श्रीनीलकण्ठदीक्षितप्रणीतः शिवलीलार्णवः
॥ श्रीः ॥
महाकविश्रीनीलकण्ठदीक्षितप्रणीतः शिवलीलार्णवः ।
अथ प्रथमः सर्गः ।
पूतं स्वतः पूततरं ततो यद् गाङ्गं पयः शङ्करमौलिसङ्गात् ।
तत् पातु मातुः प्रणयापराधपादाहतैः पूततमं ततो नः ॥ १॥
अशक्यमङ्गान्तरवद्विभक्तुमणुप्रमाणं करणं यदन्तः ।
सामान्यभूतं शिवयोस्तदेकं सानुग्रहं स्यान्मयि गर्भदासे ॥ २॥
अन्विप्य खिन्नं निगमानशेषानमी न मीनं प्रथमं स्मरामः ।
अन्विप्यमाणं निगमैरशेषैरम्ब ! स्तुमस्ते वयमाक्षिमीनम् ॥ ३॥
स्तन्येन कश्चित् कवयाम्बभूव ताम्बूलसारेण परो जनन्याः ।
अहं ततोऽप्युन्नतिमातुकामः सर्वे ततोऽप्युन्नतमक्षिकोणम् ॥ ४॥
अर्धे तनोरद्रिसुतामयोऽस्मीत्यहंयुना किं फलमादियूना ।
गीर्वाणयोगीन्द्रमुपास्महे तं सर्वात्मना शैलसुतात्मको यः ॥ ५॥
कालेन शम्भुः किल तावतापि कलाश्चतुष्षष्टिमिताः प्रणिन्ये ।
द्वासप्ततिं प्राप्य समाः प्रबन्धाञ्छतं व्यधादप्पयदीक्षितेन्द्रः ॥ ६॥
अनाहतोद्भूतमपास्तभेदमाद्यं शिवस्योपयिकं विधातुः ।
नादाभिधं पारगमध्वनां तदनुत्तरं ज्योतिरनुस्मरामः ॥ ७॥
साहित्यविद्याजयघण्टयैव संवेदयन्ते कवयो यशांसि ।
यथा यथास्यां ध्वनिरुज्जिहीते तथा तथा सार्हति मूल्यभेदान् ॥ ८॥
यावत् कवेर्मार्दवमुक्तिबन्धे यावद् धियः श्रोतरि कोमलत्वम् ।
तावद्ध्वनौ तद्यतिभेदमूले तारत्वमालङ्कृतिका वदन्ति ॥ ९॥
अस्मिन् महत्यस्तमितान्यवेद्ये विसृत्वरे वीचितरङ्गरीत्या ।
काव्यध्वनौ जाग्रति देहभाजां कर्णं विशेयुः कथमन्यशब्दाः ॥ १०॥
कीर्णानि घण्टापथ एव हन्त शब्दार्थरत्नानि गिरां सवित्र्या ।
अत्यादरादामृशतां कवीनां दृग्गोचरं कस्यचिदेव यान्ति ॥ ११॥
प्रायस्तिरोभूतमहाप्रकाशाः पाषाणखण्डेष्विव चन्द्रकान्ताः ।
शब्देषु शब्दा मिलिताश्चरन्ति भाग्योत्तरा एव तु जानते तान् ॥ १२॥
यानेव शब्दान् वयमालपामो यानेव चार्थान्वयमुल्लिखामः ।
तैरेव विन्यासविशेषभव्यैः सम्मोहयन्ते कवयो जगन्ति ॥ १३॥
गायन्ति वीणा अपि वेणवोऽपि जानन्ति बालाः पशवोऽपि चेदम् ।
काव्यानि कर्तुं च परीक्षितुं च द्वित्रा भवेयुर्न तु वा भवेयुः ॥ १४॥
सव्यं वपुः शब्दमयं पुरारेरात्मकं दक्षिणमामनन्ति ।
अङ्गं जगन्मङ्गलमैश्वरं तदर्हन्ति काव्यं कथमल्पपुण्याः ॥ १५॥
स्तोतुं प्रवृत्ता श्रुतिरीश्वरं हि न शाब्दिकं प्राह न तार्किकं वा ।
ब्रूते तु तावत् कविरित्यभीक्ष्णं काष्ठा परा सा कविता ततो नः ॥ १६॥
कर्णं गतं शुष्यति कर्ण एव सङ्गीतकं सैकतवारिरीत्या ।
आनन्दयत्यन्तरनुप्रविश्य सूक्तिः कवेरेव सुधासगन्धा ॥ १७॥
पश्येयमेकस्य कवेः कृतिं चेत् सारस्वतं कोशमवैमि रिक्तम् ।
अन्तः प्रतिश्यायमवेक्षितश्चेत् कोणे प्रविष्ठा कविकोटिरेषा ॥ १८॥
वक्रोक्तयो यत्र विभूषणानि वाक्यार्थबोधः परमप्रकर्षः ।
अर्थेषु बोध्येष्वभिधैव दोषः सा काचिदन्या सरणिः कवीनाम् ॥ १९॥
सदर्थमात्रग्रहणात् प्रतीता सर्वज्ञता सापि शशाङ्कमौलेः ।
प्राप्ता विकासं प्रतिभा कवीनां व्याप्नोति यद्वेत्ति न तच्छिवोऽपि ॥ २०॥
उल्लङ्घय तन्त्रान्तरसम्प्रदायानुत्प्रेक्षमाणा जगदन्यदन्यत् ।
कस्माद् बिभीमः कवयो भवामः काव्यज्ञदण्डाद् बिभिमस्तु कामम् ॥ २१॥
तन्त्रान्तरेषु प्रतिपाद्यमानास्ते ते पदार्था ननु ते त एव ।
निर्बेदभीशोकजुगुप्सितान्यप्यायान्ति साहित्यपथे रसत्वम् ॥ २२॥
अर्थावबोधेऽपि समे रसज्ञैरन्विष्यते सत्कविसूक्तिरेव ।
अपत्यलाभेऽपि समे विदग्धा रूपोत्तरामेव हि रोचयन्ते ॥ २३॥
व्यामोहयन्ती विविधैर्वचोभिर्व्यावर्तयन्त्यन्यकलासु दृष्टिम् ।
कालं महान्तं क्षणवन्नयन्ती कान्तेव दक्षा कविता धिनोति ॥ २४॥
चिन्तासु संसर्गविशेषलाभे सन्दर्भणे चाथ पदैः पदानाम् ।
अर्थावबोधे च भवन् कवीनामानन्दभूमा वचसामसीमा ॥ २५॥
अनायतप्राणमसंयताक्षमब्रह्मचर्यानशनादिखेदम् ।
चित्तं महेशे निभृतं विधातुं सिद्धः कवीनां कवितैव योगः ॥ २६॥
तिर्यङ्मनुष्यव्यतिरेकहेतुर्देव्या गिरामेव कटाक्षपातः ।
प्रज्ञाविशेषास्तु परे जनानां प्रायो दिशन्ति श्वमृगालसाम्यम् ॥ २७॥
न कालभेदाद्रसवर्णभेदो न जामिता वा न ऋजीषभावः ।
सारस्वतं नाम फलं तदेतत् सदैकरूपं कृतिनो लभन्ते ॥ २८॥
बाल्यं विदुः प्राकृतभाषितानि श्रुतिस्मृती वृद्धदशां वदन्ति ।
साहित्यमेकन्तु गिरां सवित्र्यास्तारुण्यमुद्गाढमुशन्त्यभिज्ञाः ॥ २९॥
क्वार्थाः क्व शब्दाः क्व रसाः क्व भावाः क्व व्यङ्गयभेदाः क्व च वाक्यरीतिः ।
कियत्सु दृष्टिः कविना न देया किमस्ति राज्ञामियतीह चिन्ता ॥ ३०॥
आवर्णशक्तिग्रहमापवर्गं दुःखैकरूपा विरचय्य विद्याः ।
विश्रान्तिहेतोः कवितां जनानां वेधाः सदानन्दमयीं किमाधात् ॥ ३१॥
सिद्धं पदं सिद्धतरस्तदर्थः साध्या पदानां परमानुपूर्वी ।
तन्मात्रसारे कवितापदेऽस्मिन् कियद्विधात्रा कृतमुच्चनीचम् ॥ ३२॥
तान्येव शास्त्राणि त एव शब्दास्त एव चार्था गुरवस्त एव ।
इयान् विशेषः कवितापथेऽस्मिन् देव्या गिरां दृक्परिवर्तभेदः ॥ ३३॥
पदानि भव्यान्यपि काव्यरीतिमस्थानदत्तानि न शोभयन्ते ।
नासाग्रलग्नेन भवन्मुखश्रीस्ताटङ्कबिम्बेन किमङ्गनायाः ॥ ३४॥
साहित्यविद्यां पदमेकमेव सर्वानवद्यामपि हन्ति दुस्स्थम् ।
दन्तावलिं मौक्तिकदामरम्यां दंष्ट्रेव वक्राद् बहिरुल्लसन्ती ॥ ३५॥
अन्योन्यसंसर्गविशेषरम्याप्यलङ्कृतिः प्रत्युत शोचनीया ।
निर्व्यङ्ग्यसारे कविसूक्तिबन्धे निष्क्रान्तजीवे वपुषीव दत्ता ॥ ३६॥
विद्वत्प्रियं व्यङ्ग्यपथं व्यतीत्य शब्दार्थचित्रेषु कलेर्विलासात् ।
प्राप्तोऽनुरागो निगमानुपेक्ष्य भाषाप्रबन्धेष्विव पामराणाम् ॥ ३७॥
कृते युगे व्यञ्जनयावतीर्णं त्रेतायुगे सैव गुणीबभूव ।
आसीत् तृतीये तु युगेऽर्थचित्रं युगे तुरीये यमकप्रपञ्चः ॥ ३८॥
दिष्ट्याधिरूढाः कविताधिराज्यं धीरा रमन्ते न हि शब्दचित्रे ।
स्वर्गेऽपि गत्वाप्सरसां निवासे काणैव किं कापि गवेषणीया ॥ ३९॥
मत्वा पदग्रन्थनमेव काव्यं मन्दाः स्वयं तावति चेष्टमानाः ।
मज्जन्ति बाला इव पाणिपादप्रस्पन्दमात्रं प्लवनं विदन्तः ॥ ४०॥
कालाद् बहोः कान्यपि दुष्पदानि लब्धानि मन्दः परितो विकीर्य ।
छिद्राणि लोष्टैरथ पांसुभिश्च सम्पूरयन् विस्मयते विलज्जः ॥ ४१॥
अद्यैकमेकं कुधियः परेद्युरन्येद्युरेकं च पदं निबध्य ।
शुक्तं क्वचित् पर्युषितं क्वचिच्च कोष्णं क्वचिच्चारचयन्ति पद्यम् ॥ ४२॥
आपूर्य वक्रं लशुनैर्विधाता किं निम्बसारैः कुधियामसिञ्चत् ।
न चेत् कथं वाचि ततः क्षरन्त्यां स पूतिगन्धः स च तिक्तभावः ॥ ४३॥
लभेय निन्दामपि सत्कवीनां सव्यङ्ग्यसौरभ्यरसैर्वचोभिः ।
न तु प्रशंसामपि दुष्कवीनां दुर्गन्धिभिर्वीतरसैरमीभिः ॥ ४४॥
विवक्षितार्थप्रतिपादकं ये विन्यासभेदं न विदुः पदानाम् ।
दुःखावहोऽर्थः स्फुरितोऽपि तेषां दौर्भाग्यभाजामिव पुत्रलाभः ॥ ४५॥
दुर्मेधसः शुष्कतरां कटोरां दुर्गन्धसान्द्रां गिरमुद्गिरन्तः ।
कालं चिरं हन्त कथं व्यथन्ते श्रोतुर्दशातरस कियत्तमोऽशः ॥ ४६॥
शृण्वन्तु ते दुष्कवितां परेषां श्रोत्रेषु तप्तं जतु यैर्निषिक्तम् ।
शब्दार्थयोर्दुष्कविवक्रभाजोः किं दुष्कृतं स्यादवधारयन्तु ॥ ४७॥
श्राम्यन्ति यावत् कवयः परेऽपि श्राम्यन्ति तावच्च ततोऽधिकं च ।
गर्मोद्भवादिः प्रसवावतानः क्लेशो हि दुष्पुत्रसुवाञ्च तुल्यः ॥ ४८॥
दाक्षिण्यहानिर्जगतां विधातुर्दैव्या गिरां दुर्भरणत्य योगः ।
पापं जनात्येति च सर्वमेतत् समाहृतं दुष्कवितानिदानम् ॥ ४९॥
आब्रह्मवातादघशोधनानि स्मरन्ति ये ते परमर्षयोऽपि ।
यावत्तदात्मान्वयिताधियैव न सस्मरुर्दुष्कवितासु शुद्धिम् ॥ ५०॥
स्वोक्ति मुषित्वा पुरतः पठन्तं स्वस्यैव पश्यन् कविसाहसाङ्कम् ।
प्राज्ञो जनः किं प्रतिपद्यतां तमाहन्तु वा स्वोदरमोहतां वा ॥ ५१॥
निन्दन्तु वाचं मधुरां कवीनां नन्दन्तु च स्वां गिरमेव मूर्खाः ।
नाद्यां स्वरीत्या रसयन्तु जातु नान्त्यां पठन्तु स्वरतोऽपि पार्श्वे ॥ ५२॥
हिंसा पशूनां क्रतुमध्यलग्ना स्वर्गे यथास्ते क्षणदुःखहेतुः । (यथास्तेऽक्ष्य)
किञ्चिच्छुमं पातकमव्यलग्नं तथा मुदे स्यादपि दुष्कवीनाम् ॥ ५३॥
प्राचेतसव्यासमुखाः कवीन्द्राः प्राञ्चोऽपि किं दुष्कविभिर्विरक्ताः ।
काव्यानि कर्तुं शतशः क्षमात्ते कथं न चेदासत काकवन्ध्याः ॥ ५४॥
स्थूलाभिरभ्युल्लिखितानि धीभिः स्थूलानि मन्ये कुकवेर्वचांसि ।
कथं न चेत् कर्णपुटं प्रवेष्टुमेतानि यत्नादपि नोत्सहन्ते ॥ ५५॥
वाचं हतो यद्यपि ते तथापि न मूकता दुष्कवितैव दोषः ।
आद्या यदेकत्य विवादहेतुः प्राणोपरोधाय परा बहूनाम् ॥ ५६॥
वाचं विपञ्चीमिव वादयन्ति कर्णामृतेन ध्वनिना कवीन्द्राः ।
मूर्खाः स्वमेधामुसलप्रहारैर्विनाशयन्त्येव विचेष्टमानाः ॥ ५७॥
शक्यं सुखं ग्रन्थयितुं प्रवन्धान शक्यस्तु न श्रोतृजनानुरोधः ।
श्रान्ते सति क्वापि कवौ यदेष सर्वस्वनाशादिव खेदमेति ॥ ५८॥
अचुम्बितोल्लेखपदप्रवृत्तानसम्प्रदायेन कवीन् क्षिपति ।
पथा प्रवृत्तान् प्रहतेन मूर्खाः पश्यन्त्यवज्ञामुकुळीकृताक्षाः ॥ ५९॥
रसं रसज्ञाः कलयन्ति वाचि परे पदार्थानपरे पदानि ।
वस्त्रं कुविन्दा वणिजो विभूषां रूपं युवानश्च यथा युवत्याम् ॥ ६०॥
पाठप्रकारैः पदयोजनाभिस्तात्पर्यदुर्निश्चयतश्च मन्दैः ।
आयास्यमानां गिरमात्मनो ये कर्णे न कुर्वन्ति त एव धन्याः ॥ ६१॥
एको हि दोषः परकीयतैव पद्येषु सर्वेष्वपि दुर्जनानाम् ।
तस्मिन् पुरस्थेऽपि कियद्यतन्ते वृथैव ते दोषगवेषणाय ॥ ६२॥
आनन्दथुर्ब्रह्मविदां यदेकस्ते व्यङ्ग्यलाभेषु शतं कवीनाम् ।
एते सहस्रं पुनरर्बुदं वा परोक्तिदोषम्फुरणे खलानाम् ॥ ६३॥
प्राचीनपद्यभ्रमतः प्रवृत्ताः स्तोतुं खलाः प्रेक्ष्य कविं पुरस्तात् ।
येनान्यथाकर्तुमिदं गतन्ते क्लेशेन तेषां हि स एव दण्डः ॥ ६४॥
दोषः क्वचित् कश्चिदिति प्रतीतः प्राचामलङ्कारविदां प्रवादः ।
सर्वप्रबन्धानुगतस्तु मन्ये कर्तुः कवेर्जीवनमेव दोषः ॥ ६५॥
मुधैव वाक्येषु पदेष्वधीतं मुधैव दीर्घं कवितापथेऽपि ।
आवश्यकं यत्किल पामराणामावर्जनं तन्न किमप्यधीतम् ॥ ६६॥
निसर्गतो निर्गुणमुक्तिगुम्फं समर्थयन्ते सगुणं बलाद्ये ।
ते कञ्चुळीसन्नहनोन्नतेन लम्बस्तनेनापि मुदं लभन्ते ॥ ६७॥
पाण्डित्यलोभो यदि पामराणां कामं विहिंसन्तु कलास्त्रिषष्टिम् ।
करतेऽपराधः कविते! गृहीतः किमस्ति ते किञ्चन पूर्ववैरम् ॥ ६८॥
वाचं कवीनामुपलाळयन् यां भुङ्क्ते रसज्ञो युवतिं युवेव ।
तामेव भुङ्क्ते ननु तार्किकोऽपि प्राणान् हरन् भूत इव प्रविष्टः ॥ ६९॥
अर्थेष्वलङ्कारविदः प्रमाणं शब्देषु नः शब्दविदो मुनीन्द्राः ।
के तान्त्रिकाणां कवयो भवन्ति के वा कवीनामपि तान्त्रिकाः स्युः ॥ ७०॥
घट्टोपविष्टानिव वाग्भिरर्थैः काव्यागमज्ञानुपसान्त्वयामः ।
आप्लुत्य भल्लूकवदापतन्तः कथं नु जय्या इह गौतमीयाः ॥ ७१॥
अन्यन्तिकस्थैरविभावनीयः सूक्ष्मः प्रकृत्या मृदुसूक्तिजन्मा ।
कुतर्कविद्याव्यवनोपजातेः कोलाहलैर्न ध्वनिरेष वेद्यः ॥ ७२॥
गुणान् न गृह्णन्तु खलास्ततः किं गृह्णन्तु दोषानपि वा ततः किम् ।
अपि व्यतित्तामुभयं ततः किं गुणोऽपि दोषो यदि दुस्सहं तत् ॥ ७३॥
क्व ब्रह्मलोकः क्व गिरां सावित्री क्व भूमिभागाः क्व वयं वराकाः ।
दिष्ट्योपलब्धामपि देवतां तां विक्रीणते वृत्तिकृते विमूढाः ॥ ७४॥
दुष्पण्डिताराधनदुःखशीलात् कष्टादमुष्मात् कविताधिकारात् ।
वरं जगत्यामिह मूकभावो वरं च तिर्यक्तृणगुल्मभावः ॥ ७५॥
प्रायो जडा मत्सरिणश्च लोका दोषोत्तरं मृग्यगुणं वचो नः ।
गुणैकलुब्धोऽपि जनः क्वचित् स्यादित्याशयैवायभियान् प्रयासः ॥ ७६॥
`वेदाहमेतं पुरुषं महान्त'' मित्यामनन्तो निगमाः सगर्वम् ।
श्वानः कृता येन स एव देवो वर्ण्यः कथं वाङ्मनसातिवर्ती ॥ ७७॥
शब्देषु चार्थेषु परं यतिष्ये तथा तथा मां गुरवो विनिन्युः ।
चमत्कृतिं तत्र कथं विधास्ये न मत्कृतिर्यत् क्रमते तदंशे ॥ ७८॥
क्वाहं क्व काव्यं कविराजसाध्यं क्वाहं क्व शम्भुर्निगमैरगम्यः ।
निश्शङ्कमेवांविदपि प्रवर्ते निर्लज्जते देवि! तव प्रसादात् ॥ ७९॥
दत्ते त्वया वाङ्मयरत्नकोशे विक्रीय भुक्तं किल भुक्तमेव ।
शिष्टं त्वदङ्घ्र्योः पुनरर्पयेयं दयम्व मीनाक्षि ! पुरैव मह्यम् ॥ ८०॥
शब्दा यद्वदनं प्रपद्य मृदुतामाशासतेऽन्यादृशी-
मर्था यद्धिषणाप्रवाहपतनादिच्छन्ति जिज्ञास्यताम् ।
यत्कीर्तिस्पृहया शिवोऽपि निगमान् ग्रन्थाति सर्गादिषु
प्राचस्तान् कवितापितामहपदारूढान् कवीन् प्रस्तुमः ॥ ८१॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे प्रथमः सर्गः ।
अथ द्वितीयः सर्गः ।
अस्ति क्षितेराभरणायमानः पारेसमुद्रं स हि पाण्ड्यदेशः ।
आशामगस्त्याध्युषितां गतोऽपि सर्वोत्तरो यो जगति प्रतीतः ॥ १॥
आस्थाय वैराग्यमनुत्तमं यस्त्रैलोक्यलक्ष्मीं न तृणाय मेने ।
यदाधिपत्यस्पृहया स एव देवो दधे सुन्दरपाण्ड्यरूपम् ॥ २॥
सुदुष्करं यत्प्रतिसर्गमेव पश्यन् मुनिः प्राग् विरराम सर्गात् ।
न शुष्कया सान्त्वगिरा सुराणां किं गाधिसूनोरपि शान्तिरस्ति ॥ ३॥
मन्दानिलोऽसौ मलयानिलोऽसौ गन्धानिलोऽसाविति यं युवानः ।
सम्भावयन्ते चलितैः शिरोभिः स कोऽपि यत्कोणभवः समीरः ॥ ४॥
आकारिता यत्र मखेषु विप्रैरालोकयन्तो विबुधाः समृद्धिम् ।
युष्मान् यजामो वयमर्पयध्वे युष्मत्पदं चेदिति सान्त्वयन्ते ॥ ५॥
तपोवनेऽन्यत्र तपश्चरन्तो दिवं भजन्ते यदि युक्तमेतत् ।
ततोऽधिके यत्र तपस्यतां हि तत्रैव युक्तः सुचिरं निवासः ॥ ६॥
