नन्दिकेश्वरप्रोक्तं शिवधर्मशिवमूर्तिभेदवर्णनम्

नन्दिकेश्वरप्रोक्तं शिवधर्मशिवमूर्तिभेदवर्णनम्

किं वक्तव्यं मया देवाः त्रिनेत्रस्याद्भुतं खलु । चरित्रं तत्पवित्रं हि पवित्राणां विशेषतः ॥ १॥ हरस्यामरवीरस्य रङ्केष्वप्यविशङ्कया । अनुग्रहस्तदोग्राणां परमानन्दसाधनम् ॥ २॥ स्वतन्त्रः स महादेवो यं पश्यति दयार्णवः । तेन तीर्णः स संसारपापनक्राकरः खलु ॥ ३॥ प्रभुचित्तानुसारेण किङ्कराणां तु वर्तनम् । अन्यथा विपरीत स्यात् इति निश्चितमेव हि ॥ ४॥ तदुक्तिरेव वेदार्थो वेदवक्ता स एव हि । प्रामाण्यमपि वेदानां न स्वतः परमार्थतः ॥ ५॥ परन्तु शिववाक्यत्वस्वरूपेणेति निश्चितम् । वेदास्तु शिववाक्यानि प्रामाण्यं तेषु सर्वथा ॥ ६॥ धर्मतत्त्वं महेशेन ज्ञायते नामरैरपि । किन्नरैर्वा न गन्धर्वैः नराणां तत्र का कथा ॥ ७॥ नित्यं सर्वज्ञमूर्तित्वादष्टमूर्तिः परं स्वतः । जानाति तत्त्वधर्माणां सर्वेषामपि वस्तुतः ॥ ८॥ अयमेतादृशो धर्मः फलमस्येदनित्यपि । जानाति भगवान् शम्भुः साम्बः संसारमोचकः ॥ ९॥ तन्मायया परं विश्वं मोहितं तच्चराचरम् । संसारे पातयत्येव पुनः पुनरनेकधा ॥ १०॥ अहो महेश्वरैश्वर्यमपारमतुलं खलु । तत्केन ज्ञायते लोके वेदैर्न ज्ञायते यतः ॥ ११॥ तदुक्तवचनैर्वेदैः तद्रूपावगमः कथम् । अस्मदुक्तेन वाक्येन नास्मद्ज्ञानं यथा तथा ॥ १२॥ वेदान्तगोचरं रूपं सच्चिदानन्दलक्षणम् । तदस्माभिः कथं ज्ञेयं दुर्ज्ञेयत्वावधारणात् ॥ १३॥ ये लीलाविग्रहः शम्भोः तेऽवनन्तास्तथाविधाः । तद्ज्ञानमप्यशक्यं हि सर्वथैव स्वभावतः ॥ १४॥ एकैको विग्रहस्तस्य नास्मन्नयनगोचरः । तेजःपुञ्जसमाक्रान्ताः तेजःपुञ्जाः स्वभावतः ॥ १५॥ द्विबाहवो विग्रहास्तु कोटिशः परमात्मनः । तस्यैव कोटिशस्तावत् ते चतुर्बाहवः पराः ॥ १६॥ केचिदष्टभुजास्तस्य केचिद्दशबाहवः । सहस्रबाहवः केचित् (-) केचिदर्बुदबाहवः ॥ १७॥ -(केचित्ते लक्षबाहवः । ते कोटिबाहवः केचित्) परार्धबाहवः केचित् महादेवस्य विग्रहाः । दिव्याभरणसम्पन्नाः ते सर्वे मेरुसन्निभाः ॥ १८॥ दुकूलसंवृताः सर्वे दिव्यचन्दनचर्चिताः । उमार्धविग्रहाः सर्वे त्रिशूलवरबाहवः ॥ १९॥ ते सर्वे चन्द्ररेखाङ्काः नीलकण्ठाः कपर्दिनः । कैलासभुवनागारं व्याप्य सर्वे व्यवस्थिताः ॥ २०॥ परमानन्दसम्पूर्णाः ते सर्वेऽपि कृपार्णवाः । तत्प्रभावार्णवान्तस्तु न वेदैरपि शस्यते ॥ २१॥ तद्ज्ञानमस्मदादीनां सुतरामपि दुर्लभम् । एतेषां विग्रहाणां तु सर्वेषां मूलविग्रहः ॥ २२॥ चिद्धनः शिव एवेति तद्ज्ञानमतिदुर्लभम् । तत्र द्विबाहुरीशानविग्रहो दृश्यते मया ॥ २३॥ कथञ्चिद्धोरतपसा कृपयाऽपि शिवस्य मे । शिवया स यदा युक्तः तदा तद्दर्शनं परम् ॥ २४॥ कुमारस्य गणेशस्य तदन्येषां तु दुर्लभम् । स विहारार्थमायाति यदा बहिरुमां विना ॥ २५॥ तदा सकरुणापूरो हरो लोचनगोचरः । तस्यैव लीलया सृष्टिः स्थितिः संहार इत्यपि ॥ २६॥ स कथञ्चिद्वेदवाक्यैः विरूपाक्षो निरूपितः । तदाज्ञावशगं सर्वमिदं ब्रह्माण्डमण्डलम् ॥ २७॥ वाति वातस्ततो भीतः शङ्करादुग्रशासनात् । उग्रोग्रशासनादेव भीतः सूर्योऽप्युदेत्ययम् ॥ २८॥ भीषास्मादग्निरिन्द्रश्च मृत्युर्धावति पञ्चमः । एतादृशं महादेवं सर्वश्रुत्यन्तसंस्तुतम् ॥ २९॥ स्मृत्वाऽपि मुच्यते घोरैः अपारैरघसागरैः । अर्चनं स्मरणं ध्यानं वन्दनं कीर्तन तथा ॥ ३०॥ जपोऽपि शिवलिङ्गाग्रे शिवस्यानन्तमुच्यते ॥ ३१॥ शिवचरणसरोजाभ्यर्चनध्यानदानस्मरणभजनगानाराधनालापनाद्यैः । अनुपदमनुधावन्त्यादरादिन्दिराद्याः कनकरुचिरदण्डाखण्डचण्डातपत्रैः ॥ ३२॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेश्वरप्रोक्तं शिवधर्मशिवमूर्तिभेदवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २८। ६२-९३ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 28. 62-93 .. Proofread by Ruma Dewan
% Text title            : Nandikeshvaraproktam Shivadharma Shivamurti Bhedavarnanam
% File name             : shivadharmashivamUrtibhedavarNanaMnandikeshvaraproktam.itx
% itxtitle              : shivadharmashivamUrtibhedavarNanaM nandikeshvaraproktam (shivarahasyAntargatam)
% engtitle              : shivadharmashivamUrtibhedavarNanaM nandikeshvaraproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 28| 62-93 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org