लिङ्गपुराणोक्तं श्रीनृसिंहकृत शरभस्तोत्रम्

लिङ्गपुराणोक्तं श्रीनृसिंहकृत शरभस्तोत्रम्

ॐ श्रीगणेशाय नमः । अथ आकाशतन्त्रे एकोनाशीतितमोऽध्यायः शरभाष्टोत्तरशतनामस्तोत्रम् श्रीशिव उवाच - अस्य श्रीशरभाष्टोत्तरशतनाममहामन्त्रस्य योगानन्द ऋषिः अनुष्टुप्छन्दः श्रीमदघोरवीरशरभेश्वरो देवता, खं बीजम्, स्वाहाशक्तिः, फट् कीलकम्, श्रीमच्छरभसालुवाष्टोत्तरशतनाम सिद्ध्यर्थे जपे विनियोगः । ध्यानम् - अष्टाङ्घ्रिश्च सहस्रबाहुरनलच्छाया शिरोयुग्मधृग्- यस्त्र्यक्षो द्विखुपुच्छउदितः साक्षान्नृसिंहासनः । अर्धेनापि मृगाकृतिः पुनरथाप्यर्धेन पक्ष्याकृतिः श्री वीरः शलभः स पातु शलभश्चिन्त्यः सदा मां हृदि ॥ श्रीनृसिंह उवाच - (सदाशिवोग्ररूपाय पक्षविक्षिप्तभूभृते ।) नमो रुद्राय शर्वाय महाग्रासाय जिष्णवे ॥ १॥ (रौद्राय, महोग्रासाय, विष्णवे) नम उग्राय भीमाय नमः क्रोधाय मन्यवे । (क्रुद्धाय) नमो भवाय शर्वाय शङ्कराय शिवाय ते ॥ २॥ कालकालाय कालाय महाकालाय मृत्यवे । वीराय वीरभद्राय क्षयद्वीराय शूलिने ॥ ३॥ महादेवाय महते पशूनां पतये नमः । एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने ॥ ४॥ नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमृत्यवे । (मृत्युमन्यवे) पराय परमेशाय परात्परतराय ते ॥ ५॥ (तत्पराय परमात्मने) परापराय विश्वाय नमस्ते विश्वमूर्तये । (परात्पराय, विश्वमूर्त्तये) नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥ ६॥ कैवर्ताय किराताय महाव्याधाय शाश्वते । (वैकर्ताय) भैरवाय शर्वाय शरण्याय महाभैरवरूपिणे ॥ ७॥ (शरव्याय) नमो नृसिंहसंहर्त्रे कामकालपुरारये । (कालकालपुराये) महापाशौघसंहर्त्रे विष्णुमायान्तकारिणे ॥ ८॥ (कर्मपाशौघसंहर्त्रे, नमः पाशौघसंहर्त्रे) त्र्यम्बकाय त्र्यक्षराय शिपिविष्टाय मीढुषे । (त्र्यक्षायच) मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये ॥ ९॥ (रुद्राय सर्वज्ञाय) मखेशाय वरेण्याय नमस्ते वह्निरूपिणे । (खखोल्काय, वाग्भिरेतसे, वह्निरेतसे) महाघ्राणाय जिह्वाय प्राणापानप्रवर्त्तिने ॥ १०॥ (महाप्राणाय देवाय) त्रिगुणाय त्रिशूलाय गुणातीताय योगिने । संसाराय प्रवाहाय महायन्त्रप्रवर्तिने ॥ ११॥ (संसारचक्रवाहाय, संसारयन्त्रवाहाय) नमश्चन्द्राग्निसूर्याय मूर्तिवैचित्र्यहेतवे । (तमस्विद्व्योमसूर्याय, मुक्तिवैचित्रहेतवे , मुक्तिवैचित्र्यहेतवे) वरदायावताराय सर्वकारणहेतवे ॥ १२॥ (वरदाय विकाराय) कपालिने करालाय पतये पुण्यकीर्त्तये । (पुण्यकीर्तये , पुण्यमूर्तये) अघोरायाग्निनेत्राय लकुलीशाय शम्भवे ॥ १३॥ (अमोघायाग्निनेत्राय, नकुलीशाय , अकुलीशाय) भिषक्तमाय चण्डाय दण्डिने घोररूपिणे । (भीषाम्बराय मुण्डाय दण्डिने योगरूपिणे) मेघवाहाय देवाय पार्वतीपतये नमः ॥ १४॥ अव्यक्ताय विशोकाय स्थिराय स्थिरधन्वने । (अव्यक्तायाप्यशोकाय) स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे ॥ १५॥ वरदायैकपादाय नमश्चन्द्रार्धमौलिने । (विरजायैकपादाय नमश्चन्द्रार्धमौलये) नमस्तेऽध्वरराजाय वचसां पतये नमः ॥ १६॥ योगीश्वराय नित्याय सत्याय परमेष्ठिने । (परमात्मने) सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते ॥ १७॥ (सर्वस्वराय) एकद्वित्रिचतुः पञ्चचकृत्वस्तेऽस्तु नमो नमः । दशकृत्वस्तु साहस्रकृत्वस्ते च नमो नमः ॥ १८॥ (दशकृत्वः शतकृत्वः सहस्रकृत्वो नमो नमः ॥ (आसहस्रं नमो नमः ) नमो परिमितं कृत्वानन्तकृत्वो नमो नमः । (कृत्वोऽनन्तकृत्वो) नमो नमो नमो भूयः पुनर्भूयो नमो नमः ॥ १९॥ (नमो परिमितेकृत्वो नमः कृत्वो नमो नमः । (नमो भूयो नमो भूयो पुनर्भूयो नमो नमः ॥) सूत उवाच - नाम्नामष्टशतेनैव स्तुत्वाऽमृतये न तु । पुनस्तु प्रार्थयामास नृसिंहं शरभेश्वरम् ॥ २०॥ यदा यदा ममाज्ञानमत्यहङ्कारदूषितम् । तदा तदाऽपनेतव्यं त्वयैव परमेश्वरः ॥ २१॥ एवं विज्ञापयन्प्रीतः शंङ्करं नरकेसरी । नन्वशक्तो भवान्विष्णो! जीवितान्तं पराजितः ॥ २२॥ तद्वक्त्रशेषमात्रान्तं कृत्वा शर्वस्य विग्रहम् । शुक्तिशित्यं तदामङ्गं वीरभद्रः क्षणात्ततः ॥ २३॥ इति लिङ्गपुराणोक्तं श्रीनृसिंहकृतं शरभस्तोत्रं सम्पूर्णम् ॥ - ॥ लिङपुराणम् । पूर्वभागः । अध्यायः ९६। ७६-९४ ॥ - ॥ आकाशभैरवकल्पम् । अध्यायः ७९॥ - ॥ वीरमाहेश्वराचारसङ्ग्रः । द्वितीयभागः । अध्यायः १७। ९४-१११ ॥ Notes: sharabhastotram appears as nR^isimha uvAcha in li~NgapurANam (vedavyAsa) and texts including AkAshabhairavakalpam, vIramAheshvarAchArasaMgrahaH etc. See sharabheshvaraShTottarashatanAmastotram for an alternative version with Marathi meaning. The core stotram is given here with variations found in the referenced source texts. The shlokas have been re-numbered adapting to the core stotram flow. The phalashruti amongst these texts differs in length (and hence in description). Readers may visit the respective texts for referring to the required preceding (viniyoga, dhyanam etc) and concluding (phalashruti etc.) parts. Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, Psa Easwaran psaeaswaran, Ruma Dewan
% Text title            : Sharabhastotram by Shri Nrisimha from Lingapurana
% File name             : sharabhastotram.itx
% itxtitle              : sharabhastotram sharabhAShTottarashatanAmastotram (liNgapurANoktaM shrInRisiMhakRita)
% engtitle              : sharabhastotram by Shri Nrisimha from Lingapurana
% Category              : shiva, aShTottarashatanAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran, Ruma Dewan
% Description/comments  : Also in Askashabhairavatantra adhyAyaH 79. See corresponding nAmAvalI.
% Indexextra            : (Scans 1*, 2, 3, 4, nAmAvalI, Marathi)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org