मृत्पिण्डरूपो जनको यदीयः पितामहो यत्य कुलाल एव ।
स कुम्भजन्माजनि सूत्रकारः कोणे वसन् क्वापि चिरं यदीये ॥ ७॥
सौभाग्यलक्ष्मीं नवचन्दनानां मन्दानिलानामपि मौक्तिकानाम् ।
अयातयामामभिनिर्विशन्ति प्रायेग कौमारहरा यदीयाः ॥ ८॥
यत्रोभयानुच्चतरान् रसालानालक्ष्य विन्ध्यस्मयभङ्गदक्षान् ।
तपस्यति न्यस्तभरः सुखेन तेष्वेव मैत्रावरुणिर्महर्षिः ॥ ९॥
उपत्यकामण्डलनिर्विशेषे देशे हि यस्मिन् मलयाचलस्य ।
उदेति मन्दं व्यजनानिलोऽपि चमत्कृतश्चन्दनसौरभेण ॥ १०॥
पदेपदे चन्दनकाननत्थैः फणाधरैर्यत्र निपीयमानः ।
जातः प्रभूतोऽपि बहिः प्रसर्पन मन्दः किलैवं मलयानिलोऽभूत् ॥ ११॥
मन्दानिलं मन्मथमूलकन्दं यत्रोपयोक्तुं मुनयस्त्रसन्तः ।
वैयाघ्रचर्मव्यजनोपजातैर्वातैर्व्रतं केचन वर्तयन्ते ॥ १२॥
अयत्नलभ्यान्ययमद्भुतानि शरासकाण्डानि शरानसङ्ख्यान् ।
यत्रैव पश्यञ्जगदेकवीरः स्थिरं मनोजः शिबिरं चकार ॥ १३॥
ताम्रातरङ्गानिलताडितासु माकन्दवाटीषु मनोजवीरे ।
यत्रावतीर्णे महता बलेन तद्बाहुगुप्तात्तरुणा रमन्ते ॥ १४॥
वर्षोपला यत्र हि मौक्तिकानि काष्ठानि गन्धद्रुमकाण्डखण्डाः ।
कस्तेन विस्पर्धितुमुत्सहेत देशः शिलाकण्टकपूरितोऽन्यः ॥ १५॥
स्वर्गं नवं स्रष्टुमना मुनिः प्राक् ससर्ज यत्सम्मुखदेश एव ।
तन्मारुतस्पन्दनमात्रतोऽपि स्वर्भोगभाग्यं सुलभं विजानन् ॥ १६॥
अन्या विशन्त्यः सरितः समुद्रमापूरयन्ते जलजन्तुभिः स्वैः ।
रत्नापगा यत्र तु सम्पतन्ती रत्नाकरत्वं रमणस्य दत्ते ॥ १७॥
यत्सङ्गमादेव भवन्ति मुक्ताः सा जाह्नवी सर्वजनीनमेतत् ।
ततो विदुर्दक्षिणजाह्नवीति तादृग्विधां यत्र हि ताम्रपर्णीम् ॥ १८॥
दत्ते सुतां स्वामिव यां समस्तैरलङ्कृतां रनगणैरगस्त्यः ।
सरस्वते गोत्रैमहत्तराय यतो गृहीता हरिणापि वेदाः ॥ १९॥
अभ्यापतन्तीमनुवासरं यामगस्त्यगोत्रप्रभवेति सिन्धुः ।
विकीर्य पुष्पैरिव मौक्तिकौवैः प्रत्युद्व्रजन् प्रापयते किमन्तः ॥ २०॥
स्रोतोमुखैरम्बुनिधिं प्रविष्टं स्विभावतः स्वादु यदीयमम्भः ।
निर्मथ्य लब्धं त्रिदशैः कदाचिदात्वाद्यतेऽद्यापि सुधा सुधेति ॥ २१॥
क्षारोदकास्वादभवं विपाकमपाकरिष्यन्निव कुम्भजन्मा ।
जहाति शैलं मलयं न जातु पातुं प्रकृत्या मधुरं यदम्भः ॥ २२॥
यां सर्वरत्नैकखनिं विहाय गङ्गामधात् केन गुणेन शम्भुः ।
का प्रीतिरर्के सति कैतकेऽपि न हीश्वराः पर्यनुयोज्यशीलाः ॥ २३॥
वैदूर्यनीलोपलमौक्तिकानि यदादिमध्यान्तसमुद्भवानि ।
सा ताम्रपर्णी सरिदेव यत्र साधरणी काचन सारणीव ॥ २४॥
तस्मिन् विशाले तरुणेन्दुमौलेरावासभूतं पदमद्भुतानाम् ।
वनं जगत्पावनमस्ति किञ्चिन्नीपद्रुमाणां निकषा वृषाद्रिम् ॥ २५॥
अज्ञाततिग्मांशुकरावमर्शा छाया यदीया तमसां विहन्त्री ।
वातेरितं पुष्परजो यदीयं निश्शेषमुन्मार्ष्टि रजः प्रजानाम् ॥ २६॥
अन्तनिलीनभ्रमरैः प्रसूनैराभाति यद् बद्धरजोभिरीषत् ।
सत्त्वेन निर्जित्य रजास्तमश्च सम्मूर्च्छितेनेव समन्ततोऽपि ॥ २७॥
यत्राभिषिञ्चान्ति मधु क्षरन्तो वृक्षा भुवं मूर्तिनिवाष्टमूर्तेः ।
झङ्कुर्वते कर्णरसायनानि सामानि गायन्त इव द्विरेफाः ॥ २८॥
वक्राणि यस्मिन् मुनिपादपानामाभाति पुष्पाण्यतिनिर्मलानि ।
समाहृता मुक्तिजुषां प्रदातुं शशाङ्कखण्डा इव शङ्करेण ॥ २९॥
सम्पूर्यमाणात् प्रतिपौर्णमासं शाखाग्रसङ्घट्टनतोऽवधूतात् ।
मृगाङ्कबिम्बाद् गलिता इवोर्ष्यां मृगाः शतं यत्र परिभ्रमन्ति ॥ ३०॥
प्रत्यर्थिनो यत्र महेश्वरस्य तत्तत्क्षणोदन्तविचारणाय ।
चारा नियुक्ता इव मन्मथेन चरन्ति भृङ्गाः सममन्यपुष्टैः ॥ ३१॥
प्रागम्बयाथ प्रमथाधिपेनायध्यासिते यत्र कदम्बमूले ।
माकन्दजम्बूवटपादपानां मन्दाक्षमन्दानि कुलान्यभूवन् ॥ ३२॥
शाखासु शाखासु फलानि यत्र भान्तीव नाना परमार्थतस्तु ।
सर्वागमानां फलम्भेकमेव सन्दृश्यते तच्च कदम्बमूले ॥ ३३॥
तृणीकृते यत्र वसद्भिरार्यैश्चराचरेऽस्मिन् पशवश्चरन्ति ।
वैकुण्ठवासोऽपि तृणीकृतस्तेर्न चेत् कुतोऽसौ हरिणादृतः स्यात् ॥ ३४॥
पुष्पाय वृक्षाग्रपदाविरूढान् पुत्रान् मुनीनामुपलालयन्तः ।
व्याजेन देवास्तपसोऽभिसन्धिं पृच्छन्ति नित्यं परिशङ्कमानाः ॥ ३५॥
रोमाञ्चसान्द्रा इब कुग्मलौधैरुदश्रुपूर्णा इव शीथुवृष्ट्या ।
भस्मानुलिप्ता इव पुष्पधूल्या दृष्ट्वा मुनीन् यत्र भवन्ति नीपाः ॥ ३६॥
यस्मिन् महेशानकराश्रयेण केनापि कुल्येन कृतावलम्बाः ।
मृगा निरातङ्कलवाश्चरन्ति मृगादनैः प्रत्युत सेव्यमानाः ॥ ३७॥
व्याहन्यमाना मृगयासु यस्मिन् व्याघ्राः शिवत्वं प्रतिपद्य सद्यः ।
अस्मत्कुलीनोऽसि महानसीति हन्तॄन्किरातानुपसान्त्वयन्ते ॥ ३८॥
दृष्टेष्विवानुश्रविकेषु यस्मिन्धीरा वितृष्णा इति नाद्भुताय ।
स्वर्गाधिके धामनि संवसन्तः स्वर्ग्याणि कर्माणि किमाद्रियेरन् ॥ ३९ ॥
पाणौ मृगं पार्श्वतले किरातीं पर्यङ्कबन्धे च गजं महान्तम् ।
सम्मानयन्नेव चरत्यरण्ये पञ्चाननः कोऽप्यधुनापि या मन् ॥ ४०॥
यद् द्वादशान्तैकविभावनीयं त्रय्यन्तदृश्यं कथमस्तु तन्नः ।
इत्यध्यवस्यैव तदावसन्ति ब्रमर्षयः पाशुपता महान्तः ॥ ४१॥
वल्ल्यो यदीयाः कठवल्लिकाद्याः शाखाश्च माध्यन्दिनकाण्वमुख्याः ।
सर्वागमस्तोममयस्य तत्य शक्नोति को वर्णयितुं प्रभावम् ॥ ४२॥
तस्मिन् कदम्बद्रुममूलसीम्नि तपःपरीपाकफलं जनानाम् ।
आस्ते जगन्मङ्गलमङ्गजारेर्लिङ्गं दयाविग्रहवत्त्वलिङ्गम् ॥ ४३॥
यद् गूहितं वाग्भिरकृत्रिमाभिर्यद् द्रष्टुकामा मुनयो यतन्ते ।
नाम्ना च रूपेण च सुन्दरं तत् प्रत्यक्षमास्ते प्रियकस्य मूले ॥ ४४॥
पाण्ड्यार्पिता भात्यधुनापि यस्मिन्नृज्वायता वेत्रनिपातरेखा ।
नानारहस्यागमबोधनीयां नादात्मतामस्य विवृण्वतीव ॥ ४५॥
समस्तदिव्यागमसम्प्रतीते तारात्मके तत्र महेशलिङ्गे ।
अर्धेन्दुरर्धेन्दुतयैव दृष्टो बिन्दुस्तु सिन्धुः स्तिमिता जटाग्रे ॥ ४६॥
मूलञ्च मौलिञ्च विवेत्तुकामौ यस्याक्रमेतां विधिरच्युतश्च ।
तन्मूलमेतत्तरुमूलगम्यं तन्मौलिरेतत्तरुमौलिवेद्यः ॥ ४७॥
छन्नं प्रसूनैः स्नपितं मरन्दैरलङ्कृतं भोगिभिरापतद्भिः ।
इत्यं स्वयं पूजितमस्ति नित्यं स्वायम्भुव सुन्दरनाथलिङ्गम् ॥ ४८॥
एक किल ब्रम यदद्वितीयं वक्तुं चतस्रः श्रुतयोऽपि नालम् ।
तादृग्विधान्येव भजन्ति तस्य ब्रह्माणि पञ्चावयवत्वमुद्राम् ॥ ४९॥
तस्मिन्नहम्पूर्विकया विशद्भिरपान्तबन्धरधुनापि जीवैः ।
सम्बाधदुस्थैरजनिष्ट लिङ्गे सार्वत्रिकी दन्तुरतेति शङ्के ॥ ५०॥
चिद्रूपमानन्दमयं च वेदाः शैवं वपुः शाश्वतमामनन्ति ।
दयामयं तेऽपि विदुर्न जातु दृष्टं तदत्रैव कदम्बमूले ॥ ५१॥
गूढं भवामीत्यभिमानमात्रं गूढं परं ज्योतिरिदं कथं स्यात् ।
यन्मूर्धनि प्रत्युत चन्द्ररेखा तेनैव तत् प्रैक्षि कदम्बमूले ॥ ५२॥
ख्याताः कला यद्यपि तत्र लिङ्गे पश्चैव सिद्धाः शिवशासनेषु ।
तथापि तेनाध्युषिते तु देशे कलाश्चतुःषष्टिरपि स्फुरन्ति ॥ ५३॥
कृष्णार्जुनाभ्यां परिपूज्य लिङ्गमासादिताः सिद्धय इत्यवेत्य ।
कस्तूरिकाभिर्घनसारकैश्च लिम्पन्ति लोकाः खलु लिङ्गमेतत् ॥ ५४॥
यत्पीठिकाधस्पदमात्रलग्ना वाणी बहिर्न क्रमते कथञ्चित् ।
तत् कारणेशत्रितयातिवर्ति लिङ्गं कया वर्णयितव्यमुक्त्या ॥ ५५॥
सदाभिषिक्तं विबुधस्रवन्त्या सदा समभ्यर्चितमिन्दुना च ।
लिङ्गं तदैशं विजने वनेऽपि लोकत्रयक्षेमकरं बभूव ॥ ५६॥
कूजत्सु वन्येषु विहङ्गमेषु गायत्यु चाखण्डलगायनेषु ।
प्रीतिं दधौ तुल्यवदेव देवः कस्तदृशा तेषु भवेद् विशेषः ॥ ५७॥
विनोद्यते यः किल योगिवृर्न्दैविद्याधरैरप्सरसां गणैश्च ।
व्याधैर्मृगैः पक्षिभिरप्यरंस्त स देवदेवाश्चिरमत्र लिङ्गे ॥ ५८॥
अन्तर्हितावस्थितमत्र लिङ्गे तमारराधुस्तरवः प्रसूनैः ।
शृङ्गारकण्डूयनतः कुरङ्गा निर्मोकपट्टार्पणतो भुजङ्गाः ॥ ५९॥
सन्ध्यासु सन्ध्यासु गणैरदृश्यैरारात्रिकं साधितमस्फुटं यत् ।
चक्रे जरज्जम्बुकवक्त्रलग्नैर्वलाद्भरेतज्ज्वलनैः प्रकाशम् ॥ ६०॥
वन्यद्विपेष्वन्यतमो गणेशो व्याधार्भकेष्वेकतमः कुमारः ।
साऽप्यादिशक्तिः शबरीषु कापि भूत्वा विजह्रुः सविधे पुरारेः ॥ ६१॥
इत्थं परिभ्राम्यति कालचक्रे प्रणश्यति प्रोद्यति च प्रपञ्चे ।
देवेषु योगिष्वपि केऽपि केऽपि शनैरबुध्यन्त रहस्यमेतत् ॥ ६२॥
प्रत्यग्दृशा प्राक्तनपुण्ययोगादाप्तोपदेशैरनुमानतश्च ।
क्रमाद् द्युलोके बहलीबभूव कदम्बकान्तारकथाप्रसङ्गः ॥ ६३॥
दूरात् प्रणेमुः कतिचिद् वनं तदारात् परे नीपतरूनपश्यन् ।
विचिक्युरेके तदनुप्रविश्य धन्याः परे तद् ददृशुश्च लिङ्गम् ॥ ६४॥
आनन्दजैरश्रुभिरभ्यापेञ्चन्नानर्चुरप्यक्षिभिरेव फुल्लैः ।
न्यवेदयन्तापि निकामधौतमात्मानमानन्दसुधाप्लुतं ते ॥ ६५॥
गृहत्सु युप्मास्वपि गूढमेतद्रहस्यमद्राक्ष्म वयं किलेति ।
अनुश्रवान् केचिदुपालभन्त केचिद्विधिं केऽपि शिलादसूनुम् ॥ ६६॥
वागीश्वरा वाग्भिरपूजयन्त ध्यानाध्वनीना हृदि दध्युरेनम् ।
बाह्यार्चनामात्रपरायणास्तु सामग्र्यलाभादलभन्त खेदम् ॥ ६७॥
अभ्रापगावारिभिरभ्यषिञ्चन् सुधान्धसः सुन्दरनाथलिङ्गम् ।
तत्रासमर्था मुनयो महीस्थास्तस्तम्भिरे केवलमश्रुपूर्णाः ॥ ६८॥
आलक्ष्य पूजाव्यवसायमेषामपामभावात् परमं च खेदम् ।
दीनानुकम्पानिधिरिन्दुमौलिर्दिव्यं सरस्तत्र विधातुमैच्छत् ॥ ६९॥
स दक्षिणत्यां दिशि बाणपाते सरो विधात्यन्नमृतांशुमौलिः ।
सकृद्विलासादिव निर्बिभेद तीक्ष्णेन भूमि त्रिशिखाञ्चलेन ॥ ७०॥
आविध्य शूलं भुवि सद्य एव पादाङ्गदं पश्यति सुन्दरेशे ।
भक्तत्य ते न क्षतिरस्ति जातु शेषः सुखोत्याह सुता हिमाद्रेः ॥ ७१॥
आविध्यमानात् त्रिशिखाभिघातैरधःकपालाज्जगदण्डभित्तेः ।
अम्भो यदण्डावरणायितं तदुद्बुद्बुदं तत्क्षणमुद्बभूव ॥ ७२॥
त्रैविक्रमे कर्मणि शाहिणापि प्रवर्तितं यत् किंल पूर्वमम्भः ।
अधोगतिं प्राप तदेव लेभे शिवास्त्रयोगाद् गतिमित्थमूर्ध्वाम् ॥ ७३॥
दिदृक्षमाणेन महाद्भुतं तच्छिवेन यावन्नमितो न मौलिः ।
तावत् सरस्तकृतमुत्तरङ्गं ततः स्रवन्त्या विबुधस्रवत्या ॥ ७४॥
सरस्त्रिशूलप्रभवं पुरारेस्तथात्यगाधं तदभूत् क्षणेन ।
यथात्र देवोऽवतरन् प्लवेत त्रिविक्रमः क्रान्तजगत्रयोऽपि ॥ ७५॥
नौर्वान्न रामान्न च कुम्भणेनेर्यस्यास्ति भीतिस्तदवेक्ष्य तीर्थम् ।
आश्वासमाजग्मतुरर्णवस्थौ शश्वत्तमौ तावपि कूर्ममीनौ ॥ ७६॥
आविर्भवन्तीः सलिले समन्तादम्भोजिनीरुत्पलिनश्चि तस्मिन् ।
दृशौ पिबन्त्यौ परमस्य धाम्नः प्रीतिं परां प्रापतुरर्कचन्द्रौ ॥ ७७॥
त्रैगुण्यरूपं त्रिशिखं हि शम्भोर्धीरा जगत्कारणमामनन्ति ।
तत्सम्प्रसूतेऽपि सरस्यमुष्मिन् का हेतुचिन्ता कमलोत्पलानाम् ॥ ७८॥
शैवालनीलं बहिरम्बुजाभमन्तर्घटैरुद्ध्रियमाणमच्छम् ।
त्रैगुण्यरूपं त्रिशिखोद्भवं तदम्भो निजान् हेतुगुणान् व्यनक्ति ॥ ७९॥
प्राचीनमब्जं परिहृत्य सद्यो जग्राह भानुर्जलजं तदीयम् ।
अत्रैव लक्ष्मीः स्थितिमाबबन्ध चतुर्मुखोऽतश्चकमे प्रसूतिम् ॥ ८०॥
आचामत स्वात सरस्यमुष्मिन्नत्याम्भसा मामभिषिञ्चतेति ।
देवान् महर्षीनपि चान्वगृह्णाद् वाचा भगिन्या विभुरागमानाम् ॥ ८१॥
खातं शूलशिखाञ्चलेन सलिलैः पूतं जटातीर्थजैः
प्रत्यक्षेण च शाम्भवेन विधिना प्राप्तं परां ग्राह्यताम् ।
तीर्थं तत् प्रतिपद्य तापसगणा भागीरथी तत्यजु-
र्मन्दं चादरमादधुः सुरगणा मन्दाकिनीस्रोतसि ॥ ८२॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्गवे द्वितीयः सर्गः ।
अथ तृतीयः सर्गः ।
अथ जातु पुरन्दरः सुधर्मामधितिष्ठन् सह सप्तभिर्दिगीशैः ।
अविजेयमनुक्षणोपचित्या विमतं वृत्रममन्त्रयद् विजेतुम् ॥ १॥
चतुरङ्गमिदं महद् बलं नश्चतुरं गन्तुमहो न यत्समीपम् ।
न बल भुजयोः क्रमेत तस्मिन्नवशादञ्जलिबन्धशिक्षितौ यौ ॥ २॥
अमृताशनजातिमात्रजेतर्यलमस्त्राणि न तत्र दैवतानि ।
परिवृत्त्य पतेयुरासुराणि प्रबलं यूथपतिं तमेत्य सद्यः ॥ ३॥
निकृतिं शरणं वृणीमहे चेन्नियमादापदियं क्षमा तरीतुम् ।
निरृतिं परिपृच्छतामुमर्थं स हि नः पुण्यजनेतु सम्प्रतीतः ॥ ४॥
असुरा हि भवेम युध्यमानाः कपटेनेति यदि त्थितं मतं वः ।
असुरत्वमपोक्षितं चिरान्नः सुरभावादतिगार्हितादमुष्मात् ॥ ५॥
स हि सम्प्रति सागरान्तरीपे क्वचिदालम्ब्य निराश्रयं समाधिम् ।
अविशङ्कितमास्थितस्तपस्यां सुखजय्यो यदि रोचते भवभ्द्यः ॥ ६॥
इति वादिनि वल्लभे सुराणामनुजज्ञुर्हरिदीश्वराः सहर्षम् ।
प्रकृतिर्ह्यपये रुचिः प्रजानां किमुत स्वामिनि तादृशेपि लब्धे ॥ ७॥
स हि यत्र तपश्चकार वृत्रस्तदनुप्राप्य तपोवनं महेन्द्रः ।
परमेण समाविनोपविष्टं पविना तं विनिपातयाम्बभूव ॥ ८॥
कृतकृत्यममुं निवर्तमानं कियदप्यप्रतिसन्दधानमेनः ।
विकृता वपुषा विकीर्णकेशी सममेवानुससार वृत्रहत्या ॥ ९॥
पुनरेत्य यथापुरं सुधर्मां पुरुहूतः स्तुवतो विसृज्य देवान् ।
अवरोधमभीप्सुरालुलोके विशतीं स्पेन सहैव वृत्रहत्याम् ॥ १०॥
अवकीर्य पविं विकीर्य केशानसमालोच्य च कृत्यमाप्तवर्गैः ।
स तयानुगतः पलायत द्राक् समरेष्वप्रतिमल्लसाहसोऽपि ॥ ११॥
अपथं तदभीक्ष्णमादृतं यैरपि साक्षादुपदिष्टमादितश्च ।
जहसुः प्रथमं त एव शक्रं प्रकृतीनां प्रभवत्स्वयं स्वभावः ॥ १२॥
विपिनाद्विपिनं गिरिं गिरिभ्यो जलराशेर्जलराशिमन्ततश्च ।
जगतो जगदप्ययं प्रधावन्मुमुचे नैव तया धियेव जीवः ॥ १३॥
निपुणं स पुरन्दरो विलिल्ये सरसि क्वापि सरोजनाळतन्तौ ।
शतशः समुपात्तसप्ततन्तोरवलम्बाय बभूव कोऽपि तन्तुः ॥ १४॥
