कैलासशैलप्राकारवर्णनम् २

कैलासशैलप्राकारवर्णनम् २

(कैलासशैले अष्टदिग्गोपुरवर्णनम् २) स्कन्द उवाच - नैरृते गोपुरं शम्भोः पञ्चलक्षप्रमाणकम् । रुद्राणां चरितैश्चैव शोभितं शिखरैरपि ॥ १॥ बाणस्तत्र महादेवमुपास्ते गणलक्षकैः । नवरन्नसरोभूषो महाप्रासादमध्यगः ॥ २॥ तदालयं रत्नकॢप्तं सहस्रस्तम्भमण्डितम् । तत्र बाणेश्वरागारं तेन लिङ्गं समत्तितम् ॥ ३॥ मण्डपैर्गोपुरैर्युक्तं त्रिकालं बिल्वपल्लवैः ॥ - - बाण उवाच - बाणेश शम्भो हरिबाणपाणे त्वं पाहि गङ्गाधर चन्द्रचूड । विश्वेश भर्ग मदनान्तक कालकाल मामद्य शङ्कर विभो गणनाथपूज्य ॥ ४॥ भद्राणि मे संविधत्स्वाद्य शम्भो दीक्षादिदक्षाध्वरध्वंसकाव । महेशान पञ्चाननेन्दुमकृष्टैकधाम प्रभो सम्प्रसीद प्रसीद प्रसीद ॥ ५॥ - - स्कन्द उवाच - इत्थं स्तौति गणेन्द्रोऽसौ बाणो बाणेश्वरं शिवम् । नैरृते गोपुरे तत्रप्रासादवरमध्यगः ॥ ६॥ अस्ताद्रिः पारियात्रश्च पश्चात्प्राकारसन्नगाः । तत्रैव गोपुरं शम्भोर्दशलक्षैकयोजनम् ॥ ७॥ पट्टिकादेववगोष्ठैश्च स्तम्भैः कुम्भैश्च कोणजैः । रुद्रावताराक्रीडाभी रचितं वृषभैर्वृतम् ॥ ८॥ तलानाञ्च सहस्रेण निर्मितञ्चित्रवेदिकम् । सुवर्णरत्नकलशैः कैलासादतिमुन्दरम् ॥ ९॥ तत्रास्ति सौधप्रवरं सहस्रस्तम्भमण्डितम् । मणिमाणिक्यखचितं दिव्यसिह्मासनैर्वृतम् ॥ १०॥ धूपदीपादिबहुलं भक्ष्यभोज्यसमन्वितम् । तत्र भृङ्गी महातेजा भस्मोद्धलितविग्रहः ॥ ११॥ त्रिपुण्ड्रविलसद्भालो मणिमाणिक्यकङ्कणः । चन्द्रार्धशेखराबद्धराजत्पिङ्गजटाधरः ॥ १२॥ सिह्मासनस्थो वरदो गन्धर्वैर्गणपैर्वृतः । वरुणादिसुदिक्पालैर्गरुडैरप्सरोगणैः ॥ १३॥ सेवितो रत्नसौधस्थो दशलक्षगणैर्वृतः । वासुकिश्शङ्कपालश्च कम्बलाश्वतरौ तथा ॥ १४॥ शेषश्च तक्षकश्चैव दैत्यनाथा नृपास्तथा । उपासते भृङ्गिरिटिश्शिवध्यानहताशुभः ॥ १५॥ तत्रास्ति गर्भभवनं प्राकारवरगोपुरम् । भृङ्गीश्वराख्यं लतल्लिङ्गं सम्पूज्य स्तौति भक्तितः ॥ १६॥ पञ्चामृतैः फलरसैः पञ्चगव्योदकैरपि । चन्दनैः पुष्पमालाभिर्बिल्वमन्दारचम्पकैः ॥ १७॥ धूपैर्दीपस्तथापुष्पैर्नैवेद्यैर्मुखवासजैः ॥ १८॥ - - भृङ्गी उवाच - भृङ्गीगीश मे मनसिजस्तवपादपद्मभृङ्गो भवत्वनुदिनं सरसानुमोदः । प्राप्नोतु भक्तिमखिलां तव पादपद्मे माया तु यातु दुरितिं चरितन्तवेश ॥ १९॥ श्रीशङ्करामयहरेश्वर विश्वमूर्ते विश्वाधिकेश करसङ्गिकुरङ्गबाल । मन्दारकुन्दनवचम्पकबिल्वमाला दिव्योत्तमाङ्गदशुभुजङ्ग सुरेश पाहि ॥ २०॥ - - स्कन्द उवाच- इत्थं स्तौति सदाकालं शङ्करं लोकशङ्करम् । गणानां शतलक्षैश्च स्वसमानैः परीवृतः ॥ २१॥ वायव्ये गोपुरं शम्भोः पञ्चलक्षप्रमाणतः । रुद्रावतारक्रीडाभिरन्वितम्मणिवेदिकैः ॥ २२॥ रत्नकुम्भशताकीर्णं वायुधूतपताकम् । वृषभालङ्कृतं दिव्यं तत्र सौधं महात्मनः ॥ २३॥ सहस्रस्तम्भसंयुक्तं हेमासनसमाश्रितम् । रिटिरास्ते शिवध्यानविधूताखिलहृत्तमः ॥ २४॥ भस्माभ्यक्तस्त्रिपुण्ड्राङ्को रत्नाकल्पविभूषितः । सोमार्धशेखरोद्भासिमुकुटो वायुसेवितः ॥ २५॥ द्विलक्षगणपैश्चैव रुद्रवृन्दैर्निषेवितः । तत्र गभेगृहं शन्भो रिटीशाख्यमहेशितुः ॥ २६॥ प्राकारगोपुरोपेतं धूपैर्दीपैर्मनोहरैः । जातीमल्लिकमन्दारबिल्वैरभ्यर्च्य शङ्करम् ॥ २७॥ कृताञ्जलिपुटस्स्तौतिरिटीशम्भक्तिभावितः । समुद्यत्पुलको देवं त्रिकालं लिङ्गसंस्थितम् ॥ २८॥ - - रिटिरुवाच - विश्वेश विश्व मदनान्तक विश्वमूर्ते गौरीवरामरभुजङ्गफणाभिराम । गङ्गाधरान्तकरिपो प्रमथाधिनाथ पाहीश मामकधियाद्य ललामसोम ॥ २९॥ - - स्कन्द उवाच - इत्थंस्तौतिरिटिर्भक्त्यारिटीशं मुदितान्तरः । ततोत्तरे च प्राकारे संस्थिताश्चकुलाचलाः ॥ ३०॥ दुन्दुभिर्मन्दरो नाम्ना पर्वतो रैवतस्ततः । तत्रापि गोपुरं शम्भोर्दशलक्षोर्द्वगं स्थितम् ॥ ३१॥ सहस्रतलसंयुक्तं पट्टिकावेदिकान्वितम् । रत्नश‍ृङ्गाग्रविलसद्धूयमानपताककम् ॥ ३२॥ रुद्रावतारक्रीडाभिरन्वितं वृषभैरपि । तत्रास्ति सौधप्रवरं माणिक्यतलकुट्टिमम् ॥ ३३॥ सहस्रकनकस्तम्भैर्निर्मितं वनराजितम् । हेमसिह्मासनैर्युक्तं धूपगन्धानुमोदितम् ॥ ३४॥ मणिप्रभाभासितञ्च तिरस्कृतनभोङ्कणम् । (मणिप्रभाभासितञ्च तिरस्कृततमोगुणम् ।) कालाग्निरुद्रस्तत्रास्ते यक्षेशैच निषेवितः ॥ ३५॥ भस्मरुद्राक्षवीताङ्गो मुक्तामाणिक्यभूषणः । मुकुटोद्यत्सुधाधामखण्डोज्वलितवक्त्रकः ॥ ३६॥ त्रिपुण्ड्ररेखाविततभालभागमनोहरः । त्रिशूलपाणिर्वरदो हेमसिंहासनस्थितः ॥ ३७॥ कुबेरेण च देवैश्च पञ्चलक्षगणैरपि । हेतिपाशमहाशूलधरैस्तैरहिमन्युभिः ॥ ३८॥ तत्रागारं महेशस्य कालरुद्रेश्वरस्य च । प्राकारगोपुरयुतं धूपदीपशतावृतम् ॥ ३९॥ नैवेद्यैश्चन्दनैश्चैव बिल्वमन्दारपङ्कजैः । सम्पूज्य परया भक्त्या स्तौति देवं पिनाकिनम् ॥ ४०॥ - - कालाग्निरुद्र उवाच - त्रियम्बक सदाशिव त्रिपुरमारकालान्तक त्रिशूलवरपाशसंयुतकराद्रिबाणासन । (त्रियम्बक सदाशिव त्रिपुरमार कालान्धका- द्यपारसुरशत्रुहन्हरिशराद्रिबाणासन ।) प्रसादजनितानन प्रकटचण्डधामागम सुधांशुकशिखण्डक सुरसनाथ मां पालय ॥ ४१॥ - - इतिस्तौतिप्रहृष्टात्माकालरुद्रोमहेश्वरम् । तस्यप्राकारकोणेचाप्यैशान्यां दिशिसंस्थितः ॥ - - ॥ (shloka numbering error in source text) वीरभद्रस्सदैवास्ते गणलक्षैः परीवृतः । तदुत्तरं हि कैलासं तत्र गोपुरमुत्तमम् ॥ ४२॥ पञ्चलक्षप्रमाणेन वेदिकापट्टिकान्वितम् । सुर्वर्णरत्नखचितं कलशेश्शोभितं मुने ॥ ४३॥ रुद्रावतारवृषभैश्शोभितं तन्मनोहरम् । तत्र सौधवरे कॢप्ते सहस्रस्तम्भमण्डपे ॥ ४४॥ हेमरत्नचिते दिव्यहेमसिंहासन(ने)स्थितः । इशानेन च रुद्रैश्च गणलक्षसमन्वितः ॥ ४५॥ भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्रपरिचिन्हितः । राजद्रत्नाङ्गदैर्युक्तो मणिरुद्राक्षहारकः ॥ ४६॥ मुकुटोद्यत्सुधाधामखण्डार्धजटिलालकः । सदाशिवार्चकवरश्शूल्हस्तोहि भैरवः ॥ ४७॥ तत्रैकं भवनं शम्भोर्वीरभद्रेश्वरस्य च । नवरत्नाङ्कितं दिव्यं प्राकारवरगोपुरम् ॥ ४८॥ धूपामोदितदिक्चक्रं मणिद्युतिविराजितम् । तल्लिङ्गं पूज्येत्व बिल्वमन्दारचम्पकैः ॥ ४९॥ दीपोपहारधूपैश्च चन्दनेनाक्षतादिभिः । स्तौति हृष्टस्त्रिकालं स तल्लिङ्गं पारमेश्वरम् ॥ ५०॥ - - वीरभद्र उवाच - क्षयद्वीर दक्षाध्वरध्वंसकाशावसेशान चाशाविहीनेति तुष्टः । त्वमेवासि भद्रं त्वमेवास्य भद्रं सताञ्चासतामाशु मां मोक्षयाद्य ॥ ५१॥ - - इत्थं स्तौति सदाशम्भुं वीरभद्रो गणाग्रणीः । शैलावरणमेतद्वै शम्भोश्शिवगणाश्रयम् ॥ ५२॥ दशलक्षप्रमाणेन परिधाकृतिविस्तरम् । गोपुरार्बुदकोपेतं रम्यमण्डपमण्डितम् ॥ ५३॥ सहस्रनियुतस्तम्भैः कुम्भैश्चापि समन्वितम् । रम्यलिङ्गालयोत्तुरङ्गराजद्वृषभशेखरः ॥ ५४॥ धगद्धगितदिक्चक्रं शैलावरणमीशितुः । व्यायामायतदीर्घञ्चाप्येतद्बोऽभिहितं मया ॥ ५५॥ एवमाभ्यन्तराः कॢप्ताः प्राकारवरगोपुराः । सहस्रप्रमथाधीशैस्सप्तसागरमध्यगैः ॥ ५६॥ शैलद्वीपसरिद्भिश्च निर्मितं विपिननैरपि । ध्यात्वा ध्येयमिदं विप्रगणो भवति शाङ्करः ॥ ५७॥ स्कन्द उवाच - नेव प्राकारमध्ये हरविधिहरयो नो गणा नापि वातो नो चन्द्रो न सूर्यरश्मिनिचयोनाग्नित्रयं नो सुराः । एकस्तत्र महेश्वरो विहरति स्वैरं सहाम्बो मुदा तद्वेदैरपि वक्तुमेव न भवेत्कावा कथान्यस्य हि ॥ ५८॥ शरशरधिरथाङ्गं यन्तृयानं वहा वे धनुवरमथ तज्या वैरिवर्गं रथीच । हरिविधिश्रुतयः क्ष्मा पुष्पवन्तौ तथाब्धिर्नगवर उरगेन्द्रस्रैपुरं श्रीमहेशः ॥ ५९॥ निश्वासश्रुतिरेक एव भगवानास्ते सहाम्बो भव- स्तस्यापारविचित्रसर्गबहुळास्स्वाभाविकाश्शक्तयः । तस्यानन्दघनस्य भक्तिपरमा भावा गणास्ते द्विजा ब्रह्मेन्द्रादिमरुत्पदेषु विहितास्सक्ता महेशाचने ॥ ६०॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले अष्टदिग्गोपुरवर्णनम् २॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १५ - शैलप्राकारवर्णनम् ॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 15 - shailaprAkAravarNanam .. Notes: Skanda स्कन्द continues to describe in detail to Jaigīṣavya जैगीषव्य, about the regions of Mount Kailāsa कैलास शैल प्राकार as having also the residences of (and the Śivaliṅga-s शिवलिङ्ग worshipped by) Bāṇa बाण (Bāṇeśvara बाणेश्वर ), Bhṛṅgī भृङ्गी (Bhṛṅgīśvara भृङ्गीश्वर), Riṭī रिटी (Riṭīśa रिटीश), Kālgnirudra काल्ग्निरुद्र (Kālarudreśvara कालरुद्रेश्वर), Vīrabhadra वीरभद्र (Vīrabhadreśvara वीरभद्रेश्वर) in remaining directions of the eight - Southwest onwards. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasashailaprakaravarnanam 2
% File name             : kailAsashailaprAkAravarNanam2.itx
% itxtitle              : kailAsashailaprAkAravarNanam 2 (shivarahasyAntargatA)
% engtitle              : kailAsashailaprAkAravarNanam 2
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 15 - shailaprAkAravarNanam ||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org