मन्त्रराजस्तवः

मन्त्रराजस्तवः

(धौम्येनोपदिष्टः पुरूरवसे ।) अस्य श्री मन्त्रराजस्तवस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्री आत्मनायको देवता । ॐ बीजं, ह्रीं शक्तिः, क्लीं कीलकं, श्री आत्मनाथप्रसादार्थे जपे विनियोगः । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां स्वाहा । ह्रूं मध्यमाभ्यां वषट् । ह्रैं अनामिकाभ्यां हुम् । ह्रौं कनिष्ठिकाभ्यां वौषट् । ह्रः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादि न्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम्- तुर्यातीतपदोर्ध्वगं गुणपरं सत्तामयं सर्वगं सम्वेद्यं श्रुतिशीर्षकैरनुपमं सर्वाधिकं शाश्वतम् । ओङ्कारान्तरबिन्दुमध्यसदनं ह्रीङ्कारलभ्यं नुमो व्योमाकारशिखाविभाविमुनिसन्दृश्यं चिदात्मेश्वरम् ॥ लं इत्यादि पञ्चपूजा । ओङ्कारगम्य ओङ्कारवाच्य ओङ्कारविग्रहः । ओङ्कारशुक्तिकामुक्तामणिरोङ्कारवल्लभः ॥ १॥ ओङ्कारबिलपञ्चास्य ओङ्कारसुषिरोरगः । ओङ्कारपञ्जरशुक ओङ्कारान्तरवासकः ॥ २॥ ओङ्कारनलिनीहंस ओङ्कारावालकन्दरः । ओङ्कारसुमसौरभ्य ओङ्कारशमिहव्यवाट् ॥ ३॥ ओङ्कारगोक्षीरसर्पिरोङ्काराम्बरभास्करः । ओङ्कारदीपसुज्योतिरोङ्कारद्विजराट्सुधा ॥ ४॥ ओङ्कारवेदोपनिषदोङ्कारफलसद्रसः । ओङ्कारनवमाणिक्यसौधसन्निष्ठभूपतिः ॥ ५॥ नगेन्द्रतनयानाथो नानारूपसमन्वितः । नवनीलघनश्यामकन्धरो नागकुण्डलः ॥ ६॥ नमज्जनामरतरुर्नटनोत्सुकमानसः । नागभुग्वाहजनको नक्षत्रेशशिखामणिः ॥ ७॥ नवकर्पूरगौराङ्गो नलिनेक्षणसायकः । नादबिन्दुकलातीतो नागचर्मोत्तरीयकः ॥ ८॥ नागास्यजनको नम्यो नन्दिकेशसमर्चितः । नारायणार्चितो नानानिगमोदितमूर्तिमान् ॥ ९॥ नारसिंहमहादर्पकदलीवनकुञ्जरः । नवन्नवनमल्लोकसङ्घकारुण्यवार्षिकः ॥ १०॥ नमद्ब्रह्मादिकोटीरनवरत्नोज्ज्वलाङ्घ्रिकः । मायातीतो महामायी मनोवाचामगोचरः ॥ ११॥ मञ्जुलाङ्गो महायोगी महामेरुशरासनः । मन्मथध्वंसको मौनी मधुधारातिभाषकः ॥ १२॥ महीरथो महादेवो महोक्षवरवाहनः । माधुर्यजाह्नवीवीचीसम्प्लावितजटातटः ॥ १३॥ मनोरथफलातीतवरप्रदपदाम्बुजः । महाप्रलयसञ्चारी महाकालो महानटः ॥ १४॥ मधुरापुरमध्यस्थविमानान्तरवासकः । मार्ताण्डकोटिसदृशो मायापुरनिवासकः ॥ १५॥ शिवाकृतिः शिवाकारः शिवानन्दवपुर्धरः । शिवाप्रियः शिवाज्ञेयः शिवयोगवनेश्वरः ॥ १६॥ शिवाधारः शिवमयः शिवासक्तहृदम्बुजः। शिवाङ्गीकृतवामाङ्गः शिवलोकेश्वरः शिवः ॥ १७॥ शिवासहायः शिखिदृक्छिखण्डी शिवलोकदः । शिवक्षेत्रविलासी च शिखरीन्द्रनिकेतनः ॥ १८॥ शिवभक्तहृदम्भोजनिवासी शिवपूःपतिः । वाग्मी वरिष्ठो वरदो वाताशविलसत्करः ॥ १९॥ वसुप्रदो वासुदेववर्यचक्रायुधप्रदः । वरकुन्दद्रुमावासी वटमूलतटाश्रयः ॥ २०॥ वसुन्धरामराकारो वन्द्यो वात्सल्यवारिधिः । वामदेवो वर्यवर्यो वराभयकराम्बुजः ॥ २१॥ वसुरेता वरेण्यश्च वासवाद्यमरार्चितः । वशीकृताखिलाण्डश्च वाक्प्रदो वरदेशिकः ॥ २२॥ यज्ञकृद्यज्ञहृद्यज्ञध्वंसी यज्ञेश्वरो यमी । यमाद्यष्टाङ्गसन्दृश्यो यन्ता यज्ञविदुत्तमः ॥ २३॥ यथेच्छासृष्टभुवनो यथार्थजनवत्सलः । यताश्रितजनक्लेशो यज्ञसन्दृश्यविग्रहः ॥ २४॥ यमप्रहर्ता यक्षेशसखा यातुगुणान्तकः । यज्ञमृग्यो यज्ञसाध्यो यज्ञविश्रान्तिभूरुहः ॥ २५॥ यतीशो यतिचित्तारविन्दनृत्तविधायकः ॥ २६॥ आत्माऽन्तरात्मा परात्माऽऽदिकैलासनायकः । आत्मनाथस्तीर्थनाथः शब्दनाथः सदाशिवः ॥ २७॥ अष्टविंशोत्तरशतैरेतैर्नामभिरुज्ज्वलम् । अखण्डं मन्त्रराजाख्यस्तवमब्जभवोदितम् ॥ २८॥ सकृत् पठित्वा मनुजः श्रुत्वा वा सर्वभोगभुक् । सर्वाघौघविनिर्मुक्तः स जीवेच्छरदः शतम् ॥ २९॥ इति धौम्येनोपदिष्टः पुरूरवसे कृतः श्रीमन्त्रराजस्तवः । Proofread by Aruna Narayanan
% Text title            : Mantraraja Stava
% File name             : mantrarAjastavaH.itx
% itxtitle              : mantrarAjastavaH (dhaumyenopadiShTaH)
% engtitle              : mantrarAjastavaH
% Category              : shiva, mantra, aShTottarashatanAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From Atmanatha Stuti Manjari, Ed. S. V. Radhakrishna Sastri. See corresonding nAmAvalI.
% Indexextra            : (nAmAvalI, Scan, Info 1, 2)
% Latest update         : December 12, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org