अवलोक्य तदन्तरं चिकीर्षन् नहुषो नाम नृपोऽधिकारमैन्द्रम् ।
अनियन्तृकताविषादमग्नैरनुमेने कथमप्यमर्त्यलोकैः ॥ १५॥
अयथावदनुष्ठिताश्वमेधः कियता चैत्र दिवं गतः शुभेन ।
प्रभुतामपि वर्तयन् सुरागां प्रकृतिं स्वां न जहौ तमःप्रधानाम् ॥ १६॥
पृथिवीमनुशासतः पुरा ये रिपवस्तत्य महीभुजो बभूवुः ।
अधुना विषयेष्वसावमीषामशिषद् वारिमुचो न वर्षतेति ॥ १७॥
अहमस्म्यभिवर्षुकः प्रजानां यजनीयश्च ततोऽहमेव तासाम् ।
क इमे हविषो मखे नराणामिति सर्वानयमाक्षिपत् सुधाशान् ॥ १८॥
सवनोपनतं हविः समस्तं मयि संवेदय मद्गृहीतशेषम् ।
प्रतिपादय तस्य तस्य पश्चादिति मूढः प्रशशास हव्यवाहम् ॥ १९॥
उदधेः सुरसिन्धुतोयपूर्णादुदपद्यन्त यदद्भुताः पदार्थाः ।
तदियं निपुणं विशोधनीयेत्यखिलं गाङ्गमवाकिरत् स तोयम् ॥ २०॥
अवनेर्दिवमागतान् स्वयूथ्यानसकृत् तेषु च शीलितस्वभावान् ।
स हि मूलबलं समग्रहीत् स्वं न विशश्वास निसर्गदैवतानि ॥ २१॥
बहुभित्तुरगैर्गजैश्च भाव्यं द्युतरून याचत यद्यमी न दद्युः ।
विनिपातयतेति वीतशङ्कं वनपालान् प्रशशास वैधवेयः ॥ २२॥
अवितीर्णफला उपासिता अप्यवनिस्थेन पुरात्मना सुरा ये ।
द्विगुणं त्रिगुणं च निर्दयैस्तान् दनुजैरेव स दण्डयाम्बभूव ॥ २३॥
अमरैः प्रतिमासमद्यमानं कुलकूटस्थमवेक्ष्य खेदितोऽसौ ।
अवनाय समादिदेश भृत्यान् सितपक्षात्यय एव शीतभानोः ॥ २४॥
स स मित्रमभूदमुष्य यं यं पुरुहूतो विरुरोध दानवेषु ।
कथयन्ति कथाममुष्य ये ये कुपितोऽयं ज्वलति स्म तेषु तेषु ॥ २५॥
शयितुं परिवर्तितुं च बिभ्यन्नयनैर्निर्निमिषैः स सर्वगात्रे ।
नयनानि विभज्य निर्जरा मे प्रतिगृह्णान्त्विति सन्दिदेश मूर्खः ॥ २६॥
मृगपक्षिसरीसृपा मनुष्याः पशवो ये निहतास्त्वयाश्वमेधे ।
त इमे विचरन्ति हन्तुकामा इति तं शश्वदभीषयन्त देवाः ॥ २७॥
इयमेव शचीति दर्शयन्तो गणिकां कामपि निर्जराः सुराणाम् ।
अतिसन्दधिरे सुखेन मूढं प्रभुता का प्रकृतेरसम्मतस्य ॥ २८॥
शिबिकामधिरुह्य जातु गच्छन् स महर्षीन् विनियुज्य तत्र धुर्यान् ।
असकृन्निजगाद सर्प सर्पेत्यपि तं कुम्भभवम्तथा भवेति ॥ २९॥
अशनिर्झसमाप्त एव भोगे पतितो मूर्धनि तस्य शापरूपः ।
अत एव पतन्नपि क्षमायां नहुषो न त्यजति स्म भोगिभावम् ॥ ३०॥
चिरलुप्तकथे मघोनि तस्मिन्नपि तस्य प्रतिरूपके प्रनष्टे ।
अधिगन्तुमनाः प्रवृत्तिमैन्द्रीं युयुजे योगदृशा गुरुः सुराणाम् ॥ ३१॥
सरसीरुहनाळतन्तुलीनं सरसि क्वापि समेत्य योगगूढः ।
प्रतिबोधयति स्म देशिकस्तं करणीयं करुणाप्लुतैर्वचोभिः ॥ ३२॥
चकितः समयं कियन्तमम्मिन् सरसि स्थास्यसि खेदयन्नमर्त्त्यान् ।
न हि सम्यगनिष्कृतं तदेनः प्रळये प्राकृतिकेऽपि मुञ्चति त्वाम् ॥ ३३॥
सकलाघनिबर्हणे समाधौ वसतस्तस्य वधे तु कः समाधिः ।
चरणं परिहृत्य चन्द्रमौलेः शरणं संसरतां यदाविरिञ्चात् ॥ ३४॥
चर पाशुपतव्रतं चरन् सन्नवनावायतनानि शाम्भवानि ।
अनुयास्यति केवलं न तु त्वामधिकुर्वीत शिवाज्ञया तदेनः ॥ ३५॥
विशतस्तव यत्र सम्प्रसीदत्यमृतेनेव विशोधितोऽन्तरात्मा ।
करुणावरुणालयो महेशः कलुषं तत्र निवारयिष्यतीति ॥ ३६॥
स तथेत्यभिनन्द्य शासनं तत् कलितस्वस्त्ययनश्च देशिकेन ।
अधिरुह्य सुरद्विपं प्रतस्थे विविधान्यायतनानि विश्वमूर्तेः ॥ ३७॥
स गिरीन् हिमशैलकन्दरादीन् सरितो जनुसुताकलिन्दजाद्याः ।
विपिनानि च नैमिशादिमानि व्यचरत् पाशुपतव्रती महेन्द्रः ॥ ३८॥
स तपोवनदर्शमध्युवास प्रयतः सन्निममज्ज तीर्थदर्शम् ।
द्विजवेदमतर्पयद् धनौधैर्व्रतवेदं नियतः समाचचार ॥ ३९॥
त्रिविधान्यपि शाम्भवानि लिङ्गान्ययजद्वस्तुभिरान्तरैश्च बाह्यैः ।
लभते स्म न शान्तिमात्मनोऽयं क्वचिदप्येषु कुतो हि पातकस्य ॥ ४०॥
स तपांसि बहूनि तप्यमानः कलुषेणानुयतानुतप्यमानः ।
भवबन्धनिराकारिष्णुशाखापवनं नीपवनं समाससाद ॥ ४१॥
उपहारमनुत्तमं पुरारेरवतंसोत्पलसौरभं हरन्तः ।
अभिजग्मुरिवानिलास्तदीया अतिथिं स्वामिनमागतं चिराय ॥ ४२॥
स कदम्बवनीपरागलेशैः शिवगङ्गोदकशीकरानुविद्धैः ।
पवनोपहृतेः पतिः सुराणां परमां कामपि निर्वृतिं जगाहे ॥ ४३॥
प्रससाद मनः प्रसेदुरक्षीण्युपजज्ञे बलमुद्बभूव शौर्यम् ।
स हि सन्निचकर्ष यावदित्थं कलुषं विप्रचकर्ष तावदस्य ॥ ४४॥
अतिहृष्टमनाः स तैर्निमित्तरनुसन्धाय गिरं पुरोधसस्ताम् ।
परिनिश्चिनुते स्म तत् त्रिलोक्यां परमं धाम हरिः परस्य धाम्नः ॥ ४५॥
सकलाद्भुतधाम्नि सीम्नि तस्यां सहसैवायमवाप्लुतो गजेन्द्रात् ।
प्रयतः प्रविवेश काननं तत् सह सर्वैश्च विना तदेकमेनः ॥ ४६॥
स ददर्श फणातपत्रगुप्तान् नकुलानातपतापितानहीनाम् ।
अपि दृप्तचरत्तरक्षुदंष्ट्रामुखकण्डूयितलोचनां कुरङ्गीम् ॥ ४७॥
स लतां कमपि द्रुमं प्रपन्नां सविधस्थान्यतरूपगूहभीत्या ।
प्रतिसंहृतपल्लवामपश्यत् परिकृष्टामपि कौतुकात् किरातैः ॥ ४८॥
उपहृत्य चलद्रुमप्रवालान् कदलीरिक्षुलता मृणालिनीश्च ।
नमतः शतशो हरेः समक्षं न विषेहे वनकुञ्जरान् सुरेभः ॥ ४९॥
पथि वीक्षितवद्भिरादरेण प्रमथैः पाशुपतैर्महर्षिभिश्च ।
सविधं तपसातिनिर्मलोऽयं समुपानीयत सुन्दरेश्वरस्य ॥ ५०॥
अविचिन्त्यमदृष्टमश्रुतं च त्रिषु लोकेष्वपि दिव्यलिङ्गमेतत् ।
विकचैर्नयनोत्पलैर्बिडौजा विचकार प्रथमोपहारहेतोः ॥ ५१॥
प्रमदाश्रुपरिप्लुतैस्तदानीं नयनैराचरणाग्रमाललाटम् ।
द्रवतां प्रतिपद्य भक्तियोगाद् ददृशे वारिमयीव तस्य मूर्तिः ॥ ५२॥
अथ दण्डवदानतस्य शम्भौ ददृशे दृष्टिमयी तनुर्मघोनः ।
उपहारकृते पुरो विकीर्णा विकचेन्दीवरमालिकेव दिव्या ॥ ५३॥
सगणं सवृषं सनन्दिकेशं ससुतं साम्बमपि प्रभुं तमाद्यम् ।
परिपूजयितुं चकाङ्क्ष शक्रो महतामेव मनोरथोऽपि तावान् ॥ ५४॥
स्मृतसन्निहितोऽथ विश्वकर्मा सह दिव्येन पुरोधसा तदानीम् ।
शिरसा प्रतिगृह्य भर्तुराज्ञामयतिष्टायतनाय चन्द्रमौलेः ॥ ५५॥
विधृतं करिभिर्विमानरूपं विपुलं प्राक्प्रतिहारमेकभूमम् ।
शिखरोल्लिखिताम्बरं स शिल्पी विदधे गर्भगृहं शुभे विलग्ने ॥ ५६॥
अतिसुन्दरमर्धमण्डपं च प्रतिहारत्रयभावितान्तरेण ।
महता मणिमण्डपेन सक्तं विदधे विश्वशुभाय विश्वकर्मा ॥ ५७॥
प्रतिमाः परिवारदेवतानां विविधान्यायतनानि तत्र तासाम् ।
परितः परितोऽपि पञ्च सालानकरोदुन्नतगोपुरोपगूढान् ॥ ५८॥
शुभवास्तुनि शूलपुष्करिण्या रुचिरे रोधसि पश्चिमे स शिल्पी ।
भवनं मणिचित्रितं भवान्या गणनाथम्य च कल्पयाम्बभूव ॥ ५९॥
अपरानपि मण्डपप्रभेदानभितश्चोत्सववीथिका विशालाः ।
असृजत् स मरुत्वतोऽनुरूपान् प्रभुताभक्तिविवेकपाटवानाम् ॥ ६०॥
प्रहसद्वदनं प्रसन्ननेत्रं द्विभुजं दक्षिणतो धृतोत्पलं च ।
करकोपलवद् घनीभवन्त्या दययेवाकृत विग्रहं स देव्याः ॥ ६१॥
अधिकानि ममेत्यहर्निशं यैर्मघवा शोचति लोचनैः समन्तात् ।
अवलोक्य स विश्वकर्मकर्माण्यलमेतानि किमित्यशोचदेभिः ॥ ६२॥
दयितस्य दिदृक्षतेऽपसव्यं वपुरेषा किल वामभागगेति ।
कृतमिङ्गितवेदिना मघोना पदमस्याः किमु दक्षिणेन शम्भुम् ॥ ६३॥
अतिचारुमशेषलक्षणाढ्यं ललितं बिम्बमिमं स्वतो विविक्षुम् ।
हरिरर्थयते स्म शक्तिमाद्यां गुरुरावाहयदन्वमंस्त शम्भुः ॥ ६४॥
अखिलं जगदात्मसम्प्रसूतं परिपुष्णाति दृगेव यत् किलास्याः ।
अभिधामपि मीनलोचनेति व्यदधादिन्द्रपुरोहितस्ततोऽस्याः ॥ ६५॥
नियतां कनकारविन्दपूजां दिविजैः कर्तुमना हरिः सरोजैः ।
पवनं प्रजिघाय देवदूतं स्वयमस्नादथ शूलपुष्करिण्याम् ॥ ६६॥
कृतनित्यविधौ विलम्बमाने शिवमभ्यर्चयितुं क्षणं सुरेशे ।
कमलैरुदभावि जातरूपैः कमलिन्यामतिसौरभैरमुष्याम् ॥ ६७॥
स्वयमाहरदर्चनाय शम्भोः सुरभीण्यम्बुरुहाणि काञ्चनानि ।
कनकाम्बुजिनीति नाम तस्याः कलयन् विस्मित एष सस्मितश्च ॥ ६८॥
क्व नु काञ्चनता क्व सौरभं तद् दिवि सङ्कल्पभवेषु पङ्कजेषु ।
प्रभवत्यखिलं हि निर्जराणां ध्रुवमाध्यासिकतत्तदर्थवन्नः ॥ ६९॥
सलिलैरतिपावनैस्तदीयैः कमलैरप्यतिसौरभैर्महेन्द्रः ।
परिपूज्य शिवौ गुरुक्तरीत्या प्रणिपातैः परितोषयाम्बभूव ॥ ७०॥
अपि गद्गदया प्रमोदबाष्पैरपि सारोज्झितयातिसम्भ्रमेण ।
पितरौ प्रियकप्रियौ सुरेशः स गिरानर्च वचःपथव्यतीतौ ॥ ७१॥
भुवि सुन्दरमास्पदं तवैतच्छिवलिङ्गं तु ततोऽपि सुन्दरं ते ।
अपि सुन्दरमेव सुन्दराणामभिधानं वचनामृतं त्वदीयम् ॥ ७२॥
समसेविषि मन्दरे हिमाद्रौ कलधौताचलकन्दरेऽपि च त्वाम् ।
विदितन्तु परं न विश्वपारं किमु तत्रैवमसीति कापि शङ्का ॥ ७३॥
न मखैर्न जपैर्न होमदानैर्न तपोभिर्विविधैश्च लभ्यते यत् ।
तदिदं तव सन्निधानभाग्यं तरुभिः कैरपि भुज्यते निरीहैः ॥ ७४॥
निहता दनुजा जिता त्रिलोकी त्रिदिवे चाधिकृतं ततः किमासीत् ।
इह ये मृगपक्षिणो न हीमानपि नीराज्य विमोक्तुमर्हता मे ॥ ७९॥
अपवृज्य किमीश! साधयेयं भवदानन्दमवाप्नुयां तदाहम् ।
किमितोऽप्यधिकः स यो ममासावुचितः स्वाम्युपलम्भजः प्रमोदः ॥ ७६॥
जडमेव जगत् तव स्वमासीदजडाः केचन मादृशोऽपि जीवाः ।
अतिवाङ्ममनसं भवन्तमेव प्रतिपन्नास्तु वयं प्रशासितारम् ॥ ७७॥
वचनावसरो न लभ्यते नस्त्वयि मीनाक्षि ! शिवाविनाकृतायाम् ।
इति देवि! पृथक् कृतासि किञ्चित् तमिमं मा कुरु मानसेऽपराधम् ॥ ७८॥
गिरिराजकुमारिकामपि स्वं विपिनेष्वद्रिषु चानुवर्तमानाम् ।
भवतीं प्रियकप्रियेऽनुरोद्धुं स्वयमध्यास्त शिवः कदम्बमूलम् ॥ ७९॥
जगतो जगदीश्वरस्य च श्रीर्भवती यद्यपि सर्वतोऽस्ति पूर्णा ।
करुणामयमुत्सहे न हातुं तव मीनाक्षि ! तथापि रूपमेतत् ॥ ८०॥
हरयस्त इमे महावनेऽस्मिन्नयमिन्द्रद्रुरसावपीन्द्रवल्ली ।
मम नामजुषः स्थिता यदेते मम सेवेयमिति प्रतीच्छ मातः! ॥ ८१॥
कति सन्तु न वेधसः कतीन्द्रास्तव मीनाक्षि ! तरङ्गितैरपाङ्गैः ।
किमधश्च्यवते मया विना द्यौः कृपणं मां घटयस्व किङ्करेषु ॥ ८२॥
व्यगलद् दनुजेषु मत्सरो मे विरराम त्रिदिवोपभोगरागः ।
स्थगिता बहिरेव वृत्रहत्या भवतोरद्य मयि प्रसादलेशात् ॥ ८३॥
इति तं प्रणिपत्य संस्तुवन्तं प्रथमं भक्तिमतां पतिं सुराणाम् ।
अनुगृह्य दयोर्मिलैरपाङ्गैरगदिष्टामिदमादिमौ युवानौ ॥ ८४॥
आद्यस्त्वमेषामसि पार्षदानां कुमारयोश्चाम्यनयोस्तृतीयः ।
जानीवहे ते परमां च भक्तिं विद्राविता सा तव वृत्रहत्या ॥ ८५॥
वासन्तिकप्रथमपर्वसु वासव! त्वमित्थं समेत्य सकलैरनुयायिवर्गैः ।
आविश्वपारनगराभिमुखात् प्रयाणादभ्यर्च नौ कनकवारिरुहैरमीभिः ॥ ८६॥
इत्युक्ते सति जगदादिदम्पतिभ्या-
मिन्द्रस्तद्गुरुरितरेऽनुयायिनश्च ।
प्रस्थानप्रणतिपरम्पराभिरेता-
वन्योन्याभ्यधिकदयामयौ वितेनुः ॥ ८७॥
आमन्त्र्य द्विरदेन्द्रवक्रमसकृत् सम्प्रार्थ्य नन्दीश्वरं
सम्मान्य प्रमथान् निवेद्य सकलं चण्डेश्वरं शाम्भवम् ।
आशीर्भिः प्रतिनन्दितो मुनिगणैरापृच्छ्य वाचस्पतिं
दिव्येन द्विरदेन निर्मलतरो देवः प्रतस्थे पुरीम् ॥ ८८॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे तृतीयः सर्गः ।
अथ चतुर्थः सर्गः ।
निवृत्ते वासवे तस्मिन् निवृत्तं चान्तरे मनोः ।
इन्दाञ्चकार कोऽप्यन्यो वृन्दारकनिकेतने ॥ १॥
अभ्रमातङ्गमारुह्य विभ्रमादमरेश्वरः ।
संवृतः सकलैर्देवैर्निजगाम पुराद् बहिः ॥ २॥
सर्वासामपि सिद्धीनां दुर्वासा निधिरद्भुतः ।
समगच्छत तेनाभ्रे स हि गच्छन् यदृच्छया ॥ ३॥
परिपालयितुं रौद्रीं प्रतिसर्गाधिकारिताम् ।
तस्य न ज्वलति क्रोधो यस्यैका जगदाहुतिः ॥ ४॥
अ ग्न्यगारगते तम्मिन्ननाहूतागताः स्वयम् ।
सन्दर्शयन्ति स्वात्मानं देवा आवाहनक्षणे ॥ ५॥
नानुगच्छति तम्याग्निर्न विष्यन्दयते हविः ।
नापक्षयति सन्त्रस्तो न निर्मन्थे विळम्बते ॥ ६॥
अतपत्तपनाकारमज्वलज्ज्वलनोपमम् ।
दृष्ट्वैव तं मुनिं देवास्तत्रयुस्तत्र सुस्थिताः ॥ ७॥
पाणिभ्यामप्रमत्तोऽसौ प्रसादं पद्ममैश्वरम् ।
गजस्कन्धगतायापि ददौ राजेति वज्रिणे ॥ ८॥
अनादृत्य स तं मोहान्निदधे मूर्ध्नि दन्तिनः ।
शुण्डया सोऽप्युपादाय निष्पिपेष निसर्गतः ॥ ९॥
आभुज्य स भ्रुवौ किञ्चिदावर्त्य कपिले दृशौ ।
प्रजज्वालेव कोपेन मुनिः प्रस्फुरिताधरः ॥ १०॥
पस्पन्दे न सहस्रांशुस्तस्तम्भे मारुतस्तदा ।
चकम्पे सार्णवा पृथ्वी विव्यने केवलं नभः ॥ ११॥
स हस्तिहस्तिपकयोः शापं घोरमवासृजत् ।
वज्रं वज्रिआण दुर्वारमङ्कुशं च निरङ्कुशे ॥ १२॥
मौलिं भेत्स्यति पाण्ड्योऽस्य मदान्धस्य दिवस्पतेः ।
सञ्चरत्ववनावेष कुञ्चरः क्षुद्रदन्तिवत् ॥ १३॥
दत्तशापतया किञ्चिद् दग्धेन्धनमिवानलम् ।
प्रशाम्यन्तममुं देवाः प्रणिपातैरसान्त्वयन् ॥ १४॥
सम्भ्रमोद्वेगकार्पण्यस्तम्भप्रणतिसान्त्वनैः ।
प्रसादाभिमुखस्तेषां प्राह माहेश्वरो मुनिः ॥ १५॥
पाण्ड्यो भिनत्तु तर्ह्यस्य मौलिं मकुटलक्षणम् ।
सुन्दरेशार्चनान्तश्च शापः स्वर्दन्तिनोऽस्त्विति ॥ १६॥
महेन्द्रसविधावासवासनारसिकश्चिरात् ।
महेन्द्र एव शैलेन्द्रे जन्म लेभे मुराद्विपः ॥ १७॥
आमूलमग्नदन्तः स खेलासु बिभिदे भुवम् ।
धर्तुकाम इव स्कन्धे तामेवोद्धृत्य सार्णवाम् ॥ १८॥
मदगन्धेन धावन्ति येषामन्ये मतङ्गजाः ।
कर्णानिलेन ते तस्य कलभस्यापि दुद्रुवुः ॥ १९॥
स सिंहान् शुण्डयादाय चिक्षेप तृणपूलवत् ।
पादैरेव महाग्राहान् भेकमर्दं ममर्द च ॥ २०॥
ग्राहा ग्नसन्ते हर्यक्षा घ्नन्ति गृह्णन्ति मानवाः ।
इत्युच्यमानं कळभैराश्चर्यमिव सोऽशृणोत् ॥ २१॥
सरित्सरांसि पीतानि सकृदाकृष्य शुण्डया ।
मदधारापदेशेन मन्ये तस्य प्रसुस्रुवुः २२॥
स मत्तः सञ्चरन् पृथ्वीं चरणैरपचस्करे ।
