मृत्युञ्जयपुष्पाञ्जलिः
खण्डः १
शशिशकलाञ्चितकुञ्चितपिङ्गजटातडिदुज्वलमूर्धतलं
भालविलोचनमञ्जनमञ्जुलनीलगलं शितशूलधरम् ।
फणिगणभूषणमाकलये तव भीममिदं शिवमङ्गमहं
श्वेतवनालय, कालविमर्दन, भक्तजनार्दन, विश्वपते ॥ १॥
खण्डः २
पञ्चाक्षरवर्णमालास्तोत्रम् ।
ओङ्कारशुक्तिपुटमुक्तामणिं शिवमहङ्कारभञ्जनकरं
ह्यीङ्कारतत्वललिलतार्धे भजामि हृदि सङ्काशमानवपुषम् ।
त्वाङ्कालखण्डन, भुजङ्गेन्द्रमण्डन, वृषाङ्कात्मकं शिखिशिखा-
सङ्काशपिङ्गलजटाजुटसङ्गतशशाङ्काभिरामशिरसम् ॥ १॥
नक्तन्दिवं भयदविन्तातुरं समनुरक्तं दुरन्तविषये
रिक्तं गुणैः सुजनकाम्यैर्मनो मम तु तिक्तं च पातकशतैः ।
व्यक्तं भवत्युपहरामि; प्रसीद कुरु भक्तं विषशन, विभो,
मुक्तं भयाद्भवतु सत्कर्मनिर्वहणशक्तं च जीवितमिदम् ॥ २॥
मत्र्यं भवचरणपाथोजसेविनममत्र्यं करोऽपि भगवन्;
सत्यं ममास्तु रतिरेतद्भवद्भजनकृत्यं विधातुमुचितम् ।
अत्यन्तपावननिलोपान्तवासपर, मृत्युञ्जयाखिलपते,
श्रुत्यन्तगोचरमहातत्वरूप, मयि नित्यं प्रसीदतु भवान् ॥ ३॥
शिञ्जानपादकटकानन्दनृत्तरतकञ्जाभिरामचरणं
त्वञ्जाह्यवीधवलमालासमुल्लसनसञ्जातशोभमुकुटम् ।
भञ्जानमन्तकनङ्गान्तकं सुकृतपुञ्जाभिगम्यममलं
सञ्जल्पितस्तुतिविरिञ्जादिसेव्यमिहरञ्जद्रसं हृदि भजे ॥ ४॥
वाताशनाकलितभूषागणं भसितपूताङ्गरागमहितं
शीतंशुभास्करहुताशाक्षमुल्लसितभूतावलीपरिगतम् ।
हे ताण्डवगप्रिय, चिदानन्दरूप, परिभूतान्तकं तव वपु-
र्भीताभयप्रदमुपासे; प्रसीद मयि जातानुकम्पमनिशम् ॥ ५॥
यत्र प्रभो, परमभक्तो मृकण्डमुनिपुत्रस्तवाङ्घ्रिभजना-
दत्रस्तभावमिह लेभे यमादपि परित्रासिताखिलजनात् ।
तत्र स्वधामनि परकोडनामनि चरित्रप्रशस्तिमहिते
क्षेत्रे विभासि जगतां भाग्यराशिरतिमात्रं, प्रसिद भगवन्! ॥ ६॥
महादेव, स्वामिन्, मधुरकरुणादिव्यजलधे,
परकोडावास,प्रकटितनिजैश्वर्यमहिमन् ।
स्तवैरेभिर्विल्वैस्तव चरणयोरर्चनमहं
करोमि त्वं भक्त्या कलितमिदमङ्गीकुरु विभो! ॥ ७॥
इहानेकैर्मन्त्रैर्बहुभिरपि तन्त्रैर्नियमितं
भवत्पूजाहोमादिकमहमशक्तो रचयितुम् ।
जुहोमि ब्रह्माग्नौ त्वयि हविरिदं मानसमयं
गृहाण त्वं मृत्युञ्जय, वरद, पूर्णाहुतिमिमाम् ॥ ८॥
भवारण्ये घोरे विषयरसनव्योलपचयैः
समाच्छन्ने कूपे निरतिशयदुःखे निपतितम् ।
