शिवप्रोक्तं क्षेत्रपूजनम्

शिवप्रोक्तं क्षेत्रपूजनम्

हिमालयनगोत्तमे हिमसुधाममौलिस्फुर- द्धिमाद्रिवरकन्यकाजटिलकान्तिकान्तं प्रभुम् । पयोधिसुतया हरिः पयसिजातपुष्पार्चनै- र्निनाय दिवसानुमे वरसुरङ्गकेदारगः ॥ ३४॥ ओङ्कारं समवाप्य भारतिपतिस्सन्नर्मदातीरगं पुष्पैर्बिल्वदलार्चनैश्श्रुतिगतैर्मन्त्रैस्स्तुवन्मामुमे । तत्याजाखिलपातकं हृदि गतं चाज्ञानमप्यन्तत - स्सृष्टिं प्रष्टुतया स्वकीयवदनैस्तुष्टाव चाष्टाकृतिम् ॥ ३५॥ रुद्रोऽविमुक्तपदवीमविमुक्तमेतत्सम्प्राप्य लिङ्गनिलयं वरगङ्गयापि । विश्वेश्वरं त्रिभुवनेश्वरमीप्सितारं त्वामम्बिकामगसुतां सुविशालनेत्राम् ॥ ३६॥ अभ्यर्च्य पुष्पनिकरैः पयसो रसैश्च नीरैश्च सेच्य वरबिल्वदलैस्समर्च्य । लेभेऽप्यलभ्यमपि वेदशिरः प्रतीतं ज्ञानं तदा सुविमलं नगराजकन्ये ॥ ३७॥ इन्द्रोऽप्यथामरसुकण्ठकमेतदेव देवं महेश्वरमुमे वरबिल्वपत्रैः । सम्पूज्य तच्छ्रुतिगतं विमलं मदीयं ज्ञानं सदोदितमखण्डमवाप्य तुष्टः ॥ ३८॥ यमोऽपि वरशैलके विमलगन्धमाद्रौ शिवं समर्च्य निजपातकैश्श्रुतिगतिञ्च लेभे शिवे । विमुक्तहृदयस्तदा त्रिदलबिल्वपत्रैश्शिवे स एव सुखसम्पदां प्रवरदक्षिणाशाधिपः ॥ ३९॥ श्रीशैलनायकमुमे प्रथिते प्रदोषे श्रीदं धनाधिपतिरर्च्य विमुक्तपापः । ज्ञानं च यक्षपतिरक्षममाप वीक्ष्य पक्षाश्रयेण विमलं सलभेत्सुमोक्षम् ॥ ४०॥ तावश्विनौ च करहट्टपुरं तदाप्य नागेशमर्च्य विविधैर्लभतां सुपुष्पैः । मोक्षं तथैव भिषजामधिपौ तथा तौ वेदं तथायुषमुमे समवापतुस्तौ ॥ ४१॥ वायुः कामदवैद्यनाथविपिनाधीशं समभ्यर्च्य मां बिल्वैः कोमलपुष्पनीरजलवैस्सम्पाप्य मोक्षं द्रुतम् । अग्निः पुष्करमीश्वरं त्रिभुवनाध्यक्षं समभ्यर्च्य वै सर्वंभक्षसमुद्भवं प्रथितमप्यंहोविमुक्तोऽम्बिके ॥ ४२॥ गोकर्ण समवाप्य ते हि मरुतः पूज्येश्वरं मां शिवे बिल्वैः कोमलपल्लवैश्च वसवो दित्यास्तवैस्तुष्टुवुः । श्रीमत्त्र्यम्बकमप्यगसुते ते द्वादशार्का हि मां होमैर्हुत्वा महेशि रुद्रास्त्वभिपूज्य त्रिदलैश्च बिल्वपत्रैः ॥ ४३॥ परिणतहिमधाममण्डलोऽपि शम्भुं हृदयाम्भोजसुपुण्डरीकवासम् । गोपर्वते समभिपूज्य तथैव शम्भुं मार्ताण्डकोऽपि गिरिजे समवाप मुक्तिम् ॥ ४४॥ काञ्चीं काञ्चितदित्कटां दिविषदस्त्वेकाम्रमूले हरं कामाक्षीमपि भोगभोग्यनिकरैस्सम्पूज्य मुक्तिं गताः । अन्येचापि ग्रहास्तथैव मुनयो देवासुरा मानवा गन्धर्वोरगयक्षराक्षसगणा मुक्तास्समभ्यर्च्य माम् ॥ ४५॥ श्रीकण्ठे तृणशङ्करे सुविहिते रत्नाद्रिमौलिस्थिते श्रीमातृप्रभवे गिरीन्द्रतनये श्रीकालहस्तीगिरौ । जम्बूलिङ्गकवेरजातटयुगे जप्ये तथा कुम्भके पुण्ये श्रीधवलार्जुने विधिपुहे श्रीवेदकाब्जे पुरे ॥ ४६॥ पुण्ये श्वेतवने मयूरविपिने छायावने शङ्करि सम्पूज्य त्रिदशेश्वरं गिरिजया मुक्तिं परां ते ययुः ॥ ४७॥ हालास्यनायकमुमे वरशालिवाटीनाथं च कान्तिमतिकाशपुरायताक्षीम् । देवाङ्गना समभिपूज्य हलीसलास्यैर्नृत्यन्ति हेमसरसीमवगाह्य मां त्वाम् ॥ ४८॥ मार्कण्डेयघटोद्भवौ घटहरं सम्पूज्य मृत्युं क्षणा- द्योजिग्ये भुवनेश्वरि त्रिभुवने मत्पादशूलाहतम् । स्कन्दस्स्वामिगिरौ समर्च्य गणपस्तद्दक्षिणावर्तके मामाराध्य गणाश्च भूसुरगणास्तत्रत्यलिङ्गेषु माम् ॥ ४९॥ क्षिप्रातीरनिकेतने मयि सदा नाम्ना महाकालजे सम्प्राप्यार्च्य गणत्वमाप सुकृतैर्मुक्तोऽप्यभून्मद्गणः । भृङ्गी नन्दिकचण्डिकौ बलिसुतः पौलस्त्यहुण्डादयो मामाराद्धय सदैव तुष्टुवुरुमे तन्मे समाकर्णय ॥ ५०॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं क्षेत्रपूजनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५६ - देवकृतक्षेत्रपूजनम् । ३४-५०॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 56 - devakRRitakShetrapUjanam . 34-50.. Notes: Śiva शिव outlines to Devī देवी, the various Śivakṣetra शिवक्षेत्र where Pūjā Archanā पूजा अर्चना are conducted unto Him. Encoded and proofread by Ruma Dewan
% Text title            : Shivaproktam Kshetrapujanam
% File name             : kShetrapUjanamshivaproktaM.itx
% itxtitle              : kShetrapUjanam shivaproktam (shivarahasyAntargatA)
% engtitle              : kShetrapUjanamshivaproktaM
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 56 - devakRitakShetrapUjanam | 34-50||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org