लघूकरिष्यन्निव तां दिग्गजानुजिघृक्षया ॥ २३॥
अजानिव गजानन्यानादायादाय चिक्षिपे ।
स एव पुङ्गजस्तत्र वशास्तस्याभवन् परे ॥ २४॥
स खेलन् सागरस्याम्भः क्षिपन् मन्दाकिनीं प्रति ।
दयया चिरविश्लिष्टौ दम्पती तावयोजयत् ॥ २५॥
पश्यन् मध्यमलोकस्य रामणीयकमद्भुतम् ।
पांसुभिः स करोद्धूतैश्चकारेव दिवं भुवम् ॥ २६॥
विद्रवद्भिर्वने तस्मिन् व्याधव्याघ्रमृगाधिपैः ।
मृगाणां रक्षणादासीन्मृगेन्द्रः सोऽद्भुतः क्षितौ ॥ २७॥
महेन्द्रादेष मलयं मलयादपि दर्दरम् ।
सञ्चरन् जातुचित् प्राप कुञ्जरो नीपकाननम् ॥ २८॥
मदगन्धाशया प्राप्तैर्मधुपैर्विपिनात् ततः ।
सम्प्रदर्शितवर्त्मेव स ययौ हेमपद्मिनीम् ॥ २९॥
गणेशमदनिष्यन्दगन्धसर्वस्ववेदिनः ।
उपेक्षां भ्रमराश्चक्रुरुन्मदास्तन्मदाम्भसि ॥ ३०॥
स पतन्नेव सरसि क्षीरोद इव मन्दरः ।
कल्लोलैः प्लावयामास कदम्बविपिनान्तरम् ॥ ३१॥
मलिनो निर्ममज्जास्मिन्नुन्ममज्जाथ निर्मलः ।
प्रागभूत् केवलो भौमः सार्वभौमोऽथ दन्तिनाम् ॥ ३२॥
उत्तीर्य बहिरन्तश्च नीरजा नरिजाकरात् ।
अतीयाय स तं शापमधीयाय मुनेर्गिरः ॥ ३३॥
गाङ्गेयैः शैवगाङ्गेयैः कमलैः कमलास्पदैः ।
एकदन्तं चतुर्दन्तः सिन्धुरं सिन्धुरोऽर्चयत् ॥ ३४॥
पुष्करैरभिषिच्येशौ पुष्करोपहृतैरयम् ।
पुष्करैरेव चानर्च पुष्करं गाहितुं पुनः ॥ ३५॥
सितं हि काञ्चनं पुष्पं शिवस्यैवाभवन्मुदे ।
पिशङ्गं तु तदानीतं प्रीतये शिवयोरभूत् ॥ ३६॥
मुक्तशापो गजः पृथ्वीं मुदा यदपचम्करे ।
गजतीर्थमिति ख्यातं तद् बभूव महत् सरः ॥ ३७॥
ऐरावतेश्वरं लिङ्गमैरावतविनायकम् ।
स तीरे सरसस्तस्य स्थापयित्वाभ्यपूजयत् ॥ ३८॥
पुरन्दरेश्वरं नाम पूर्वतः सुन्दरेशितुः ।
स्वामिनामाङ्कितं लिङ्गं स्थापयामास चापरम् ॥ ३९॥
प्रहितः सुन्दरेशेन स हि तत्र चिरं वसन् ।
पुनर्जगाम स्वं धाम पुरुहूतेन चादृतः ॥ ४०॥
कदम्बविपिनात् प्राचि कल्याणनगरे ततः ।
कालेन महता जज्ञे कश्चिद्वैश्यो धनञ्जयः ॥ ४१॥
अस्त्राय गत्वा देवेन कृतयुद्धं गतम्पृहः ।
कौरव्यमत्यशेतायमूरव्यस्तु धनञ्जयः ॥ ४२॥
तस्य भूमिस्पृशो भक्तिं तरुणेन्दुशिखामणौ ।
भक्तिरागन्तुकान्येषां कथं वानुकरिष्यति ॥ ४३॥
(दशैकादशिकाः! ) प्रायो वणिजश्चतुरा अपि ।
एकं दत्वेह सोऽमुत्र तत्सहस्रमुपार्जयत् ॥ ४४॥
परक्षेत्रपरामर्शपरिशङ्की धनञ्जयः ।
नोत्ससर्ज बहिर्जातु स गोषङ्गवमात्मनः ॥ ४५॥
वृत्तिः सा हि विशां यत्तु भुवमुल्लिख्य जीवनम् ।
स तु तत् कर्म तत्याज दिवमुल्लिख्य केवलाम् ॥ ४६॥
अक्रीणीतैव पुण्यानि व्यक्रीणीत न जात्वपि ।
समयेषूपयोगाय सर्वमेव जुगोप सः ॥ ४७॥
स बहून् विषयान् गत्वा वाणिज्याय धनञ्जयः ।
निवृत्तो नीपकान्तारसमीपं सायमाययौ ॥ ४८॥
अदृश्यत सहस्रांशुरस्तभूधरमस्तके ।
मन्देहयुद्धलब्धासृक्पङ्कदिग्ध इवारुणः ॥ ४९॥
अर्कमस्तं गमिष्यन्तमुपेत्यानुचराः कराः ।
अन्वगन्वगलम्बन्त दुद्रुवुर्ये पुरः पुरः ॥ ५०॥
निन्दन्तो रजनीं कोका नन्दन्तस्तां चकोरिकाः ।
चञ्चूचञ्चवि सायाह्ने सर्वतः सम्प्रजह्रिरे ॥ ५१॥
प्रचुक्रुशुर्द्विजाः केचिदपरे मौनमास्थिताः ।
असङ्घातो द्विजानामित्यासीत् तथ्यं तदा वचः ॥ ५२॥
प्रतीच्यां ददृशे रागः स स्थास्यति कियच्चिरम् ।
प्राच्यां दृष्टचरो ह्येष भास्वतो भ्राम्यतः सदा ॥ ५३॥
प्रनष्टे महसां राशौ प्रादुर्भूतं हि तारकैः ।
तमसाभ्यावृते लोके तावद्भिरपि किं कृतम् ॥ ५४॥
त एव भानवो भानोस्तारकावपुषा स्थिताः ।
तथाप्येकः स नास्तीति तमांसि विजजृम्भिरे ॥ ५५॥
प्रायो जात्यनुरोधाय पद्ममात्रे निमीलति ।
भानुहस्तगतेनापि पङ्कजेन निमीलितम् ॥ ५६॥
तथा सान्द्रीभवन्ति स्म तमांसि हरितां मुखे ।
व्याप्नुवन्ति हि तान्येव विहन्यन्ते यथा मिथः ॥ ५७॥
शैवलोत्पलभृङ्गाणां सरसीषु निशामुखे ।
स्पर्शसौरभकूजाभिः स्वं स्वं रूपमबुध्यत ॥ ५८॥
निष्पपातेव गगनं निस्ससारेव सागरः ।
आववारेव निश्शेषमविद्या महती तदा ॥ ५९॥
अयश्शृङ्खलवत् क्रष्टुमाहर्तुं तृणपूलवत् ।
आश्यानपकवच्छेत्तुमासीच्छक्यं तदा तमः ॥ ६०॥
अनिम्तार्येण मनसाप्यनाव्येन च रंहसा ।
स्रोतसेवान्धकारस्य स निन्ये नीपकाननम् ॥ ६१॥
सोमवारोपवासेन सोऽध्वखेदेन तावता ।
विप्रयोगेण सार्थाञ्च विव्यथे केवलं तदा ॥ ६२॥
नोन्नतानि न निम्नानि न नम्रा न च पादपाः ।
सर्वमेकमभात् तस्य सान्निध्यादिव शाम्भवात् ॥ ६३॥
अश्रौषीदश्रुतचरममृतस्येव निर्झरम् ।
गानमातोद्यसम्भिन्नं गन्धर्वाणामदूरतः ॥ ६४॥
स तच्छब्दानुसारेण सम्प्रसर्पञ्छनैः शनैः ।
दयया देवदेवस्य दिव्यं चक्षुरधारयत् ॥ ६५॥
स दिव्यलिङ्गमाभितः सन्ददर्श सुरानृषीन् ।
ध्यायतो गायतः सामान्यर्चतश्चाभिषिञ्चतः ॥ ६६॥
ननृतुः प्रमथाः क्वापि जगुः सामानि सामगाः ।
ननृतुर्देवसुदृशो जगुरन्यत्र किन्नराः ॥ ६७॥
कमलैः कनकाब्जिन्या विमलैरुभयैरपि ।
स सुरैः सार्धमानर्च शर्वाणीचन्द्रशेखरौ ॥ ६८॥
प्रभातायां च शर्वर्यां प्रवृत्ते जनचङ्क्रमे ।
स यत्रैक्षिष्ट देवर्षीस्तत्रैक्षिष्ट तरून् मृगान् ॥ ६९॥
स तु तेनाद्भुतेनैव निर्वृत्तामृतपारणः ।
व्रताङ्गं पारणां कर्तुं प्राप नेदीयसीं पुरीम् ॥ ७०॥
द्रमिडान्वयमूर्धन्यो द्वितीय इव वासवः ।
प्रशशास महीं यत्र पार्थिवः कुलशेखरः ॥ ७१॥
सङ्गम्य बन्धुभिः सार्धं विश्रम्य च यथासुखम् ।
वृत्तं विज्ञापयामास राज्ञे सर्व स्वमद्भुतम् ॥ ७२॥
स जातु पुरुषं कञ्चिच्चन्द्रचूडजटाधरम् ।
निद्राणोऽन्तर्दृशाद्राक्षीन्नृपतिः कुलशेखरः ॥ ७३॥
नन्वस्ति नगरादस्मात् पश्चिमं नीपकाननम् ।
वन्यैर्मृगगणैः सार्धं वसामोऽत्र चिरं वयम् ॥ ७४॥
तद्वनं नगरीकृत्य तदेवाधिवसन् स्वयम् ।
कुलमुद्धृत्य वत्स! त्वं कुरु नामेदमर्थवत् ॥ ७५॥
इत्युक्त्वान्तर्हिते तस्मिन्निन्दुचूडे दयानिधौ ।
प्रत्यबुध्यत संहृष्टः प्रत्यूषे कुलशेखरः ॥ ७६॥
अद्भुतं स्वप्नवृत्तान्तमाप्तेषु च महत्सु च ।
आवेदयन् नृपः प्रातरभ्यनन्धत तैरपि ॥ ७७॥
निश्चित्यानुग्रहं शम्भोर्निर्मित्सुर्विपिनं पुरम् ।
सम्प्रतस्थे महीपालः सावरोधः सबान्धवः ॥ ७८॥
प्रस्थितस्याग्रतो वामं प्रवृत्तस्तस्य खञ्जनः ।
कटाक्ष इव मीनाक्ष्याः कलयन् भावि मङ्गळम् ॥ ७९॥
स कदम्बवनं प्राप्य सन्ददर्श महाद्भुतम् ।
हैमप्राकारसम्बाधमैन्द्रं धाम महेशितुः ॥ ८०॥
स दृष्ट्वा साम्बमीशानं सम्प्रार्थ्य च गणाधिपम् ।
न्ययुङ्क्त शिल्पिनो दक्षान्निर्मित्सुर्नगरं नृपः ॥ ८१॥
सर्वे ते विश्वकर्माणः सर्वे कुशलतामयाः ।
समेत्य मन्त्रयाञ्चक्रुः शिल्पिनः पुरकर्मणि ॥ ८२॥
स्वस्तिकं सर्वतोभद्रं मण्डलं दीर्घवृत्तकम् ।
निर्मित्समाना नगरं ते विप्रावादिषुर्मिथः ॥ ८३॥
शिल्पिष्वेक इवागत्य सिद्धः स्वप्नेक्षितः पुरः ।
इतिकर्तव्यतां तेषामुपादिक्षत् प्रभोः पुरः ॥ ८४॥
स्वप्नदर्शनसंवादिः तद्रूपं तस्य चिन्तयन् ।
यावद् ददर्श नृपतिस्तावदन्तरधत्त सः ॥ ८५॥
पश्यन्ननुग्रहं शम्भोः स्वप्नजागरयोः समम् ।
उत्सेहे स तु भूयोऽपि पार्थिवः पुरकर्मणि ॥ ८६॥
अपि तद्विपिनं सान्द्रमज्ञातालोकसङ्कथम् ।
शासनात् पाण्ड्यनृपतेर्जातं जाङ्गलवत् क्षणात् ॥ ८७॥
तपनेन्दुकरालीढे तस्मिन् दिष्ट्या वनोदरे ।
ब्रह्मचर्यं जहुश्चक्रा दुर्भिक्षं च चकोरिकाः ॥ ८८॥
चरन्तो जन्तवो यत्र जाता वनचराः पुरा ।
तदेवासीद् वनचरं तत्क्षणं तस्य शासनात् ॥ ८९॥
षण्णामप्यध्वनामन्ते शाश्वतं पदमैश्वरम् ।
इति श्रुत्वैव सिद्धान्तमध्वान्तं तदयं व्यधात् ॥ ९०॥
अप्यान्तरतमो हिर्तुर्बाह्ये तमसि का क्षमा ।
लाभोऽयं यच्छिवादारादियन्तं कालमास्त तत् ॥ ९१॥
घातङ्घातमिह व्याघ्रान् ग्राहङ्ग्राहं शुभास्त्वचः ।
अहरन् वस्त्रदुर्भिक्षं किङ्करास्तस्य शाङ्करम् ॥ ९२॥
संवर्ते तत्र सत्त्वानां समगृह्यन्त कुञ्जराः ।
सर्व एव शुभः कालः स्वरूपं यदि सुन्दरम् ॥ ९३॥
सालमभ्रङ्कषं चक्रुः सालं छित्वा सहस्रशः ।
किं साध्यं बहुभिः क्षुद्रैर्वरमेको महोच्छ्रितः ॥ ९४॥
वप्रक्रियासु निर्मग्नैर्दन्तैरमरदन्तिनाम् ।
शृङ्गेषु तस्य सालस्य गवाक्षा विप्रतेनिरे ॥ ९५॥
परिखां खनतस्तत्र प्रविष्टानारसातलम् ।
के यूयं सगराणामित्यन्वयुञ्जत पन्नगाः ॥ ९६॥
परिखारन्ध्रतस्तत्र पाताळाज्जाह्नवीजलम् ।
जलयन्त्रादिवोत्तस्थैः भूम्यन्तं भूतलाच्युतम् ॥ ९७॥
भगिनीं भागनीशं च द्रष्टुं प्राकारकैतवात् ।
उन्ममज्जेव मैनाकः परिखासागरात् ततः ॥ ९८॥
राजसिंहैर्नरव्याघ्रैः पूरितं भटकुञ्जरैः ।
पुरं यथापुरं जज्ञे का तस्यान्योपमा भवेत् ॥ ९९॥
छिन्दद्भिस्तद्वनं तत्र शेषितं यत् क्वचित् क्वचित् ।
तान्येव तस्योद्यानानि सर्वतः प्रचकाशिरे ॥ १००॥
वीथिका उत्सवार्था या विहिता विश्वकर्मणा ।
चतुर्णामपि वर्णानां ता एवासन् पृथक्पृथक् ॥ १०१॥
पाण्डरैर्भवनैः पूर्णे प्राकारे धाम शाम्भवम् ।
मध्येमौक्तिकताटङ्कं रेजे रत्नमिवार्पिताम् ॥ १०२॥
दिशि चोत्तरपूर्वस्यां देवदेवस्य मन्दिरात् ।
निर्मलं भवनं राज्ञो निर्ममुस्तस्य शिल्पिनः ॥ १०३॥
प्रासादः शुशुभे तत्र भवने धरणीपतेः ।
भक्त्या महशितुर्वृद्धः प्रसाद इव निर्मलः ॥ १०४॥
दिव्यैः सुधामयैर्मेधैर्देवो जीमूतवाहनः ।
नगरं सेचयामास नवीनं त्रीण्यहानि सः ॥ १०५॥
मधुरोदकसंसिक्ती मधुरेयं महापुरी ।
इत्यश्रूयत तत्रत्यैर्दिव्या वागशरीरिणी ॥ १०६॥
दुर्गागणेशवटुकेश्वरमातृवर्गै-
रध्यासितां सुविहितेषु निजास्पदेषु ।
सद्यः प्रवर्तितमहेशमहोत्सयान्ते
पाण्ड्यो विवेश नगरी मधुरां प्रहृष्टः ॥ १०७॥
अर्थैरर्थिजनाञ्छ्रुतैः श्रुतवतः सम्माननैर्बान्धवान्
सेवाभिर्महतो निसर्गकरुणावत्या स भृत्यान् दृशा ।
आत्मानात्मविवेकतो गिरिशमप्याराधयन् मेदिनीं
भूपालः कुलशेखरोऽत्र बुभुजे सप्तार्णवीवेष्टिताम् ॥ १०८॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे चतुर्थः सर्गः ।
अथ पञ्चमः सर्गः ।
स इत्थमाराधितचन्द्रशेखरप्रसादसम्पत्परिपाकसम्भृतम् ।
कुलावतंसं कुलशेखरो नृपश्चिराय लेभे मलयध्वजं सुतम् ॥ १॥
स पांसुकेलीष्वपि शङ्करालयान् प्रकल्पयन् ब्रह्मपुरीश्च सर्वतः ।
प्रपञ्चमातामहतापदोचितं नरेन्द्रसूनुर्व्यहरन्म हायशाः ॥ २॥
अथोपनीतोऽधिजगे नृपात्मजस्त्रयीं मुनेः कुम्भभवात् पुरोधसः ।
समं महास्त्रैर्धनुरागमं पितुः स्वतश्च भक्तिं शिवयोरचञ्चलाम् ॥ ३॥
अशेषविद्यानिधिमात्तयौवनं कुमारमेनं कुलशेखरो नृपः ।
युयोज दारक्रियया कुलार्हया श्रियेव धर्मं क्षमयेव विक्रमम् ॥ ४॥
नृपस्य काञ्चीपुरनेतुरात्मजा महाशया काञ्चनमालिकाभिधा ।
नरेन्द्रसूनोर्गृहिणीषु वल्लभा बभूव तारास्विव रोहणी विधोः ॥ ५॥
पुरा हि विश्वावसुनामशालिनो बभूव गन्धर्वपतेरियं सुता ।
प्रसाद्य गौरीं जगदेकमातरं ममैधि कन्येत्यवृणीत या वरम् ॥ ६॥
सुशीलतां सुन्दरतामिवोज्ज्वलां दयार्द्रतां भृत्यजनेषु ते इव ।
दधे पुनस्ता इव भक्तिमीश्वरे मनस्विनी काञ्चनमालिका तदा ॥ ७॥
सुतानिव स्वान् परिपुष्णती जनान् सभाजयन्ती श्वशुरौ शिवाविव ।
पतिं तु पूर्वेद्युरिवापरेद्युरप्युपाचरद् दैवतजीविताधिकम् ॥ ८॥
पतिव्रता धर्मपथप्रवर्तिका सती च भर्तुर्वपुरर्धमेव सा ।
शरीरमात्मा हृदयं च जीवितं दृशौ च जज्ञे दयितस्य सा पुनः ॥ ९॥
महत्सु कार्येष्वमहत्सु वा ययोः कदापि वैमत्यकथापि नाभवत् ।
अभूत् तयोरेव मिथोऽनुरागिणोरनङ्गमूलः कलहः स केवलम् ॥ १०॥
स युक्तदाम्पत्यमुनिर्वृतं सुतं स्वतो विनीतं गुरुभिश्च सर्वतः ।
त्रिलोकरक्षाक्षमबाहुविक्रमं जनेश्वरः प्रेक्ष्य चिराय निर्ववौ ॥ ११॥
धृतां चिराय त्रिजगद्धुरन्धरे धुरं धरायास्तनयेऽवरोपयन् ।
स्वतः स्थितं धर्मपथेऽपि तं पुनः शशास धर्मं सुतवत्सलो नृपः ॥ १२॥
महत् कुलं नस्त्वमवैषि विश्रुतं महेशचूडामणिसम्भवं शुचि ।
अनक्षजिद्भिर्मनसापि दुर्भरामवैषि वत्स! त्वमिमामपि क्षमाम् ॥ १३॥
नवोढयापि प्रकृतिप्रगल्भया श्रियैव तावत् प्रथमं विमोहिताः ।
न जानते किञ्चिदसाधु साधु वा निसर्गतस्तात ! नृपालसूनवः ॥ १४॥
प्रसञ्जयन्ति प्रथमं विमार्गगांस्ततः क्रमेण स्तुवते च तान् पुनः ।
प्रवर्तयन्त्यप्यपथे शनैः प्रभुं खलाः स्वकार्यैकपराः समीपगाः ॥ १५॥
उपक्षिपन्तश्चकिता इवादितो निषिध्यमाना इव कैश्चिदन्तरा ।
सुखेन दोषं द्रढयन्ति साधुषु स्तुवन्त एव स्वगिरा दुराशयाः ॥ १६॥
परं कृतज्ञा इव पण्डिता इव प्रभोहितैकप्रवणा इव स्वतः ।
जगत्तटस्था इव राशि बालिशे जनाः स्वमर्थ घटयन्त्यसाधवः ॥ १७॥
स्तुवन्त्यमित्रान् सुहृदं प्रतिक्षिपन्त्यवेक्षितुं भर्तुरगाधमाशयम् ।
बहून् विवादानिव कुर्वते मिथो न जातु भिन्दन्ति रहस्थितिं खलाः ॥ १८॥
इदं ह्युपादेयमिदं तु हेयमित्युभे विविञ्चन् निजयैव मेधया ।
खलान् निगृह्णीष्व तदुक्तिवागुरागृहीतवन्मुग्धवदाचरन् बहिः ॥ १९॥
जना जिहासन्ति नृपालमूष्मलं तिरश्चिकीर्षन्ति मृदुन्निसर्गतः ।
अतोऽप्रमत्तस्त्वमनुष्णशीतलो भव प्रजानां शरदीव भास्करः ॥ २०॥
अलोलुभानात्मविदो जितस्मयान् परीक्षितांश्च व्यसनेषु भूयसा ।
महाकुलीनान् महतो बहुश्रुतान् गृहाण मन्त्रेष्वखिलेषु मन्त्रिणः ॥ २१॥
प्रसादकोषैर्भवति क्षमापतेरतिप्रवृत्तैरधरोत्तरं जगत् ।
अतः प्रवर्तस्व जनेष्वतन्द्रितो विचारधाराविशदेन चेतसा ॥ २२॥
बहुश्रुतो न त्वमिवापरोऽधुना न दीर्घदर्शी न च मन्त्रयोगवित् ।
प्रशासनीयस्तदपि स्वयं भवान् प्रशासितारस्तव सन्तु मन्त्रिणः ॥ २३॥
अजातशत्रोरखिलार्थवेदिनः प्रजानुरागैकपदस्य धीमतः ।
तव प्रकृत्या गुरुवृद्धसेविनो मयोपदेश्य किमिवात्र वर्त्तते ॥ २४॥
तथापि किञ्चिद् दिगियं प्रदर्शिता श्रुता बहुभ्यो बहुधार्चया मया ।
परस्तु भावो मम तात! वर्तते कुरुष्व तं चेतसि मा स्म विस्मरः ॥ २५॥
निजावतंसप्रसवोद्भवे कुले न्यधायि लक्ष्मीरियतीयमीदृशी ।
महेश्वरेणेति विदन्न जातुचिद् ममत्वमस्यां कुरु राज्यसम्पदि ॥ २६॥
यजाम देवान् जुहवाम पावके ददाम विप्रेष्वपि वा कथं कथम् ।
शिवस्वमादाय भुवीति चिन्तयन् शिवं समाराधय सर्वकर्मभिः ॥ २७॥
शिवं यजाग्नौ शिवमर्च भास्करे शिवं स्मरान्तः शिवमेव कीर्तय ।
शिवं द्विजेषु प्रतिपूजयानिशं शिवैकनिष्ठो भव तात! सर्वथा ॥ २८॥
शिवात् परं नास्ति यथा तथैव नः शिवोऽपि नान्यो मधुरेश्वरादिति ।
सुनिश्चितालम्बितसुन्दरेश्वरः सुखं महीं पालय शाश्वतीः समाः ॥ २९॥
इति क्षितीशः प्रतिबोधयन् सुतं प्रयुज्य चास्मिन् प्रणते जयाशिषः ।
समाः सहस्राणि षडात्मना धृतां धुरं स गुर्वीमवतार्य निर्ववौ ॥ ३०॥
ततः स योगेन तनुं प्रजेश्वरो विसृज्य नाड्या किल मूर्धलग्नया ।
अतीत्य मायाभुवनानि सर्वतो जगाम शुद्धेऽध्वनि धाम शाश्वतम् ॥ ३१॥
उदक्रमीदेष यदा तदा प्रभृत्युपेत्य विज्ञानकलाग्रगण्यताम् ।
अभूत् सहायः करणीयपञ्चकेऽप्यनन्तरुद्रस्य धिया विशुद्धया ॥ ३२॥
विदन्ननित्यं जगदेव जन्मवद् विदन्नपि श्लाघ्यतरां गतिं पितुः ।
मनोऽभितप्तं मलयध्वजो नृपः शशाक न स्थापयितुं वशे वशी ॥ ३३॥
कथञ्चिदालम्ब्य निजां स धीरतां गुरोरशेषा निरवर्तयन् क्रियाः ।
तथाविधानां तनयाश्चरन्ति यत् तदर्हणं केवलमात्मभूतये ॥ ३४॥
पुरोधसा सिन्धुपिबेन योगिना स मन्त्रिवृद्धैः सखिभिश्च बन्धुभिः ।
शुभे मुहूर्ते धुरि सुन्दरेशितुः सितेन फाले भासतेन लाञ्छितः ॥ ३५॥
स्वतश्च्युतं लिङ्गशिरस्पदात् सुमं पुरः स्फुलिङ्गानपि दीपनिस्सृतान् ।
प्रशस्यमानं शकुनं महर्षिभिः प्रणम्य मूर्ध्ना जगृहे महीपतिः ॥ ३६॥
प्रदक्षिणीकृत्य पुरं पुरन्ध्रिभिः प्रवर्तितारात्रिकमङ्गलो नृपः ।
प्रविश्य राज्ञो भवनं परिष्कृतं द्विजान् प्रभूतैर्द्रविणैरतोषयत् ॥ ३७॥
सुभद्रपीठे सचिवैर्निवेशितः सभाजयामास नृपोऽनुजीविनः ।
यथोचितं वाहनभूषणाम्बरैः कटाक्षमन्दस्मितभाषितैरपि ॥ ३८॥
भुवं भुजे भूतदयां हृदन्तरे कथां पुरारेगपि कर्णयोर्द्वयोः ।
अधत्त भूषामनपायिनीमसौ परास्तु सोऽवत्त पुनर्न्यधत्त च ॥ ३९॥
यशःप्रतापैर्हरितोऽस्य भूषिताः कुलं त्वनेनैव विभूषितं विभोः ।
अयं तु धृत्या दयया च भूषितः शिवे तु भक्त्या सकलं विभूषितम् ॥ ४०॥
यशोभिरस्यावददुर्विसृत्वरैरपि द्विरेफद्विपकाककोकिलाः ।
स्वतोऽवदातानि तु पूर्वभूभृतां यशांसि सद्यो मलिनानि जज्ञिरे ॥ ४१॥
तदीयविश्राणनपोषितद्विजप्रवर्त्यमानाध्वरहव्यभोजिभिः ।
सुधाशवर्गैः परिपोषिताः कथं सुरद्रुमा बिभ्रति तेन तुल्यताम् ॥ ४२॥
तदीयदानोदकपूरितोऽर्णवस्ततो निपीयाम्बु दिशन्ति वारिदाः ।
तदम्बुपुष्टौषधिवल्लभः शशीत्यदःप्रसादादखिलस्य दातृता ॥ ४३॥
समृद्धिमद्भिर्वरया समृद्धया द्विजातिभिस्तद्विषये निवासिभिः ।
धृता कथञ्चित् तदनुग्रहेच्छया तदीयदानेष्वपि सम्प्रदानता ॥ ४४॥
न कोऽपि तस्यातिचचार राष्ट्रगः स यत्र दण्डं विनिपातयेन्नृपः ।
नचापि दण्ड्यः स्वयमात्मनोऽभवान्निवृत्तिशीलैः करणैर्निसर्गतः ॥ ४५॥
विनेतरि स्वामिनि वीतकल्मषे विनिन्यिरे तद्विषये प्रजाः स्वतः ।
तपोधने द्वन्द्वजयिन्यवस्थिते तदाश्रमम्था इव हिंस्रजन्तवः ॥ ४६॥
विचक्षणेऽस्मिन् व्यसनान्यपोहितुं तटस्थवृत्तौ सरले हितैषिणि ।
अपि प्रजाः स्वान् कलहान् गृहेगृहे निचिक्षिपुर्न्यासमिवाविशङ्किताः ॥ ४७॥
अकृष्टपच्यैः कलमैरलङ्कृता न वृष्टिमप्यस्य चकाङ्क्ष मेदिनी ।
स्मरन् हविः स्वीक्रियमाणमध्वरे ववर्ष कालेषु तथापि वासवः ॥ ४८॥
अनिच्छतान्तःकरणेन निर्गमं विना शिवाराधनमन्यकर्मसु ।
स्वराज्यतन्त्रं सकलं च केवलैश्चकार बाह्यैः करणैर्महीपतिः ॥ ४९॥
धरा समस्ता द्विजदेवसात्कृता दिवं द्विषभ्द्योऽपि ददौ सहस्रशः ।
अपि स्वमात्मानमदत्त शम्भवे किमप्यदेयं ददृशेऽस्य न प्रभोः ॥ ५०॥
अनुस्मरन्नक्षरमक्षरं गुरोः स पार्थिवेन्द्रश्चरमौपदेशिकम् ।
अवाललम्बे भृशमम्बिकापतेः पदं समस्तामरसम्पदां पदम् ॥ ५१॥
तपांसि तेपे युयुजे मनो दृढं ददावियाजाधिजगे जुहाव च ।
नृपो निशश्वास मिमेष चान्ततः शिवं यजामीति धियैव नान्यथा ॥ ५२॥
प्रपञ्चसर्गस्थितिभङ्गहेतुतापरम्पराविश्रमभूमिमादिमाम् ।
हरीन्द्रवेधोहरमातरं शिवां विशिष्य वव्रे शरणं जनेश्वरः ॥ ५३॥
मृगाङ्कचूडामणिमीनलोचनं दयामयं दर्शितमुन्दरस्मितम् ।
उदारभूषाशतमुत्पलाङ्कितं वपुस्तदेवास्य मनस्यवर्त्तत ॥ ५४॥
जगत् समस्तं स जडाजडात्मकं ददर्श देवो निमिषन्मिषन्नपि ।
उपात्तनीलोत्पलमुन्नतस्तनं हसन्मुखं हारकिरीटभूषितम् ॥ ५५॥
निमेषनिश्वासवदप्रयत्नतः स राज्यतन्त्रं सकलं च वर्तयन् ।
बभूव वाचा मनसापि कर्मणा शिवैकसंस्थो मलयध्वजो नृपः ॥ ५६॥
अदृश्यमश्राव्यमचिन्त्यमद्भुतं निरञ्जनं नित्यमनुश्रवाश्रवम् ।
अहङ्ग्रहेणान्तरचिन्तयन्नृपः पराकृतद्वैतकथं परं महः ॥ ५७॥
परस्परेणानुपमर्दितं भजन् त्रिवर्गमित्थं समयं विभज्य सः ।
कदाचिदन्तःपुरमास्थितो नृपः प्रचक्रमे काञ्चनमालया कथाम् ॥ ५८॥
कुलं किलैतद् विपुलं मुधानिधेः प्रसक्तविच्छेदमिवान्तरा मया ।
अतः कथं स्याच्छिवदाससन्ततेरभङ्ग इत्यम्ति सचिन्तता मम ॥ ५९॥
न नः कुलेऽस्मिन् शिवदीक्षयामले सुतान्निवापः पितृभिर्जिधृक्षितः ।
महन्महेशानुचरार्पणव्रतं तथापि मा लोपि मयेति चिन्त्यते ॥ ६०॥
इदं हि मर्त्यामृतमित्युदीरितं प्रजायते यन्मनुजः प्रजामनु ।
अतः प्रसाध्यैव किलापरामृतं परामृतायोपनमेदिति श्रुतिः ॥ ६१॥
शिवार्पिताशेषभरा निराशिषः शिवार्चनामात्रपराधिकारिणः ।
कथं नु याचेमहि लोकमातरं कथं न याचेमहि वा कुलक्षये ॥ ६२॥
इति स्वतोऽनध्यवसायमुद्रितं पतिं विषीदन्तमियं पतिव्रता ।
जगाद वाक्यैर्हृदयानुरञ्जिभिर्जगत्तपस्यापरिपाकजन्मभिः ॥ ६३॥
भवान् प्रमाणं विशये विपश्चितां भवन्तमस्मिन्ननुशास्तु कोऽपरः ।
विवेक्तुमत्रार्हति मीनलोचना तथाविधः कोऽप्यथ वा तदाश्रितः ॥ ६४॥
अनावृतज्योतिषि तेजसां निधावनागतातीतभवद्विवेचिनि ।
तदत्र तिष्ठेमहि कुम्भसम्भवे स खल्विहामुत्र च नः प्रशासिता ॥ ६५॥
इति प्रियाया हृदयङ्गमं वचा निपीय देवो निभृतेन चेतसा ।
जगाम सद्यः शरणं पुरोधसं स च स्मृतः सन्निदधे तपोधनः ॥ ६६॥
तमर्घ्यपाद्यादिकया सपर्यया सभाजयन्तौ प्रणिपत्य तावुभौ ।
निवेश्य पीठे नवरत्ननिर्मिते निषेदतुस्तत्सविधे तदाज्ञया ॥ ६७॥
कृताञ्जलिं पार्थिवमग्रतस्थितं तथाविधां काञ्चनमालिकामपि ।
दृशानुगृह्णन् करुणार्द्रया मुनिर्गिरं प्रभावानुगुणामुदाहरत् ॥ ६८॥
महत् किलेदं शिवयोगिनां कुलं न यत्र शक्यं जनितुं पृथग्जनैः ।
तदत्र मीमांसितमद्भुतं त्वया श्रुतम्य शीलस्य कुलस्य चोचितम् ॥ ६९॥
प्रवृत्तिधर्मं कतिचित् क्वचिद्विदुर्निवृत्तिधर्मः सुतरामगोचरः ।
अमुं किलार्थं विमृशन्त आसते महर्षयो ब्रह्मसदस्यहर्निशम् ॥ ७०॥
न नित्यनैमित्तिककर्मशीलता कदापि नैष्कर्म्यविरोधमर्हति ।
पतेदिमां प्रत्युत सन्त्यजन्निति स्मरन्ति शिष्टाः स्वयमाचरन्ति च ॥ ७१॥
ऋणार्थवादैरधिगत्य नित्यतामपत्यवेदाध्यनाग्निकर्मसु ।
समं प्रवृत्ता गृहिणम्तपोधना निवृत्तिनिष्ठा अपि गौतमादयः ॥ ७२॥
रहस्यमप्यत्र चिराय गोपितं तवोपदेश्यं हृदि तात! वर्तते ।
समाधिनिर्धूतमलेन चेतसा गृहाण कालोऽयमुपस्थितः शुभः ॥ ७३॥
इयं हि पत्नी भवतः पुरा चिरादुपान्त देवीमिह मीनलोचनाम् ।
जगज्जनन्या जननी भवेयमित्यपि प्रपेदे वरमन्यदुर्लभम् ॥ ७४॥
पतिस्त्वमस्यै शिवयैव कल्पितः समुल्लिखन्त्यावतरं निजं क्षितौ ।
इदं तु चिन्त्यं निपुणं कथं पुनः परात्परं वस्तु तदाविरस्त्विति ॥ ७५॥
क्रियावतामग्निमुपाश्रिता सती ददाति या नैकविधान् मनोरथान् ।
अतोऽद्य वैतानिकहव्यवाहनादुदेतु सेति प्रतिभाति भूयसा ॥ ७६॥
इतीरिते तेन विनेदुरुच्चकैरनाहता दुन्दुभयो दिवौकसाम् ।
नृपस्य देव्या अपि दक्षिणेतरे विलोचने प्रास्फुरतां च तत्क्षणम् ॥ ७७॥
प्रदक्षिणीकृत्य स विन्ध्यमर्दनं पतिः क्षितेः काञ्चनमालया समम् ।
प्रणम्य रोमाञ्चितविग्रहोऽभवत् प्रमोदबाष्पस्थगिताभिरुक्तिभिः ॥ ७८॥
क्व सा चिदानन्दमयी जगत्प्रसूः क्व किम्पचा नौ भगवन्निमौ जनौ ।
अहो भवत्पादरजःप्रमार्जनप्रभावसम्पत्परिपाक ईदृशः ॥ ७९॥
तवास्मि सूनुस्तव तात! किङ्करस्तव स्वभूतोऽस्मि सहानुबन्धिभिः ।
यथानुगृह्णासि तथाचरेयमित्यसावियानेव मनोरथो मम ॥ ८०॥
इति प्रपन्नं मलयध्वजं नृपं शताश्वमेधावभृताप्लुतं मुनिः ।
स भाविकर्मण्यधिकारसिद्धये शशास भूयो हयमेधकर्मणि ॥ ८१॥
इत्थं प्रसादविहिताशिषि कुम्भयोनौ
याते तपोवनपदं पुनरेतुकामे ।
आराधयत् क्षितिपतिः शिवमश्वमेध-
सम्भारसम्भरणसम्भ्रमतोऽपि तावत् ॥ ८२॥
इति श्रीमहाकविनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे पञ्चमः सर्गः ।
अथ षष्ठः सर्गः ।
आहर्तुं ययुमभितो ययुर्नियुक्ता मर्त्या ये किल मलयध्वजेन राज्ञा ।
लब्ध्वा ते क्वचिदथ सोमपात्मजं द्रागाजह्रुः स्वयमपि सोमपं तुरङ्गम् ॥ १॥
विस्तीर्णामथ तपनीयपङ्कजिन्या व्यातेनुम्तटभुवि तस्य यज्ञशालाम् ।
आरादप्यवनिभुजां महोपकार्या निसङ्ख्यानुटजगणांश्च तापसानाम् ॥ २॥
आनीते तुरगवरे समाहृतायां सामग्र्यामतिथिसभाजनोचितायाम् ।
आगच्छत् सह मुनिभिः परावरज्ञैर्ब्रह्मर्षिश्चुलुकितसागरः सशिष्यैः ॥ ३॥
आराध्य प्रमथपतिं महोपहारैर्मीनाक्षीमपि मलयध्वजः सदारः ।
आरेभे सवनमनुज्ञया मुनीनामागस्त्यं चरणयुगं प्रणम्य सद्यः ॥ ४॥
स्वायत्तामपि दुरतिक्रमात् प्रतापात् सङ्गृह्णन् भुवि जनतां स साङ्ग्रहण्या ।
मुक्ताश्वो धृतनियमः पदेऽस्य होमं कुर्वाणः समवसदग्न्यगार एव ॥ ५॥
स्वच्छन्दं हयमभितोऽपि सञ्चरन्तं सङ्गुप्तं नृपपुरुषैः शनैश्चतुर्भिः ।
रोद्धुं यद्यपि न शशाक राजलोकः शक्तोऽभूत् पुनरखिलोऽनुरोधुमेनम् ॥ ६॥
कीर्त्याविष्कृतसरणिं प्रतापगुप्तं पश्यन्तस्तुरगमितस्ततश्चरन्तम् ।
तद्धव्यग्रहणरसार्द्रतालुमूला वर्षान्तं विवुधगणाः प्रतीक्ष्य तस्थुः ॥ ७॥
सर्वैरप्यधिगतवाजिमेधकाण्डैः सम्पूर्णे किल विषयेऽस्य वाजिरक्षाः ।
वृत्त्यर्थं क्वचन किमप्यनाददानाः स्वैः स्वैः स्वैः कथमपि वर्तयाम्बभूवुः ॥ ८॥
अश्वत्थे क्षणमवबद्ध्य तं तुरङ्गं सम्पूर्णे शशिनि समेत्य तिष्ययोगम् ।
आवृत्तं नगरमभि प्रचोदयन्तो निन्युस्तं नृपपुरुषा हिमावसाने ॥ ९॥
आयाता धरणिभुजो यदासमुद्रादायाताः सकलकलाविदश्च लोकाः ।
आयास्यन्त्यमरगणाश्च हव्यहेतोस्तेनायान् स्वयमपि कौतुकी वसन्तः ॥ १०॥
निश्शेषोपरतरसालपल्लवाशानिर्विण्णैर्वनभुवि कोकिलैस्तदानीम् ।
आसेदे शिशिरदिनान्तसुप्तबुद्धराकाशाच्च्युत इव पञ्चमो निनादः ॥ ११॥
प्रमाना धरणिरुहः स्वतः प्रसेदुर्निष्क्रान्तो मलयगिरेबहिः समीरः ।
वीरश्रीर्विषमशरस्य बाहुकाण्डे विश्रान्तिं स्वयमभिरोचयाम्बभूव ॥ १२॥
मालिन्यं दधति मषीविलेपनेन प्रावण्यं युवतिषु घोषयन्ति यूनाम् ।
झङ्कुर्वद्भ्रमरनिभेन मीनकेतोः सञ्चेरुर्बहिरिव शासनाक्षराणि ॥ १३॥
कूजन्तो मदनपुरोहिता द्विरेफाः पुष्पाणि ध्रुवमभिमन्त्रयाम्बभूवुः ।
स्वस्थानस्थितिमपरित्यजन्त एते विध्येयुः किमितरथा शराः शरव्यम् ॥ १४॥
आनङ्गं निगममजस्रमुद्गिरन्तो भैक्षेण प्रतितरुवीथि वर्तयन्तः ।
निर्निद्रास्त्वहनि निरन्तरं द्विरेफा आचार्ये वटव इवावसन् वसन्ते ॥ १५॥
अध्वर्युं मलयसमीरमन्यपुष्टं होतारं वनभुवि सामगं द्विरेफम् ।
ब्रह्माणं मधुमपि सादरं वृणाना आजह्नुर्मदनमहाध्वरं युवानः ॥ १६॥
मोहान्धे जगति विपश्चितो यतः केऽप्यग्नीनादधुरयजन्त चास्तशङ्काः ।
तन्मूलं ध्रुवमयशो दिशो दशापि प्रावारीदसमशरस्य भृङ्गदम्भात् ॥ १७॥
आमूलादविरळमाचिते प्रवाळेश्रूतेऽपि प्रययुरतोषमन्यपुष्टाः ।
सर्वाणि ग्रसितुमिमानि यन्न शेकुः स्थातुं वा यदपि न शाखिकामपश्यन् ॥ १८॥
के भृङ्गाः क इव पिकाः समीरणः कश्चन्द्रः कः क इव मधुर्मनोभवः कः ।
दौर्भाग्याद्विरहिजनस्य दुर्विभेदं हन्तासीत् कथमिदमैकमत्यमेषाम् ॥ १९॥
आचूडं कुसुममया मधोः प्रसादाद् वासन्तीविचकिलचूतचम्पकाद्याः ।
धुस्तूरेष्वपि च निरीक्ष्य तां समृद्धिं मन्दाक्षादिव नतमौलयो बभूवुः ॥ २०॥
उन्मीलन्मधुमदतुन्दिला द्विरेफा उद्दामस्तबकपरिष्कृता लताश्च ।
अन्योन्यं यदिह न किञ्चिदभ्यजानन् सा सम्पत्सुरभिकटाक्षवीक्षणानाम् ॥ २१॥
आक्रम्य क्षितितलमावृतं तुषारैस्तद्वार्तामपि न मधुर्यदा विषेहे ।
शीतांशौ हिमवति च द्वयोस्तदानीं लब्धं तैरभयमितो हतावशिष्टैः ॥ २२॥
आ द्वन्द्वादपरिगृहीतदेहभेदादा कीटभ्रमरपिपीलिकोद्भिजेभ्यः ।
न क्वापि प्रतिहतिरैक्षि शुश्रुवे वा तत्कालं कुमुमशरासशासनस्य ॥ २३॥
आस्तां तद्रतिपरिणेतुराधिपत्यं मन्देऽस्मिन्नपि खलु मारुते प्रवृत्ते ।
कत्यन्वक् कति पुरतश्च सम्प्रचेलुर्माद्यन्तः शुकपिकशारिकाद्विरेफाः ॥ २४॥
आरामे किसलयमक्षिण शीथुरागः कान्तानां कमलवनेषु केसराणि ।
इत्योभिः प्रकटितविश्वरूप एव प्रायेण व्यजयत मान्मथः प्रतापः ॥ २५॥
सङ्गोप्य भ्रमरशशाङ्ककोकिलेभ्यः सम्प्राप्ते तमसि महत्यधिज्यधन्वा ।
एकाकी रतिपतिरित्वरीरनैषीत् सङ्केतं भुवनभयङ्करे निशीथे ॥ २६॥
कान्तानां नखलिखनैर्दृढोपगूहान् सीत्कारान् दशनपदैश्च साधयन्तः ।
प्रेयांसः पुनरुभयानिमानतीतानस्मार्षुर्हिमसमयेष्वयत्नलभ्यान् ॥ २७॥
दुर्दान्तं मदनमवेक्ष्य निर्ममे किं वर्मैकं युवसु वधूमयं विधाता ।
