सत्यव्रतप्रोक्तं शिवलीलावर्णनम्

सत्यव्रतप्रोक्तं शिवलीलावर्णनम्

- सत्यव्रतशुकवाणीसंवादे - सत्यव्रतः - श‍ृणु सत्यमिदं वाक्यं सावधानं वरानने । देवदेवस्य महिमा मनोवाग्विषयोऽपि न ॥ १७२॥ शङ्करः करुणासिन्धुर्यत् कार्य कर्तुमिच्छति । तत्र नायासलेशोऽपि महादेवस्य शूलिनः ॥ १७३॥ तदिच्छया परं कार्यं भवत्येव सहस्रधा । इच्छामात्रेण सिद्धार्थस्तत एव शिवः प्रभुः ॥ १७४॥ अन्येन कल्पपर्यन्तं कृते यत्नेऽपि सर्वथा । कार्यलेशोऽपि सहसा न सुरेण प्रजायते ॥ १७५॥ अभ्रङ्कषादिनिर्माणं क्षणेनैव महात्मना । स्वेच्छालेशेन तेनैव गौरीकान्तेन लीलया ॥ १७६॥ घृतसागरनिर्माणं शङ्करेणेच्छ्या कृतम् । इक्षुसागरनिर्माणं शङ्करेण कृतं खलु ॥ १७७॥ अन्येषां सागराणां च निर्माणं लीलया कृतम् । भूनिर्माणं च तेनैव लीलया खलु तत् कृतम् ॥ १७८॥ भूधारणार्थाः शैलाश्च निर्मितास्तेन लीलया । भूमञ्चकस्तम्भरूपास्ते शैलाः सप्त सुन्दरि ॥ १७९॥ पातालरूपो लोकोऽपि सृष्टस्तेन स्वलीलया । लोकः करण्डकाकारः काकोदरवराश्रयः ॥ १८०॥ तस्मिन् लोके शिवस्थानमेकमस्ति वरानने । तल्लिङ्गं काञ्चनाकारं शेषभूषणनामकम् ॥ १८१॥ तत्रापि निर्मितं रम्यं मन्दिरं रत्नसुन्दरम् । रत्नप्रासादश‍ृङ्गाग्रकोटीकोटिविराजितम् ॥ १८२॥ तस्य श‍ृङ्गस्य रत्नानि विविधान्यपि कोटिशः । तत्प्रभाभिः स लोकोऽपि भासुरः सर्वथा खलु ॥ १८३॥ तत्र शेषादयो नागाः पूजयन्ति महेश्वरम् । तदुद्यानवनोत्पन्नप्रसूनस्रग्भिरादरात् ॥ १८४॥ अखण्डबिल्वपत्राणि सुवर्णकमलान्यपि । तत्रामितानि तैः पूजां कुर्वन्ति मुनिपुङ्गवाः ॥ १८५॥ तत्र शेषोऽपि रत्नौघैरपारैर्गिरिजापतिम् । पूजयन्ननिशं शम्भुं बिल्वैश्च कनकाम्बुजैः ॥ १८६॥ तत्व केतकपुष्पैश्च मन्दारैरतिशोभनैः । सुवर्णचम्पकाकारप्रसूनैः पूजयन्ति तम् ॥ १८७॥ नागकन्यासहस्राणि पूजयित्वा महेश्वरम् । नृत्यं कुर्वन्ति यत्नेन तस्मिन् शङ्करमन्दिरे ॥ १८८॥ सकुटुम्बः फणिपतिः सपुत्रोऽपि महेश्वरम् । पूजयित्वा प्रसूनाद्यैः कालं नयति सादरम् ॥ १८९॥ कोटिशस्तत्कुटुम्बानि तत्पुत्रा अपि कोटिशः । पूजयन्ति महादेवमतियत्नेन सन्ततम् ॥ १९०॥ तेषां शिवार्चनं कायं नास्ति कार्यान्तरं तथा । विद्यमानानि कार्याणि सन्त्यक्तान्येव सर्वदा ॥ १९१॥ शिवपूजनमस्माकं परमं कार्यमित्यपि । तिष्ठन्ति नागलोकस्थाः सर्वे काकोदरा अपि ॥ १९२॥ शिवपूजाविनिर्मुक्तः कोऽपि काकोदरोऽपि न । अन्येषां तत्र का वार्ता तेषां कार्यं शिवार्चनम् ॥ १९३॥ तेषां तथाविधा भक्तिः शिवेनोत्पादिता ततः । तथैव तेऽपि कुर्वन्ति लीलया शिवपूजनम् ॥ १९४॥ लीलामात्रकृतामिताखिलजगज्जालाय तस्मै नमः तस्मै कारणकारणाय करुणापूर्णार्णवायासकृत् । तस्मै सृष्टिलयस्थितिक्षयपरव्यापारलीलारस- व्याप्तायापि नमो नमः पुनरिदं साम्बाय तस्मै नमः ॥ १९५॥ ॥ इति शिवरहस्यान्तर्गते सत्यव्रतप्रोक्तं शिवलीलावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३९। १७२-१९५ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 39. 172-195 .. Proofread by Ruma Dewan
% Text title            : Satyavrataproktam Shivalilavarnanam
% File name             : satyavrataproktaMshivalIlAvarNanam.itx
% itxtitle              : shivalIlAvarNanam satyavrataproktam (shivarahasyAntargatam)
% engtitle              : satyavrataproktaMshivalIlAvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 39 | 172-195 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org