पशुं क्रन्दन्तं मां करुणकरुणं, पाहि कृपया
स्वधर्मानुष्ठानं खलु समुचितं ते पशुपते! ॥ ९॥
इह श्वेतारण्ये भुवनविदिते सर्वमहिते
महासिद्धिक्षेत्रे सकरुण, भवन्तं भयहरम् ।
समभ्यच्र्य प्रेष्ठां गतिमसुलभां प्राप सुकृती
मुनिर्मार्कण्डेयस्तव हि महिमाऽयं विजयते ॥ १०॥
परं ब्रह्म स्वेच्छाकलितशिवलिङ्गात्मकवपुः
प्रतिष्ठां क्षेत्रेऽस्मिन् स्वयमुपगतं भासि भगवन् ।
इहाभेदं विष्णोस्तव च ददृशुः कालनिधने
महे भक्तोत्तंसा मुदितमनसो विस्मयवशाः ॥ ११॥
धृतद्वैतं रूपं पुनरपरमेतत्तव निला-
सरित्तीरेऽदूरे परिलसति नावाख्यनिलये ।
यदम्भोदानीलं करकलितशङ्खारिविलसद्
गदापद्मं पद्मासुकृतनिलयं मञ्जुहसितम् ॥ १२॥
लसद्द्वैताद्वैतं परमशिव, शम्भो, तव वपुः
परानन्दाकारं मनसि मम निर्भातु सततम् ।
यतोऽहं भयासं विगलितभवक्लेशनिवहः
स्वधर्मानुष्ठानैस्तव विरचयन् सेवनविधिम् ॥ १३॥
पराशक्तिः सूक्ष्मा भवति परमं तत्त्वमिह वै
वदत्त्योतप्रोतं जगदिति च वैज्ञानिकवराः ।
प्रभो, त्वल्सान्निध्यादियमपि परिस्पन्दकुशला
ह्रधिष्ठानं मुख्यं त्वमसि जगतस्ते नतिरियम् ॥ १४॥
भवन्निष्ठं चित्ते भवतु भगवन्, वागपि भवत्-
स्तुतौ सक्ता नित्यं, वपुरपि भवत्सेवनरतम् ।
विकासोऽयं भक्तेर्मधुरमधुनिष्यन्दसुभगः
परप्रेमाकार, प्रसरतु ममात्मन्यनुदिनम् ॥ १५॥
प्रवृद्धायां भरतौ भवति हृदयं निर्मलतरं
समस्तं कर्म त्वच्चरणवरिवस्याऽपि च भवेत् ।
ततो जानीयां त्वां निरतिशयचैतन्यवपुषं
परब्रह्माभिख्यं शिवमखिललोकैकपितरम् ॥ १६॥
अखण्डे ब्रह्माण्डे निरुपमचिदानन्दवपुषं
स्वया शक्त्या साकं कृतनटनलीलाविलसितम् ।
तथा सूक्ष्मात्मानं स्थितमणुषु सूक्ष्मेषु भगवन्,
भवन्तं संवीक्ष्य प्रतिकलमुपेयां हृदि मुदम् ॥ १७॥
नटेश, त्वत्तालप्रसरसुभगं जीवितमिदं
प्रभो, जीवन्मुक्तिः खलु निगदिता शास्त्रसरणौ ।
पदेऽस्मिन्नुत्तुङ्गे गिरिश, गिरिशृङ्गे पशुरयं
विहर्तुं शक्तः स्याद्यदि भवति भक्तः पशुपते! ॥ १८॥
परक्रोडावासिन्, परमशिव, मृत्युञ्जय, मनो-
भवाराते, भक्तप्रिय, गिरिसुताऽलिङ्गिततनो,
विपन्निस्तारं मे प्रदिश भगवन्, मां कुरु भवत्-
पादाम्भोजे भक्तं; न खलु न खलु प्राथ्र्यमपरम् ॥ १९॥
इति श्रीवासुदेवन् एलयथेन विरचिता मृत्युञ्जयपुष्पाञ्जलिः समाप्ता ।