यद्योगे मदनशराः प्रसूनमात्रं यत्त्यागे कुलिशदशाममी वहन्ति ॥ २८॥
सम्पश्यन् गिरिशतपोविलोपकोपव्यापन्नं सुहृदमनन्यजं वसन्तः ।
शुश्रूषामकृत शिवार्चने मुनीनां प्रत्यग्रैर्दळकुसुमैर्वनद्रुमाणाम् ॥ २९॥
आशीताचलमभिगम्य सन्निवृत्ते धन्येऽस्मिन् धरणिभुजस्तुरङ्गवर्ये ।
उत्कण्ठाभरभरिता इवोत्तराशामासेदुः स्वयमहिमत्विषस्तुरङ्गाः ॥ ३०॥
सम्पूर्णे नियमभरेण वत्सरेऽस्मिन् सम्प्राप्ते स हि सह वाजिना वसन्ते ।
आदिष्टः स मुनिभिरश्वमेधकर्मण्याराद्धुं गिरिशमदीक्षित क्षितीशः ॥ ३१॥
अध्वर्युः समजनि तत्र कुम्भजन्मा होतृत्वं प्रतिगतमाश्वलायनेन ।
औद्गात्रं समधृत जैमिनिर्मुनीन्द्रो ब्रह्मासीद् बहुविदरुन्धतीसहायः ॥ ३२॥
प्रागन्तःकरणममुष्य केवलं ये प्राजानन् भुवि नवनीतनिर्मितं ते ।
अभ्यक्तं नवनवनीतचर्चिकाभिस्तं विज्ञा बहिरपि तन्मयं विजज्ञुः ॥ ३३॥
आबाल्यादातीथिषु मुक्तहस्त एषः क्षमापालः किल मलयध्वजः प्रकृत्या ।
तज्जानन्नपि निखिलं निबद्ध्य मुष्टिं दीक्षामु क्षणमपि नासितुं शशाक ॥ ३४॥
अध्वर्यौ भगवति तत्र कुम्भजन्मन्यायज्ञं धरणिपतित्वमश्नुवाने ।
दुर्भिक्षं शिथिलमजायत द्विजानामाषाढाजिनतृणमुष्टिविष्टरेषु ॥ ३५॥
नीवारान् वपत कुशान् प्रवर्धयध्वं सिञ्चध्व खदिरपलाशबिल्वपोतान् ।
सद्यः सञ्चिनुत मृदूनि वल्कलानीत्यादिक्षन् नृपपुरुषानगस्त्यशिष्याः ॥ ३६॥
तस्मिन्नप्यददति पार्थिवे निषेधाद् यद् भुक्तं वसितमुपार्जितं च विप्रैः ।
दातारः स्म इति कृताग्रहाः समस्ताः शक्ताः किं शततममंशमत्र दातुम् ॥ ३७॥
भुञ्जानानपरिमितान् बहून् पदार्थान् भृदेवानधिसवनं निरीक्ष्य देवाः ।
भागं नः क्रतुषु विधाय विप्रलेभे पापीयान् विधिरिति मन्त्रयाम्बभूवुः ॥ ३८॥
तस्याग्रे धरणिभुजः क्रियान्तराळेष्वातेनुः स्वयमृषयो बहून् विवादान् ।
न्यायानुश्रवपदसाङ्ख्ययोगतन्त्रप्रस्थानप्रवचनदेशिका महान्तः ॥ ३९॥
यद्यात्यन्तिकसुखदुःखहानिरूपं कैवल्यं कथमशपद् भवानहल्याम् ।
तादृक्षामुपलदशां श्रयेति कोपादित्यूचुः कतिचन गौतमं मुनीन्द्राः ॥ ४०॥
कं दोषं कथयत सम्प्रसक्तदुःखव्यावृत्तिं फलमुपगच्छतां पुरो नः ।
अज्ञानक्षतिरुपले तवापि किं नेत्याचव्युः प्रतिपदमक्षपादाशिष्याः ॥ ४१॥
अज्ञानाद्यदि परिकल्पितं जगत् स्यादज्ञानां प्रथमगणेय ईश्वरः स्यात् ।
निस्सीमा तव हि मतेऽस्य मूढतेति व्यासं प्रत्यकृषत केऽपि पूर्वपक्षम् ॥ ४२॥
अज्ञानं प्रकृतिमपेक्ष्य विश्वमेतत् सर्वज्ञे सृजति भवेऽपि यत् त्वयोक्तम् ।
अज्ञानं तदिदमनङ्कुशं तवैवेत्याचख्युः सदासि तु बादरायणीयाः ॥ ४३॥
जातिश्चेद् भवति पदेषु साधुभावो भाषायां श्रुतिषु च स द्विधा कथं स्यात् ।
गेहे गौर्वनभुवि गर्दभः किमु स्यादित्युच्चैरपजहसुः परे पदज्ञान् ॥ ४४॥
अन्येऽन्ये श्रुतिषु जगत्सु चापि शब्दास्तद्भेदं निपुणमजानतां कृते वः ।
अस्माभिः स्फुटमनुशिष्टमात्तमौना वर्तध्वं पदपदवी दवीयसी वः ॥ ४५॥
अस्मद्ध्याकरणगृहीतशक्तियोगानस्मासु प्रथममिमान् प्रयुज्य शब्दान् ।
युक्तादीयत गुरुदक्षिणा किलेति प्रत्यूचुः प्रथमविपश्चितो विपक्षान् ॥ ४६॥
हिंसातो यदि दुरितं ऋतुष्वपि स्यात् पुण्यं किं न भवति पारदारिकाणाम् ।
उत्सन्नं किल कुलमुद्धरन्त्यमीति व्याजह्रुः कपिलमते कळङ्कमेके ॥ ४७॥
शास्त्रं चेत् किमपि तथास्ति साधयामो दुष्कृत्यैरपि सुकृतानि कात्र भीतिः ।
यूयं देवरवरणे यथा गृणीतेत्याहुः स्म प्रतिवचनानि तत्त्वनिष्ठाः ॥ ४८॥
योगाख्यं वदसि यमङ्गिनं समाधिं तं ब्रूषे ननु कथमङ्गमष्टमं च ।
अङ्गाङ्गिव्यतिकरदुस्स्थितं मतं ते को गृह्णात्विति जगदुः परे फणीन्द्रम् ॥ ४९॥
सामान्यं किमिह क इष्यते विशेषः को योगः क इव समाधिरित्यबुद्ध्वा ।
अर्वाचां व्यवहरतामयं प्रलापः साधीयानिति जहसुः पतञ्जलीयाः ॥ ५०॥
आयास्यन्त्यनुपदमत्र हव्यहेतोर्नन्वम्मिन् महति मखे सुराः समम्ताः ।
तान् सर्वानपलपितास्यहो कथं वेत्याचख्युः कतिचन जैमिनिं मुनीन्द्राः ॥ ५१॥
ये ह्युच्चावचमवजानते प्रपञ्चं मिथ्येति त्रिभुवनदेशिका महान्तः ।
तच्छिष्या वयमपि शक्तितो वदामेत्याहुस्तान् प्रति चतुरास्तु पूर्वतन्त्रे ॥ ५२॥
तत्रेत्थं द्विजसदसि प्रवृत्तजल्पे स्थेयत्वं स्वयमवलम्ब्य भाषमाणः ।
दीक्षाहानुपसदहानपि व्यतीतः सौत्येऽहन्यवतरति स्म पार्थिवेन्द्रः ॥ ५३॥
ये षट् त्रिः खदिरपलाशविल्वरूपा यो चोदुम्बरतरुजौ सराज्जुदालौ ।
ते यूपा अवतरता दिवः सुराणां निश्रेण्यो भुवि निहिता इव व्यराजन् ॥ ५४॥
अग्निष्ठे समुपनिबद्ध्य राज्जुदाले सन्नद्धं कुशरशनागुणेन गाढम् ।
सम्प्रोक्षन् हयमभितो महर्त्त्विजस्तं सिद्धार्थैरपि विधिगौरवेण मन्त्रैः ॥ ५५॥
आलब्धे शमितृभिराश्वमेधिकेऽश्वे चन्द्राख्यं कलशभवः प्रगृह्य मेदः ।
शाखायां क्षणमुपसाद्य वेतसस्य स्त्रौवाग्रादखिलमवद्यति स्म होतुम् ॥ ५६॥
आश्राव्य स्वयमृषिराश्वलायिनीये याज्यान्ते हविरजुहोत् स्रुचो मुखेन ।
यज्ञेशे भगवति भावनाप्रकर्षाद् भूपालो जगदजुहोत् स तन्मुखेन ॥ ५७॥
अप्यन्तस्तिमिरहरं शरीरभाजामप्राप्यं जनुषि पुरातपोविहीनैः ।
सौरभ्यं हविषि हुते समुज्जिहानं व्याजिघ्रन् सदसि विपश्चितो महान्तः ॥ ५८॥
बिभ्यत्सु श्रुतिमतिलङ्घय सम्प्रदातुं हव्यं तत्तदभिमतं द्विजर्षभेषु ।
पौरोडाशिकचरुपाशुकादिभागान् स्वीचक्रुः स्वयमपमित्य देववर्गाः ॥ ५९॥
चन्द्रे तु ज्वलनहुते हयस्य तस्मिन्नासन् ये सलिलमुचस्तदयिधूमात् ।
वर्षन्ति स्वयमधुनापि मौक्तिकानां व्याजात् ते तमिव कणीकृतं वमन्तः ॥ ६०॥
आगाता किल यजमानकामनानामुद्गीथावयवसमष्ट्युपासनज्ञः ।
उद्गानं व्यतनुत जैमिनिम्तदानीमाकाङ्क्षन्नवतरणं जगजनन्याः ॥ ६१॥
प्रत्यक्षं विबुधगणेष्वदल्लु हव्यं साकृतम्मितमवलोकितः सदस्यैः ।
सिद्धान्तं स दिविषदामविग्रहत्वं व्याचख्योः कलहविपर्ययं महर्षिः ॥ ६२॥
देया भूरिह खलु दक्षिणेति शास्त्रं सर्वा भूरपि चतुरर्णवीपरीता ।
दत्ता नः क्षितिरमण ! त्वयेति हृष्टा आशीर्भिः सदसि तमृत्विजोऽभ्यनन्दन् ॥ ६३॥
निष्क्रीय द्विगुणधनैः पुनर्धरित्रीं रक्षायामनधिकृतेर्द्विजैर्वितीर्णाम् ।
भूयोऽपि द्विजकुलसाच्चकार सर्वां र्वां लक्ष्मीमपि मलयध्वजो नृपालः ॥ ६४॥
राजर्षेरवभृथकर्म वाजिमेधे म्हातारः सहमुनयो वसिष्टमुख्याः ।
तीर्थं तु त्रिशिखभवा सरोजिनी सेत्यकैकं त्रिभुवनपावनं तदासीत् ॥ ६५॥
तौ मित्रावरुणमुतौ मिथो विमृश्य ब्रह्मर्षी विदितसमस्तवेदितव्यौ ।
अम्बाया अवतरणाय काञ्चिदिष्टिं पुत्रीयां त्वरितमथोपचक्रमाते ॥ ६६॥
सङ्कल्पं व्यधित नृपः स यावदिष्टौ तावद् भुव्यवतरितुं शिवापि चक्रे ।
वैतानादुदयमुपेहि पावकादित्यादिष्टा स्वयममृतांशुशेखरेण ॥ ६७॥
सम्प्राप्तुं त्रिभुवनमातरं कुमारीं सन्नद्धो ननु यजमान एव पत्न्या ।
इत्यग्नीदेवददुपांशु शासितारं पत्नीसन्नहनविधौ प्रचोद्यमानः ॥ ६८॥
प्रासीदज्जगदखिलं प्रदक्षिणार्चिः स्वीचक्रे हविरनलः सुवर्णवर्णः ।
उत्तस्थौ नवलवलीविपाकपाण्डुर्धूमोऽपि स्फुरदरविन्दगन्धसान्द्रः ॥ ६९॥
तद् दिव्यं त्रिभुवनधाम धाम शैवं होतव्ये हविषि विभावयन् महर्षिः ।
उद्बोध्य क्षितिपमुदङ्मुखः स तिष्ठन् वैताने ज्वलति जुहाव हव्यवाहे ॥ ७०॥
आज्याहुत्यभिपतनप्रवर्धमानादग्नेस्तत्क्षणमुदियाय कापि कन्या ।
उन्मीलत्कुवलयदामकोमलश्रीर्लावण्यामृतलहरीविवर्त्तमूर्तिः ॥ ७१॥
चूडासङ्घटितसुवर्णपद्मदामव्यामिश्रग्रथितविलम्बिमाक्तिकौघा ।
प्रालम्बालकनिकरान्तराललक्ष्यव्यावल्गच्छफरविलोललोचनश्रीः ॥ ७२॥
कर्णाभ्यां मदनकराङ्गुलीयकामं ताटङ्कं मणिखचितं विभूषयन्ती ।
अव्याजस्मितभणितान्तरालदृश्यप्रत्यग्रप्रसृमरदन्तकुन्दपङ्क्तिः ॥ ७३॥
वक्रेन्दुव्यतिषजदेणभीतिहेतोर्वैयाघ्रं नखमाधिकन्धरं दधाना ।
त्रातुं त्रीनिव तनयान् विधीशविष्णूस्त्रीन् वक्षोरुहवलयान् समुद्वहन्ती ॥ ७४॥
अभ्यग्रोन्मिषदमरद्रुपल्लवाभे कुर्वाणा कुवलयकन्दुकं कराग्रे ।
सौवर्णाम्बरविलसन्नितम्बबिम्बव्यालम्बिस्फुटमणिमेखलाकलापा ॥ ७५॥
अम्बाम्बेत्यमृत रसं गिरा किरन्ती मञ्जीरक्वणितमनोहरं चरन्ती ।
सा बाला स्वयमभजन्नृपालपत्न्याः पर्यङ्कं श्रुतिशिखरैः कृताभ्यसूयम् ॥ ७६॥
आलिङ्गन्त्यसकृदनुक्षणं स्पृशन्ती चुम्बन्ती मुखकमलं मुहुर्मुहुश्च ।
पश्यन्ती विकसितपक्ष्मभिः कटाक्षैस्तां बालामभजत निर्वृतिं न माता ॥ ७७॥
आनन्दत्रुटितविशर्णिकञ्चुकान्ताद् वक्षोजादथ मलयध्वजप्रियायाः ।
अन्वस्यन्दत मधुरं पयः प्रभूतं बिभ्रत्यास्त्रिभुवनमातरं कुमारीम् ॥ ७८॥
प्रेयस्या सविधमुपेत्य दीयमानामुत्प्लुत्य स्वयमुपगूहितुं पतन्तीम् ।
कन्यां ताममृतमयीमिवाददानः कैवल्यं धरणिपतिस्तृणाय मेने ॥ ७९॥
मार्जन्तावसकृदुपर्युपर्युदञ्चद्बाष्पाम्भःप्रकरतरङ्गितानपाङ्गान् ।
अव्याजस्मितमधुराक्षरं कुमार्या द्रष्टुं तन्मुखकमलं न शेकतुस्तौ ॥ ८०॥
न स्मर्तुं प्रमथपतिं न कर्मशेषं निर्वोढुं न च महतो मुनीन् प्रणन्तुम् ।
नान्योन्यं वदनमवेक्ष्य नन्दितुं वा दम्पत्योश्चतुरतया तयोर्बभूवे ॥ ८१॥
पश्यन्तावुरसि कुचाङ्कुरत्रयं तौ बालायाः किमपि समाकुलौ यदास्ताम् ।
पर्जन्यस्तनितगभीरमन्द्रघोषा वागेका नभसि तदा समुज्जजृम्भे ॥ ८२॥
तटातकां नाम तवात्मजामिमां पतिर्भविष्यन्नवलोकते यदा ।
तदा तृतीयं कुचमण्डलं विदं निमग्नमन्तर्नियतं भवेदिति ॥ ८३॥
श्रुत्वा सुधारसकिरं गिरमभृतां तां
निर्वर्त्य सर्वधनदक्षिणमध्वरं च ।
पाणौ दिशन् कुलगुरोः परदेवतां तां
तत्पादयुग्ममुपसञ्जगृहे सदारः ॥ ८४॥
हस्ते गृहीतां कलशोद्भवस्तामध्यात्मविद्यां मुनिमण्डलाय ।
आनन्दवाष्पैः पुलकाङ्कुरैरप्यनक्षरं केवलमाचचक्षे ॥ ८५॥
प्रशिथिलकलुषं प्रशान्तमोहं प्रमदतरङ्गपरम्पराधिरूढम् ।
जगदखिलमभूदभूतपूर्वं मनुजकुलावतरे जगज्जनन्याः ॥ ८६॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे पष्टः सर्गः ।
अथ सप्तमः सर्गः ।
अथ कलशभवः शिवस्य मेधाविभवविवर्त्तमयीमिमां कुमारीम् ।
मधु मधुरमपाययत् स मेधासमुपजनाय सकाञ्चनं सगव्यम् ॥ १॥
उचितमुपनिवेशिताङ्कदेशे सुकृतिनि काञ्चनमालया सुता स्म ।
अपरिचितचरीं प्रवृत्तिमाद्यामलभत मातृकुचामृतोपयोगे ॥ २॥
समजनि सुखिता कुमारिका सा सकृदुपधाय मुखं स्तने जनन्याः ।
वदनसरसिजं दृशा पिबन्ती न तु दुहितुर्जननी जगाम तृप्तिम् ॥ ३॥
अकृतकवचसा नभोविभागात् म्वयमुदितेन कृतं तटातकेति ।
क्षितिपतिरतनिष्ट नाम तम्यास्त्रिभुवनकर्णरसायनाक्षरं तत् ॥ ४॥
कनकरजतशृङ्खलावबद्धे मणिशयनीयतले महार्हतल्पे ।
मृदुनि समुपवेश्य तामगायन्नवनिपतेरवरोधगास्तरुण्यः ॥ ५॥
प्रचलति यमपेक्ष्य भारतेऽस्मिन् सकलमिदं शुभकर्म भूविभागे ।
अजनि महिभृतस्ततः किलेयं परमहिमालयतो यशोवदातात् ॥ ६॥
इयममृतमयी शरीरभाजां बहिरबहिर्भवतापतापितानाम् ।
कलमधुरविराविणी च वाणी करकमलोपगृहीतवल्लकीयम् ॥ ७॥
विहरसि यदि देवि! जाग्रतीत्थं जगदखिलं कुशलं प्रकाशते नः ।
निमिषसि यदि निष्क्रिया भवामः प्रलय इवैष निमज्जति प्रपञ्चः ॥ ८॥
इति शिशुजनलालितानि गीतान्यवनिपतेरवरोधसुन्दरीणाम् ।
अनुजगदुरिवामरा निगूढाः प्रतिनिनदैः परमात्मभावदृष्ट्या ॥ ९॥
समधृत वलयानि सा कुइमारग्रहपरिहारकृते महीमयानि ।
परिचयमिव कुर्वती भुजेन क्षितिवलयं सकलं सुखेन वोढुम् ॥ १०॥
विहृतिषु पितरौ सपात्रहस्ताप्यतनुत सा भुजिना विनैव तृप्तौ ।
कथमिव भवति क्षुधा तृषा वा सकृदनुसन्दधतां तथाविधां ताम् ॥ ११॥
वियति विधुकलां प्रदर्श्यमानां निभृतमवेक्ष्य नितान्तकौतुकेन ।
शिरसि कुसुममेतदर्पयेति प्रतिमुहुरालपति स्म बालिका सा ॥ १२॥
व्यजयत पदकिङ्किणीरवोऽस्या मणिभवनेषु ततस्ततश्चरन्त्याः ।
पदमिदमभितो विचिन्वतीनामुपनिषदामिव हर्षजः प्रणादः ॥ १३॥
अवददियमनन्विता इवार्थैरनुपहिता इव याः कथाः सखीभिः ।
कथमपि परमोपदेशदृष्ट्या जगृहुरिमां मुनयः सुराश्च गूढाः ॥ १४॥
कति कति कृतिनः कुरङ्गपोता विहरणसाधनतामवापुरस्याः ।
तरुषु पशुषु वा ध्रुवं जनिष्ये तदहमहो समयः पुनर्व्यतीतः ॥ १५॥
क्रतुरवनिपतेरयं स तस्या यदुपजहार विहारसाधनानि ।
स च परमजपो यदन्ववादीत् कलमधुराणि मुहुस्तदीरितानि ॥ १६॥
भवनविनिहितेषु भक्ष्यभोज्येष्वहरत सा कपटेन यत् कुमारी ।
नवनवमपरिक्षयं च भूत्वा प्रकटमजायत सूक्ष्मदर्शिनां तत् ॥ १७॥
कतिचन किल कन्तुका महान्तो गुणसमुदायमया निसर्गशुद्धाः ।
अजनिषत कुतूहलाय देव्या निगमपथे चरतां निदर्शनाय ॥ १८॥
श्रुतिषु निहितदृष्टयोऽन्यविद्या भगवति शूलिनि ताः स चादिशक्तौ ।
क्वचिदपि किल कन्तुके तु सापीत्यजनि मनागपि योगिनामसूया ॥ १९॥
कतिपयदिवसैः कथासु गीतेष्वजनि पटुर्घुटिकामु कन्तुकेषु ।
इति रहसिं कथा बभूव पित्रोर्दुहितरि विश्वविधानमातृकायाम् ॥ २०॥
विहृतिषु नयने पिधाय तस्याः स्वयमभितश्चरितुं कृतोद्यमानाम् ।
त्रिजगति तिमिरावृते सखीनामपि चलितुं स्वपदान्न शक्तिरासीत् ॥ २१॥
अथ कुलगुरुमादिदेश मित्रावरुणसुतं मलयध्वजो नृपालः ।
दुहितुरखिललोकमातृकाया विरचयितुं किल मातृकोपदेशम् ॥ २२॥
निखिलजनिमतां सदा लिखन्ती निटिलतलेषु शुभाशुभाक्षराणि ।
अलिखदपरिजानतीव वाला कथमपि सा भुवि वर्णमेकमेकम् ॥ २३॥
अथ भुवि विलिखन्त्यचं तुरीयं कलशभवस्य मुनेः पुरः कुमारी ।
सदयमुपदिदेश भक्तियोगात् प्रणमति कामकलारहस्यमस्मिन् ॥ २४॥
निरवधिपरमात्मचिन्मयी सा किमपि यदा निदधे कलामु दृष्टिम् ।
अहमहमिकया तदा परीयुः सकलकलाश्च सखीजना इवैनाम् ॥ २५॥
विदितमविदितं च यत् किलासीत् प्रथममजातमुखात् गृहीतमैशात् ।
तदखिलमवधारयन्नमुष्याः कलशभवो गुरुदाक्षणां प्रपेदे ॥ २६॥
असिकुलिशगदाशरासशक्तिभ्रमरकतोमरभिण्डिपालशूलैः ।
प्रकटितरणकौशलाः खुरल्यां सममिव सा विजहार वीरलक्ष्म्या ॥ २७॥
उपनिषदुदिता मतङ्गजा सा प्रियदुहिता मलयध्वजस्य राज्ञः ।
मदभरभरितान् मतङ्गजेन्द्रान् सहजतया वशमानिनाय सद्यः ॥ २८॥
हयवरमधिरुह्य सञ्चरन्ती खुरदळितक्षितिधूळिधूसराभ्रम् ।
अवतरणमनक्षरं जगौ सा निजमिव भूमिभरावरोपणार्थम् ॥ २९॥
कवचितमवधूतखड्गरेखं नियमितवेणिनिबद्धतूणमन्वक् ।
कतिचन कृतिनः सिषेविरेऽस्यास्तुरगरजोमसृणाळकं वपुस्तत् ॥ ३०॥
अथ शिथिलकुमारिका दशान्तप्रविरळकन्दळदद्भुताभिरूप्यम् ।
अलमकुरुत यौवनं तदानीं त्रिभुवनमङ्गलमङ्गमङ्गमस्याः ॥ ३१॥
हृदि किल निममज्ज यावदन्तः प्रसवशरो मलयध्वजात्मजायाः ।
पिशुन इव स तावदुन्ममज्ज स्तनकलशस्तु हृदो बहिस्तदीयः ॥ ३२॥
शिथिलमनुससार बाललीलां विरळमपि प्रकटीचकार लज्जाम् ।
अनयदियमहानि पञ्चषाणि प्रतिनवयौवनमारुतावधूता ॥ ३३॥
वचसि विहसिते गतेऽवलोके वपुषि च कापि दशा क्षणे क्षणेऽस्याः ।
समजनि मदनकदर्शनीया मदनजिदेकमनोविभावनीया ॥ ३४॥
परिविगलति शैशवे प्रवृत्ते तरुणिमनि प्रतिपन्नसर्वतत्त्वा ।
अजनि पितुरमात्यताधुरीणा परमगुरुश्च परात्मचिन्तने सा ॥ ३५॥
दुहितरि नृपतिस्तटातकायां धुरमुभयोरपि लोकयोर्निवेश्य ।
भवममरगणादिवापवर्गादपि परमं गणयन्नहान्यनैपीत् ॥ ३६॥
सुमतिमभिधयार्थतोऽपि देवः कुलसचिवं निकटे निवेश्य जातु ।
हृदयगतमिदं समाचचक्षे सविधजुषोः सहधर्मिणीकुमार्योः ॥ ३७॥
स्मरसि न सुमते ! यथा गुरुर्मामशिषदिमां श्रियमर्पयन् मयि प्राक् ।
अपहतविमतां भुवं समानामयुतमिमामनुपालयेति हृष्टः ॥ ३८॥
इदमवितथयाशिषा गुरूणां तव च धिया धृतमित्थमाधिपत्यम् ।
अयुतमपि समाः समाप्तिमीयुः कुलमपि कुम्भभुवेदमुद्धृतं नः ॥ ३९॥
वसति च शिशुतामतीत्य वत्सा वयसि महीवलयानुपालनार्हे ।
अयमपरिणतो मनोरथो यत् कलितकरग्रहमङ्गळा तु नेयम् ॥ ४०॥
दिवि भुवि धरणीतलेऽपि वास्याः पतिरुचितो न हि कोऽपि भासते नः ।
तमिममपि मनोरथं मदीयं सफलयिता न चिरेण चन्द्रमौलिः ॥ ४१॥
अहमिव हितचिन्तने त्वमस्या भवसि च राज्यविधौ परः सहायः ।
भवति च जननी तटातकायाः परिणयकर्मणि भाविनि स्वतन्त्रा ॥ ४२॥
अधिगतमाधगम्यमीश्वराणां कुलमपि वीक्षितमुद्धृतं कुमार्या ।
मम तु खलु मनोरथोऽयमेको यदुत लभेय पदं जगज्जनन्याः ॥ ४३॥
इति वदति महीपतौ महिष्यां तदनुगमाध्यवसायविज्वरायाम् ।
अगणितगुरुशोकसम्प्रमूढावथ सुमतिश्च तटानकाप्यभूताम् ॥ ४४॥
कथमपि शिशिरोपचारभेदैरलभत संविदमम्बिका न यावत् ।
चुलुकित चतुरर्णवो महर्षिः स्वयमभिगम्य स तावदित्थमूचे ॥ ४५॥
जय जननि ! जय त्रिलोकवन्ये ! जय गलितावरणात्मचित्स्वरूपे! ।
किमिह मनुजताभिनीतिमात्राद् भवति तमोभिभवः परस्य धाम्नः ॥ ४६॥
अभिनयमवधूय मानुषीणामवसितकल्पमलं प्रपन्नमेनम् ।
त्वरितमनुगृहाण तीव्रपातैर्मलिनिमभङ्गनिरङ्कुशैरपाङ्गैः ॥ ४७॥
नियमय जननीं दुरूहरूक्षां परिणयकर्मणि ते प्रदानहेतोः ।
स्वमृणमियमपाकरोतु गौरीवितरणपुण्यसमुच्चयेन भर्तुः ॥ ४८॥
इति कलशभवेन बोधिता सा जगदरणिर्जनकं चिरात् प्रपन्नम् ।
अमनुत परमे पदे निधातुं मुलभमियच्छ्रितरक्षणं हि तस्याः ॥ ४९॥
प्रपदनपदवीजुषां जनानामनुपरतेऽप्यपवर्गदानसत्रे ।
किमिव हि जनके कृतं मयासीदिति हृदि सा किल जिह्रयाम्बभूव ॥ ५०॥
प्रवससि यदि तात! हा हताहं न गणय वत्स! भयं कुतश्चनेति ।
व्यतिकरितपरावरात्मभावा व्यवहरति स्म परापि देवता सा ॥ ५१॥
भुवमथ भुजयोः श्रियं दृगन्ते चरणयुगे हृदयं च जीवितं च ।
विनिदधदयमात्मदेवताया विगतभयो मलयध्वजोऽवतस्थे ॥ ५२॥
अथ दुहितुरनुग्रहेण तस्मिन् प्रविशति गर्भगृहं शशाङ्कमोलेः ।
निभृतमवलुलोकिरे समस्तास्तदनु च तत्र महेशलिङ्गमात्रम् ॥ ५३॥
चिरपरिचितभर्तृविप्रयोगव्यसनपराहतिमूर्च्छितां सवित्रीम् ।
स्वयमपि परिरभ्य खिद्यमानां कलशभवः पुनरम्बिकां बभाषे ॥ ५४॥
किमिदमनुचितं पुनः प्रवृत्तं कियदियता भविता न दुःखमस्याः ।
अपनय तमसा कृतं जनन्यामलमभिनीय मनुप्यभूमिकां स्वाम् ॥ ५५॥
यदि भवसि शिवे! जगच्छरण्या यदि च भवद्वचनानि वेदवादाः ।
त्वयि कृतमनसि त्वयि प्रलीने पितरि च ते किमु सन्ति शोचितारः ॥ ५६॥
इति विदितपरावरेण देवी कलशभवेन महर्षिणानुनीता ।
अखिलकलुषभञ्जनैरपाङ्गैरनुजगृहे सुमतिं च मातरं च ॥ ५७॥
तदनु भुवनमङ्गले मुहूर्ते प्रकृतिभिराप्तजनैः पुरोधसा च ।
सविधमुपगमय्य चन्द्रमौलेर्मणिखाचिते निदधे वरासने सा ॥ ५८॥
पशुपतिरथ पाण्ड्यकन्यकायै विचकिलपुष्पमयी वितीर्य मालाम् ।
पुनरपि स तया समर्प्यमाणां हृदि चकमे निभृतं मधूकमालान् ॥ ५९॥
कियदपि समवाप्य यत्कटाक्षं क्षितिपतयो भुबने पराक्रमन्ते ।
न्यविशत यदि सैव वीरलक्ष्मीर्नृपतिपदे न कथं नमन्तु भूपाः ॥ ६॥
अवनिरफलदद्भुतानि सस्यान्यददुरपां निधयो मणीन् महान् ।
उपददुरुचितान् गजान् वनान्ता भुवि समये समये ववर्ष च द्यौः ॥ ६१॥
न यदतिचरितं जनेषु केनाप्यपरिमितं ननु भाग्यमेतदस्याः ।
त्रिभुवनजननी कृतापराधं कमिव नियच्छतु सा कथं दयार्दा ॥ ६२॥
अवनितलमवन् गुरुः किलास्याः प्रशमयति स्म नृणां परं विवादम् ।
त्रिभुवनजनताविवादशान्तिः परिणमति स्म सदैव हन्त तस्याम् ॥ ६३॥
नृपकरमखिलं वितीर्य शिष्टं यदिह शिवाय निरुप्तमस्ति किञ्चित् ।
तदपि ननु हरन्ति तावकीना इति वचनेषु जहास सा जनानाम् ॥ ६४॥
अहमहमिकया दिशोऽधिगन्तुं परिचलतां यशसां मिथो विमर्दात् ।
पथि पथि निभृतानि कानिचित् किं रजतहिमाद्रिमिषाद्यशांसि तस्याः ॥ ६५॥
कर इति हि जहार षष्ठमंशं परमखिलं तु शिवार्पणैकबुद्ध्या ।
स्वयमुपददिरे त एव चेत् तत् कथमिव कोशसमृद्धिरस्तु नास्याः ॥ ६६॥
श्रियमखिलधनाकरेषु वाणीं विशयपदेषु महानसेऽन्नपूर्णाम् ।
करितुरगपदेषु वीरलक्ष्मीं न्यधित सखीरधिकारिणीस्तदा सा ॥ ६७॥
धनकनकमतङ्गजादिलक्ष्म्यो धृतवपुषः सकलाः कलाश्च तस्याम् ।
अदधत परिचारिकाधिकारं त्रिभुवनमात राज्यपालिकायाम् ॥ ६८॥
अनुसमयमशेत यद्यपीयं तदपि सदैव तु जागराम्बभूव ।
परिहृतनिमिषेण पाण्ड्यकन्या तपनशशाङ्कमयेन दृग्द्वयेन ॥ ६९॥
अथ नृपतिसुतां कृताभिषेकां विमतजयव्यवसायिनीं विधातुम् ।
शरदुपनिपपात शोषयन्ती पथि पथि पङ्ककळङ्कितान् प्रदेशान् ॥ ७०॥
तरुगिरिमरुसागराविशेषं जगदखिलं जलरूपतां नयन्तः ।
समुपचितयशोभरा इवासन् सलिलमुचो विमलाः समन्ततोऽपि ॥ ७१॥
परिमितपयसः प्रशान्तघोषाः परिगणनीयतटिन्नटीविलासाः ।
यदि सलिलमुचोऽपि ते बभूवुः किमिव हि विश्वसिमः स्थिरं जगत्याम् ॥ ७२॥
अजनिषत हि येऽभिनन्दनीयाः स्तनिततटिज्जलमेघमारुताद्याः ।
शरदि तनुमतां त एव निन्द्या ननु समयानुगुणा गुणाः प्रजानाम् ॥ ७३॥
शिशिरितमवनीतलं समृद्धं विपिनमपूरिषताशया जलानाम् ।
विरमति जलदेऽपि कस्य हानिः परमिह केचन चातकाः प्रनष्टाः ॥ ७४॥
क्षितितलमभिपूर्य वारिपूरैः किसलयिता विरचय्य वृक्षजातीः ।
किमपि फलमनाप्य नष्टमभ्रैः फलभुगयं पुनराविरास कालः ॥ ७५॥
घनतिमिरमुखादनेन मुक्ताववतरतैव यदर्कशीतभानू ।
तत इव शरकोरकापदेशाद् दिशि दिशि कीर्तिरनेहसो जजृम्भे ॥ ७६॥
कथमपि परिभूय मेघबन्धं कियदिव कन्दलिते सुधामयूखे ।
अलिकलभमुखेन हर्षवार्ता व्यचलदिवोत्पलिनीकुमुद्वतीनाम् ॥ ७७॥
अतिषिततमवर्तताम्वुसत्रं सलिलमुचां शरदा निवारितं तत् ।
उदभवदियमेव कीर्तिरस्याः किमिव यशोऽन्यदतिप्रसङ्गभङ्गात् ॥ ७८॥
विरमति सति दुर्दिनेऽर्कचन्द्रावनुभवतामभवन्मुदस्तदास्ताम् ।
गगनमपि निरीक्ष्य निष्कलङ्क कियदिव हन्त शरीरिणोऽभ्यनन्दन् ॥ ७९॥
मधुरविमलवारि मत्तभृङ्गं परिणतशालि परास्तपङ्कलेशम् ।
किसलयितवनं समोष्णशीतं क्षितितलमेव दिवोऽपि भोग्यमासीत् ॥ ८०॥
कणिशकबलनोपजातगर्वाः कलनिनदोपहृतामृताः शुकौघाः ।
समजनिपत सङ्घतश्चरन्तो मदनविसारितवागुरा इवाभ्रे ॥ ८१॥
प्रभवति नलिनी प्रसेदुरापो विमलतरा विललास चन्द्रिकेति ।
जहृषुरतितरां जना यदेषा विरहिजनस्य विपत्परम्परासीत् ॥ ८२॥
सविधगतपचेळिमेक्षुपर्वप्रसृमरमौक्तिकपातकान्दिशीकाः ।
दिशि दिशि शुकशारिका अधावन् परि पैरिशालियवाप्रियङ्गुदेशान् ॥ ८३॥
कमलवनमुपाश्रिता जरन्तः करिकटभित्तिमुपस्थिता युवानः ।
इति मधुपगणा द्विधा विभिन्ना अपि खलु कर्मकराः समं स्मरस्य ॥ ८४॥
चिरपरिमुषितप्रदेशचिह्नाः समुपगताः सरसीः पुनश्च हंसाः ।
कथमपि रसवर्णगन्धभेदैर्निजानिजमम्बुजकोशमभ्यजानन् ॥ ८५॥
अतिविमलमयत्नशीतमम्भः स्फुरदरविन्दमुगन्धयः समीराः ।
निरुपधिकरुणामयी च राज्ञीत्यजनि जनेषु परम्परा शुभानाम् ॥ ८६॥
तत्तन्नृपालपरिपालनसम्प्रसूत-
मालिन्यमार्जनसमुज्ज्वलितां धरित्रीम् ।
भूयः स्वयं विमलयन् समयः प्रसादं
मन्ये चकाङ्क्ष मलयध्वजकन्यकायाः ॥ ८७॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे सप्तमः सर्गः ।
अथाष्टमः सर्गः ।
जातुचित् तदनु पाण्ड्यकुमारी चित्रिते सदसि रत्नगणेन ।
दर्शनैरपि च षड्भिरलभ्यं दर्शनं निजमदात् प्रकृतीनाम् ॥ १॥
तापसा द्विजवरा धरणीशा बन्धवः परिजना भटमुख्याः ।
पौरजानपदवन्दिगणाश्च प्राविशन् सदसि तत्र विचित्रे ॥ २॥
तान् यथायथमथोपचरन्ती सा प्रणामवचनस्मितहाग्भिः ।
अक्षमामजनयत् त्रिदशानां मानवेषु मघवत्प्रभृतीनाम् ॥ ३॥
वीज्यमानमभितो युवतिभ्यां चामरद्वयमदृश्यत तस्याः ।
यत्परत्वमथ यत्सुलभत्वं तद्यशोयुगमिवातिविशुद्धम् ॥ ४॥
छत्रमेकतरमुछ्रितमस्या मूर्ध्नि तेन शिशिरं जगदासीत् ।
एतदत्र हि निदर्शनमेषा यत् प्रपञ्चवपुषा परिणेमे ॥ ५॥
अस्तुवन् क्वचन वन्दिगणास्तामस्तुवन्नपरतः श्रुतिसङ्घाः ।
आद्यमत्र जगृहुर्गुणवत्त्वात् सर्व एव न परं तदभावात् ॥ ६॥
सा विसृज्य सकलानपि लोकानानिनाय परमाप्तसखीभिः ।
मातरं रहसि काञ्चनमालां मन्त्रणाय सुमतिं सचिवं च ॥ ७॥
सन्निवेश्य जननीं निजपीठे सा च तच्चरणपीठनिषण्णा ।
मन्त्रिणा सुमतिना जयहेतोर्मन्त्रमित्थमममन्त्रत बाला ॥ ८॥
यः किलानुशरदं विजयार्थी पार्थिवं त्वरयसे गमनाय ।
स प्रवर्तयसि मां न कथं त्वं बालिकेयमिति किं विशयानः ॥ ९॥
बालिकास्म्यनवगाढरणास्मि प्रत्युतोपनिहितास्म्यवरोधे ।
आशिषा तदपि तावदमुष्यास्त्वद्धिया च विजयाय यतिष्ये ॥ १०॥
मैवमालप कदाचन वत्से ! मन्त्रिणा सुमतिना विजयो नः ।
स त्ववैति समयोचितमर्थं सर्वमित्यभिदधे जननी ताम् ॥ ११॥
स स्म तां सुमतिराह कुमारीं सास्मतां मृदुतया जनयित्र्याः ।
संस्मरन् गुरुमतीतममुष्या बाष्पगद्गदपदं विनयेन ॥ १२॥
देवि! मे निगदतः शृणु वत्से ! यत् त्वमात्थ मयि सानुजिघृक्षा ।
तत् तथैव परथा न कथञ्चिद् वेदवादमुहृदो हि गिरस्ते ॥ १३॥
सत्यमेव विजये यतितव्यं साधनं प्रथममत्र विपक्षः ।
मार्गयेऽहमपि नोपलभे तं न व्यजिज्ञपमतम्त्वयि किश्चित् ॥ १४॥
इत्थमुक्तवति मन्त्रिवरेऽस्मिन् कुम्भभूः स्वयमुपेत्य महर्षिः ।
आशिषो बहुविधा विरचय्य व्याजहार मलयध्वजकन्याम् ॥ १५॥
साधयिष्यसि करग्रहणं त्वं सर्वथा चलतु ते जययात्रा ।
भूरियं भवतु पुण्यतमा ते पावनीभिरभितो भ्रमणीभिः ॥ १६॥
इत्युदीर्य जयनाम्नि मुहूर्ते तां प्रवेश्य सबलामुपशल्यम् ।
तत्करग्रहमहोत्सववीक्षाकौतुकी स मलयं विजगाहे ॥ १७॥
सज्जितैव पृतना सकलेयं किन्त्विमां निशमिह व्यतिलङ्घय ।
श्वः प्रयाहि विनिवर्त्य निवर्त्यानित्युवाच सुमतिर्जननीं ताम् ॥ १८॥
पार्श्वमुत्तरमपि त्रिदशाद्रेः सा प्रयाम्यति यतो विजयाय ।
तन्निरीक्षितुमिव प्रथमं तं प्रस्थितो दिनकरश्वरमाद्रौ ॥ १९॥
निष्पतन्नपि रविश्चरमाब्धाबुद्दधार किरणाननुयातान् ।
ईदृशं व्यसनमस्पृशतः किं लोकबन्धुरिति जीर्यति शब्दः ॥ २०॥
निर्ममज्ज न जले कति वारानुन्ममज्ज न पुनः कति वारान् ।
अद्य भास्वति मिमङ्क्षति विप्रैरर्पिता बत जलाञ्जलयोऽपि ॥ २१॥
नाधुनापि कथमस्तमुपैतीत्यार्द्रकोपपरिपाटलकोणैः ।
वीक्षितो नु नयनस्तरुणीनामंशुमानरुणिमानमयासीत् ॥ २२॥
कर्षणादुपलकण्टकदुर्गेष्वन्तरा शिथिलितास्त्रुटिताश्च ।
अंशवः कतिचिदंशुमतः किं सान्ध्यरागमपदिश्य निषेदुः ॥ २३॥
पश्चिमाचलगुहासु निलीनैः प्रार्थिता नु तिमिरैर्बलवद्भिः ।
सान्ध्यरागनिभतो दिनभर्त्तुर्भानवः कतिपये पथि लग्नाः ॥ २४॥
अध्वखेदशिथिला जरढा ये भानवो दिनमणेः पथि लग्नाः ।
दीपिकाहुतभुजामनुसायं तेऽभवन्नतिथयो भवनेषु ॥ २५॥
ये सहैव पतिताः पतताब्धो ये च दूरतरमेव निवृत्ताः ।
ते द्वयेऽपि सदृशा दिनबन्धोरीदृशः प्रभवतामविवेकः ॥ २६॥
सङ्कुचन्नवदलाररमूलस्थानदत्तमधुपोपलखण्डाम् ।
अम्बुजोदरकुटीमपिधाय श्रीरपि स्वयमितो निरयासीत् ॥ २५॥
आप्रभातमपि नर्तितुकामा व्योमरङ्गभवनेऽवतरन्ती ।
किं निशैव विचकार समन्तादञ्जलीनुडुनिभात् कुसुमानाम् ॥ २८॥
मज्जतीव न ममज्ज दिनेशो नांशवोऽस्य निखिलाश्च निवृत्ताः ।
क्व स्थितानि मिलितानि कुतो वा तावदेव तिमिराण्यभिवव्रुः ॥ २९॥
आकलय्य धनुराकलितज्यं तस्थुषः सवयसो मदनस्य ।
अञ्चले निशितमादिममस्त्रं चन्द्रमा मुकुलनेन चकार ॥ ३०॥
सर्वरात्रमपि सा जनयित्र्या सँल्लपन्त्यविरलं शफराक्षी ।
पञ्चषक्षणमितामिव मेने ताम्रचूडनिनदेन तमिस्राम् ॥ ३१॥
आज्ञया स सुमतेरधिसैन्यं ताडितो विजयदुन्दुभिरस्याः ।
आरवैर्जलदनादगभीरैरावृणोदिव दिवञ्च भुवञ्च ॥ ३२॥
निर्जराः किमपि पाणिविहारैः पन्नगास्तु पुनरक्षिनिकोचैः ।
तैर्द्वयैरपि नरा व्यवजहुस्तद्रवैर्मुखरिते जगदण्डे ॥ ३३॥
उच्छ्रितध्वजमुपस्थितयोधं सज्जवारणतुरङ्गशताङ्गम् ।
