मन्त्रराजशतनामावलिः
ॐ ओङ्कारगम्याय नमः । ओङ्कारवाच्याय । ओङ्कारविग्रहाय ।
ओङ्कारशुक्तिकामुक्तामणये । ओङ्कारवल्लभाय । ओङ्कारबिलपञ्चास्याय ।
ओङ्कारसुषिरोरगाय । ओङ्कारपञ्जरशुकाय । ओङ्कारान्तरवासकाय ।
ओङ्कारनलिनीहंसाय । ओङ्कारावालकन्दराय । ओङ्कारसुमसौरभ्याय ।
ओङ्कारशमिहव्यवाहे । ओङ्कारगोक्षीरसर्पिषे । ओङ्काराम्बरभास्कराय ।
ओङ्कारदीपसुज्योतिषे । ओङ्कारद्विजराट्सुधायै । ओङ्कारवेदोपनिषदे ।
ओङ्कारफलसद्रसाय । ओङ्कारनवमाणिक्यसौधसन्निष्ठभूपतये नमः ॥ २०
ॐ नगेन्द्रतनयानाथाय नमः । नानारूपसमन्विताय ।
नवनीलघनश्यामकन्धराय । नागकुण्डलाय । नमज्जनामरतरवे ।
नटनोत्सुकमानसाय । नागभुग्वाहजनकाय । नक्षत्रेशशिखामणये ।
नवकर्पूरगौराङ्गाय । नलिनेक्षणसायकाय । नादबिन्दुकलातीताय ।
नागचर्मोत्तरीयकाय । नागास्यजनकाय । नम्याय । नन्दिकेशसमर्चिताय ।
नारायणार्चिताय । नानानिगमोदितमूर्तिमते ।
नारसिंहमहादर्पकदलीवनकुञ्जराय । नवन्नवनमल्लोकसङ्घ-
कारुण्यवार्षिकाय । नमद्ब्रह्मादिकोटीरनवरत्नोज्ज्वलाङ्घ्रिकाय नमः ॥ ४०॥
ॐ मायातीताय नमः । महामायिने । मनोवाचामगोचराय ।
मञ्जुलाङ्गाय । महायोगिने । महामेरुशरासनाय । मन्मथध्वंसकाय ।
मौनिने । मधुधारातिभाषकाय । महीरथाय । महादेवाय ।
महोक्षवरवाहनाय । माधुर्यजाह्नवीवीचीसम्प्लावितजटातटाय ।
मनोरथफलातीतवरप्रदपदाम्बुजाय । महाप्रलयसञ्चारिणे ।
महाकालाय । महानटाय । मधुरापुरमध्यस्थविमानान्तरवासकाय ।
मार्ताण्डकोटिसदृशाय । मायापुरनिवासकाय नमः ॥ ६०॥
ॐ शिवाकृतये नमः । शिवाकाराय । शिवानन्दवपुर्धराय
शिवाप्रियाय । शिवाज्ञेयाय । शिवयोगवनेश्वराय । शिवाधाराय ।
शिवमयाय । शिवासक्तहृदम्बुजाय । शिवाङ्गीकृतवामाङ्गाय ।
शिवलोकेश्वराय । शिवाय । शिवासहायाय । शिखिदृशे ।
शिखण्डिने । शिवलोकदाय । शिवक्षेत्रविलासिने ।
शिखरीन्द्रनिकेतनाय । शिवभक्तहृदम्भोजनिवासिने । शिवपूःपतये
नमः ॥ ८०॥
ॐ वाग्मिने नमः । वरिष्ठाय । वरदाय । वाताशविलसत्कराय ।
वसुप्रदाय । वासुदेववर्यचक्रायुधप्रदाय । वरकुन्दद्रुमावासिने ।
वटमूलतटाश्रयाय । वसुन्धरामराकाराय । वन्द्याय । वात्सल्यवारिधये ।
वामदेवाय । वर्यवर्याय । वराभयकराम्बुजाय । वसुरेतसे ।
वरेण्याय । वासवाद्यमरार्चिताय । वशीकृताखिलाण्डाय । वाक्प्रदाय ।
वरदेशिकाय नमः ॥ १००॥
ॐ यज्ञकृते नमः । यज्ञहृदे । यज्ञध्वंसिने । यज्ञेश्वराय ।
यमिने । यमाद्यष्टाङ्गसन्दृश्याय । यन्त्रे । यज्ञविदुत्तमाय ।
यथेच्छासृष्टभुवनाय । यथार्थजनवत्सलाय ।
यथाश्रितजनक्लेशाय । यज्ञसन्दृश्यविग्रहाय ।
यमप्रहर्त्रे । यक्षेशसखाय । यातुगुणान्तकाय । यज्ञमृग्याय ।
यज्ञसाध्याय । यज्ञविश्रान्तिभूरुहाय । यतीशाय ।
यतिचित्तारविन्दनृत्तविधायकाय नमः ॥ १२०॥
ॐ आत्मने नमः । अन्तरात्मने । परमात्मने । आदिकैलासनायकाय ।
आत्मनाथाय । तीर्थनाथाय । शब्दनाथाय । सदाशिवाय नमः ॥ १२८॥
इति मन्त्रराजशतनामावलिः समाप्ता ।
Proofread by Aruna Narayanan