कैलासेश्वरप्रदोषपूजावर्णनम् ३

कैलासेश्वरप्रदोषपूजावर्णनम् ३

(देव्याप्रति ईश्वरप्रोत्क्तं कैलासेश्वरप्रदोषपूजाकथनम् ३) ईश्वरः - कुम्भैरम्भोधराच्छच्छविजितधवलैः पूरितैः क्षीरवार्द्धौ पर्वोद्यच्छशिसन्निभैस्स्फटिकजैः कोट्यावधीसङ्ख्यया । तत्क्षीरोत्तममण्डसारसुभगैस्सिञ्चामि लिङ्गे मम कैलासेश्वरनामके जनिजरारोगापहे शङ्करि ॥ ३३॥ आनीतं मम तत्पयोम्बुधिभवं वीरैर्गणेन्द्रेश्शिवे सद्वृत्तामलधारया जनिमुमे तुष्टः प्रदोषेष्वहम् । कष्टानि प्रसभं हारामि सुकृतां राशिन्दिशामि क्षणा- त्सिञ्चन्लिङ्गसुपूजकाय गिरिजे तस्मादहं पूजये ॥ ३४॥ दद्ध्यम्भोनिधिसम्भवैर्निबिडितं तत्खण्डमण्डं दधि प्रोद्यड्डिण्डिममण्डलाभमगजे दत्वा स्वलिङ्गोत्तमे । गोदोहप्रथिते प्रदोषसमये सन्दारिताघौघके कार्यं पूजनमेतदेव समये सर्वैस्सुरैरप्यहम् ॥ ३५॥ तल्लिङ्गं परिपूजयामि वसुधाधृग्धुर्यमौलौ निश- ञ्चोत्तुङ्गामलरत्नकुम्भविलसत्प्राज्याज्यधारादिभिः । स्वाज्याम्भोधिसमाहृतैर्मम गणैस्सङ्ख्यातिगं तद्धृतं- तत्राज्यामलगन्धसारसुभगा गन्धीकृतास्तादिशः ॥ ३६॥ सिञ्चामि प्रभसं सुगोघृतघनैः कैलासलिङ्गं मम मध्वम्भोधिसमाहृतैर्मणिघटैर्माध्वीकसारं मधु । गर्भोद्यन्मणिसारकान्तिसुभगैर्गोमेदकाच्छप्रभै- स्सिञ्चाम्यद्रिवरात्मजे सुमधुराधारेयगर्भं मधु ॥ ३७॥ धाराकारमदीयलिङ्गशिरसि हर्षेण पश्याम्बिके शैलोद्दामशिखानिभाश्शिखरितादुत्तुङ्गसारोपमाः । प्रालेयाचलमौलिसारसुभगाश्चापाण्डुराश्शर्करा दत्वा तन्मम लिङ्गमौलिविलसच्चन्द्रांशुधारा समम् ॥ ३८॥ हर्षाप्लाविहृदन्तरः प्रतिदिनं हृष्यामि पश्याद्रिजे कुल्पास्तत्र मनोरमाद्रितनये नारेलनीलोद्भवाः । ताभिस्सम्भृतसद्धटादिविततैर्लक्षैः प्रवाहाकुला तल्लिङ्गासेकनीरैः प्रवहति मधुजा देवगङ्गेति नाम्ना ॥ ३९॥ सर्वे विष्णुपितामहेन्द्रवरुणाश्चानन्दभक्त्या वृता- स्तीर्थं तीर्थपरम्परैकफलदं ज्ञात्वानुभूयापि ते । सेवन्ते सततं नितान्तमगजे जेतुं पुनस्संसृतिं- तुङ्गाघौघतरङ्गभङ्गसुभगास्तस्यान्तरास्ते सुराः ॥ ४०॥ सप्तछदाच्छफलशैलवरोऽद्रिकन्ये कॢप्तो मया सुगुरुपीततरश्च मेरोः । तज्जैस्त्वगाररहितैश्शशिखण्डमौलिलिङ्गार्चनस्य फलमेव जनुर्भवानि ॥ ४१॥ उत्तुङ्गसालसुरसालरसालसारैर्निष्टप्तहेमझरिसोदरगर्भजातैः । तल्लिङ्गसेचनमुमे सुघटैः करोमि पुंसामपि प्रमथनाथपदं ददाति ॥ ४२॥ देवि स्त्रीकुचसन्निकाशलिकुचापारप्रभागन्धज- स्फारासारमहारसादिकलशैस्संसेचयाम्यम्बिके । कैलासाचललिङ्गमौलिविलसलिङ्गैकसद्भूषणं लिङ्गन्त्वेतदपारगन्धलुलितैर्नीरैश्च गन्धोदकैः ॥ ४३॥ इक्षुसागरमहोर्मिभिरीशे लिङ्गमौलिरियमेव विशिष्टा । सिक्तये घटसहस्रसुधारा कारिता गिरिसुते कमनीया ॥ ४४॥ कोशैः काननसम्भवैर्मधुझरीसारातिसारस्स्फुटं निर्यत्पीततरातिकान्तिनिवहैर्गन्धीकृताशामुखैः । तत्कोशामलराशिभिर्गिरिसुते सञ्छन्नमैशं शिरः पश्यामि प्रथितेक्षणः पूकटिते पुण्ये प्रदोषे मम ॥ ४५॥ कस्तूरीघनसारकुङ्कुममहापाटीरसारैर्घटै- श्चन्द्रासारविलोलिताम्बुघटितैस्सत्पाटलामोदितैः । श्रान्ता मे गणपुङ्गवाश्च नितरां पुण्ये प्रदोषे मम स्वादूदामलनीलधारितघटोद्वाहे परं शैलजे ॥ ४६॥ शङ्खानाञ्च सहस्रकैर्मणिचितैर्गोश‍ृङ्गधारादिभिः क्षीराज्यादिमधुप्रवाहजलधिप्लुष्टैश्च तैलैरपि । तद्गन्धोत्तमपिष्टलेपनगतश्रीचिक्कणाघर्षणै- श्श्रीपत्रैर्मृदुसारसूक्ष्मतृणकैरुत्पञ्चगव्यैरपि ॥ ४७॥ सौवर्णोत्तमकुम्भसम्भवमहाधारासहस्त्रैश्शतै- रर्घ्यै रत्नसुवर्णकल्पितकुशाग्राम्बूद्भवैस्तज्जलैः । अष्टाङ्गार्घ्यककल्पितैस्सुमधुरैर्गर्भाम्बुकुम्भैश्शिवे संसिच्याखिलमिन्दुकुन्दजमहापाटीरसत्पाटलाः ॥ ४८॥ मोदोत्थाम्बुदसन्निभैश्च कलशैस्तौर्यत्रिकोद्भावनै- र्धूपैश्चापि महामधूत्थमधुपर्कासारपारैरपि । प्रदोषसमये मया शरदुदीचराकाशशि प्रकाशचयसौहदैर्विर(म)लकुड्मलैरन्धसाम् ॥ ४९॥ मदीयरजताचलप्रकटशङ्किभाराशिभि- स्सुधाकरकलालसल्ललितलिङ्गमौल्पर्पितैः । वेदाश्चत्वार एते प्रथिततमयशस्स्तोमधारानुरागा- स्स्वादूदामलनीरसेचनविधौ शाखाशिखाभिः क्रमात् ॥ ५०॥ रुद्राणां स्तवनेन मामपि शिवे सन्तोषयन्तस्स्थिता मूर्तास्ते विहिताग्रपङ्कजकरा विश्वासभूता मम ॥ ५१॥ घनरसमृगनाभिसारधारामृगमदपटलीपटीरचन्द्रगन्धैः । परिवीतं भुजगेशसन्निवीतं प्रभया कोटिशशाङ्कसूर्यतुल्यम् ॥ ५२॥ गोत्राधिराजतनये विनयेन पश्य सम्पश्यदात्मगतिसौख्यदमेकभास्वत् । घुमुघुमितसुगन्धगन्धिताशामुखमुखरैः परिलिप्य लिङ्गमेतत् ॥ ५३॥ परिहृष्टो नितरां भवामि गौरि त्रिदशालभ्यसुगन्धयक्षकर्दमैः । मणिजालाततरत्नकूलचित्रैः परिधायामलस्वर्णसद्दुकूलैः ॥ ५४॥ शिवलिङ्गं मम शैलराजकन्ये परिपश्यामि सुगन्धिगन्धवस्त्रैः । ब्रह्माण्डगोलकमुमे प्रभया न तुल्यं मल्लिङ्गगोलकवरोत्तमरत्नधारा ॥ ५५॥ सावधूतशशिमौलिकलाललामन्तद्रत्नमौल्यकलने न विधिर्न विष्णुः । यक्षाधिपोऽप्यगसुतेऽद्य विकुण्ठिताक्षः केऽन्ये क्षमा वद समानहृदा निरीक्ष्य ॥ ५६॥ यद्दर्शनेन समदुःखविरामणं स्याद्यद्रत्नवर्यनिचयैर्मुकुटातिशोभम् । पूरिताखिलजनाजनिकामं वामदेवमिह पश्य सुकामम् ॥ ५७॥ फणामणि सहस्रकैर्विधृतवक्त्रमुक्ताफलैः प्रभाततसभावली मणिगणात्तकान्त्या युतम् । त्रिपुण्ड्रनिटिलोल्लसत्तिलकिताच्छसद्धीरकं प्रपश्य गिरिकन्यके विमलमौलिलिङ्गं मम ॥ ५८॥ सहस्रमुखसत्फणिप्रवरमौलिमाणिक्यस- द्द्युतीविजितकान्तितो मम स्वभोगसंवेष्टितैः । फणाछविकृताम्बरछविजितायसच्छत्रकं शिवे शिरसि मे सदा दधति लिङ्गमोलौ मम ॥ ५९॥ विश्वेश्वराख्यवरलिङ्गसमानमानमानन्दसौख्यदमिदं मम सुप्रियेयत् । हन्तुं समग्रजनपातकराशिमेव सर्वार्थराशिदमिदं परिपूजयामि ॥ ६०॥ नानामणिद्युतिसरावलिभूषितन्तन्मल्लिङ्गमेव कमलाच्छदृशा प्रपश्य । पुण्ये प्रदोषसमये मुदितस्त्वयाऽहं तल्लिङ्गमध्यभवने महिमास्थितोऽहम् ॥ ६१॥ विकसितसितपद्मरत्नकञ्जमालानवनीलोत्पलजैस्सहस्रमालिकाभिः । मधुबन्धुरगन्धदिव्यगन्धैस्सितमन्दारजरक्तमालिकाभिः ॥ ६२॥ दिनान्तसमयोल्लसन्मधुरगन्धजातीसरै- र्वसन्तकलिकास्फुरन्मधुरगन्धमल्लीसरैः । विकुण्ठितमिदं मम प्रकटसोमधामप्रभा- समुत्थमगकन्यके विमलद्रोणमालायुतम् ॥ ६३॥ कदम्बवननीपजस्फुरदपारमालाभरै- र्विलोलवरपीठगं प्रकटमौलिलिङ्गं शिवे । प्रपश्य नयनाञ्चलैर्विकचमञ्जरीकप्रभैः प्रदोषसमयेऽम्बिके नयनजन्मनस्तत्फलम् ॥ ६४॥ तद्बिल्वरत्नकमलैरमलैर्भवानि पुन्नागनागनवचम्पकदूर्वयापि । नीलोत्पलैर्दमनकैः करवीरजातिद्रोणार्ककाशजवकैः कनकैस्समर्च्य ॥ ६५॥ सत्पुण्डरीकवकुलैर्धवकर्णिकारमालूरकुन्दकुसुमैरतिहर्षतोऽहम् । राजीवामलमल्लिकासुमसरस्फारोत्थगन्धान्धकै- र्लोलम्बेर्विकसत्सुमोत्थमधुपैः पश्याम्बिके पूजितम् । एतल्लिङ्गवरं प्रदोषसमये बिल्वीदलोत्तंसकं धुत्तूरेण हि शोभतेऽद्य नितरां मौलिस्थचन्द्राधिकम् ॥ ६६॥ अगरुतरुजातधूपधूमैर्बहुलामोदविकासिदिक्समूहैः । मरुदाकुललम्बितोरुधाराविकसत्स्वर्गपथाः प्रचारजालैः ॥ ६७॥ सुवर्णमणिभाजने शिशुनभोद्यदम्भोजिनी- प्रियांशुचयसङ्क्रमिप्रकटदाक्ष्यरत्नांशुभिः । मनोरथपथातिगैर्मम सुलिङ्गमालायितै- स्सुपाण्डरशशिप्रभैर्हिमतुषारकुन्दप्रभैः ॥ ६८॥ सुचन्द्रवरखण्डकैर्विरचितोरुदीपावली- सुगोघृतसुवर्तिकोज्वलसुदीपजालैरपि । गृहाङ्कणतमस्ततिप्रविददारद्दत्यादरै- रखण्डतरमण्डनैः प्रथितपद्महंसोपमैः ॥ ६९॥ सुतारकगणावलीललितमुक्तजालप्रभै- र्विलोकय गिरीन्द्रजे मम सुमौलिभासङ्करैः । नानाभक्ष्यमहाद्रिगन्धसुरसाश्चमोदितास्तादिश- स्सुखागन्नजराशिभिश्च घृतजैस्सूपप्रवाहैश्शिवे ॥ ७०॥ शाकैश्शैलनिभैर्मधुप्रमथितैः क्षीरादिदध्योदनैः प्रालेयाचलसन्निभैस्सुगुडकैर्नैवेदितैश्शङ्करि । नारिकेललिकुचैस्सुकपित्थैर्मातुलिङ्गकदलीसुरसालैः ॥ ७१॥ खर्जूरैर्बदरीसुगन्धजरसैडिम्बनारङ्गकैः कङ्कोलामलकैस्सुरादनफलै राजादनैर्जातिकैः । नैवेद्येक्षुजकाण्डकैर्गिरिवराज्जाते मुदे मे भवे- त्ताम्बूलैः खदिरैर्लवङ्गमुखरैर्जातीफलैलायुतैः ॥ ७२॥ मुक्ताचूर्णसुपूर्णपूगमधुरैः कर्पूरसंवासितै- रुत्फुल्लामलनागवल्लिजदलैः प्रोद्यद्गिरीन्द्रप्रभैः । नैवेद्यं परिकल्पयामि गिरिजे तस्मिन्प्रदोषे ह्यहं वीणानिक्वणमञ्जुमञ्जुलसुधाधारासमैर्गायनैः ॥ ७३॥ मन्नामामृतमीश्वरेश्वरि मुदा रुद्राणिभिः कल्पितं शम्भो शङ्कर धूर्जटे त्रिणयन कालान्धकारे हर । पाहीश प्रमथाधिनाथ महिमन्लिङ्गाकृते पाहिनो रत्नैः कल्पितमद्दलध्वनियुतैश्शङ्खोत्थनादैश्शिवे ॥ ७४॥ प्रोद्यत्काहलनिस्वनैर्मधुरितं तन्मड्डुडिण्डीरवैः ॥ ७५॥ दुन्दुभ्याघातनादैर्मम गणवरगास्योरुनिश्वासरागै- र्वेणूरन्ध्रनिषेवणाङ्गुलिभवैस्तालैश्च सज्झल्लरैः । तुष्टोऽहं प्रथिते प्रदोषसमये तल्लिङ्गसेकादरो नान्यत्किञ्चिदवेदिषं त्रिजगतां व्यापारमप्यद्रिजे ॥ ७६॥ रङ्गे तुङ्गतरङ्गभङ्गचपलैर्नृत्यैर्महामद्दलै- र्वीणावेणुनिनादसाम्यलयतो नृत्यन्ति लिङ्गाग्रतः । रुद्राणीगणकोटयोऽत्र सुभगे मञ्जीरशिञ्जस्वनै- श्शम्भो शङ्कर साम्ब पाहि शिव नस्तूर्णं प्रसादङ्कुरु ॥ ७७॥ इत्येवं सुभगा विलासमधुरा हावैश्च भावैरपि चोत्क्रान्तावृतरत्नकान्तिविलसत्पूर्णेन्दुसाम्यानना । कुम्भोद्यत्करिकुम्भसन्निभकुचाः काञ्चीझणन्निस्वना- स्तालोत्थाहतिपादपद्मजरवैः कुर्वन्ति विद्युद्ध्वनिम् ॥ ७८॥ गणेशकरभास्वता विविधलोकसाम्राज्यधु- ग्विविक्तकृतलाञ्छनैश्शशिसुवृत्तमुक्ताततैः । महोडुगणमौक्तिकप्रकटतारपङ्क्तीततै- र्गिरीन्द्रतनये धृतान्यमितछत्रकोट्यो गणैः ॥ ७९॥ परटारमणोत्थकामिताङ्गोत्थितपक्षाहननाभचामरौघैः । गणबृन्दैरखिलैश्च सेव्यमानं मम लिङ्गालयधूननैश्शिवेऽद्य ॥ ८०॥ प्रवालमयदण्डिना मलयशैलभूमारुत- सुपोततरवायुना नगवरारिपाणीजुषा । जयेन चमरीमृगप्रचलवालगुच्छात्मना सुखी जितमुमे तदा मम सुलिङ्गमत्यादरात् ॥ ८१॥ धृतैः प्रमदपाणिभिर्वनकलापिपुच्छोच्चयैः कृतैर्व्यजनकोटिभिर्हरितचन्द्रकोट्यंशुभिः । मदीयमणिमण्डपं हरिमणीभिराकल्पित- मिवाद्य गिरिजे तदा प्रथितभाभिरादीपितम् ॥ ८२॥ प्रमथप्रकरोर्ध्वहस्तसंस्थैर्मणिवर्यैर्विविधैस्सराग्रलम्बैः । बिलसन्नवरत्नगुच्छसच्छैर्धुवदीशानवराग्रगाः पताकाः ॥ ८३॥ लिङ्गप्रक्रमणैरहं स इति तल्लिङ्गप्रणामादर- स्स्वात्मानं परिचिन्तयामि गिरिजेऽप्यानन्दधारावृतः । प्र(वृ)त्युत्थाखिललोकजालमखिलं मत्तो न भिनं क्वचि- त्किञ्चिचापि शिवे ममैव मनसस्सङ्कल्पजालं जगत् ॥ ८४॥ मय्येवागसुते लयं प्रयाति निखिलञ्चैकोऽद्वयोऽहं सदा नानेति प्रसभं वदन्ति निगमा वाचां मनोदूरगम् । अन्यानन्द समं (अन्यानन्दमुमे) मदीयममलं जानन्ति नो योगिनो नो वेदा यतयस्सुरासुरगणा विष्पादयोऽप्यब्जजाः ॥ ८५॥ ज्ञानं ज्ञेयमिदं जगद्गतमुमे ज्ञाता न किञ्चित्स्थिति- र्भूमाहं सुखधामको हि महतां ह्रस्वो न चाणुस्स्थिरः । स्वात्मानन्दमुमे ममाल्पकमिदं लिङ्गेऽप्यलिङ्गोऽस्म्यहं चा(आ)काशादिविदूरगस्थितिलयोत्पत्तिष्वसङ्गोऽस्म्यहम् ॥ ८६॥ इत्येवं परमार्थतस्त्रिभुवने तिष्ठामि विश्वातिगो गोप्यम्मद्धृदयं गिरीन्द्रतनये तुभ्यम्मया दर्शितम् । इत्युक्त्वा परमेश्वरस्त्रिजगतां नाथोऽपि विश्वाकृति- र्दृष्ट्वा लिङ्गमपारबिल्वकुसुमैस्सम्पूजितं मस्तके ॥ ८७॥ दृष्ट्वा तामगजां ननर्तपरमानन्दप्रसादैकभूः कैलासाचलमौलिमण्डपवरे तल्लिङ्गसान्निध्यके । अण्डखण्डनमहाघनघोषश्चण्डताण्डवललद्विधिमुण्डः । कुण्डलीशकृतकुण्डलगण्डस्तण्डुमड्डनिनदोत्थलयाङ्घ्रिः ॥ ८८॥ नन्दिभृङ्गिकृतडिण्डिमनादैर्मण्डितो हि शिवया स हि रङ्गः । ढुण्ढिराजकृतशङ्खनिनादैस्तुण्डषट्ककृततूर्यनिनादैः ॥ ८९॥ जटाच्छटविघर्षिताः परिपतन्ति तारागणा वमन्ति रुधिरम्मुखैर्भुवननागनागा नगाः । जगन्नटनसम्भ्रमाद्भवति हेलयान्दोलितं हरीन्द्रविधयस्सुरा मुनिजनास्सकम्पाङ्गकाः ॥ ९०॥ अष्टावक्त्रसुगीतसाममुरजोच्चण्डप्रचण्डोल्लस- ड्डिण्डीमध्वनिमड्डुमद्दलमहासामाष्टदंष्ट्रारवैः । भ्राजत्पद्मजमुण्डषण्डजमहामालालसद्वक्षसं लीलाचालितहस्तकङ्कणमहानागोर्ध्वमौलीलसत् ॥ ९१॥ रत्नाप्लावितकान्तिरञ्जितदृशं नृत्यन्तमैक्षच्छिवा चोद्यद्भानुमरीचिसन्निभजटासाम्राज्यपट्टायिता । लोलन्नीलसुरत्नपङ्कजलसद्गङ्गातरङ्गोत्थिता पारावारसुधाघनोत्थनटनाटोपा फणीमञ्जुलम् ॥ ९२॥ आनम्राखिललोकजालमुमया सद्रत्नरङ्गान्तरे नृत्यन्तं ददृशुस्सरुद्रगणपाः कैलासमौलिस्थितम् । झलञ्झलितकङ्कणं पदवलत्क्वणन्नूपुरं किणीकिणितसध्वनिं स्फटिकरत्नसन्मेखलम् ॥ ९३॥ घुणङ्घुणकृतारवं पदगरत्नमञ्जीरकं चटच्चटरवोत्थितप्रपदपद्मघोषं शिवम् ॥ ९४॥ तौर्यत्रिकोत्थितमहारवजातघोषलोकत्रयोद्गतसुरासुरकिन्नरेड्यम् । मन्दस्मिताखिलविमोहनवेषभूषं राजच्छशाङ्कमहसा धवलीकृताशम् ॥ ९५॥ तं नीललोहितमुमा जगदादिहेतुं नृत्यन्तमिष्टदमुपैति च तुष्टच(व)क्रम् । अष्टाकृतिं निखिलकष्टहरं प्रदोषेऽपश्यच्छिवा सकरुणारससारदृष्ट्या ॥ ९६॥ तां वीक्ष्यागसुतां स्मयन्निव महादेवस्सकैलासभू- कैलासेश्वरपूजया सरसया कष्टानि सञ्जहिवान् । लोकानां गणपात्मनामथ उमां प्राह प्रसन्नाननः पश्याम्बेति वदन्त्सदाशिवतरोर्मुग्धेन्दुचूडश्शिवः ॥ ९७॥ ईश्वर उवाच - कैलासेश्वरलिङ्गमेतदमलं मुक्तिप्रदं शाश्वत- ञ्चापातालनिमग्नमूलमसकृत्सम्पूजितं तन्मया । तस्योर्ध्वामलमौलिरप्यगसुते जानन्ति नैवागमा देवाद्यैर्मुनिभिस्त्वयापि च मया को वास्ति तत्पूजकः ॥ ९८॥ पूजापूजकपूज्यशब्दरहितं तत्केवलोऽहं शिवः तल्लिङ्गं वरदं सदाशिवमयं मच्छैलराजे शिवे । (तल्लिङ्गं च सदा चकास्ति(गिरिजे)मच्छैलवर्येऽम्बिके ।) तद्दर्शनार्थं मुनयस्सुरासुरास्तप्यन्ति चाद्यापि जगत्यविप्लवाः (हराजविष्णवः) ॥ ९९॥ देव्युवाच - त्वयापि न ज्ञायत इत्यहो मे साश्चर्यमुक्तं हि त्वया सदाशिव । तवापि तत्किं कृतलिङ्गपूजया रहस्यमेतन्मम तद्वद प्रभो ॥ १००॥ इत्युक्तं गिरिजामनोहरवचश्श्रुत्वा महस्याम्बिकां लोकं स्रष्टुमथात्ति पाति सुतरान्तत्पालकश्शङ्करः । वाचा चन्दनशीतया सुखकरश्शीतांशुधारी शिवः प्राहोत्फुल्लमनोहराब्जवदनो देवीं तदा भूतपः ॥ १०१॥ ईश्वर उवाच - नकर्मणा नैव समाधिभिर्जपैस्तपस्यया वा विविधैश्च यज्ञैः । व्रतैश्च दानैर्नियमैर्ममेश्वरि प्राप्नोति किम्मत्पदपूजनं विना ॥ १०२॥ तस्मादहं लिङ्गवरं सदा मुदा सम्पूजयामीष्टदमेव लोकान् । संशिक्षितुं कार्यमिदं विमुक्त्यै सर्वार्थदञ्चेति मतम्मुदे मम ॥ १०३॥ ध्यायामि तद्वेदशिरोऽधिगम्यमोङ्कारगम्यं परमार्थतत्वम् । सत्यं शिवं ज्ञानसुखं सुबोधन्निर्द्वन्द्वमद्वैतमनन्तरूपम् ॥ १०४॥ एकं स्थिरं शाश्वतमव्ययं तत्प्राक्सृष्टितो विश्वमिदन्न यत्र । संवीक्षितं तत्पुनरुद्बभूव तदेव जाये हृदि भावयामि ॥ १०५॥ यस्मात्परन्नापरमस्ति किञ्चित् यस्मागरीयो (यस्मादणीयः) न हि किञ्चिदस्ति । येनैव पूर्णं परिदृश्यमानं विश्वन्तदेवाद्य विभावयामि ॥ १०६॥ इत्युक्त्वा गिरिजां महाशिवतरोद्ध्यायन्भवस्स्थाणुव- न्निर्व्यापारतरङ्गसागर इवाप्य(त्य)क्षुब्ध(क्षुद्र)गात्रश्शिवः । देवीचापि मुमोद हर्षभरिता(ऽऽ)नन्दाङ्गकास्ते गणाः चेत्थं तस्य (इत्येस्तस्य) सुपूजनं मुनिवरास्सत्यं वदामि स्फुटम् ॥ १०७॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासेश्वरप्रदोषपूजावर्णने देव्याप्रति ईश्वरप्रोत्क्तं कैलासेश्वरप्रदोषपूजाकथनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १३ - कैलासेश्वरप्रदोषपूजावर्णनम् । ३३-१०७॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 13 - kailAseshvarapradoShapUjAvarNanam . 33-107.. Notes: Śiva शिव details to devI; the process and merits of Kailāśeśvaraliṅga Pradoṣa Pūjā कैलाशेश्वरलिङ्ग प्रदोष पूजा. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailaseshvarapradoshapujavarnanam 3
% File name             : kailAseshvarapradoShapUjAvarNanam3.itx
% itxtitle              : kailAseshvarapradoShapUjAvarNanam 3 kailAseshvarapradoShapUjAkathanam 3 (shivarahasyAntargatA)
% engtitle              : kailAseshvarapradoShapUjAvarNanam 3
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 13 - kailAseshvarapradoShapUjAvarNanam | 33-107||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org