श्रीमल्लारिहृदयस्तोत्रम्

श्रीमल्लारिहृदयस्तोत्रम्

श्री गणेशाय नमः । ॐ अस्य श्री मल्लारि-हृदयमन्त्रस्य ब्रह्मा-विष्णु-महेश्वरा ऋषयः । अनुष्टुप् छन्दः । श्रीगङ्गाम्हालसायुक्तमल्लारि देवता । भूर्भुवःस्वः इति बीजम् ॥ तत्सवितुर्वरेण्यं इति शक्तिः । भर्गो देवस्य धीमहि इति कीलकम् ॥ धियो यो नः प्रचोदयादित्यस्त्रम् । श्रीमार्तण्ड-भैरवप्रीत्यर्थं मम समस्त पुरुषार्थसिद्धर्थे जपे विनियोगः । अङ्गन्यासः - ॐ ऐं मल्लारये नमः अङ्गुष्ठाभ्यां नमः - हृदयाय नमः । ॐ ह्रीं म्हालसानाथाय नमः तर्जनीभ्यां नमः - शिरसे स्वाहा । ॐ श्रीं मेघनाथाय नमः मध्यमाभ्यां नमः - शिखायै वषट् । ॐ क्लीं महीपतये नमः अनामिकाभ्यां नमः - कवचाय हूम् । ॐ सीं मैरालाय नमः कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं श्रीं क्लीं सौं खड्गराजाय नमः करतलकरपृष्ठाभ्यां नमः - अस्त्राय फट् । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥ अथ ध्यानम् । ध्यायेन्मार्तण्डरूपं अचल-चल-विभूं कोटिसूर्यप्रकाशं आनन्दं विश्ववन्द्यं सकलजनकरं कर्मधर्मादिनाथम् । अश्वं बोधावरूढं परमविरलं श्री कोटिकन्दर्पदर्पं श्रीमन्मल्लारिराजं विजयजयकरं म्हाळसाकान्त सिद्धम् ॥ अथ ऋषिन्यासः - (ॐ ऐं ब्रह्मणे नमः अङ्गुष्ठाभ्यां नमः - हृदयाय नमः ।) ॐ ह्रीं विष्णवे नमः तर्जनीभ्यां नमः - शिरसे स्वाहा । ॐ श्री महेशह्वराय नमः मध्यमाभ्यां नमः - शिखायै वषट् । ॐ क्लीं कामबीजाय नमः अनामिकाभ्यां नमः - कवचाय हूम् । ॐ सौं शक्तिबीजाय नमः कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं श्रीं क्लीं सौं ब्रह्मा-विष्णु-महेश्वर्रेभ्यो नमः करतलकरपृष्ठाभ्यां नमः - अस्त्राय फट् ॥ पूर्वे श्वेताम्बरं देवं आग्नेय्यां रुद्र भैरवम् । दक्षिणे चण्डरूपाय नैरृत्यां क्रोधभैरवम् ॥ १॥ पश्चिमे उन्नतग्रीवं वायव्यां कालभैरवम् । उत्तरे सिद्धिं सिद्धान्तं ईशान्यां शिवकर्पूरम् ॥ २॥ ऊर्ध्वे कालविरूपाय अम्बरे मल्लहारिणीम् । अन्तरिक्षं सदानन्दं यळकोटिस्वरूपिणम् ॥ ३॥ एवं एकादशं देवं रक्षेत्त्रैलोक्य सर्वदा । विजयी सर्वकामार्थं क्षेत्रपाल महीपते ॥ ४॥ भ्रुवोर्मध्येतु ओङ्कारं द्विदले सहस्रभावनः । नेत्रे त्रिपुरान्तको देवो नासिके कामहारकः ॥ ५॥ मुखे मुमुक्षनाथाय कण्ठं कर्मकलामृतः । हृदयं हरिलिङ्गाय स्कन्धे कर्महरिप्रियम् ॥ ६॥ पृष्ठे प्रलयरुद्राय उदरे उदयार्कजम् । मध्ये रक्षतु कारार्थी नाभी नारदगायते ॥ ७॥ गुह्यं गुरुपथात्माय जङ्घे जीवप्रदोऽवतु । जानुमण्डलजानाथ पदप्रासादप्राप्तये ॥ ८॥ अङ्गुष्ठे सर्वतीर्थानि सर्वाङ्गे परमेश्वरः । एवमङ्गेषु दिव्यस्य मार्तण्डस्वरूपिणम् ॥ ९॥ प्रथमं काशिनाथाय द्वितीयं पञ्चलिङ्गयोः । पञ्चलिङ्गेभ्यः तृतीयं प्रेमलिङ्गाय चतुर्थं देवरूपिण्यै ॥ १०॥ पञ्चमं पञ्चप्राणाय षष्ठं षड्भुजक्षेमकम् । सप्तमं सपाकं सिद्धिः अष्टमं अम्बिकाप्रियम् ॥ ११॥ नवमं नागनाथं च दशमं शोषहारकम् । एकादशं महारुद्रं द्वादशं ज्योतिर्लिङ्गयोः ॥ १२॥ ज्योतिर्लिङ्गानि त्रयोदशं त्रियोगी च चतुर्दशं भुवनत्रयम् । पञ्चदशं मण्डलं पूर्वं षोडशं च समाधिने ॥ १३॥ सप्तदशं गुह्यरूपं अष्टादशं च अब्जकम् । नवदशं नैसर्गिक देवी तन्नो देवी प्रसन्नता ॥ १४॥ एकोनविंशति नामानि विश्वम्भरस्वरूपस्य । ज्ञानसिद्धिर्भवेत्प्राप्तिः एकादशं जपन् जले ॥ १५॥ स्मशाने दशवारं च सप्तवारं पठेन्नरः । दशपाठं सर्वापद्भ्यो भवेत्त्राणः सङ्ग्रामे विजयी भवेत् ॥ १६॥ सर्वपगो भवेत् हानिः अश्वत्थं बिल्वं मन्दारं चन्दनं धातुपञ्चकम् । मादारं शामा सुगन्धि कादम्बा नववारं पठेत्सुखम् ॥ १७॥ मन्त्रसिद्धिर्नवरात्रेण अष्टरात्रं च दैवतम् । पञ्चरात्रे जनवश्यं त्रिरात्रं त्रिसमाहितः ॥ १८॥ द्विरात्रं व्याघ्रसर्पाणां मोहनं मन्त्रमालिका । एवं हृदयं मार्तण्डं पाठं शुभकुलं जयः ॥ १९॥ मार्तण्ड क्षेत्र मान्यो वा कर्म धर्म सुखोवहम् । एवं विशान्ति(स्)ते कार्यं मार्तण्डरूपदर्शिनम् । भावार्थतारको देव परब्रह्मस्वरूपिणीम् ॥ २०॥ इति श्रुति-स्मृति योगार्णव श्रीमार्तण्डावतारप्रोक्तं ईश्वर-पार्वति संवादे श्रीमल्लारिहृदयसम्पूर्णम् ॥ Proofread by PSA Easwaran psawaswaran
% Text title            : Mallari Hridayam
% File name             : mallArihRRidayam.itx
% itxtitle              : mallArihRidayam malhArihRidayam
% engtitle              : mallArihRRidayam
% Category              : shiva, hRidaya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (audio)
% Acknowledge-Permission: Prakash Ketkar
% Latest update         : August 6, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org