निदाघानुभववर्णनणम्
अहमेव हि तद्ब्रह्म अहमेव हि केवलम् ॥ ४४.१॥
अहमेव हि नित्यात्मा अहमेव सदाऽजरः ।
अहमेव हि शान्तात्मा अहमेव हि निष्कलः ॥ ४४.२॥
अहमेव हि निश्चिन्तः अहमेव सुखात्मकः ।
अहमेव गुरुस्त्वं हि अहं शिष्योऽस्मि केवलम् ॥ ४४.३॥
अहमानन्द एवात्मा अहमेव निरञ्जनः ।
अहं तुर्यातिगो ह्यात्मा अहमेव गुणोज्झितः ॥ ४४.४॥
अहं विदेह एवात्मा अहमेव हि शङ्करः ।
अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥ ४४.५॥
अहमेव हि लक्ष्यात्मा अहमेव मनोमयः ।
अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥ ४४.६॥
अहं विष्णुरहं ब्रह्मा अहमिन्द्रस्त्वहं सुराः ।
अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥ ४४.७॥
अहं समुद्राः सरित अहमेव हि पर्वताः ।
अहं वनानि भुवनं अहमेवेदमेव हि ॥ ४४.८॥
नित्यतृप्तो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः ।
अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥ ४४.९॥
अहमेव महानात्मा सर्वमङ्गलविग्रहः ।
अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥ ४४.१०॥
अहं भूमिरहं वायुरहं तेजो ह्यहं नभः ।
अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥ ४४.११॥
अहं लोका अलोकाश्च अहं लोक्या अहं सदा ।
अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥ ४४.१२॥
अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् ।
शुभाशुभफलातीतो ह्यहमेव हि केवलम् ॥ ४४.१३॥
अहमेव ऋतं सत्यमहं सच्चित्सुखात्मकः ।
अहमानन्द एवात्मा बहुधा चैकधा स्थितः ॥ ४४.१४॥
अहं भूतभविष्यं च वर्तमानमहं सदा ।
अहमेको द्विधाहं च बहुधा चाहमेव हि ॥ ४४.१५॥
अहमेव परं ब्रह्म अहमेव प्रजापतिः ।
स्वराट्संराड् जगद्योनिरहमेव हि सर्वदा ॥ ४४.१६॥
अहं विश्वस्तैजसश्च प्राज्ञोऽहं तुर्य एव हि ।
अहं प्राणो मनश्चाहमहमिन्द्रियवर्गकः ॥ ४४.१७॥
अहं विश्वं हि भुवनं गगनात्माहमेव हि ।
अनुपाधि उपाध्यं यत्तत्सर्वमहमेव हि ॥ ४४.१८॥
उपाधिरहितश्चाहं नित्यानन्दोऽहमेव हि ।
एवं निश्चयवानन्तः सर्वदा सुखमश्नुते ।
एवं यः शृणुयान्नित्यं सर्वपापैः प्रमुच्यते ॥ ४४.१९॥
नित्योऽहं निर्विकल्पो जनवनभुवने पावनोऽहं मनीषी
विश्वो विश्वातिगोऽहं प्रकृतिविनिकृतो एकधा संस्थितोऽहम् ।
नानाकारविनाशजन्मरहितस्वज्ञानकार्योज्झितैः
भूमानन्दघनोऽस्म्यहं परशिवः सत्यस्वरूपोऽस्म्यहम् ॥ ४४.२०॥
॥ इति शिवरहस्यान्तर्गते निदाघानुभववर्णनणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४१। १-२०॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 41. 1-20..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan