श्रीनटेशस्तुतिः
श्री भृङ्गिमहर्षिप्रणीता
श्रीकैलासे प्रदोषे नटति पुरहरे देवदैत्यादिवन्द्ये
पश्यन्त्यां शैलपुत्र्यां नटनमतिमुदा स्वर्वधूसंवृतायाम् ।
ब्रह्मा तालं च वेणुं कलयति मधवा मद्दलं चक्रपाणिः
धित्तान्धितान्धिमित्तां धिमिधिमिधिमितान्धिन्धिमी धिन्धिमीति ॥ १॥
नन्दी मद्दलवाद्यभृद्वितनुते तान्तां तथित्तामिति
ब्रह्मा तालरवं तकृत्तकृतत त्तत्तत्तकृत्तामिति ।
गाने तुम्बुरुनारदौ तनननातानाननातानना
शम्भौ नृत्यति स्वर्णसंसदि सदा झञ्झञ्झणञ्झामिति ॥ २॥
चिदम्बरसभायान्तु नृत्तं दृष्ट्वा पिनाकिनः ।
बहुधाऽऽनम्य भगवान् भृङ्गी तुष्टाव शङ्करम् ॥ ३॥
क्रूरं दुष्टतमं स्वधर्मविरमं भ्रष्टं शठं निष्ठुरं
निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशनं हिंसकम् ।
आशापाशशतप्रवर्तिमनसं दुष्कीर्तिभाजं जडं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥
स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं
ध्यानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।
दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्यास्पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥
कर्मादिस्तुतिकारणं परमिमं निन्दाकरं निन्दितं
लुण्टाकं पतितं विपर्यय गतस्वान्तं सदा याचकम् ।
कैवल्यापगतं सुखारिनिचयं सर्वप्रदासञ्चयं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ६॥
सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञानकं
देवब्राह्मण गोप्रजातिथिपितृज्ञानात्मकानर्चकम् ।
विश्वस्तेष्वपकारवञ्चनपरैर्मैत्रीपरं दुर्जयं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ७॥
विण्मूत्रक्रिमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं
दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषास्पदम् ।
दृष्ट्वापि स्वकलेवरं कृशमयं तत्रापि रक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ८॥
किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले
भूतो नास्ति च नो भविष्यति पुमान् दौर्भाग्यचूडामणिः ।
तस्मादीदृशमात्म वैरिवशगं तापत्रयस्यास्पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ९॥
शापेर्ष्यामदलोभमोहकरणैः किं वाऽधिकारैर्धनैः
किं दारैः स्वसुखैकसाधनतया शुश्रूषमाणैः पतीन् ।
छायामात्रफलैरगारवलयैः किं भूश्रियोवाञ्छया
सर्वं भ्रान्तिविजृम्भितं हृदय मे मुक्त्यै शिवं भावय ॥ १०॥
शार्दूलाङ्घ्रिपतञ्जलिप्रभृतिभिः साकं मुनीन्द्रैर्गणैः
शैलादिप्रमथैः हरीन्द्रविबुधैश्चाहं सभायां च ते ।
ब्रह्मानन्द निदानताण्डवसुधास्वादी भवेयं विभो
नान्यद्वाञ्छितमस्ति मे नटपते भूयो नमस्ते नमः ॥ ११॥
भृङ्गिणा रचितामेतां स्तुतिं नित्यं पठन्ति ये ।
इह भुक्त्वाऽखिलान् भोगानन्ते यान्ति परं पदम् ॥ १२॥
इति श्री भृङ्गिमहर्षिप्रणीता श्रीनटेशस्तुतिः समाप्ता ।
(This is similar to bhRingikRitashivastotraM shivarahasye
with variations so treated separate)
Proofread by Aruna Narayanan