥ ७४॥
तस्यास्थिमात्रावशिष्टमङ्गं स्पृष्टं मया ततः ।
गाणापत्यमपि प्रीत्या दत्तं तस्मै मनोरमे ॥ ७५॥
ज्ञानवापीरक्षणार्थं तत्तटे स्थापितो मया ।
वरोऽन्योऽपि मया दत्तः सन्तुष्टेन ततः परम् ॥ ७६॥
त्वत्कृतं स्तोत्रममलं यः पठेत्सततं शुचिः ।
काशीवासोऽनिशं तस्य भवतीति वरानने ॥ ७७॥
तदाप्रभृति तत्तीरे दण्डं काञ्चनमुद्वहन् ।
तिष्ठत्यत्यन्तन्सतुष्टः पूर्णभद्रसुतः शिशुः ॥ ७८॥
तेनैव ताड्यते लोकः शिवद्वेषकरः सदा ।
ब्रह्मादयोऽपि तं पूर्वमर्चयन्त्यधुना शुभे ॥ ७९॥
काशीवियोगं तनुते स एव कुपितः सदा ।
मुनीनां मानवानां च देवानामपि शिक्षकः ॥ ८०॥
दण्डपाणिकृपा यस्मिन् न भविष्यति सर्वथा ।
स विहाय तदा काशीं याति देशान्तरं प्रति ॥ ८१॥
पूजनीयः प्रयत्नेन दण्डपाणिर्मम प्रियः ।
काशीवासरतैर्नित्यमप्रमत्तैर्यथोचितम् ॥ ८२॥
दण्डपाणिप्रसादेन स्नानं भवति धीमताम् ।
ज्ञानवापीजले रम्ये सर्वपापापनोदने ॥ ८३॥
शिवप्रियो दण्डपाणिः पूर्णभद्रसुतोऽनघः ।
यक्षेशः करुणासिन्धुर्धूतपापो गणेश्वरः ॥ ८४॥
एतन्नामाष्टकेनैव प्रत्यहं शिवतत्परैः ।
पूजनीयः प्रयत्नेन काशीवासिभिरादरात् ॥ ८५॥
दण्डपाणिप्रसादार्थं काशीवासरतैर्नरैः ।
भोजनीयस्त्रयोदश्यां शैवः क्षीरादिसाधनैः ॥ ८६॥
नमन्ति मुनयस्सर्वे पूजयन्ति च तं द्विजाः ।
तस्यैवानुग्रहात्सर्वे काश्यां तिष्ठन्त्यनाकुलाः ॥ ८७॥
अयं यक्षकुलोत्पन्नो बालोऽपि मदनुग्रहात् ।
सामर्थ्यमीदृशं प्राप्य तिष्ठत्यतिबलान्वितः ॥ ८८॥
पूर्वपूर्वभवेष्वेवमनेनोग्रं तपः कृतम् ।
मामुद्दिश्यानिशं सम्यक्तत्फलं जातमीदृशम् ॥ ८९॥
यः कश्चिदस्ति सुभगे मद्भक्तो मत्परायणः ।
स सर्ववन्द्यः श्रेष्ठ भविष्यति न संशयः ॥ ९०॥
इदं मत्वैवं मुनयी देवा यक्षा नरोत्तमाः ।
लिङ्गरूपिणमेकं मामर्चयन्ति दृढव्रताः ॥ ९१॥
धृतत्रिपुण्ड्राजितमानसार्था मनुष्यदेवर्षिचरा निरोहाः ।
मामेकमीशं शरणं प्रपन्नास्तिष्ठन्ति लिङ्गार्चन सक्तचित्ताः ॥ ९२॥
॥ इति शिवरहस्यान्तर्गते काशीस्थितज्ञानवापीरक्षकः दण्डपाणीतिहासकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ८ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 8 . vAvRRittashlokAH ..
Notes:
Śiva शिव narrates to Pārvatī पार्वती; about how the Yakṣa यक्ष named Harikeṣa हरिकेश, with intense devotion and penance appeased Him and was granted the boon to guard Jñānavāpī ज्ञानवापी at Kāśī काशी as Daṇḍapāṇi दण्डपाणि.
Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः.
Proofread by Ruma Dewan