सागरेश्वरलिङ्गशिवक्षेत्रे भिल्लेन वनसंरक्षणवर्णनम्
(शिवगौरीसंवादे)
ईश्वरः -
अत्रेतिहासं वक्ष्यामि सावधानमनाः श्रृणु ।
तत्र बिल्ववने कश्चिदासीद् भिल्लो धनुर्धरः ॥ ३६॥
स बिल्वभूरुहाणां च पालकोऽभूच्छुचिस्मिते ।
तस्यापारैः पुण्यबलैर्भिल्लस्याप्यभवन्मतिः ॥ ३७॥
वनदन्तिभयार्थं च तेन कण्टकपङ्क्तिभिः ।
वनस्यावरणं चक्रे प्रबलैः काष्ठसंयमैः ॥ ३८॥
वराहमहिषाणां च गजशुण्डारदैस्तदा ।
वृक्षमूलानि भज्यन्ते मृगाणां च भयात् तदा ॥ ३९॥
मत्ताः करटिनो घोराः स्वशुण्डावलयैर्धृताम् ।
नवारुणां बिल्वशाखां भङ्क्त्वा भुक्त्वा प्रयान्ति च ॥ ४०॥
स प्रातर्बिल्वशाखां तां दृष्ट्वा हस्तिविमर्दिताम् ।
दुःखितः स तदा गौरि तस्मिन्नेवाकरोद्वने ॥ ४१॥
स्वकुटीं पर्णकैः शाखिशाखाव्रजमनोहराम् ।
पुत्रैश्च बालकैः सार्धं पत्न्या तत्रावसच्छिवे ॥ ४२॥
कुद्दालपिटकोद्दामहस्तो नित्यं धनुर्धरः ।
हस्तियूथांश्च महिषान् वराहांस्ताडयत्यपि ॥ ४३॥
स शरैस्तीक्षणभालैश्च दन्तिकुम्भेषु शाङ्करि ।
श्रृङ्गान्तरेषु महिषान् दंष्ट्रासन्धिषु सूकरान् ॥ ४४॥
तद्भयान्नोपसर्पन्ति तद्बिल्ववनमञ्जसा ।
कन्दमूलफलैरेव जीवन् स कणयाचकः ॥ ४५॥
सकुटुम्बस्तदा तस्थौ तस्मिन् बिल्वौघकानने ।
सूक्ष्ममार्गः कृतस्तेन गमनागमने तदा ॥ ४६॥
तमामन्त्र्यैव मुनयो गृह्णन्ति न्वपल्लवान् ।
बिल्वमूलेषु लिङ्गानि स्थापयित्वार्चयन्ति च ॥ ४७॥
कोमलैर्बिल्वपत्रैश्च त्रिकालं भुवनेश्वरि ।
त्रियम्बकमहामन्त्रैः शैवाः सम्पूज्ययन्त्युमे ॥ ४८॥
तान् दृष्ट्वा सततं भिल्लस्तुष्टिमाप्नोति नित्यशः ।
ते भिल्लं पूजयन्त्येव वाग्भिश्च कणदानतः ॥ ४९॥
स भिल्लः शैवसङ्गत्या बिल्वानां पालनेन च ।
मम प्रियतरो नित्यमभूच्च गिरिकन्येके ॥ ५०॥
बिल्वमूलानि सर्वाणि कुद्दालैर्बालकैः सह ।
खात्वा तन्मूलदेशेषु कृमिदष्टांश्च पल्लवान् ॥ ५१॥
धर्मकालेषु तत्पत्नी जलमादाय भूरिशः ।
घटैस्तदा महादेवि करोति वनपालनम् ॥ ५२॥
करोति जलदानं सा बालबिलवप्ररोहणे ।
कृमिदष्टानि पत्राणि लूतातन्तुवृत्तान्यपि ॥ ५३॥
छित्वा छित्वा पातयति बिल्वभूरुहपालिका ।
तन्मूलेषु महाशैवाः शिवमन्त्रजपोत्सुकाः ॥ ५४॥
वसन्ति नियताहाराः शिवलिङ्गार्चकाः शिवे ।
बिल्वपत्रैश्च कुसुमैः रुद्राध्यायभिषेचनैः ॥ ५५॥
पूजयन्त्येव गौरीशं तन्मूलेषु महेश्वरि ।
रुद्राध्यायजलैः शीतैस्तन्मूलं शीतयन्ति ते ॥ ५६॥
सायं ते दीपयन्त्येव शिवलिङ्गं निरीक्षितुम् ।
शिवलिङ्गानि तुङ्गानि बिल्वयुक्तानि शङ्करि ॥ ५७॥
