चित्रगुप्तप्रोक्तमं शिवभक्त्युत्कर्षवर्णनम्

चित्रगुप्तप्रोक्तमं शिवभक्त्युत्कर्षवर्णनम्

चित्रगुप्तः - श‍ृणु शाम्भवसङ्घानां वार्तां श्रोत्रमनोहराम् । यद्वार्ताश्रवणेनापि शिवभक्तिर्दृढा भवेत् ॥ ६१॥ शाम्भवानामयं सङ्घः सुधाराशिरिवाधुना । दृष्टोऽध्यानन्दपीयूषमयूखान् जनयत्यहो ॥ ६२॥ क्षणमप्यायुषो नास्य वैयर्थ्यं शिवपूजया । आयुः क्षीणमभूदस्य प्रतिक्षणशिवार्चनात् ॥ ६३॥ सुधाधाराभिषेकेण शिवपूजा प्रतिक्षणम् । तया क्षणसहस्त्रांशोऽप्यस्य नाभूत् वृथा यम ॥ ६४॥ तेन पुण्येन महता नृत्यन्ति प्रहसन्ति च । लिङ्गपूजां च कुर्वन्ति पुनः पुनरिहान्तक ॥ ६५॥ एतत्सङ्गाश्रयाणां तु धनानि विविधानि च । जानाति शिवपूजार्थं तेन गायन्ति कोटिशः ॥ ६६॥ एतत्सङ्गसमाश्रयामितधनैरभ्यर्चितः शङ्करो नित्यं चन्दनबिल्वपल्लवलसन्मन्दारकुन्दादिभिः । नैवेद्यैरमितैर्मनोहर महाकर्पूरदीपावली- सङ्घैरप्यमिते रनुक्षणमतो नृत्यन्ति गायन्ति च ॥ ६७॥ (सङ्घैरप्यमिते अनुक्षणमित्यारभ्य धनैरित्यन्तं)॥ ६७॥ तेषामेव धनैः शिवार्चनमभूत् पञ्चामृतैः शोधितैः शुद्वैस्तैः कपिलाघृतैरपि सदा धारापि लिङ्गे मुदा । विच्छिन्ना न भवत्यनन्तविभवा सा मुक्तिधारा परा गोक्षीरादिकधारयापि गिरिशः सन्तुष्ट एवान्वहम् ॥ ६८॥ रत्नागारविशेषनिर्मितमहालिङ्गप्रभापूरकैः तद्द्रव्यैरमितः शिवार्चनफलैः साङ्गैरमोघैरपि । तेनैते शिवपूजनोत्सवरसाः स्वानन्दधारावृताः कल्याणाश्रयपूजनाय सततं नृत्यन्ति गायन्ति च ॥ ६९॥ तत्सङ्घाश्रितवित्तपूजनफलैः तावत्प्रनृत्यन्त्यहो गायन्त्येव वहन्ति सन्ततममी श्रीरुद्रवीणादराः । शम्भो शङ्कर चन्द्रशेखर महादेवेति सप्तस्वर- व्यापारप्रकरप्रचारनखव्यापारसारादरैः ॥ ७०॥ स्वप्नेऽप्यम्बुजबिल्वपल्लवरसैरभ्यर्चयन्तीश्वरं निद्रायामपि चित्रमेतदपरं निद्राऽपि तेषां क्षणम् । आयुर्वृद्धिमुपैति शङ्करपदाम्भोजार्चनादन्वहं तस्य क्षीणदशा कदापि न भवत्यर्धेन्दुमौलिस्मृतेः ॥ ७१॥ तेषां तावदपारशङ्करकथापीयूषपानात् तनुः पीना पीनतराऽपि ते मुहुरुमाकान्ताम्बिकानायकम् । स्मृत्वा चेतसि सन्ततं कथमपि त्वामेव देवोत्तमं मत्वा शङ्करनामधेयसुसुधापानैर्नयामो दिनम् ॥ ७२॥ तेषामायुरनुक्षणं पणगणैर्वेश्यामुखालोकनैः मद्यस्त्रीपरिसेवनेन चरितं पण्याङ्गणालापनैः । तेनाश्राव्यतया नयन्ति दिवसांस्ते मेचकाकारतां सम्प्राप्यापि मुहुर्मुहुः शिवकथालापोऽपि तैर्न श्रुतः ॥ ७३॥ हा हन्तामितवित्तनाशनकरव्यापारभारादरैः नीतं तद्दिनमन्धकारिविमुखैः दुःखोपकारादरैः । आराध्यः शिव इत्यपारविभवो नैवानुभूतो भवो भावैः साकमभाषणं च कृतमित्यज्ञः परं क्लिश्यति ॥ ७४॥ अज्ञानाद्गिरिशार्चनं न च कृतं लिङ्गं च नालोकितं लिङ्गागारमहोत्सवोऽपि न कृतो दृष्टा न दीपावली । लिङ्गागारविनिर्मिता विधिवशाद् धूपप्रधूपावली दृष्टा नृत्यति चिन्तया परमयं सङ्घः परं (सद्यः स्वयं)क्लिश्यति ॥ ७५॥ नानापापविनाशिनी शिवकथा नाकर्णिता न श्रुतं नामापि स्मरवैरिणः सकरुणः श्रीशूलपाणिः स्वयम् । नैवान्तःकरणाम्बुजे स्मृत इति व्यर्थं वयो निर्गतं हा हा हन्त वयो वृथा गतमिति व्यर्थं रुदन्त्यद्य ते ॥ ७६॥ आयुर्व्यर्थमिदं गतं शिवपदं न ध्यातमेवादरात् लिङ्गे बिल्वदलं प्रसूनममलं गङ्गाजलं वा मुदा । न क्षिप्तं न च वीक्षितं च नगरं विश्वेश्वरस्यादरात् इत्थं ते प्रलपन्ति हन्त बत ते ते तेऽपि ते तेऽपि ते ॥ ७७॥ श्रीविश्वेश्वरलिङ्गमुत्तमतमं श्रीचन्दनेनानर्घैः पुष्पैर्बिल्वदलैश्च नार्चितमहो क्षीणं वयः सर्वथा । हा हन्तामितपातकार्जनरतं चित्तं वयो निर्गतं किं कर्तव्यमिति प्रतिक्षणममी दुःखातुराः कातराः ॥ ७८॥ श्रीविश्वेश्वरपूजनं च न कृतं द्वित्रैः पवित्रैर्नवैः बिल्वैः कोमलपल्लवैः जलरुहैर्दूर्वाङ्कुरैर्भस्मना । (बिल्वैः कोमलपल्लवैः अभिनवैर्दूर्वाङ्कुरैर्भस्मना)। नो दृष्टं निकटापदाम्बुजयुगं नाराधितं चन्दनैः मल्लीमालिकया दुकूलकलिकैरित्यन्वहं दुःखिताः ॥ ७९॥ न स्नातं मणिकर्णिकाम्भसि च वै नोद्धूलितेयं तनुः भूत्या फालमपि त्रिपुण्ड्ररचनैर्नालङ्कृतं भस्मना । रुद्राक्षैश्च न भूषिता तनुरहो व्यर्थं गतं जीवनं हा हन्तेति बतेति दैवहतमित्येते रुदन्ति स्वतः ॥ ८०॥ वीरेशाय न कल्पितातिरुचिता सा नीरधारा मुहुः श्रीवीरेश्वरतङ्गलिङ्गमसकृन्नाभ्यर्चितं चन्दनैः । सायं न प्रणतं च नेक्षितमहो भूतोपवासैर्निशा नीता नेति रुदन्ति हन्त सततं ते काल भीत्या तव ॥ ८१॥ काश्यामेव न कालभैरवदिने कालाष्टमीनामके कृत्वा जागरणं मुहुर्मुहुरयं दृष्टो मया भैरवः । कालेशोऽपि न वीक्षितो मुहुरहो हा हन्त हन्तेत्यमी दुःखेनैव नयन्त्यनुक्षणमहो ते काल भीत्या तव ॥ ८२॥ - - इति तद्वचनं श्रुत्वा यमो विस्मयमानसः । शिवभक्तगणं दृष्ट्वा पूजयामास संस्तुवन् ॥ ८३॥ धन्यं कुलमिदं दृष्टं शिवभक्तायुषां मया । धन्यं धन्यमिदं तावत् जीवनं नयनाम्बुजम् ॥ ८४॥ एतदालोकनेनैव विनेयः समयो मया । अपूर्वोऽयं शिवगणः शिवनाममहोत्सवः ॥ ८५॥ कथं गायन्ति दिव्यानि शिवनामानि कोटिशः । आनन्दोद्बोधकान्येव मुहुर्मुहुरतन्द्रिताः ॥ ८६॥ एते धन्याः परं धन्याः सर्वे तद्वीक्षणादराः । धन्यस्तदङ्गवासोऽपि मुक्तिकान्तानुकर्षकः ॥ ८७॥ सङ्गोऽपि तावत् कर्तव्यः तावदेतैः सहान्वहम् । एतत्सङ्गानुषङ्गोऽपि भुक्तिमुक्तिप्रदो भवेत् ॥ ८८॥ धन्यं धन्यमिदं शरीरमधुना धन्याङ्गसङ्गादयं धन्यः शाङ्करसङ्ग इत्यनुगतो ब्रह्मादिदेवस्तुतः । अस्माकं गिरिजामनोहरपदाम्भोजार्चनं जायते बुद्धिः शाङ्करतोत्तमोत्तमतमा मुक्तिप्रदानोद्यमा ॥ ८९॥ (बुद्धिः सिद्धिकरोत्तमोत्तमतमा मुक्तिप्रदानोद्यता)॥ ८९॥ ॥ इति शिवरहस्यान्तर्गते चित्रगुप्तप्रोक्तमं शिवभक्त्युत्कर्षवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ८ - आयुमूर्तिशिवभक्त्युत्कर्षवर्णनम् । ६१-८९॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 8 - AyumUrtishivabhaktyutkarShavarNanam . 61-89.. Notes: Citragupta चित्रगुप्त explains to Yama यम about the merits of worshiping Śiva शिव; and as a result, wonderment and devotion towards Śiva शिव is aroused in Yama यम. Proofread by Ruma Dewan
% Text title            : Chitraguptaproktamam Shivabhaktyutkarshavarnanam
% File name             : shivabhaktyutkarShavarNanam.itx
% itxtitle              : shivabhaktyutkarShavarNanam (shivarahasyAntargatam)
% engtitle              : shivabhaktyutkarShavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 8 | 61-89 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org