सभारञ्जनशतकम्

सभारञ्जनशतकम्

॥ श्रीः ॥ षड्दर्शनीपरिज्ञानमण्डितैरिव पण्डितैः । स्तम्भैश्चित्रैर्वितानैश्च सभा किमवभासते ॥ १॥ सन्ति सर्वविधा मर्त्या न सन्त्येके विपश्चितः । असूर्येणेव लोकेन किं तेन विषयेण नः ॥ २॥ उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः । न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥ ३॥ बहुभ्यो बहु बोद्धव्यं बहुधा बहुवासरान् । बहुकल्पशतस्थायि लब्धं बहुविधं यशः ॥ ४॥ पाषाणाः सर्व एवैते पद्मरागेषु को गुणः । प्रकाशः कश्चिदत्रास्ते परत्र स न विद्यते ॥ ५॥ जात्यन्धा जातिबधिरा जातिमूकाश्च ते जनाः । सम्यगाराधिता यैर्न सन्तो विज्ञानसिन्धवः ॥ ६॥ अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये । पशुतैव वरं तेषां प्रत्यवायाप्रवर्तनात् ॥ ७॥ किं परोक्षं किमध्यक्षं किं लभ्यं किं नु दुर्लभम् । सर्वमैन्द्रियिकं वस्तु सर्वे करगतं सताम् ॥ ८॥ स्थावरा जङ्गमा मर्त्या ब्राह्मणा मुनयः सुराः । शिव इत्यप्यमी भेदाश्चिदुत्कर्षनिबन्धनाः ॥ ९॥ विद्युज्जलधरो वृष्टिश्चन्द्रार्कौ सागरा इति । सर्वमद्भुतमज्ञानां जानतां तु न किञ्चन ॥ १०॥ तत्र तत्र स्थितैर्ज्ञानकरणैरिव विग्रहः । विद्वद्भिः शोभते देशस्तैर्विहीनस्त्वमङ्गलः ॥ ११॥ अमलीमसमच्छिद्रमकेयमतिसुन्दरम् । अदेयमप्रतिग्राह्यमहो ज्ञानं महाधनम् ॥ १२॥ सन्दर्भशक्तिहीनानां शब्दाभ्यासो वृथाश्रमः मुग्धानि लब्ध्वा पुष्पाणि मुण्डितः किं करिष्यति ॥ १३॥ शास्त्रेषु दुर्ग्रहोऽप्यर्थः स्वदते कविसूक्तिषु । दृश्यं करगतं रत्नं दारुणं फणिमूर्धनि ॥ १४॥ आञ्जस्यं व्यवहाराणामार्जवं परमं धियाम् । स्वातन्त्र्यमपि तन्त्रेषु सूते काव्यपरिश्रमः ॥ १५॥ साहित्यविद्याहीनानां सर्वशास्त्रविदामपि । समाजं परिपश्यन्ति समजं बुद्धिशालिनः ॥ १६॥ अशिक्षितानां काव्येषु शास्त्राभ्यासो निरर्थकः । किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः ॥ १७॥ अन्धा विद्वज्ज नैर्हीना मूका कविभिरुज्झिता । बधिरा गाराकैर्हीना सभा भवति भूभृताम् ॥ १८॥ साहित्यादपि शास्त्राणि विशिष्टानीति चेन्मतिः । ततोऽपि वेदाध्ययनं ततोऽपि शिवकीर्तनम् ॥ १९॥ सन्त्वश्वाः सन्तु मातङ्गाः सन्तु योधाः सहस्रशः । नरेन्द्राणां विशेषेण न विना कविना यशः ॥ २०॥ काणाः कमलपत्राक्षाः कदर्याः कल्पशाखिनः । कातरा विक्रमादित्याः कविदृग्गोचरं गताः ॥ २१॥ पारदेश्यं वृथादास्यं पञ्चानामेकदारता । पाण्डवानामभूत्कीर्त्यै पाराशर्यकवेर्गिरा ॥ २२॥ जानाते यन्न चन्द्रार्को जानते यन्न योगिनः । जानीते यन्न भर्गोऽपि तज्जानाति कविः स्वयम् ॥ २३॥ सर्वासामपि विद्यानां साहित्यं हि कवेः पदम् । साधारण्येऽपि यत्रैव सारस्वतपदं ध्रुवम् ॥ २४॥ नादातव्यं न दातव्यं न कर्तव्यं च किञ्चन । सान्त्वमेकं प्रयोक्तव्यं सर्वे तस्य वशे जगत् ॥ २५॥ नामरूपात्मकं विश्वं दृश्यते यदिदं द्विधा । तत्राद्यस्य कविर्वेधा द्वितीयस्य चतुर्मुखः ॥ २६॥ अग्निष्टोमे किमुक्थ्ये किं किमाज्ये किं रथन्तरे । स्तुतिरित्येव हृष्यन्ति सर्वज्ञा अपि देवताः ॥ २७॥ न जातिरूपकर्माणि दृश्यन्ते मृदुभाषिणि । पक्षिणो मलिनास्तत्र परपुष्टा निदर्शनम् ॥ २८॥ अर्थहीनोऽपि मधुरः शब्दो लोकप्रियङ्करः । वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥ २९॥ जिघांसन्तोऽपि पशवो रुदन्तोऽपि स्तनन्धयाः । घ्नन्तोऽपि रिपवो युद्धे वशमायान्ति सान्त्वतः ॥ ३०॥ दातुः प्रतिग्रहीतुश्च यौ हस्तावुत्तराधरौ । तयोरप्यौत्तराधर्ये ताभ्यामेवोपपद्यते ॥ ३१॥ अमर्त्याः सन्तु मर्त्या वा चेतनाः सन्त्वचेतनाः । दानमेव पुरस्कृत्य स्तूयन्ते भुवनैस्त्रिभिः ॥ ३२॥ देयद्रव्यमियत्ता वा दानोत्कर्षे न कारणम् । किं त्ववच्छेदराहित्यं धनदाम्बुदयोरिव ॥ ३३॥ ददातिराददातिश्च द्वावेतौ परमाद्भुतौ । ययोः स्वास्यं च दास्यं च लीलामात्रविजृम्भितम् ॥ दोषा अपि गुणायन्ते दातारं समुपाश्रिताः । कालिमानं किलालम्ब्य कालमेघ इति स्तुतिः ॥ ३५॥ किं दातुरखिलैर्दोषैः किं लुब्धस्याखिलैर्गुणैः । न लोभादधिको दोषो न दानादधिको गुणः ॥ ३६॥ अर्थाः साधारणा एव वियुज्यन्ते स्वभावतः । ममतां त्यजतां तेषु महदुत्पद्यते यशः ॥ ३७॥ मृतोऽप्यर्थे न मोक्ष्यामि बद्ध्वा नेष्यामि मूर्धनि । इति चेत्सुदृढो लोभः पात्रे देयमशङ्कितम् ॥ ३८॥ षष्टिर्देशान्तरे लभ्या शतं दत्त्वात्र नैगमे पात्रे त्वेकमिहोत्सृज्य परत्रानन्तमाप्यते ॥ ३९॥ को दत्ते क इवादत्ते स्वादृष्टं स्वेन भुज्यते । धीभेदमात्रे दातृत्वे क्लिश्यन्ते कृपणाः कियत् ॥ ४०॥ स्वातन्त्र्यं यदि चोरेषु भोक्तृत्वं यदि बन्धुषु । निष्कर्षे तु भ्रमः स्वाम्यं तत्त्यक्त्वा लभ्यतां यशः ॥ न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः । न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥ ४२॥ स्वकीयान्भुञ्जते मत्स्याः स्वापत्यानि फणाधराः ॥ बलाबलव्यवस्थेयं बलिनस्त्वकुतोभयाः ॥ ४३॥ गुरुं हत्वा दिवं याति तृणं छित्त्वा पतत्यधः । बलिनां दुर्बलानां च श्रुतयोऽपि द्विधा स्थिताः ॥ ४४॥ बलिनो बलिनः स्निह्यन्त्यबलं तु निगृह्णते । दावं दीपयते चण्डो दीपं व्याहन्ति मारुतः ॥ ४५॥ बाधका अपि लोकानां बलिनो बिभ्यति स्वयम् । सर्व बलवतां पथ्यं भिषग्भिरभिधीयते ॥ ४६॥ शुभप्रारब्धलब्धापि लक्ष्मीः शौर्यविवर्जिता । शोकेन दह्यमानास्ते षण्डे कुलवधूरिव ॥ ४७॥ सर्वत्र लाल्यते शूरो भीरुः सर्वत्र हन्यते । पच्यन्ते केवला मेषाः पूज्यन्ते युद्धदुर्मदाः ॥ ४८॥ भार्यायाः सुन्दरः स्निग्धो वेश्यायाः सुन्दरो धनी । श्रीदेव्याः सुन्दरः शूरो भारत्याः सुन्दरः सुधीः ॥ ४९॥ न शौर्ये शौर्यमित्येव स्तूयते बुद्धिशालिभिः । किं तु नीत्या समाश्लिष्टं वाग्मित्वमिव मेधया ॥ ५०॥ शौर्येण लोकसेव्यत्वं शौर्येण क्षितिपालता । शौर्येण लभ्यः स्वर्गोऽपि शौर्यं कस्य न साधनम् ॥ ५१॥ समरेषु नरेन्द्राणां सवनेषु द्विजन्मनाम् । प्रतिकर्मसु नारीणां शौर्यं भवति भूषणम् ॥ ५२॥ शौर्ये तुल्ये कथं वृत्तं स्वामी दास इति द्विधा । अन्वयव्यतिरेकाभ्यां नीतिरित्यवधार्यताम् ॥ ५३॥ न जयाय स्वतः शौर्यं किं तु नित्योपबृंहितम् ॥ प्रयुक्तं हि जयत्यत्रं प्रयोक्त्रा न स्वतः क्वचित् ॥ ५४॥ इदमेव परं शौर्यमुपायैस्त्रिभिरन्वितम् । इदमेव परं मौर्यमुपायैस्त्रिभिरुज्झितम् ॥ ५५॥ पराक्रमन्ते युद्धेषु सममेवोभये भटाः । विजयन्तेऽप्युपायज्ञा विजीयन्ते तदुज्झिताः ॥ ५६॥ किं शास्त्रैर्बहुधाभ्यस्तैः किं चातुर्येण किं धिया । किं शौर्येणानिवार्येण ललाटे चेन्न लिख्यते ॥ ५७॥ घटमानाः कुटुम्बेषु ददतीति विपश्चितः । मूढेषु रमते लक्ष्मीरहो दिष्टस्य चेष्टितम् ॥ ५८॥ तुल्यं कर्षन्ति पृथिवीं तुल्यं शास्त्राण्यधीयते । उन्मज्जन्ति निमज्जन्ति देवस्यैकस्य चेष्टया ॥ ५९॥ लुभ्यन्ति वितरन्तोऽपि कुप्यन्ति सरला अपि । मुह्यन्ति मतिमन्तोऽपि भोक्तुर्भाग्यविपर्ययात् ॥ ६०॥ अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः । नात्यन्ताय निवर्तन्ते नरा वैषम्यतो विधेः ॥ ६१॥ दोहदैरालवालैश्च कियद्वृक्षानुपास्महे । ते तु कालं प्रतीक्षन्ते फलपुष्पसमागमे ॥ ६२॥ कः प्रसूते पुरोवातं कः प्रेरयति वारिदम् । प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ॥ ६३॥ कालः करोति कार्याणि काल एव विहन्ति च । करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ॥ ६४॥ अपि कालस्य यः कालः सोऽपि कालमपेक्षते । कर्तुं जगन्ति हर्तुं वा कालस्तेन जगत्प्रभुः ॥ ६५॥ कालः सदागतिरपि स्थायीव परिचेष्टते । चण्डमारुतवद्विश्वमधरोत्तरयन्क्षणात् ॥ ६६॥ कालश्चालयति प्रायः पण्डितान्पामरानपि । तं चेञ्चिकीर्षसि वशे तितिक्षैव महौषधम् ॥ ६७॥ रन्ध्रेषु प्रहरिष्यन्तः कति कामादयोऽरयः । क्षणान्नश्यति लोकोऽयं क्षमा चेन्न नियच्छति ॥ ६८॥ अपकारपराणामप्युपकुर्वन्ति साधवः । छिन्दन्तमपि वृक्षः स्वच्छायया किं न रक्षति ॥ ६९॥ स्रवत्येव सदा ज्ञानं स्रवत्येव सदा तपः । छिद्रं छिद्रमनुप्राप्य न चेच्छादयति क्षमा ॥ ७०॥ क्षमां रक्षन्ति ये यत्नातक्षमां रक्षन्ति ते चिरम् । क्षमास्ते निभृता येषु क्षमास्ते सर्वकर्मसु ॥ ७१॥ मूर्खाः शमयितुं दुःखं संरभन्ते ततस्ततः । क्षमयैव निगृह्णन्ति धीराः संरम्भवर्जिताः ॥ ७२॥ आ काल्यादा निशीथाञ्च कुक्ष्यर्थं व्याप्रियामहे । न च निर्वृणुमो जातु शान्तास्तु सुखमासते ॥ ७३॥ नायस्यन्ति शरीराणि न दैन्यमवबुध्यते । सम्भवत्यपि चानन्दः शान्तिमभ्यस्यतां सताम् ॥ ७४॥ प्रसीदत्यपरिस्पन्दि पयः कलुषितं यथा । तथा शान्तमपि स्वान्तं प्रसीदति शनैः शनैः ॥ ७५॥ यत्नेन महता लभ्या दासा द्वित्राः सुखाय नः । शान्तस्य कालादृष्टाद्याः शतं भृत्या अवेतनाः ॥ ७६॥ अपि मृद्वथा गिरा लभ्यः सदा जागर्त्यतन्द्रितः । नास्ति धर्मसमो भृत्यः किञ्चिदुक्तस्तु धावति ॥ ७७॥ अर्थेनोपार्ज्यते धर्मो धर्मेणार्थ उपायते । अन्योन्याश्रयणं ह्येतदुभयोत्पत्तिसाधनम् ॥ ७८॥ विपणिः पुण्यतीर्थानि विक्रेतारस्त्वकिञ्चनाः । तृणेनाप्यन्ततो धर्मः पर्वसु क्रीयते महान् ॥ ७९॥ चुलुकोदकमात्रेण धान्यमुष्टिव्ययेन च । मरुभूमिषु दुर्भिक्षे धर्मसस्यं महाफलम् ॥ ८०॥ धर्मो नर्मसखः कामे गुरुस्तत्त्वोपदेशने । भटः सङ्गररङ्गेषु सचिवोऽर्थसमार्जने ॥ ८१॥ भुवि वृक्षा दिवि च्छाया भुवि कूपो जलं दिवि । भुवि यद्गृह्यते विप्रैर्दिवि तद्दीयते सुरैः ॥ ८२॥ कदलीकन्दवद्धर्मो न रोहति बहिर्गतः । छादितस्तु फलं चारु सूते पनसमूलवत् ॥ ८३॥ दुःखेनोपार्ज्यते धर्मः सुखेन तु विनश्यति । कृच्छ्रलब्धममुं त्रातुं नेच्छन्ति मुनयः सुखम् ॥ ८४॥ सम्पाद्यतां वा यत्नेन यद्वा विक्रीयतामयम् । सर्वदा भुज्यतां वान्यैर्धर्मो भवति नान्यथा ॥ ८५॥ अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनाकृताः । आगमेष्वपि चेदेवमद्भुतं किं शरीरिषु ॥ ८६॥ अर्थोऽप्यर्थेन चेत्साध्यः का वार्ता धर्मकामयोः । अर्थः सर्वजगन्मूलमनर्थोऽर्थविपर्ययः ॥ ८७॥ कर्म ज्ञानं च मोक्षाय कर्मण्यर्थोऽधिकारिता । अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते ॥ ८८॥ कथमर्थं निषेधन्तु श्रुतयः स्मृतयोऽपि वा । यासामेकं पदमपि न चलत्यर्थतो विना ॥ ८९॥ लक्ष्मीश इति गोविन्दो मेरुधन्वेति शङ्करः । हिरण्यगर्भ इत्येव ब्रह्मापि बहुमन्यते ॥ १०॥ ऊर्ध्वं गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः । तस्य गौरवमर्थस्य तावतैवानुमीयताम् ॥ ९१॥ गृहिणा यदि लभ्येत गृहिणी हृदयङ्गमा । संसार इति को भारस्तं सारमनुपश्यतः ॥ ९२॥ आहत्य चिनुमः स्वर्गमपवर्गमपि क्रमात् । अनुकूले हि दाम्पत्ये प्रतिकूले न किञ्चन ॥ ९३॥ गृहिणीवृत्तदोषेण गौतमोऽत्यन्ततापितः । आतस्थे दुःखविध्वंसं कैवल्यं परमं मुनिः ॥ ९४॥ अपि यत्परमं तत्त्वमर्धेन्दुकृतशेखरम् । तस्यापि तावानानन्दः किमस्मज्जननीं विना ॥ ९५॥ निन्दन्ति च प्रशंसन्ति निगमा यद्गृहाश्रमम् । दाम्पत्यसाम्यवैषम्यभेदादेतद्वयवस्थितिः ॥ ९६॥ इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे । अतस्तुर्याश्रमं प्राहुरबाधन्यायबाधितम् ॥ ९७॥ भुज्यते यत्सुखं धीरैरप्रमत्तैर्गृहाश्रमे । स्वर्गस्तस्याङ्गसम्पूर्तिरपवर्गोऽस्य नित्यता ॥ ९८॥ दृष्टदोषेऽपि गार्हस्थ्ये दूरदर्शितया स्वयम् । गार्हस्थ्यमेव परमं मेने नैयायिको मुनिः ॥ ९९॥ उच्चावचं जगद्दौःस्थ्यमेकदैव निषेधति । प्रविष्टमात्रो नृपतिः प्रपञ्चमिव न श्रुतिः ॥ १०॥ न राजानं विना राज्यं बलवत्स्वपि मन्त्रिषु । प्राणेष्वसत्सु किं देहश्चण्डवातेन धार्यते ॥ १०१॥ मातुः किञ्चित्पितुः किञ्चिदाचार्यात्किचिदाप्यते । सम्यग्विनीताच्छास्त्रेषु सर्वं राज्ञस्तु लभ्यते ॥ १०२॥ चलन्ति सर्वमर्यादाश्चलिते सति पार्थिवे । पर्वता अपि कम्पन्ते प्रसक्ते कम्पने भुवः ॥ १०३॥ पत्न्या माङ्गल्ययोगेन पत्युरायुः प्रवर्धते । प्रकृतीनां तु भाग्येन पार्थिवः सुखमेधते ॥ १०४॥ निर्मितं शतकं साग्रं नीलकण्ठेन यज्वना । सभारञ्जनमेतेन साधयन्तु मनीषिणः ॥ १०५॥ इति श्रीनीलकण्ठदीक्षितविरचितं सभारञ्जनशतकं सम्पूर्णम् ॥ Proofread by Rajesh Thyagarajan
% Text title            : sabhAranjanashatakam Neelakantha Dikshita
% File name             : sabhAranjanashatakam.itx
% itxtitle              : sabhAranjanashatakam (nIlakaNThadIkShitavirachitam)
% engtitle              : sabhAranjanashatakam by nIlakaNThadIkShita
% Category              : shiva, nIlakaNThadIkShita, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Nilakantha Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan 1, 2, 3, Info 1, 2)
% Latest update         : March 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org