द्रष्टुमभ्युद्यताः सर्वे दीपदीप्तिविराजितम् ।
तत्र ब्रह्मादयो देवा नारदाद्या महर्षयः ॥ ५८॥
द्रष्टुं गच्छन्ति नियताः बिल्वमूले शिवार्चनम् ।
शिवलिङ्गेषु तुङ्गेषु महाशैवकृतं तदा ॥ ५९॥
स्तुवन्ति नृत्यन्ति हसन्ति दृष्ट्वा भुञ्जन्ति पश्यन्ति महेशलिङ्गम् ।
जिघ्रन्ति नैवेद्यमपारपुण्यदं शिवाङ्घ्रिपुष्पाणि सुरा मुनीश्वराः ॥ ६०॥
दृष्ट्वा त्रिपुण्ड्रोज्ज्वलमस्तकानि सुगन्धलिप्तानि मनोहराणि ।
सुबिल्वमूलेषु च संस्थितानि सम्पूज्य जन्मानि कृतार्थयन्ति ॥ ६१॥
तान् दृष्ट्वा प्रमथाधिनाथ गणपान् ब्रह्मादिकास्ते सुराः
धन्या मान्याक्षिभृङ्गा । । । सुतरां पुण्यपुञ्जे निमग्नाः ।
दृष्ट्वा लिङ्गानुमेशप्रियवरजनितापारपापैर्विहीनाः
प्राप्ताः प्राणात्ययेऽपि प्रियममरवरैः भिल्लमूलेषु संस्थाः ॥ ६२॥
सूतः -
इत्येवं स्तुतिभिः स्तुवन्ति सततं तद्विल्वमूलार्चकान्
लिङ्गे तुङ्गे महेशं जनिमृतिजमहादुःखनाशाय शैवाः ॥ ६३॥
स शैवपूजितापार लिङ्गानि वनपालकः ।
प्रणम्य दारतनयैः संस्तौति परमार्थतः ॥ ६४॥
---
भिल्लः -
पाहि बिल्ववनमीश्वर शम्भो हस्तिहस्तमृदितं नवशाखम् ।
दन्तिकृत्तिवस मामव शम्भो बन्धुरालक दयस्व मय्यपि ॥ ६५॥
हर हर मुरभित्प्रपूजिताङ्घ्रे स्मरहर कुरु मय्यकिञ्चने दयाम् ।
हर हर गुरुतापभारं गरधर शङ्कर चन्द्रशेखर ॥ ६६॥
---
ईश्वरः -
इत्थं शैवजनान्वितं स विपिने भिल्लोऽपि बिल्वीवने
ध्यात्वा मत्पदपङ्कजं विधिनुतं बिल्वादिसन्मौलिभिः ।
गङ्गासागरसङ्गमे विपिनवन्मल्लिङ्गसम्पूजको
बिल्वाद्यैर्गणनायकः स सुतरां मुक्तो भवत्यद्रिजे ॥ ६७॥
यो बिल्वच्छदपूतलग्नवसनैः संश्लिष्टगात्रान् द्विजान्
तन्मूले सुखशीतले पितृगणान् सम्भोजयेत् षड्रसैः ।
तस्यान्नं शतवर्षतृप्तिजनकं भूयात् पितॄणां मुदे
तच्छर्वार्पिततर्पितान्नपितरस्तुष्यति हृष्यन्ति च ॥ ६८॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीदसंवादे सागरेश्वरलिङ्गशिवक्षेत्रे भिल्लेन वनसंरक्षणवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३१॥ -
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 31.. -
Notes:
Shiva outlines the merits of worshipping at Sagareshwara Linga situated at the Ganga-Sagar-Sangama Shiva Kshetra, amidst the Bilva forest that was protected by a local Bhilla from rampaging elephants.
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan