काश्यि पापशान्त्यार्थं शिवप्रार्थना

काश्यि पापशान्त्यार्थं शिवप्रार्थना

- शिवपार्वतीसंवादे - सर्वपुण्यहरा शम्भो तत्पापं शान्तिमेष्यतु । कदाचिन्न कृतं दैवाच्छैववर्यस्य वन्दनम् ॥ ३६१॥ कदाचिदुदकं पीतमकृत्वा भस्मधारणम् । प्रमादेन महादेव तत्पापं शान्तिमेष्यतु ॥ ३६२॥ कदाचिच्छिवलिङ्गस्य निर्णेजनजलं शुभम् । न पीतं पार्वतीनाथ तत्पापं शान्तिमेष्यतु ॥ ३६३॥ कदाचिद्बिल्वपत्रेण भ्रमादेव हि सर्वथा । लिङ्गं नाभ्यर्चितं शम्भो तत्पापं शान्तिमेष्यतु ॥ ३६५॥ ज्ञानवापीजले रम्ये भ्रमेणैव कदाचन । न स्नानं कृतमीशान तत्पापं शान्तिमेष्यतु ॥ ३६५॥ कदचिन्न कृतं शम्भो दण्डपाण्यर्चनं मया । नार्चितो ढुण्ढिपालोऽपि तत्पापं शान्तिमेष्यतु ॥ ३६६॥ वीरेश्वरो भ्रमेणैव कदाचिन्नार्चितो मया । सर्वार्थतः कृपासिन्धो तत्पापं शान्तिमेष्यतु ॥ ३६७॥ श्रीमत्पशुपतीशोऽपि पशुपाशविमोचकः । कदाचिन्नार्चितः शम्भो तत्पापं शान्तिमेष्यतु ॥ ३६८॥ श्रीकालभैरवः शास्ता भ्रमैणैव कदाचन । नाराधितो सहादेवस्तत्पापं शान्तिमेष्यतु ॥ ३६९॥ प्रचण्डविघ्नसंहर्ता वक्रतुण्डेश्वरो मया । कदाचिन्नार्चितः शम्भो तत्पापं शान्तिमेष्यतु ॥ ३७०॥ शिवगङ्गाजलस्नानं कदाचिन्न कृतं मया । अलसेन विरूपाक्ष तत्पापं शान्तिमेष्यतु ॥ ३७१॥ ओङ्काराख्यं महालिङ्गं भ्रान्तेनैव कदाचन । मया नाभ्यर्चितं शम्भो तत्पापं शान्तिमेष्यतु ॥ ३७२॥ केदारेश्वरमाराध्यमनाराध्यैव संस्थितम् । मयाकदाचिद्विश्वेश तत्पापं शान्तिमेष्यतु ॥ ३७३॥ - - एवमुच्चार्य सकलानपराधान्यथाक्रमम् । ततः स्नात्वा ज्ञानवाप्यां पुनः सम्पूज्य मां ततः ॥ ३७४॥ वीरेश्वरादिस्थानेषु गत्वा सम्पूज्य सादरम् । पुनरभ्यर्चनं कार्यं मयि भक्तिपुरः सरम् ॥ ३७५॥ ततो मौनेन नियमात्कृताञ्जलिपुटैर्नरैः । दण्डपाणिं प्रणम्यैव गन्तव्यं मुक्तिमण्टपात् ॥ ३७६॥ ॥ इति शिवरहस्यान्तर्गते काश्यि पापशान्त्यार्थं शिवप्रार्थना सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । ३६१-३७६॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 361-376.. Notes: Prayer seeking pacification of inadvertent trespasses that one may have committed while in Kāśī काशी. Proofread by Ruma Dewan
% Text title            : Kashyi Papashantyartham Shiva Prarthana
% File name             : kAshyipApashAntyArthaMshivaprArthanA.itx
% itxtitle              : shivaprArthanA kAshyipApashAntyArtham (shivarahasyAntargatA)
% engtitle              : kAshyipApashAntyArthaMshivaprArthanA
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 361-376||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org