प्रदोषकालेशिवलिङ्गपूजावर्णनम्

प्रदोषकालेशिवलिङ्गपूजावर्णनम्

बिल्वैः पुष्पैः पूजितं शाङ्गलिङ्गं धूपैः रत्नैर्दीपदानैरनन्तैः । तत्वज्ञोऽयं तेन पुण्येन भूयः तस्मान्नित्यं पूज्य एव शिवः स्यात् ॥ ५२॥ पुण्यान्यनन्तान्यपि सन्ति किं तैः प्रदोषकाले शिवपूजनेन । भवत्यवश्यं नृप तत्ववेत्ता सौभाग्यसौन्दर्यनिधिश्च मर्त्यः ॥ ५३॥ किं कौतुकं सृष्टमिदं शिवेन दृष्टं प्रदोषे शिवलिङ्गमात्रम् । सूते सुखानि स्वयमेक एव नान्यत् परं किञ्चिदपेक्षितं च ॥ ५४॥ प्रदोषकाले शिवसम्मतोऽतः प्रदोषकालीनशिवार्चनेन । प्रयाति शैवं पदमद्भुतं तत् न ज्ञायते भूप सुराधिपैश्च ॥ ५५॥ यः कोऽपि सायं शिवदर्शनेन भुक्त्वाऽपि भोगान् विपुलानपारान् । शिवं प्रयात्येव विना प्रयत्नैः स योगिनामप्यतिदुर्लभो हि ॥ ५६॥ स यागवार्तां न करोति शम्भुः न योगवार्तामपि दानवार्ताम् । परन्तु सायं शिवपूजकानां करोति वार्ता गिरिजासमेतः ॥ ५७॥ प्रदोषकाले समुपागतोऽद्य पुष्पं गृहीत्वा कमलं गृहीत्वा । स बिल्वमादाय जलं गृहीत्वा स भूतिमादाय तिलाक्षतानि ॥ ५८॥ स धूपमादाय समागतोऽद्य दीपं समादाय फलं गृहीत्वा । ताम्बूलमादाय स सायमादौ लिङ्गार्चनासक्तमतिर्भवानि ॥ ५९॥ निरीक्ष्यते तेन महाप्रदोषे बिल्वार्चितं लिङ्गमनुत्तमं मे । प्रदक्षिणं च प्रणतं च तेन ध्यातं च तेन क्षणमास्तिकेन ॥ ६०॥ विभूतिपूतेन विलोकितं च पुनः पुनर्लिंङ्गमनुस्मृतं च । रुद्राक्षमालाछविभूषणं च पुनः पुनस्तत् प्रणतं च लिङ्गम् ॥ ६१॥ ताम्बूलमादाय निवेदितं च द्राक्षाफलं तेन निवेदितं च । तेनार्पितं तत्कदलीफलं च प्रदोषकाले शिवलिङ्गमूर्ध्नि ॥ ६२॥ तेनाम्रपक्वोरुफलानि तानि दत्तानि लिङ्गोपरि तेन दत्तम् । दुकूलमत्युज्वलमायतं च तदेव तावद्विपुलं मनोज्ञम् ॥ ६३॥ क्षीरप्रवाहैरभिषिक्तमद्य प्रदोषकालेषु दधिप्रवाहैः । घृतप्रवाहश्च मधुप्रवाहैः सुशर्कराराशिभिरर्चिन्त च ॥ ६४॥ मन्दारमालासमलङ्कृतं च लिङ्गं मदीयं घनचन्दनेन । कस्तूरिकाकर्दमसंयुतेन प्रदोषकाले खलु शाम्भवेन ॥ ६५॥ सुशर्करासद्घृतकुम्भयुक्तं क्षीरान्नमेतेन निवेदितं मे । अपूपराशिश्च समर्पितो मे महाप्रदोषे खलु शाम्भवेन ॥ ६६॥ अनेन रत्नाभरणानि दत्तान्यनेन दत्ता खलु बिल्वमाला । प्रदोषकाले मुहुरादरेण सृष्टं च लिङ्गं मम आदरेण ॥ ६७॥ अयं हि हस्तो भगवानयं मे पुण्यस्वभावो भगवत्तरो मे । अयं हि हस्तः खलु विश्वभेषजो यस्मादयं मेऽद्य शिवाभिमर्शनः ॥ ६८॥ अनेन भुक्तं न दिवा भवानि जलं न पीतं फलभक्षणं च । कृतं न ताम्बूलमपि प्रदोषे त्यक्त्वा शिवाराधनमादरेण ॥ ६९॥ एते मदीयाः सितभस्मपूताः प्रदोषकाले शिवपूजनाय । कृतप्रयत्नाः शिवनामपूताः प्रकृष्टरुद्राक्षविभूषिताङ्गाः ॥ ७०॥ प्रदोषकालीनशिवार्चनेन भुक्त्वैव भोगान् विपुलानपारान् । स्थास्यन्ति सर्वेऽपि ममैव पार्श्वे मत्पूजनं प्राप्य महोत्सवास्ते ॥ ७१॥ एते विमानानि मनोहराणि प्राप्यान्तकाराधितपादपद्माः । विधीन्द्रनारायणपूजिताश्च स्थास्यन्ति मत्पादनखप्रभाभिः ॥ ७२॥ धन्याः प्रदोषेषु शिवार्चकास्ते सर्वे ममैवापरविग्रहास्ते । तेषां परं पादरजो यमोऽपि धत्ते शिरस्येव तथैव विष्णुः ॥ ७३॥ प्रदोषकालीनशिवार्चनाय मतिः शिवे स्यान्मदनुग्रहेण । अघोरसंसारविकारसागरे पुनर्न दुःखानि तया भवन्ति ॥ ७४॥ तावन्महापापभयं भवानि यावन्न पूजां रजनीमुखेषु । करोति लिङ्गे सितभस्मवीतत्रिपुण्ड्ररुद्राक्षविभूषितः सन् ॥ ७५॥ पूजां कोऽपि महाप्रदोषसमये कृत्वा विभूति- प्रभारुद्राक्षाभरणप्रभापरिवृतो लिङ्गे जलैर्वा फलैः । बिल्वैर्वा नवकण्टकारिकुसुमैः दूर्वाङ्कुरैर्वा शिवे भूपालत्वमवाप्य मत्पदरजःपुञ्जेन सङ्क्रीडति ॥ ७८॥ को वा तेन समः प्रदोषसमये येनाहमभ्यर्चितो बिल्वानां खलु मालया जललवैः श्रौतेन वा भस्मना । उत्फुल्लैः करवीरचम्पकमहामल्लीप्रसूनैः शिवैः तत्पादाम्बुजरेणुभिर्मुहुरहो नारायणः पूजितः ॥ ७७॥ आजन्माखिलकण्ठशोषणकरैः किं वेदपारायणैः किं यागैर्धनधान्यनाशनकरैः कन्याप्रदानैरपि । किञ्चोत्तुङ्गतुरङ्गदन्तिनिकररागारप्रदानैः शिवे सायङ्कालशिवार्चनार्जितफलाभावे न मुक्तिर्यतः ॥ ७८॥ क्षीणा स्यात् तनुरेव घोरतपसा दानैर्धनं नश्यति व्यर्थं चायुरपि प्रयाति गिरिजे लिङ्गार्चनं तन्न चेत् । तेनैवाखिलभाग्यभोगविभवो भ्रमण्डले जायते पश्चान्मुक्तिमुपैति तेन सदृशं लिङ्गं न जाने ध्रुवम् ॥ ७९॥ स्वर्गः केवलमङ्गजातसहितात् यागात् स सव्यङ्गतो व्यङ्गं लिङ्गसमर्चनं जललवैः श्रीबिल्वचूर्णैः कृतम् । तेनापारसुरार्चितेन विभवैः स्वर्गापवर्गप्रदं लिङ्गाराधनमेव तेन सदृशो धर्मो न लोकत्रये ॥ ८०॥ चित्तं यस्य न लिङ्गपूजनरतं तज्जन्म तावद्गतं व्यर्थं तञ्जननीवयस्तरुवरच्छेदे कुठारः स तु । तद्वार्ताऽप्यघसाधनाय गिरिजे लिङ्गार्चनाराधको यस्तस्यानुचरोऽपि सोऽपि हि महान् कालाद्भयं तस्य न ॥ ८१॥ तज्जन्मातिमनोहरं सुखकरं मन्येऽतिमान्ये शिवे यः सायं शिवपूजनोद्यतमतिर्मध्याह्नकाले शिवे । यं दृष्ट्वाऽपि यमादयोऽपि बहुधा कम्पायमानाः सदा धन्या तज्जननी पिता च सुतरां धन्यः स मान्यः सुरैः ॥ ८२॥ ॥ इति शिवरहस्यान्तर्गते प्रदोषकालेशिवलिङ्गपूजावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४ - प्रदोषपूजादर्शनफलवर्णनम् । ५२-८२॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 4 - pradoShapUjAdarshanaphalavarNanam . 52-82.. (Note: from text it seems it is spoken by Yagnyavalkya, but the content suggests that it is spoken to Devi by Shiva (Ishwara).) Proofread by Ruma Dewan
% Text title            : Pradoshakale shivalingapujavarnanam
% File name             : pradoShakAleshivalingapUjAvarNanam.itx
% itxtitle              : shivaliNgapUjAvarNanam pradoShakAle (shivarahasyAntargatam)
% engtitle              : pradoShakAle shivalingapUjAvarNanam
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 4 | 52-82 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org