परमाद्वयद्वादशिका

परमाद्वयद्वादशिका

(परमार्थद्वादशिका) तथ्यातथ्यमकल्पमल्पश्यनैर्जल्पक्रमं संहरं- स्तत्संहारक्रमे न किं कथमिदं कोऽस्मीति माचीकॢपः । (शान्तिं सम्भज नित्यमल्पवचनैर्जल्पक्रमं संहर तत्संहारगमेन किं कथमिदं कोऽसीति मा चीकॢपः ।) भावाभावविभागभासनतया यद्भात्यभग्नक्रमं तच्छून्यं शिवधाम वस्तु परमं ब्रह्मात्र कोऽर्थग्रहः ॥ १॥ यद्यतत्त्वपरिहारपूर्वकं तत्त्वमेषि तदतत्त्वमेव हि । यद्यतत्त्वमथ तत्त्वमेव वा तत्त्वमेव ननु तत्त्वमीदृशम् ॥ २॥ यद्यद्भाति न भानतः पृथगिदं भेदोऽपि भातीति चेत् भाने सोऽपि न भाति किं जहि ततस्तद्भङ्गिभङ्गग्रहम् । स्वप्ने स्वप्नतया प्रथां गतवति क्रीडैव नो भीतिकृ- (गतवती) च्छस्त्राघातजलावपातहुतभुङ्निर्घातबन्धादिकम् ॥ ३॥ ध्यानक्रियाकलनपूर्वकमध्यवस्ये- (ज्ञानक्रिया) द्यद्यद्भवान् कथय कोऽस्य जडाद्विशेषः । स्फूर्जञ्जडोऽपि न किमद्वयबोधधाम (स्फूर्जन्जडोऽपि) निस्सीमनित्यनिरवग्रहसत्यरूपम् ॥ ४॥ भावानामवभासकोऽसि यदि तैर्मालिन्यमातयन्ते (तैर्मोहः किमातन्यते) किं ते तद्यदि भान्ति हन्त भवतस्तत्राप्यखण्डं महः । नोचेन्नास्ति तदेवमप्युभयथा निर्व्याजनिर्यन्त्रणा- त्रुट्यद्विभ्रमनित्यतृप्तमहिमा नित्यप्रबुद्धोऽसि भोः ॥ ५॥ (नित्यं प्रबुद्धोऽसि)) दृष्टिं बहिः प्रहिणु लक्ष्यमथान्तरित्थं (लक्ष्यपथातिरिक्तं) स्याद्भैरवानुकरणं वत वञ्चनेयम् । निर्द्वन्द्वबोधगगनस्य न बाह्यमस्ति नाभ्यन्तरं निरवकाशविकासधाम्नः ॥ ६॥ वासनाप्रसरविभ्रमोदये यद्यदुल्लसति तत्तदीक्ष्यताम् । आदिमध्यनिधनेषु तत्र चेत् भासि भासि तव लीयतेऽखिलं (लीयते जगत्) ॥ ७॥ मोहो दुःखवितर्कतर्कणघनो हेतुप्रथानन्तर- प्रोद्यद्विभ्रमश‍ृङ्खलातिबहुलो गन्धर्वपूस्सन्निभः (गन्धर्वपूःसन्निभः) । द्वैताद्वैतविकल्पनाश्रयपदे चिद्व्योम्नि नाभाति चेत् कुत्रान्यत्र चकास्तु कास्तु परमा निष्ठाप्यनेकात्मना ॥ ८॥ स्वप्ने तावदसत्यमेव मरणं सौषुम्नधाम्निप्रथा (स्वप्ने तावदसत्यमेव सरणं सौसुप्तधाम्निप्रथा) नैवास्यास्ति तदुत्तरे निरुपधौ चिद्व्योम्नि कोऽस्य ग्रहः । जाग्रत्येव घटावभासवदथ स्याच्चेत्क्षणे कुत्रचि- (जाग्रत्येव धरावदर्थनिचयः) दारोप्यापि तदत्ययेपृथगिदं तत्रापि का खण्डना ॥ ९॥ (ज्ञानेनाथ तदत्ययेऽपृथगिदं) ये ये केऽपि प्रकाशा मयि सति परमव्योम्नि लब्धावकाशाः क्वाशामेतेषु नित्ये महिमनि मयि भोः निर्विभागं विभान्ति । (काशा ह्येतेषु / काशामेतेषु / काशांह्येतेषु) सोऽहं निर्व्याजनित्यप्रतिहतकलनानन्तसत्यस्वतन्त्र- (ध्वस्तद्वैताऽद्वयारिद्वयमयतिमिरापारबोधप्रकाशः) ध्वस्तद्वैताऽद्वयादि द्वयमयतिमिरापारबोधप्रकाशः ॥ १०॥ कालः सङ्कलयन्कलाः कलयतु स्रष्टा सृजत्वादरा- दाज्ञायाः परतन्त्रतामुपगतो मथ्नातु वा मन्मथः । क्रीडाडम्बरामम्बराश्रयमिव स्वे लेखरेखाक्रमं (स्वोल्लेखरेखाक्रमं) देहाद्याश्रयमस्तु वैकृतिमहामोहो न पश्यामि किम् ॥ ११॥ (वैकृतमहामोहे) कः कोऽत्र भोऽहं कवलीकरोमि (कोऽत्र भोर्यं) कः कोऽत्र भोऽहं सहसानिडन्मि । (कोऽत्र भोर्यं सहसा निहीन्म) कः कोऽत्र भोऽहं परबोधधाम (कोऽत्र भोर्यं) सञ्चर्वणोन्मत्ततनुः पिबामि ॥ १२॥ भवोत्थभयभङ्गदं गदश‍ृगालविद्रावणं (भवोत्थभयभङ्गदङ्गदश‍ृगालविद्रावणं) प्रबोधधुरिधीमतामपि सकृद्यदुद्दीपयन् । (सकृद्यदुद्दीपनम्) स्वगाध(सुधा)मगहनाटवीविहरणातितृप्त्युद्गमाद् विभेदहरिबृंहितं व्यधित रम्यदेवो हरिः ॥ १३॥ (अभेदकरिबृंहितं) इत्याचार्याभिनवगुप्तकृता परमाद्वयद्वादशिका अथवा परमार्थद्वादशिका भव्यायास्तुतराम् ॥ Encoded and proofread by Ruma Dewan
% Text title            : paramAdvayadvAdashikA by Abhinavagupta
% File name             : paramAdvayadvAdashikA.itx
% itxtitle              : paramAdvayadvAdashikA athavA paramArthadvAdashikA(abhinavaguptavirachitA)
% engtitle              : paramAdvayadvAdashikA by Abhinavagupta
% Category              : shiva, abhinavagupta, dvAdasha
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Abhinavagupta
% Language              : Sanskrit
% Subject               : Hinduism/philosophy/advaita
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description-comments  : There are slight variations in both the versions.
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org