नारदप्रोक्तं शिवार्चनमहिमवर्णनम्

नारदप्रोक्तं शिवार्चनमहिमवर्णनम्

साधु साधु महाप्राज्ञ चिरञ्जीव शिवं व्रज । भज मृत्युञ्जयं भक्त्या जय मृत्युं शिवार्चनैः ॥ १०॥ धन्योऽसि कृतकृत्योऽसि कृतकृत्यतमः श्रिया । आदृतोऽसि महाशैव भूतिरुद्राक्षवत्तया ॥ ११॥ जातमात्रस्य या बुद्धिः महादेवार्चने तव । सा तावन्नाद्भुता सायं दृष्टं लिङ्गं त्वया यतः ॥ १२॥ तल्लिङ्गदर्शनोत्पन्नपुण्येनैव शिवार्चनम् । अधुना भक्तिरुत्पन्ना सद्यः स्वर्गापवर्गदा ॥ १३॥ अद्यप्रभृति न त्याज्यं शिवलिङ्गार्चनं त्वया । न त्याज्यं सहसा बाल भस्मरुद्राक्षभूषणम् ॥ १४॥ शिवार्चनेन कालोऽयं नेयः कल्याणदो यतः । व्यर्थकालापनयनं न कार्यं ज्ञानिना त्वया ॥ १५॥ आयुः शिवार्चनेनैव यदि क्षीणं भविष्यति । तदा ज्ञानं च सफलं तदाऽऽयुरपि सार्थकम् ॥ १६॥ ज्ञानेनाज्ञानमात्रस्य विनाशे सति सर्वथा । शिवार्चनार्थं यत्नस्तु कर्तव्यस्तेन मुच्यते ॥ १७॥ यावद्भूमौ भवेज्जीवः तावद्भ्रमति सर्वथा । संसारघोरनरके पापनक्रग्रहाकुले ॥ १८॥ ज्ञानमात्रं च यत्तुल्यं तुच्छजन्तुसमाश्रितम् । तादृशं ज्ञानमन्येषां न मुक्त्यर्थं प्रजायते ॥ १९॥ पतङ्गानां न किं ज्ञानं तत् किं मोक्षस्य साधनम् । मोक्षसाधनभूतं तु ज्ञानमन्यद्विलक्षणम् ॥ २०॥ येन ज्ञानेन मुक्तिः स्यात् तज्ज्ञानाभ्यसनात् परम् । मुक्तो भवति तज्ज्ञानं केवलं शिवपूजया ॥ २१॥ देवोत्तमोत्तमत्वेन ज्ञाते सति महेश्वरे । तज्ज्ञानादेव मुक्तिः स्यात् तज्ज्ञानं च शिवार्चनम् ॥ २२॥ धर्माधर्मतया ज्ञानं श्रीमहादेवपूजनम् । तेन मुक्तिर्भवत्येव स्वर्गभोगाश्च सर्वथा ॥ २३॥ भक्त्या शङ्करमभ्यर्च्य यः स्वर्ग नाभिवाञ्छति । तस्यापि भवति स्वर्गोऽप्यपवर्गो न संशयः ॥ २४॥ स्वर्गार्थमपि चेद्भक्त्या शङ्कराराधकस्तदा । अपवर्गो भवत्येव स्वर्गोऽप्यत्र न संशयः ॥ २५॥ स्वर्गापवर्गदं यस्मात् लिङ्गे शङ्करपूजनम् । तत् तत् फलमदत्वा तु न तिष्ठत्येव सर्वथा ॥ २६॥ शिवलिङ्गार्चनाकारो यः कल्पतरुरुत्तमः । स सर्वकलदो नित्यं भवत्येव न संशयः ॥ २७॥ रूपलावण्यसम्पन्नाः तरुणीगणकोटयः । आसन्ना एव तस्य स्युः यः शिवाराधनप्रियः ॥ २८॥ दिव्यतुङ्गतुरङ्गाणां कोटयः समुपस्थिताः । भवन्त्येव न सन्देहः शिवलिङ्गार्चकाङ्गणे ॥ २९॥ उपस्थिताः सर्वदापि मत्तमातङ्गकोटयः । यः शिवाराधनोद्युक्तः तद्गृहद्वारमण्टपे ॥ ३०॥ सुरास्तद्वशमायान्ति यः शिवाराधनोत्सुकः । तिष्ठन्ति देवाः सततं शिवाराधकमन्दिरे ॥ ३१॥ शिवज्ञानं समासाद्य यः शिवार्चनतत्परः । तद्दर्शनेन मुक्तिः स्यात् स यस्माच्छङ्करप्रियः ॥ ३२॥ शाम्भवैः सह संलापोऽप्यघकोटिविनाशकः । शाम्भवानां दर्शनं च शङ्करस्यैव दर्शनम् ॥ ३३॥ शाङ्करो दुर्लभो लोके शिवपूजाऽपि दुर्लभा । दुरात्मनां तथा बुद्धिः कुतः स्याद् शिवपूजने ॥ ३४॥ किं वाऽन्यदुच्यते बाल शाङ्करेणाऽपि भोजनम् । कृतं हि शिवविद्यायां ततः साऽतीव दुर्लभा ॥ ३५॥ शिवविद्या महाविद्या विद्यानां परमा मता । तस्याः सङ्गोपनं तेन कृतमित्यत्र नाद्भुतम् ॥ ३६॥ सा तु विद्या प्रयत्नेन पार्वत्या स्कन्दसन्निधौ । प्राप्ता शिवप्रसादेन स्कन्देनापि महेश्वरात् ॥ ३७॥ आराधितः शङ्करोऽपि स्कन्देन शिवयाऽपि च । ताभ्यामुक्ता महाविद्या भुक्तिमुक्तिप्रदायिनी ॥ ३८॥ अनन्तयत्नलब्धा सा महाविद्या महात्मना । महादेवेन दत्तेति महागौर्या मुहुर्मुहुः ॥ ३९॥ सा या तु मूलविद्याऽस्ति शिवविद्या शिवात्मिका । सा दुर्लभा न कस्यापि सा स्फुरत्यपि सर्वथा ॥ ४०॥ तद्विद्यासाधनीभूतं शङ्कराराधनं परम् । अशाङ्कराराधकस्य दुर्लभं खलु दृश्यते ॥ ४१॥ यद्दुर्लभमिति ज्ञानं तदेव सुलभं भवेत् । शिवार्चनेन तत्तस्मात् सर्वसिद्धिप्रदायकम् ॥ ४२॥ शिवार्चनेन लोकेषु को वा मुक्तो न जायते । तत्र तावन्न विश्वासो भविष्यति दुरात्मनाम् ॥ ४३॥ महेशार्चनमाहात्म्यं न विजानन्ति मानवाः । अत एव पतन्त्येते नरकेषु न संशयः ॥ ४४॥ शिवार्चनपरित्यागः सर्वथा पापसाधनम् । तेन पापेन यात्येव नरकं दुष्करं परम् ॥ ४५॥ अयत्नेन प्रयत्नेन नरकं प्रति मानवाः । अहो न नीरमप्यल्पं न च यच्छति पल्लवम् ॥ ४६॥ पुष्पं वा देवदेवाय लिङ्गरूपाय सर्वदा । सुलभान्येव पत्राणि जलानि विमलान्यपि ॥ ४७॥ सर्वभावेन यो भावो भावपूजनतत्परः । भवे भवेऽपि न भवेत् स भूयो (भूतो)न भविष्यति ॥ ४८॥ कः शङ्करज्ञानरसं विहायाऽपि रसान्तरम् । स तावदज्ञो विज्ञेयः संज्ञया विद्ययाऽपि वा ॥ ४९॥ अवज्ञायाः परं स्थानं शङ्करानर्चको जनः । तुष्यत्येव महादेवः केवलं तदनुज्ञया ॥ ५०॥ अवज्ञापात्रभूतस्याप्यवज्ञां यस्तु मोहतः । न करिष्यति तं तावत् पातयत्येव पातके ॥ ५१॥ कृत्वा पापान्यनन्तानि सकृद्वा यः शिवं स्मरेत् । स धूतपाप इत्येव विज्ञेयो मुनिसत्तमैः ॥ ५२॥ मुनीनामपि वन्द्यः स्यान्महादेवपरायणः । वन्द्यो नारायणादीनां सुराणामपि सर्वथा ॥ ५३॥ शिवार्चनपरो लोके वन्द्यः पूज्यश्च सर्वथा । तत्पूजया परं सर्वे मुक्ता इत्यवधारणा ॥ ५४॥ महादेवोऽपि तं दृष्ट्वा तुष्टो भवति मानवम् । यो भक्त्या लिङ्गपूजायां निरतः सर्वसाधनैः ॥ ५५॥ सकृद्वा प्रणमेद्यस्तु शङ्करं भक्तिपूर्वकम् । तस्य पापानि नश्यन्ति स एव पुरुषर्षभः ॥ ५६॥ धन्यं कृतार्थं तं मन्ये कृतकृत्योत्तमोत्तमम् । यः क्षणं वा महादेवं लिङ्गे पूजयति प्रभुम् ॥ ५७॥ भस्मोद्धूलितसर्वाङ्गो रुद्राक्षाभरणान्वितः । यो नार्चयति गौरीशं स पातकगणाश्रयः ॥ ५८॥ शिवार्चनाग्निसन्दग्धाः पापपर्वतकोटयः । तस्याशक्यं न लोकेऽस्मिन् सर्वथा नृपबालक ॥ ५९॥ भाग्यबुद्धिः प्रवृद्धा स्यात् श्रीमहादेवपूजया । दुर्लभं दुर्लभं यस्मात् श्रीमहादेवपूजनम् ॥ ६०॥ प्रातः काले महादेवं भस्मरुद्राक्षभूषणम् । अभ्यर्च्य लिङ्गरूपं त्वं मुच्यसे नात्र संशयः ॥ ६१॥ कालत्रयेऽपि कर्तव्यं शिवलिङ्गार्चनं बुधैः । मध्ये मध्येऽपि कर्तव्यं विरतिस्तस्य नोचिता ॥ ६२॥ यस्य स्याद्विरतिर्दैवात् श्रीमहादेवपूजने । स न संसारपापेभ्यो मुच्यते नात्र संशयः ॥ ६३॥ पापार्णवसमाकीर्णो न लिङ्गार्चनतत्परः । लिङ्गार्चनपरित्यागात् पुनश्चाघं (पुनः सापि)भविष्यति ॥ ६४॥ शिवलिङ्गार्चनं मन्ये महापातकनाशनम् । तन्न जानन्ति सहसा नरा वानरवृत्तयः ॥ ६५॥ येषां नराणां पुण्यानि बहूनि विविधान्यपि । तेषामेव भवेद्धर्मः शिवलिङ्गसमर्चने ॥ ६६॥ शिवार्चने न यस्यास्ति विश्वासो मुक्तिदायकः । स एव साध इत्येव ज्ञातव्यो मुनिभिर्नृप ॥ ६७॥ शिवार्चनं विना भूप न पेयं जलमादरात् । न भोक्तव्यं च सहसा ताम्बूलस्य च चर्वणम् ॥ ६८॥ यदेव स्वोपभोगार्थं पवित्रं वस्तु तन्मुदा । निवेद्य शम्भवे पश्चात् स्वभोगाय प्रकल्पयेत् ॥ ६९॥ - - मृत्युर्बिभेति भीतास्ते कालस्यापि भटाः सदा । मृत्युञ्जयार्चनं दृष्ट्वा जलैरपि फलैरपि ॥ ९१॥ कल्याणान्यनुधावन्ति कल्याणपतिपूजया । सर्वकल्याणनाथोऽयं मङ्गलापतिपूजया ॥ ९२॥ स सर्वमङ्गलाकान्तः सर्वमङ्गलसंश्रयः । सर्वमङ्गलदाता च शिवभक्ताय केवलम् ॥ ९३॥ आलस्येनापि यः कुर्यान्महादेवस्य पूजनम् । स तरत्येव संसारमहापद्धोरसागरात् ॥ ९४॥ सुलभं च महेशस्य पूजनं शाम्भवस्य तु । अशाम्भवानां कठिनं तत्र नाधिकृतोऽपि सः ॥ ९५॥ शैवत्वमङ्गं शिवपूजनेषु मुख्यं न तेनापि विना शिवार्चा । अन्यच्च तत्साधनमस्तु तत्तु मुख्यं तदेवेत्यवधारितं हि ॥ ९६॥ तेनाधिकारे सति सर्वदापि शिवार्चनं तेन कृतं प्रयत्नात् । सर्वार्थसिद्ध्यै भवतीति मन्ये स एव धन्यो भुवनत्रयेऽपि ॥ ९७॥ शैवेन दत्तं फलमम्बु पत्रं शुष्कं नवं वा त्रुटितं क्षतं वा । गृह्णाति शम्भुः शिरसा ददाति तस्मै फलान्यप्यमितानि नित्यम् ॥ ९८॥ यो विश्वस्य महेश्वरं त्रिनयनं लिङ्गे समभ्यर्चयेत् भक्त्या भूतिविभूषितोऽतिमुदितो रुद्राक्षभूषाश्रयः । तत्पादाम्बुजरेणुभिर्जगदिदं पूतं सुराः पावनाः सर्वे विष्णुचतुर्मुखप्रभृतयः तस्मात् स धन्यः सदा ॥ ९९॥ ॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं शिवार्चनमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ५ - राजकुमारनारदसंवादे शिवपूजामहिमवर्णनम् । १०-९९॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 5 - rAjakumAranAradasaMvAde shivapUjAmahimavarNanam . 10-99.. Proofread by Ruma Dewan
% Text title            : Naradaproktam Shivarchanamahimavarnanam
% File name             : shivArchanamahimavarNanam.itx
% itxtitle              : shivArchanamahimavarNanam (shivarahasyAntargatam)
% engtitle              : shivArchanamahimavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 5 | 10-99 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org