पुष्करेश्वरलिङ्ग शिवक्षेत्र महात्म्यम्

पुष्करेश्वरलिङ्ग शिवक्षेत्र महात्म्यम्

(शिवगौरीसंवादे) ईश्वरः - श्रृणु देवि कथामेकां ब्रह्मणः परमाद्भुताम् । यां श्रुत्वा मयि विन्दन्ते भक्तिं सर्वार्थदायिनीम् ॥ १॥ सत्यलोके स्थितो ब्रह्मा यियक्षुरभवच्छिवे । स्वहस्तपद्मं धाता च पातयामास भूतले ॥ २॥ क्षेत्राणामुत्तमे तन्मे पुष्करे पुष्करं तदा । तत्र मे संस्थितं पूर्वं पुष्करेश्वरसञ्ज्ञितम् ॥ ३॥ लिङ्गं मङ्गलदं पुण्यं तन्मौलौ नलिनं पतत् । वेणुगुल्मावृतं भद्रं नानावृक्षसमन्वितम् ॥ ४॥ तत्रान्तरेऽभवद्वाणी श्रुत्वा(?) वाणीपतिस्तदा ॥ (वाणी ब्रह्माणमवदत् इति वक्तव्यम् ।) --- वाणी - एतद्विधातः क्षेत्रणामुत्तमं पुष्करं शिवम् । यजतो देवयजनं तव भृयात् सुपावनम् ॥ ५॥ पुष्करं ते यतः पुण्यं पतितं पुष्करं हि तत् । अत्र लिङ्गमिदं श्रेष्ठं देवदेवस्य शूलिनः ॥ ६॥ पश्य सम्पूजयात्रैव कार्तिकोऽयं सुपावनः । मासो हि पुण्यनिलये गङ्गेयं पावनी सरित् ॥ ७॥ कार्तिके सोमवारेषु पुष्करे पुष्करेश्वरम् । यः समर्चयिता रात्रौ बिल्वैर्द्रोणैश्च धुत्तुरैः ॥ ८॥ तस्य पुण्यस्य नान्तोऽस्ति स च शङ्करवल्लभः । तदा वाणीवचः श्रुत्वा विश्वकर्माणमाह्वयत् ॥ ९॥ --- ईश्वरः - ब्रह्मणा स्मृतमात्रः स विश्वकर्मा ततो विधिम् । प्राह किं करवाणीति क्षेत्रं विस्तारयेति तम् ॥ १०॥ व्यधाद्वेधास्तदा शालामाश्रमं सरितस्तटे । मण्टपं गोपुरं दिव्यं पुष्करेशस्य शूलिनः ॥ ११॥ तद्ब्रह्मणोवचः श्रुत्वा नानाशिल्पसमन्वितः । शालां निर्मापयामास नानामण्टपशोभिताम् ॥ १२॥ भक्ष्यैर्भोज्यैस्तथैवान्नैः सूपापूपैर्मनोरमैः । वाससां राशयस्तत्र ब्राह्मणावसथादयः ॥ १३॥ पुष्करेश्वरलिङ्गस्य चक्रे सोऽपि शिवालयम् । प्राकारगोपुरोपेतमाश्रमैः सुमनोहरम् ॥ १४॥ तत्पितामहवाक्येन विश्वकर्माऽथ शिल्पिराट् । विज्ञप्तुमथ ब्रह्माणं सत्यलोकं गतस्तदा ॥ १५॥ तत्र सन्ति महाशैवाः पुष्करैशसमर्चकाः । बिल्वपत्रादिभिः सम्यक् ते सर्वे भस्मभूषणाः ॥ १६॥ रुद्राक्षहारवलयत्रिपुण्ड्रपरिशोभिताः । निवसन्ति महाशैवाः पुष्करैः पुष्करेश्वरम् ॥ १७॥ समर्चयन्ति नियतं भक्त्या बिल्वैश्च कोमलैः । तत्तत्कालेन देवेशि पुष्करं मे सुरासुरैः ॥ १८॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे पुष्करेश्वरलिङ्ग शिवक्षेत्र महात्म्यम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३५॥ - - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 35.. - Notes: Pushkara Kshetra came to be known so due to a Lotus that fell from the hands of Brahma from Satyaloka, on to a Shivalinga in this region in Prithviloka. A temple was thus constructed there by Vishwakarma around the Shivalinga, that came to be known as Pushkareshwara. Shiva iterated the importance of worshipping at Pushkareshwara during Kartika-masa especially on Mondays (Somavara). The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Pushkareshvaralinga Shivakshetra Mahatmyam
% File name             : puShkareshvaralingashivakShetramahAtmyam.itx
% itxtitle              : puShkareshvaraliNgashivakShetramahAtmyam (shivarahasyAntargatA)
% engtitle              : puShkareshvaralingashivakShetramahAtmyam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 35|| -
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org