सदाशिवप्रोक्ता शिवार्चनविधिव्याख्या

सदाशिवप्रोक्ता शिवार्चनविधिव्याख्या

ममेव पूजा विहिता तैरादौ तदनन्तरम् । लिङ्गपूजापि विहिता सा पूजा सुलभा यतः ॥ १॥ मत्स्वरूपपरिज्ञानमशक्यमिति निश्चयात् । तल्लिङ्गपूजनं तावदुक्तं लोकोपकारकम् ॥ २॥ मल्लिङ्गपूजनं तावत् यावज्जीवं विशेषतः । कर्तव्यमतियत्नेन शुचिभूतेन भस्मना ॥ ३॥ यावज्जीवश्रुतिः सेयमग्निहोत्रादिकर्मणाम् । शिवलिङ्गार्चनस्यापि समाना न विशेषतः ॥ ४॥ सायं प्रातः श्रुतिस्तत्र भिन्नकालनियामिका । अनुपादेयमन्त्राङ्गं कालोऽपीत्यवधारितः ॥ ५॥ तथा च विधिशक्तिश्च कालमादाय केवलम् । तत्र पर्यवसनैव सायम्प्रातरिति श्रुतिः ॥ ६॥ प्रकृते लिङ्गपूजायां श्रुतिः कालनियामिका । नास्तीति सर्वदा कार्या सा णमुलप्रत्ययात्मिका ॥ ७॥ न णमुल्प्रत्ययस्यास्य सङ्कोचाय श्रुतिस्तथा । असङ्कुचित एवायं प्रत्ययः स्वार्थबाधकः ॥ ८॥ विहिता प्रत्ययेनैवं शिवपूजनभावना । तया भावनया तावत् करणं पूजनं मतम् ॥ ९॥ तत्राधिकरणं किं वा का तद्बोधकसप्तमी । अधिकारी च कस्तस्मिन् कथमंशोऽपि चिन्तितः ॥ १०॥ शिवलिङ्गे बिल्वपत्रैः पवित्रैः स्वार्जितैरपि । श्रुतिप्राप्त भावनापि पूर्णांशा समभूत् शिवे ॥ ११॥ श्रुतिर्यथास्ति सर्वेभ्यः कामेभ्य इति तत्र सा । दर्शादौ तद्वदत्रापि कामश्रुतिरविच्युता ॥ १२॥ फलसाधनभूतत्त्वात् करणं शिवपूजनम् । शिवार्चनेन लभ्यन्ते सर्वे कामा इति श्रुतेः ॥ १३॥ इयं शिवार्चनेनेति तृतीयाकरणं परम् । शिवपूजनमेवेति शक्त्या बोधयति स्वयम् ॥ १४॥ तस्याः शक्तिस्तु नान्यत्र ओमित्यस्यैव निश्चिता । करणे शक्तिरेवञ्चेत् तदेव करणं स्मृतम् ॥ १५॥ (शक्तिरेवं चेत्) यज्जुहोति तदित्यादि श्रुतिरायतने यथा । शक्त्या तथैव प्रकृते लिङ्गे कुर्यादिति श्रुतिः ॥ १६॥ तथा च सप्तमी सेयं लिङ्गमायतनं परम् । ज्ञेयं शिवार्चनस्यापि तत्र शक्ता वदत्यपि ॥ १७॥ फलकामोऽधिकारीति ज्योतिष्टोमविनिश्चयात् । प्रकृतेऽप्यधिकारीति फलकाम इति श्रुतः ॥ १८॥ गुणोत्तरान्वेषणाय प्रवृत्ता सापि भावना । बिल्वपत्रैरिति श्रुत्या तानि जग्राह सादरम् ॥ १९॥ पत्न्यवेक्षितमित्यत्र संस्कारः पत्न्यवेक्षणम् । स्वानीतत्त्वं च संस्कारो बिल्वपत्रेषु निश्चितः ॥ २०॥ प्रयोगे प्रथमे तावत् संस्कारोऽयमिति श्रुतः । आज्यवन्न द्वितीया हि प्रयोगे नियमस्तु न ॥ २१॥ (स्वानीतान्येव तानीति सन्ध्कारापेक्षयाऽपि सा । स्वानीतत्त्वाख्यसंस्कारं सा गृह्णात्येव सादरम् ॥) (अतिरिक्त श्लोकः) आधानभावनानाञ्च कर्तृरूपावगाहिनी । अनन्धकर्तृसापेक्षा प्रयोगे प्रथमा मता ॥ २२॥ द्वितीयादिप्रयोगेषु दैवादन्धत्वसम्भवे । आज्यावेक्षणसंस्कारलोपं गृह्णाति भावना ॥ २३॥ एवं शिवार्चनेऽप्याद्ये स्वातितत्त्वावगाहिनी । प्रयोगे भावना तत्त्वं द्वितीया नावगाहते ॥ २४॥ यदि कर्ता स्वयं दक्षः तत्पत्रानयने सदा । तद्गृह्णातीति नियमो न द्वितीयादिषु ध्रुवम् ॥ २५॥ न पङ्गुरप्यधिकृतः प्रयोगे प्रथमे यतः । प्रदक्षिणक्रमणवत् गृह्णात्यत्रापि भावना ॥ २६॥ एवं चाद्यप्रयोगेऽपि विशेषवचनैः परम् । पङ्ग्वादीनपि गृह्णाति शिवपूजनभावना ॥ २७॥ सोमाभावे तु पूतीकान् विशेषवचनेन सा । गृह्णाति भावना तद्वत् अन्यद्गृह्णाति भावना ॥ २८॥ आद्यप्रयोगे गृह्णाति बिल्वपत्राणि भावना । तदभावे तु तत्तुल्यं पत्रं गृह्णाति भावना ॥ २९॥ अत्राङ्गानि बहून्येव श्रुतानि विविधान्यपि । नित्यं चमसवत् किञ्चित् अङ्गमस्ति शिवार्चने ॥ ३०॥ गोदोहनादितुल्यानि काम्याङ्गान्यपि कानिचित् । तानि नित्याङ्गलोपाय प्रवृत्तानि कथञ्चन ॥ ३१॥ गोदोहनप्रयोगे किं चमसस्याङ्गता मता । एवं नित्याङ्गलोपेऽपि प्रयोगस्याविशेषतः ॥ ३२॥ भस्मत्रिपुण्ड्रकरणं सन्निपत्ये पकारकम् । शिवलिङ्गं च रुद्राक्षधारणं च श्रुतिश्रुतम् ॥ ३३॥ नवनीताभ्यञ्जनादितुल्यं भस्मादिधारणम् । तस्य प्रतिनिधिर्नेति तत्प्रयोगेऽप्यपेक्षते ॥ ३४॥ कर्माङ्गत्वेन विज्ञातं भस्मधारणमित्यतः । तत्त्यागे नाधिकारी स्यात् स्मार्ते वा वैदिकेऽपि वा ॥ ३५॥ शिवमन्त्रजपे योग्यो भस्मधारी भवेन्नरः । धृते भस्मनि गायत्री गुरुणाप्युपदिश्यते ॥ ३६॥ अग्निकार्येण सम्पन्ने पूर्वं भस्मन्यतः परम् । धृते भस्मनि गायत्री जपयोग्योपजायते ॥ ३७॥ गायत्री शिवमन्त्रत्वात् भस्मधारणभावना । सा गृह्णात्विति पश्यन्ति तद्गृहीताऽपि तिष्ठति ॥ ३८॥ (सा गृह्णाति विपश्यन्ति, मां गृह्णात्विति) रुद्राक्षधारणं तद्वत् तां शिवार्चनभावनाम् । स्वानुग्रहार्थं पश्यन्ती भावनां प्रचलिष्यति ॥ ३९॥ पूर्वाङ्गान्युत्तराङ्गानि तानि तावत्परस्परम् । महापूर्वोपयुक्तानि स्वापूर्वद्वारसम्भवात् ॥ ४०॥ तदपूर्वफलं यावत् तावदेवोपतिष्ठति । फले जाते न तस्यापि कृत्यमित्यवधारितम् ॥ ४१॥ सर्वेभ्य एव कामेभ्यः शिवपूजनमित्यपि । प्रयोगभेदमाश्रित्य तदभावेन तन्मतम् ॥ ४२॥ न ह्येकेन प्रयोगेन फलानि विविधान्यपि । अतोऽर्थवाद एवायं नानाविधफलश्रुतिः ॥ ४३॥ आवृत्तिश्च प्रयोगानां बहूनि विविधान्यपि । फलानि विविधान्येव भविष्यन्तीति निश्चयः ॥ ४४॥ जाघिनीवद् बिल्वपत्रमन्यच्चार्चनसाधनम् । भवत्यतो लौकिकं च तदङ्गमिति निश्चितम् ॥ ४५॥ तत्सर्वाङ्गोपसंहारं सर्वथा फलभावना । स्वापेक्षितं गृहीत्वैव सम्पूर्णा फलमिच्छति ॥ ४६॥ शुचितत्कालजीवित्वनिद्रालस्यादिवर्जनम् । गृह्णाति भावना तावत् तदङ्गमिति निश्चयात् ॥ ४७॥ विश्वासोऽप्यङ्गमेवात्र शिवपूजनबोधके । वाक्ये तदर्थवादोऽपि प्ररोचक इति स्मृतेः ॥ ४८॥ शिवार्चनेऽपि वेदस्यावेदस्य नियमात् तयोः । (वेदः स्याद्वेदश्च) तदङ्गत्वमिति ज्ञातं भावनानुगृहीतयोः ॥ ४९॥ शिवपूजोपकरणं भस्मसंस्कृतमेव तत् । गृहीतः सोऽपि संस्कारः तया भावनया हि तत् ॥ ५०॥ अखण्डभावना सेयं प्रयोगस्य विशेषतः । भावनान्तरसम्पन्ना तत्तदङ्गावगाहनात् ॥ ५१॥ तत्प्रयोगबहिर्भूतान्यङ्गानि विविधान्यपि । गृह्णाति भावना सैव बृहस्पतिसवं यथा ॥ ५२॥ तथा च शिवपूजायां लिङ्गमाहवनीयवत् । जलादिवत् शाम्भवोऽपि पूजाधिकरणं क्वचित् ॥ ५३॥ लिङ्गान्यपि विचित्राणि नार्मदादीनि कानिचित् । तेषु पूजा विशेषेण तत्फलायोपकल्पते ॥ ५४॥ रेवाजलेन रेवायां रेवातीरसमुद्भवैः । दूर्वाङ्कुरैर्वा सम्पूज्य मुक्तो भवति मानवः ॥ ५५॥ रेवातीरसमुत्पन्नाः तरवोऽपि महावने । लिङ्गरूपाः ततस्तेषु पूजनं भुक्तिमुक्तिदम् ॥ ५६॥ लिङ्गानि सन्ति यावन्ति त्रैलोक्ये वरवर्णिनि । तानि सर्वाणि लिङ्गानि मम प्रियकराणि हि ॥ ५७॥ मद्भक्तो यत्र सद्भत्त्या मम ध्यानं करिष्यति । तदेव लिङ्गं मद्रूपमन्यरूपं न सर्वथा ॥ ५८॥ मन्त्रैरधिष्ठिते द्रव्यैः पूजा तावद्विधीयते । अधिष्ठानं देवतायाः पवित्रं मन्त्रसाधिते ॥ ५९॥ तथा च सिद्धलिङ्गानि नार्मदादीनि केवलम् । तत्र प्रतिष्ठाविधयः प्रसरन्ति न सर्वथा ॥ ६०॥ सिद्धक्षेत्राणि यावन्ति तत्र लिङ्गानि यानि च । तेषु प्रतिष्ठाविधयः प्रसरन्ति न सर्वथा ॥ ६१॥ सिद्धक्षेत्रोत्तमा काशी तत्र लिङ्गानि यानि तु । तानि लिङ्गानि सर्वाणि सिद्धानीत्यवगम्यते ॥ ६२॥ रेवायां यानि लिङ्गानि तानि लिङ्गानि -शैलजे- । सिद्धलिङ्गानि सर्वाणि तानि पूज्यानि सर्वथा ॥ ६३॥ त्रियम्बकाख्यं यल्लिङ्गं गोदामूले मनोहरम् । तत् सिद्धलिङ्गं तत्पूजा भुक्तिमुक्तिप्रदायिनी ॥ ६४॥ महाबलाभिधं लिङ्गं सिद्धलिङ्गमिति श्रुतम् । (अहोबलाभिधं) कोटिशङ्करलिङ्गं च सिद्धलिङ्गमिति श्रुतम् ॥ ६५॥ (संज्ञं सिद्धलिङ्गमिति) तीर्थेशलिङ्गमप्येवं सिद्धलिङ्गमिति श्रुतम् । सङ्गमेश्वरलिङ्गं च सिद्धलिङ्गमिति स्मृतम् ॥ ६६॥ श्रीशैले यानि लिङ्गानि तानि लिङ्गानि -शैलजे- । सिद्धलिङ्गानि सर्वाणि तत्पूजा सर्वसिद्धिदा ॥ ६७॥ अशीतियोजनायामः श्रीशैलः -कमलानने- । स तु लिङ्गमयः सर्वः सर्वतीर्थमयोऽपि सः ॥ ६८॥ ॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्ता शिवार्चनविधिव्याख्या सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३४। ४५-११२ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 34. 45-112 .. Proofread by Ruma Dewan
% Text title            : Sadashivaprokta Shivarchanavidhivyakhya
% File name             : shivArchanavidhivyAkhyAsadAshivaproktA.itx
% itxtitle              : shivArchanavidhivyAkhyA sadAshivaproktA (shivarahasyAntargatA)
% engtitle              : shivArchanavidhivyAkhyA sadAshivaproktA
% Category              : shiva, pUjA, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 34| 45-112 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org