श्रीमार्कण्डेयेश्वरेशस्तवः

श्रीमार्कण्डेयेश्वरेशस्तवः

सर्वेषां दैवतानां सकलसुखफलप्राप्तये पूजकानां कार्याधीशो गणेशो नगवरतनयानन्दचेष्टाभिरामः । यस्य श्रीशेश्वरस्य प्रथितगुणगणालङ्कृतस्यात्मजस्तं मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १॥ वैकुण्ठाधीशमायामयसुखगवधूरूपसन्दर्शनाद्यो मोहात्सम्भ्रान्तमान(म्यमाण)स्सहगमनकलाचातुरीयुक्तचित्तः । तन्मायास्त्रीशरीरे वटुकमजनयद्भासते यः शिवस्तं मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ २॥ यस्याङ्गे(ग्निः)फालभागे सुललितनयनं सव्यभागे भवानी हस्ते ब्रह्मोत्तमाङ्गं सगरलसुगले ब्रह्मशीर्षालिमाला । अङ्गेऽनङ्गाङ्गभूतिः पदकमलयुगे विष्णुनेत्राम्बुजातं मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ३॥ यस्य श्रीमौलिभूषा कुमुदहितकलाभासमानोत्तमाङ्गे विद्युत्पुञ्जाभकान्ते विलसितसुजटामण्डले व्योमगङ्गा । कण्ठे वज्रासिनीलोपलनिभगरलं भासते यः शिवस्तं मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ४॥ हस्ताब्जे भासमानैर्निशितमुखयुतैः शूलमुख्यायुधैः सं- दीप्ताङ्गः सर्वशत्रून् खररणसमये निर्जयन् यो बलाढ्यः । मार्ताण्डाग्नीन्दुनेत्रत्रययुतसुमुखैः पञ्चभिः संयुतस्तं मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ५॥ शान्तं चन्द्रायुताभं शशियुतमकुटं पद्मवक्त्रं त्रिनेत्रं भास्वत्केयूरहाराङ्गदकटकमुखाशेषभूषाभिरामम् । गौरीगङ्गासमेतं प्रमथगणयुतं स्कन्दविघ्नेशसेव्यं मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ६॥ मार्कण्डेयर्षिवर्यः शमनभटभयाद्यस्य पादारविन्द- द्वन्द्वं संश्रित्य भक्त्या शिव भव शरणं ते नमः पालयेति । उक्त्वा मृत्युं वि(च)जित्वा चिरमतुलसुखं प्राप्तवांस्तं यमारिं मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ७॥ सर्वैर्देवासुरेन्द्रैः प्रमथितकलशाम्भोधिमध्ये फणीन्द्र- स्यास्यानीके सुरोषाद्विगलितगरलं रुद्रनेत्राग्नितुल्यम् । लोकानीकावनार्थं कबलितसुमतिर्यो महेशः शिवस्तं (कवलयतिसुमतिर्यो) मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ८॥ ब्रह्माद्यैर्लोकपालैः प्रणमितचरणाः प्रार्थनाकृष्टचित्त- स्तान् कारुण्येन वीक्ष्य त्रिपुरदितिसुतानेकबाणेन दग्धुम् । सर्वोपायैः समर्थः ससुररिपुपुरीदाहको यः शिवस्तं मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ९॥ नन्दीशानन्दनाट्यप्रियमखिलकलाकोविदं सर्वविद्या- साम्राज्यानन्दपीठस्थितपरमशिवं सुन्दरं मन्दहासम् । छन्दोगुह्यार्थतत्त्वात्मकमभयमजानन्दकन्दं मुकुन्दं मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १०॥ मार्कण्डेयेश्वरस्य स्तवमिदमघतूलाद्रिवैश्वानराभं नित्यं यो भक्तियुक्तः पठति स पुरुषः पापसङ्घाद्विमुक्तः । सद्भूमौ सर्वभोगैरनवरतसुखं प्राप्तवान् (प्राप्नुयात्) सर्वदेवैः । सन्मान्यः श्लाघनीयः स भवति भगवान् श्रीगुरोः सत्प्रसादात् ॥ ११॥ ॥ इति श्रीमार्कण्डेयेश्वरेशस्तवः सम्पूर्णः ॥ Proofread by Aruna Narayanan
% Text title            : Shri Markandeyeshvaresha Stava 02 29
% File name             : mArkaNDeyeshvareshastavaH.itx
% itxtitle              : mArkaNDeyeshvareshastavaH
% engtitle              : mArkaNDeyeshvareshastavaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-29
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org