कैलासेश्वरलिङ्गपूजाकथनम्

कैलासेश्वरलिङ्गपूजाकथनम्

स्कन्द उवाच - तल्लिङ्गजातास्सर्वेऽपि भुवनानि चतुर्दश । तल्लिङ्गजाता देवाद्या ब्रह्मविष्णुहरादयः ॥ १॥ तल्लिङ्गे संस्थिता लोकास्सप्तद्वीपवनाकराः । प्रलयेऽपि लयं यान्ति सर्वे लोकास्सुरैस्सह ॥ २॥ लयनाल्लिङ्गमित्युक्तं लीनं यस्मिञ्जगद्रुतम् । तस्माल्लिङ्गं मुने प्रोक्तं तत्कैलासेश्वरसञ्ज्ञितं ॥ ३॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । भूमौ तच्च महालिङ्गं प्रतिष्ठापुच्छमेवतु ॥ ४॥ एकं ब्रह्मैव तल्लिङ्गमलिङ्गमपि भूसुराः । तदेव ज्योतिषां ज्योतिस्तद्वै चेतनचेतनम् ॥ ५॥ तल्लिङ्गं सत्यमानन्दमखण्डैकरसंसदा । तल्लिङ्गदर्शने वाऽपि नवाग्गच्छति नो मनः ॥ ६॥ नेति नेति च वेदान्तैस्तल्लिङ्गं प्रतिपाद्यते । तदेव ब्रह्म त्वं विद्धि नेह नानास्ति किञ्चन ॥ ७॥ ऋतं सत्यं परं ब्रह्म तदात्मामनसोऽतिगम् । निरिन्द्रियं निष्कलङ्कमसङ्गमजरं हि तत् ॥ ८॥ प्रभुं समस्तभूतोत्थसर्वधर्मविवर्जितम् । आकाशं तदनाकाशं साकारञ्च निराकृति ॥ ९॥ कारणं कारणानाञ्च ब्रह्म तल्लिङ्गमेवहि । नामरूपातिगं शान्तं गुणातीतं गुणास्पदम् ॥ १०॥ अपाणिपादमत्यच्छमानन्दघनमद्वयम् । शिवस्य निर्गुणं रूपमदृश्यमकृतात्मभिः ॥ ११॥ तदेव व्यापकं भाति तल्लिङ्गन्तमसः परम् । तन्न वेदैश्च वेदान्तैर्गुरुभिश्श्रुतिभिस्तदा ॥ १२॥ नप्राप्यं सर्वदा सर्वैर्द्रष्टुं तच्चाप्यथा श्रितुम् । तदेव देवदेवस्य निर्गुणं रूपमद्भुतम् ॥ १३॥ निर्गुणञ्चाऽपि लोकानां दृष्टिगोचरवत्स्थितम् । तल्लिङ्गं सर्वदा शम्भुर्देव्या पूजयतिस्वयं ॥ १४॥ बाह्यैराभ्यन्तरैश्चाऽपि पूजाभिः परमेश्वरः । त्रिणेत्रो नीलकण्ठश्च चन्द्रार्धकृतशेखरः ॥ १५॥ अहम्भावादिरहितो भावाभावविवर्जितः । अहं ब्रह्मैवेदमिति यं वदन्ति नरामराः ॥ १६॥ (अहं ब्रह्मैवेदमिति तुर्यातीतोऽजरोऽमरः) ॥ १६॥ ध्यानध्येयातिगो भूत्वा स्थितस्समहिमातिगः । एवं सम्भावयन्देव्या शिवएव हि केवलः ॥ १७॥ तमः परो महादेवो देव्या सगुणनिर्गुणः । पूजां बाह्योपचाराद्यैर्मनोवाचामगोचरः ॥ १८॥ कल्पयत्येव मनसा सर्वकालेषु शङ्करः । प्रदोषेषु विशेषेण कैलासे चन्द्रशेखरः ॥ १९॥ तत्पूजां सावधानेन समाहितमनाश्श‍ृणु । चतुर्देहातिगो भूत्वा सर्वेन्द्रियविवर्जितः ॥ २०॥ अहम्भावं परित्यज्य शिवोऽहं केवलोऽद्वयः । व्याप्येषु व्यापकश्चाहं गुणेषु निहतोस्म्यहम् ॥ २१॥ नान्तो नचादिस्सकलचाहं विश्वं सदैवहि । विश्वातीतोहमजरोऽसङ्गोऽसङ्गविवर्जितः ॥ २२॥ व्यापकोऽहं सदा पूर्णो गुणजालविवर्जितः । नीरूपो विश्वभूतात्मा देहधर्मविवर्जितः ॥ २३॥ आकाशो व्यापकश्शीर्यश्शीर्णेष्वहमवस्थितः । सत्यं ज्ञानोऽहमानन्दो बोधबोधकवर्जितः ॥ २४॥ मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ २५॥ इत्येवं भावयन्धीरो बाह्ये लिङ्गं समर्चयेत् । धृतभस्मत्रिपुण्ड्राङ्को रुद्राक्षवरभूषणः ॥ २६॥ पञ्चास्यध्याननिरतः पञ्चाक्षरपरायणः । प्राङ्मुखोदङ्मुखोवाऽपि स्थितश्चेलकुशासने ॥ २७॥ ध्यात्वा स्वहृत्पद्मसंस्थं शुद्धस्फटिकसन्निभम् । प्रसन्नास्यं त्रिणयनं त्रिपुण्ड्रपरिशोभितम् ॥ २८॥ चन्द्रार्धमुकुटं देवं नीलग्रीवमुमापतिम् । आवाहयेद्बाह्ययलिङ्गे स्फाटिके बाणधातुजे ॥ २९॥ मृल्लिङ्गे सिकतायाञ्च पूजयेत्स्थावरेऽपि च । पञ्चामृतैः पञ्चगव्यैर्नीरधारादिभिश्शिवम् ॥ ३०॥ पञ्चब्रह्मैः पावमानै रुद्रैर्वेदसमुद्भवैः । अभिषिच्य प्रयत्नेन सामभिश्च महेश्वरम् ॥ ३१॥ वस्त्रैरावेष्ट्य तल्लिङ्गं गन्धलेपेन लेपयेत् । अक्षताभिस्तथा रत्नगोलकैर्भूषयेच्छिवम् ॥ ३२॥ बिल्वपत्रैश्च कह्लारैश्चम्पकैः करवीरकैः । पुष्पैरारण्यकैश्चैव तथान्यैश्च सुगन्धिभिः ॥ ३३॥ धूपैश्च दीपैर्नैवेद्यैस्ताम्बूलैर्मणिदीपकैः । नीराजनैश्छत्रमुख्यैश्चामरैर्व्यजनैरपि ॥ ३४॥ प्रणामस्तोत्रपठनैः प्रदक्षिणसुनर्तनैः । पुनः प्रदक्षिणैश्चैव पञ्चाक्षरजपैस्तथा ॥ ३५॥ हृत्पद्मे सन्निवेश्येशं पूजोद्वासनमारभेत् । एवं पूजाविधानेन पूजयेत्परमेश्वरम् ॥ ३६॥ एककालं द्विकालं वा त्रिकालं योऽर्चयेन्नरः । स एव लभते ज्ञानमाभ्यन्तरवरार्चनैः ॥ ३७॥ कैलासेश्वरलिङ्गमेतदमलं स्वर्गापवर्गप्रदं तन्नैवाखिलवेदजालतिलकैर्ज्ञातुं न तत्पार्यते । ईशेनापि गजाननेन च मया देव्या गणेन्द्रैरपि विष्णुब्रह्महरामरैर्मुनिगणैस्तन्त्रैस्तथैवागमैः ॥ ३८॥ तल्लेशायुतलेशलेशमहिमा कोट्यंशकोट्यंशकं वक्तुं श्रोतुमथेक्षितुं त्रिभुवने नास्तीति मन्ये द्विज ॥ ३९॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासेश्वरलिङ्गपूजाकथनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३६ - कैलासेश्वरपूजाविधानकथनम् । १-३९॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 36 - kailAseshvarapUjAvidhAnakathanam . 1-39.. Notes: Skanda स्कन्द describes about the Saguṇa सगुण and Nirguṇa निर्गुण aspects of Śiva शिव; and details about the Bāhyābhyantara pūjā बाह्याभ्यन्तर पूजा (External and Internal worship) process of Kailāseśvaraliṅga कैलासेश्वरलिङ्ग. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailaseshvaralingapujakathanam
% File name             : kailAseshvaralingapUjAkathanam.itx
% itxtitle              : kailAseshvaraliNgapUjAkathanam (shivarahasyAntargatam)
% engtitle              : kailAseshvaralingapUjAkathanam
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 36 - kailAseshvarapUjAvidhAnakathanam | 1-39||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org