सर्वरक्षाकरं शिवकवचम्
श्रीदेव्युवाच -
भगवन्देवदेवेश सर्वाऽऽम्नायप्रपूजितः ।
सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥ १॥
प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय ।
सर्वरक्षाकरं देवं यदि स्नेहोऽस्ति सम्प्रति ॥ २॥
श्रीभगवानुवाच -
प्रासादमन्त्रकवचस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः,
सदाशिवो देवता, साधकाभीष्टसिद्धये विनियोगः प्रकीर्तितः ।
शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ।
षडक्षरस्वरूपो मे वदनं च महेश्वरः ॥ ३॥
पाञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु ।
मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥ ४॥
वटमूलसमासीनो दक्षिणामूर्तिरव्ययः ।
सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ ५॥
द्वाविंशार्णात्मको रुद्रः कुक्षौ मे परिरक्षतु ।
त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ६॥
चिन्तामणिर्बीजरूपे सर्वनारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ ७॥
एकाक्षरस्वरूपात्मा कूटरूपी महेश्वरः ।
मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु ॥ ८॥
ओमित्याख्यो महाबीजस्वरूपस्त्रिपुरान्तकः
सदा मां रणभूमौ तु रक्षतु त्रिदशाधिपः ॥ ९॥
ऊर्ध्वमूर्धानमीशानो मम रक्षतु सर्वदा ।
दक्षिणस्यां तत्पुरुषो अव्यान्मे गिरिनायकः ॥ १०॥
अघोराख्यो महादेवः पूर्वस्या परिरक्षतु ।
वामदेवः पश्चिमस्यां सदा मे परिरक्षतु ।
उत्तरस्यां सदा पातु सद्योजातः स्वरूपधृक् ॥ ११॥
फलश्रुतिः ।
इत्थ रक्षाकरं देवि कवचं देवदुर्लभम् ।
प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् ॥ १२॥
पूजाकाले पठेद्यस्तु साधकों दक्षिणे भुजे ।
देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः ॥ १३॥
कवचं यस्तु शिरसि धारयेद्यदि मानवः ।
करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ॥ १४॥
स्वर्णपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् ।
राजतोदरसंविष्टां कृत्वा च धारयेत्सुधीः ॥ १५॥
सम्प्राप्य महतीं लक्ष्मीमन्त्रं च शिवरूपधृक् ।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ १६॥
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ।
अन्यथा सिद्धिहानिः स्यात् सत्यमेतन्मनोरमे ॥ १७॥
तव स्नेहान्महादेवि कथितं कवचं शुभम् ।
न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ॥ १८॥
योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् ।
तेनार्चिता महादेवि सर्वे देवा न संशयः ॥ १९॥
इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे सर्वरक्षाकरं कवचं समाप्तम् ॥
पञ्चदशः पटलः
Proofread by Divya KS