वशिष्ठप्रोक्ता शिवध्यानमन्त्रपूजा
वेतालभैरवावूचतुः -
येन मन्त्रेण नचिरात् सम्यगाराधितो हरः ।
प्रसादमेष्यत्यवनौ तन्नो वद महामुने ॥ ११६॥
यथा चाराधयिष्यावस्तन्त्रं यद्यादृशः क्रमः ।
तत्सर्वं मुनिशार्दूल वक्तुमर्हसि चोत्तरम् ॥ ११७॥
यथा त्वदुपदेशेन प्राप्स्यावो नचिराद् हरम् ।
यथा वाचां मुनिश्रेष्ठ ह्यनुशाधि न तौ त्वयि ॥ ११८॥
वसिष्ठ उवाच -
प्रसन्न एव भवतोर्वृषकेतुः सहोमया ।
नचिरात् स्वयमेवात्र प्रसादं च समेष्यति ॥ ११९॥
सर्वैर्देवगणैः सार्धं सभार्यो वृषभध्वजः ।
आकाशमार्गेणायातः पालयन् स्वसुतौ गृहात् ॥ १२०॥
किन्तु मानुषदेहौ वामधिवास्य तपोव्रतैः ।
स्वयन्नेष्यति कैलासं गाणपत्ये नियोज्य वाम् ॥ १२१॥
अहं चाप्युपदेक्ष्यामि यथा भर्गं युवां द्रुतम् ।
प्राप्स्यथः पार्वतीपुत्रावेकाग्रं शृणुतं तु तत् ॥ १२२॥
चिरात् प्रसीदति ध्यानान्नचिराद्ध्यानपूजनात् ।
तस्माद्ध्यानं पूजनं च कथयाम्यद्य तत्त्वतः ॥ १२३॥
तेजोमयः सदा शुद्धो ज्ञानामृतविवर्धितः ।
जगन्मयश्चिदानन्दः शौरिब्रह्मस्वरूपधृक् ॥ १२४॥
महादेवो महामूर्तिर्महायोगयुतः सदा ।
जगन्ति तस्य रूपाणि तानि को गदितुं क्षमः ॥ १२५॥
किन्तु यैरिह रूपैस्तु विचरत्येष शङ्करः ।
तेषां यन्मे ज्ञानगम्यं तत्रेष्टं निगदामि वाम् ॥ १२६॥
प्रथमं शृणुतं मन्त्रं ततोऽनुध्यानगोचरम् ।
ततः क्रमं तु पूजायाः क्रमाद्वृत्तं नरर्षभौ ॥ १२७॥
समस्तानां स्वराणां तु दीर्घाः शेषाः सबिन्दुकाः ।
ऋऌशून्याः सार्धचन्द्रा उपान्तेनाभिसंहिताः ॥ १२८॥
एभिः पञ्चाक्षरैर्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् ।
क्रमात् सम्मदसन्दोह-नादगौरव-संज्ञकाः ॥ १२९॥
प्रासादस्तु भवेच्छेषः पञ्चमन्त्राः प्रकीर्तिताः ।
एकैकेन तथैकैकं वक्त्रं देवं प्रपूजयेत् ॥ १३०॥
एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत् ।
प्रसादेनाथ वा पञ्चवक्त्रं देवं प्रपूजयेत् ॥ १३१॥
सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते ।
शम्भोः प्रसादनेनैष यस्माद्वृत्तस्तु मन्त्रकः ॥ १३२॥
तेन प्रासादसंज्ञोऽयं कथ्यते मुनिसत्तमैः ।
तस्मात् सर्वेषु मन्त्रेषु प्रासादः प्रीतिदः परः ॥ १३३॥
आमोदकारकः शम्भोर्मन्त्रः सम्मद उच्यते ।
मनःप्रपूरणाच्चापि सन्दोहः परिकीर्तितः ॥ १३४॥
आकर्षको भवेन्नादो गुरुत्वाद्गौरवाह्वयः ।
एतद्व्यस्तं समस्तं च मन्त्रं शम्भोः प्रकीर्तितम् ॥ १३५॥
पञ्चाक्षरं तु यन्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् ।
युवां तेनैव मन्त्रेण आराधयतमीश्वरम् ॥ १३६॥
ध्यानं वक्ष्यामि शृणुतं सम्यग्वेतालभैरवौ ।
पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् ॥ १३७॥
चारुचन्द्रकलायुक्तं मूर्ध्नि बालौघभूषितम् ।
बाहुभिर्दशभिर्युक्तं व्याघ्रचर्माम्बराम्बरम् ॥ १३८॥
कालकूटधरं कण्ठे नागहारोपशोभितम् ।
किरीटबन्धनं बाहुभूषणं च भुजङ्गमान् ॥ १३९॥
बिभ्रतं सर्वगात्रेषु ज्योत्स्नार्पितसुरोचिषम् ।
भूतिसंलिप्तसर्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः ॥ १४०॥
नेत्रैस्तु पञ्चदशभिर्ज्योतिष्मद्भिर्विराजितम् ।
वृषभोपरि संस्थं तु गजकृत्तिपरिच्छदम् ॥ १४१॥
सद्योजातं वामदेवमघोरं च ततः परम् ।
तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् ॥ १४२॥
सद्योजातं भवेच्छुक्लं शुद्धस्फटिकसन्निभम् ।
पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥ १४३॥
नीलवर्णमघोरं तु दंष्ट्रा भीतिविवर्धनम् ।
रक्तं तत्पुरुषं देवं दिव्यमूर्तिं मनोहरम् ॥ १४४॥
श्यामलं च तथेशानं सर्वदैव शिवात्मकम् ।
चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयं तु तथोत्तरे ॥ १४५॥
अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा ।
ईशानं मध्यतो ज्ञेयं चिन्तयेद्भक्तितत्परः ॥ १४६॥
शक्तित्रिशूलखट्वाङ्गवरदाभयदं शिवम् ।
दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः शुभम् ॥ १४७॥
अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम् ।
अष्टैश्वर्यसमायुक्तं ध्यायेत्तु हृद्गतं शिवम् ॥ १४८॥
एवं विचिन्तयेद्ध्याने महादेवं जगत्पतिम् ।
चिन्तयित्वा द्वारपालान् गणेशादीन् प्रपूजयेत् ॥ १४९॥
विशुद्धिं पञ्चभूतानां चिन्तयित्वा ततो मुहुः ।
अष्टमूर्तीस्ततः पश्चात् पूजयेदष्टनामभिः ॥ १५०॥
आसनानि च तस्याथ पूजयेत् सकलानि तु ।
भावादीन्यष्टपुष्पाणि हृदैव विनियोजयेत् ॥ १५१॥
नाराचमुद्रया तस्य ताडनं परिकीर्तितम् ।
विसर्जनं धेनुमुद्रां दर्शयित्वा विधानतः ॥ १५२॥
निर्माल्यधारणं कुर्यात् सदा चण्डेश्वरं धिया ।
प्रत्येकं पञ्चभिर्मन्त्रैरङ्गादीनि प्रमार्जयेत् ॥ १५३॥
सम्मदादिभिरेतस्य पूर्वोक्तैर्नरसत्तमौ ।
बालां ज्येष्ठां तथा रौद्रीं कालीं च तदनन्तरम् ॥ १५४॥
कलविकरिणीं देवीं बलप्रमथिनीं तथा ।
दमनीं सर्वभूतानां मनोन्मथिनीं तथैव च ॥ १५५॥
अष्टौ ताः पूजयेद्देवीः क्रमाच्छम्भोश्च प्रीतये ।
एवं शिवं पूजयित्वा ध्यानतत्परमानसः ॥ १५६॥
जपेन्मालां समादाय मन्त्रं ध्यात्वा तथा गुरुम् ।
एकं पञ्चाक्षरं मन्त्रमेकं प्रासादमेव वा ॥ १५७॥
तत्सक्तमनसौ जप्त्वा शीघ्रं सिद्धिमवाप्स्यथः ।
इति कालिकापुराणे एकपञ्चाशत्तमाध्यायान्तर्गता
वसिष्ठप्रोक्ता शिवध्यानमन्त्रपूजा समाप्ता ।
Proofread by PSA Easwaran