सन्ननाह सकलं बलमस्यास्तूर्यघोषमुखरं निमिषेण ॥ ३४॥
दिग्जयाय कृतमङ्गलरक्षा सा त्रिलोकजननी जनयित्र्या ।
निर्जगाम शिबिकामधिरूढा सम्प्रचाल्य सकलं बलमग्रे ॥ ३५॥
अग्रतो भटगणैरथ वाहैः कुञ्जरैरथ रथैरथ भृत्यैः ।
सौविदल्लनिकरैरथ तस्या दूरतः प्रचलितं शिबिकाग्रे ॥ ३६॥
राजचिह्ननिवहैर्मणिवेत्रैर्वल्लकीडमरुवेणुमृदङ्गैः ।
गद्यपद्यपठनैरपि सेवां सुभ्रुवो विदधिरे धुरि तस्याः ॥ ३७॥
अग्रतश्चलदसङ्ख्यतुरङ्गोद्धूतभूतलरजःस्थगितार्के ।
दिक्तटेऽपि बुबुधे सरणिः स्वा तद्बलेन पवनैरनुकूलैः ॥ ३८॥
सैन्धवैर्धुरि समुद्गमिता ये पांसवो दश दिशः परिवव्रुः ।
तानशीशमदिह द्विरदानां दानशीकरकिरः श्रुतिवातः ॥ ३९॥
विश्लथेषु शरदागमयोगाद् विष्वगैक्षत पयोदकुलेषु ।
शातमन्यवशरासनखण्डं हस्तलभ्यमिव हस्तिपकानाम् ॥ ४०॥
दंशितस्तुरगबद्धनिषङ्गो बाणपाणिरधिरोपितचापः ।
आप्तसैन्यसहितः सुमतिस्तामन्वयाच्चरमतः शरपाते ॥ ४१॥
उद्गृहीतविहितैरुपहारैर्वेत्रपातचकिताः कृतसङ्घाः ।
आकुमारमवलोकयितुं तां प्रस्थितां प्रकृतयः परिवव्रुः ॥ ४२॥
मुग्धसल्लँपनकौतुकभूम्ना मन्दचालितमणीशिबिका सा ।
सम्प्रवादमशृणोदिति तासां ग्राम्यभावपिशुनं विहसन्ती ॥ ४३॥
पश्य ! कालि! मलयध्वजकन्यां कुन्जिके! जनकवन्मुखमस्याः ।
ज्यायसी हि दुहितुर्मम मासैः पञ्चषैरियमहो शिशुरेव ॥ ४४॥
चण्डवातविगमादनु जाता नन्वियं तुरगकर्मणि राज्ञः ।
कीदृशी चतुरता पुनरस्याः कीदृशस्तु भविता गृहमेधी ॥ ४५॥
सन्ति नः शतमजा दश गावः पञ्चषाश्च महिषा दयया ते ।
गव्यमेतपदुपयुङ्क्ष्व कदुष्णं दूरमम्बुतृषितासि पथि त्वम् ॥ ४६॥
अस्ति पर्युषितमस्ति यवागूः सन्ति वंशशकलाद्युपदंशाः ।
शीतमुष्णमपि वा पिब कामं गच्छ पुत्रि! न पुनस्तृषिता त्वम् ॥ ४५॥
प्रार्थयेमहि वयं भवदर्थे कुक्कुरैश्च पशुभिस्सह देवीम् ।
गच्छ पुत्रि! सुखिनी पुनरेहि त्वां कथं नु मुमुचे जरती सा ॥ ४८॥
किं त्वमेव मलयध्वजकन्येत्यालपन्त्यभिमृशन्ति कराग्रैः ।
आशिषश्च ददते शतशो यास्ता यथायथमुपाचरदेषा ॥ ४९॥
यत्र यत्र परिपश्यति बाला पादपान् क्षितिभृतः सरितो वा ।
तत्र तत्र निभृतार्पितदृष्टिः कौतुकेन पथि सा चिरमासीत् ॥ ५०॥
तावती किल चमूरपि तस्याः पांसुले पथि शनैः प्रचलन्ती ।
पार्श्वतो न निदधे पदमात्रं पात्रमध्यपतिता तटिनीव ॥ ५१॥
नाददे पथि फलानि न चे क्षून् का कथावतरणे कलमेषु ।
पुष्पगन्धमपि मारुतनीतं जिघ्रति स्म पृतना चकितास्याः ॥ ५२॥
किं धमेम जलधीन् मुखवातैः किं क्षिपेम नखरैर्गिरिकूटान् ।
इत्यखण्डितचलद्रणकण्डूदुर्मदैरगणि तत्र चमूपैः ॥ ५३॥
यावदम्बरमाणिर्दिनमध्यं नाधिरोहति सुदुर्विषहोष्मा ।
तावदेव सुमतिर्हृदयज्ञो विश्रमाय बलमादिशदस्याः ॥ ५४॥
नाळिकेरपनसक्रमुकाम्रस्पर्धमानकदळीचवणायाम् ।
तीरसीमनि कवेरसुतायास्तद् बभूव शिबिरं शफराक्ष्याः ॥ ५५॥
प्राग्गतैरधिकृतैः प्रविभज्य स्थापितेषु पटवेश्मसु तस्मिन् ।
स्वं स्वमेत्य विजयध्वजाचह्नं निर्विवादमविशन् बलमुख्याः ॥ ५६॥
विस्तृताभिरभितो विपणीभिर्वेश्मभिश्च विपुलैः सकलानाम् ।
अन्वयादिव पुरी मधुरैव स्वामिनीं पटनिकेतमयी ताम् ॥ ५७॥
स्वेदरज्यदलिकान्तनिमज्जद्धूसराळकतयाधिकदृश्यम् ।
आननं विकसितेक्षणमस्या ध्यानमङ्गलमभूद् भुवनानाम् ॥ ५८॥
सावतीर्य शिबिरप्रतिहारे सैनिकान् समनुगृह्य कटाक्षैः ।
कल्पितं सुमतिना बहुकक्ष्यं पाण्डरं पटगृहं प्रविवेश ॥ ५९॥
आवृतं बहुभिरावरणैस्तद् दीर्घिकोपवनशोभितमन्तः ।
सा मणीकलशसम्भृतमुच्चैर्दर्शितं सुमतिना विलुलोके ॥ ६०॥
अत्युदारमवबद्धवितानं क्लृप्तमञ्चमुपबर्हविशोभि ।
धूपितं कुसुमदामसुगन्धि प्राविशच्छयनमन्दिरमम्बा ॥ ६१॥
यत् सहस्रदलमागमगम्यं पङ्कजं विमलचिन्मयमस्ति ।
न्याञ्चितं तदिव कौतुकहेतोः पाण्डरं पटगृहं शुशुभेऽस्याः ॥ ६२॥
सा निविश्य मृदुले शयनीये संविसृज्य सुमतिं शुभयोक्त्या ।
अध्वखेदमवरोपितभूषा सल्लँपन्त्यपजहार सखीनाम् ॥ ६३॥
विश्रमय्य बलमेतदुपेतं सन्निपात्य च चमूमनुयान्तीम् ।
श्वो निषद्य सुखमत्र परश्वो याम इत्यभिदधे सचिवेन ॥ ६४॥
संवृते पयसि सह्य पुताया भित्तिभिर्नवदुकूलमयीभिः ।
क्लृप्तमज्जनविधिः सवयोभिः सोपसज्य विजहार कुमारी ॥ ६५॥
मुक्तपल्ययनविश्रमिताश्वं स्रस्तबन्धसुखितद्विपसङ्घम् ।
स्नातपीतसुखसुप्तभटं तच्छासनेन मुमतेर्बलमासीत् ॥ ६६॥
सापरेधुरधिरुह्य तुरङ्गं सञ्चरन्त्यवनिपालकुमारी ।
तृप्तिमाप न कवेरसुतायाः कामनीयकमवेक्षमवेक्षम् ॥ ६७॥
तत्प्रतीरभुवि केरतरूणां हस्तलभ्यमुपयुज्य फलाम्भः ।
निर्जरा विधुकलामृतभागानापिबन्ति सकृदौषधरीत्या ॥ ६८॥
तज्जलं निपतितं कचिदन्तः स्तब्धमास्त किल यत्र पयोधेः ।
तत्प्रदेशविषयस्तनुभाजामिक्षुसारजलाधिव्यवहारः ॥ ६९॥
सा वहेत यदि सर्वपथीना किं न सा त्रिपथगार्धममुष्याः ।
अर्थमेनमवबुद्ध्य जनास्तामर्धजह्नुतनयेति गृणन्ति ॥ ७०॥
तामगस्त्यगृहिणीं परिणम्रां तत्र सिन्धुवपुषा गृणती सा ।
नन्वियं भवति नो गुरुपत्नीत्यादरं दृढमधत्त सखीनाम् ॥ ७१॥
सा तु दिव्यसरितोऽपि विशिष्टां प्रीतिमातनुत सह्यसुतायाम् ।
सा ह्यसाविव यतो न सपत्नी तेन तेन्न तु गुरोर्गृहिणीति ॥ ७२॥
स्वर्गमाहु रवगाहफलं यं सोऽपवर्ग इति मे मतिरस्याम् ।
स्वर्गतोऽपि मधुरां भजतां तां स्वर्ग इत्यभिमतं किमिवान्यत् ॥ ७३॥
सा हयेन विशदेन चरन्ती सम्परीत्य सकलं कटकं तत् ।
आसदत् पटकुटीमनु सायं सैनिकैः परिमितैरनुयाता ॥ ७४॥
प्रस्थितां परिचरन् पथि देवीं सेवया विविधया सुमतिस्ताम् ।
एक एव बहुधा परिणेमे यामिकश्च सचिवश्च भटश्च ॥ ७५॥
दिग्जयाय चलितामथ देवीं तां निशम्य शतशो धरणीशाः ।
सम्प्रगृह्य विविधानुपहारानाययुः शरणमर्थयमानाः ॥ ७६॥
सूक्तिभिः सुमतिसङ्क्रमिताभिः स्वां चिरात् प्रवणतां भगवत्याम् ।
ते निवेद्य दययानुगृहीताः सन्निधिं समुपजग्मुरमुष्याः ॥ ७७॥
कीर्णरत्नकुसुमाञ्जलयस्ते वाहनानि च धनान्युपहृत्य ।
सूचितास्सुमतिना स्वयमस्याः पादपीठनिकटे प्रणिपेतुः ॥ ७८॥
मा बिभीत मुखिनः प्रतियातेत्याकलय्य मृदुलां गिरमस्याः ।
उत्थिता गिरमवादिषुरित्थं ते निरीक्षितपरस्परवक्त्राः ॥ ७९॥
मादृशेषु मलयध्वजदेवो यामधत्त करुणां करुणाब्धिः ।
सा त्वया शतगुणा निहितैवं किन्तु किञ्चिदिदमस्ति निवेद्यम् ॥ ८०॥
अर्पितात्मसु सदा कुलदासेष्वस्मदादिषु च सत्सु भटेषु ।
स्वामिनी यदि विधित्सति यात्रां का यशःक्षतिरितोऽपि कुले नः ॥ ८१॥
तत् प्रयातु भवती पुनरम्बामस्तु चैष सुमतिः स्थपतिर्नः ।
त्वत्प्रसादकणिकामवलम्ब्य द्योचरानपि समानमयामः ॥ ८२॥
ईदृशा भवथ यूयमिमां मां द्रष्टुमेव तु वयं चलिताः स्मः ।
कौतुकं तु यदि वः सह यातेत्यन्वशात् सदसि सा नरपालान् ॥ ८३॥
भूषणैः सुमतिहस्तवितीर्णैर्वाहनैर्बहुविधैश्च नृपालान् ।
सा यथाक्रममिमान् बहुमत्य व्यादिदेश कटकावतराय ॥ ८४॥
तां वाक्येषु गभीरतामथ च तां कालोचितार्थज्ञतां
तां नम्रेषु कृपालुतामपि च तां कीर्त्तौ परं लुब्धताम् ।
सम्पश्यन् प्रमदाद्भुतव्यतिकरस्तब्धस्त्वमात्योऽसकृत्
पादेऽस्याः प्रणनाम वत्सलतया प्रायुङ्क्त चाप्याशिषः ॥ ८५॥
त्वत्साचिव्यबलानतान् क्षितिभुजस्त्वच्छिक्षितैरक्षरै-
स्त्वत्सान्निध्यबलात् किलेदमवदं किञ्चिद्यथोपस्थितम् ।
कर्तव्यं यदितोऽपि तत्र सुमते! कामं प्रमाणं भवा-
नित्युक्त्येयमपाचकार निखिलं सेवाश्रमं मन्त्रिणः ॥ ८६॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे अष्टमः सर्गः ।
अथ नवमः सर्गः ।
तां गीतसंवलितमर्दृलवेणुवीणानादामृताधिगमितस्वपना सखीभिः ।
वैतालिका इव सुशिक्षिततारवाचः प्राबोधयन् मृगदृशः कतिचित् प्रभाते ॥ १॥
अम्ब ! त्वदभ्युदयतो निहतं पुरैव हन्तुं तमः पुनरसावरुणः समुद्यन् ।
सुप्रातमावहति देवि! रथाङ्गनाम्नां साजात्यरक्तचरणायुधबोधितानाम् ॥ २॥
आयास्यतो दिनमणेरभिकस्य वार्तां प्राभातिकानिलमुखादवधारयन्ती ।
उद्दण्डपङ्कजतया किल पद्मिनीयमुद्ग्रीविकां वहति वासकसज्जिकेव ॥ ३॥
पत्युस्त्विषां प्रथमनिर्गलितैर्मयूखैर्ध्वान्तेर्ष्यया मलिनदर्शमनुद्रवद्भिः ।
उच्चाटिता मधुकृतोऽपि किमुत्पलेभ्यः पर्याकुलास्तत इतोऽपि परिभ्रमन्ति ॥ ४॥
हंसेषु कञ्चुकिषु षट्चरणेषु कुब्जेष्वादेशहारिपु मरुत्सु च सङ्गतेषु ।
उद्घाटयन्त्यधिकृता इव शार्ङ्गपाणेरन्तःपुरं घटितमंशुमतो मयूखाः ॥ ५॥
उन्मुद्रिते सति मनागरविन्दकोशे भृङ्गैरहम्प्रथमिकाकलितप्रवेशैः ।
आस्कन्धमानमपि सौरभमेकतस्तदादाय यान्त्यपरतो मरुतो यथेच्छम् ॥ ६॥
भूदेवमन्त्रितविमुक्तजलाञ्जलिभ्यो निर्गत्य दैत्यहननाय समन्ततोऽपि ।
आसीदतामिव रविं महसा पवीनां पौरन्दरी हरिदियं परिपिञ्जरासीत् ॥ ७॥
अम्भोनिधेस्तपनवाजिभिरुज्जिहानैराधूतकन्धरसटैरसकृद्विकीर्णा ।
सामुद्रविद्रुमलताशकलावलीयं प्राचीमुखे विजयते नतु सान्ध्यरागः ॥ ८॥
निर्जित्य विश्वमखिलं मकरध्वजेन निर्गच्छता शिबिरसीमनि दीपितम्य ।
मन्यामहे हुतभुजः प्रथमप्रकाशो मारुत्वते जयति सम्प्रति दिग्विभागे ॥ ९॥
जैत्रप्रयाणसमयं त्वयि वक्तुकामः प्रायः प्रबोधसमयं प्रतिपाल्य भानुः ।
उन्मज्ज्य सागरजलादुदयाद्रिशृङ्गे लीनः क्वचिन्न किल दर्शयतेऽधुनापि ॥ १०॥
आमोदते बत कियत् कमलाकरोऽयमस्मिन्नपि प्रविकसत्यरविन्दकोशे ।
उन्मुद्रय त्वमधुना नयनारविन्दमामोदतामग्विलमम्ब! जगत् त्वयेदम् ॥ ११॥
सुप्रातमस्तु मलयध्वजकन्यकायाः मुप्रातमस्तु मधुरापुरवल्लभायाः ।
सुप्रातमस्तु विधुवंशपताकिकायाः सुप्रातमस्तु हरितां जगतां त्रयाणाम् ॥ १२॥
इत्युक्तिभिर्मुगदृशां प्रतिबोधिता सा निर्वर्त्य नैत्यिकविधि नृपतेः कुमारी ।
सज्जीकृतं सुमतिना सकलं बलं तत् प्रम्थाप्य पार्थिवकुलानुगता प्रतस्थे ॥ १३॥
अत्यद्भुतो विजयदुन्दुभिनादमन्त्रस्तस्या नृपालकुलकर्णपथावतीर्णः ।
अस्तम्भयद्व्यधमदाचकृषे जघान निन्ये वशं व्यघटयच्च यथायथं तान् ॥ १४॥
भेरीरवश्चलति योजनमेव यावत् तावत् ततो दशगुणं चलितः प्रतापः ।
कीर्तिस्ततो दशगुणं व्यचलत् ततोऽपि चेलुस्ततो दशगुणं विमता विदूरे ॥ १५॥
वार्त्ताहरा दिशि दिशि प्रहिता हि यावदागत्य मन्त्रिणि न तं तमुदन्तमाहुः ।
तावत् त एव धरणीपतयः सदाराः सोपायनाः शरणमीयुरिमां सवालाः ॥ १६॥
आगच्छतां प्रणमतां वदतां प्रियोक्तीरग्रे निधाय विविधानुपहारभेदान् ।
राज्ञामनुग्रहकृते सुमहान् विलम्बो मार्गेऽभवत्प्रतिपदं मधुरेश्वरायाः ॥ १७॥
राज्यं प्रशासति पुरा मलयध्वजे ये भूमीभुजः कतिपयेऽपरराधुरज्ञाः ।
तानप्यनन्यशरणान् समुतान् सदारान् सा चक्षुषानुजगृहे शरणं प्रपन्नान् ॥ १८॥
सा तत्र तत्र शरणागतराजलोकविश्राणितानि मणिहेमविभूषणानि ।
मातुः समक्षमखिलान्युपहारयन्ती कीर्तिं परां वितरति स्म दिशां मुखेषु ॥ १९॥
दुर्गाटवीनगरराष्ट्रपदानि तैस्तैस्त्यक्तानि युद्धनिहतैश्च पलायितैश्च ।
भृत्येषु सा कुलपरम्परयागतेषु न्यासीचकार सचिवानुमतेषु राज्ञी ॥ २०॥
नासीरसीमपरिवर्तिभिरेव योधैर्विद्रावितान् विनिहतानपि वा गृहीतान् ।
सा शृण्वती नरपतीनपि नात्यहृप्यत् सङ्ग्रामदर्शनकुतूहलिनी कुमारी ॥ २१॥
त्यक्तान् भयात् प्रचलितैः पितृभिः स्वभेरीभाङ्कारनिर्लुठितगर्भपरिच्युतांश्च ।
सा दर्शितान् पथि शनैरवलोकयन्ती स्वे स्वे पदे नृपशिशून् पुनरभ्यषिञ्चत् ॥ २२॥
राज्यश्रियं प्रणिपतत्सु नरेश्वरेषु रत्नानि हेमनिवहानपि भूसुरेषु ।
कीर्ति प्रतापमपि सा हरितां मुखेषु राजाधिराजतनया विकिरन्त्ययासीत् ॥ २३॥
सम्भ्रान्तनिष्पतिततत्तदरातिराजशुद्धान्तयौवतजनैः पतिपुत्रभिक्षाम् ।
सा भिक्षितानुजगृहे करुणातरङ्गसम्पातशीतलसमुल्लसितैरपाङ्गैः ॥ २४॥
पाषण्डसागरनिमज्जदनादिसूक्तिनिस्तारणाय धृतमानुपविग्रहायाः ।
मीनो महान् विरुरुचे विजयध्वजेऽस्या नासीरसीमनि नरेन्द्रकुमारिकायाः ॥ २५॥
बाहुप्रतापविजिताभिररातिराजराज्येन्दिराभिरिव राजमुता सखीभिः ।
पर्यावृता पितृपितामहपालितोर्वीसीमापरिष्करणमाप तुषारशैलम् ॥ २६॥
प्रालेयशैलशिखरादवनौ निपत्य भागीरथीं कनखलं परितो वहन्तीम् ।
दृष्दैव सा स्वयमभूज्जननान्तरीयसोदर्यताप्रणयविद्रवदन्तरङ्गा ॥ २७॥
स्रोतांसि तान्नि कबलीकृतदिङ्मुखानि यादांसि तत्र च महान्ति समुल्ललन्ति ।
अप्रेक्षितश्रुतचराण्यवितर्कितानि चित्रार्पितेव चिरमैक्षत पाण्ड्यकन्या ॥ २८॥
प्रागेव पाण्ड्यतनयाचरणारविन्दसेवानुभावचिरनिर्हृतकल्मषासु ।
सेनासु तत्र जलमात्रकृतोपयोगा ह्रीणेव सा सरिदवापदवाङ्मुखत्वम् ॥ २९॥
आलक्ष्य ताममरसिन्धुमपारपूरां स्रोतोदशां स्वयमपि प्रतिपद्य सद्यः ।
अम्भोनिधिर्न्यविशतेव तटे तदीये सेनानिभेन मलयध्वजकन्यकायाः ॥ ३०॥
सेनां पृथक् पृथगिमां विरलं निवेश्य मायापुरीपरिसरे सुमतिः समस्ताम् ।
आसाद्य पाण्ड्यतनयामिदमाबभाषे गङ्गातरङ्गलतिकाहृतदृक्तरङ्गाम् ॥ ३१॥
पश्याम्ब ! कीर्त्तिमिव ते भुवनं पुनानामेनां दयाभिव तवास्खलितप्रवाहाम् ।
सूक्तिं तवेव च सुधामधुरां गभीरां भागीरथीं भवजटापटलात् प्रवृत्ताम् ॥ ३२॥
निश्रेणिकेयमपवर्गपदाधिरोहे नौकेयमम्ब ! दुरितार्णवसम्प्रतारे ।
एषा सुधा भवाविषज्वलनाभिषङ्गे ज्योत्स्नेयमान्तरतमोभिभवे जनानाम् ॥ ३३॥
ब्रह्मर्षिशापनिहतान् भसितावशेषानेषा दिवं सगरराजसुताननैषीत् ।
एषा च कर्मधरणीघटनानपेक्षा स्रोतस्त्रयेण भुवनत्रितयं पुनीते ॥ ३४॥
कर्माणि पश्यत हरेरिति घोषयन्ति यत् सेतुबन्धनमुखानि गिरः पुराण्यः ।
सोऽप्यर्णवो ननु रसातलमाविशन्त्याः पार्श्वाम्बुलेशपरिवर्त्तनपूरितोऽस्याः ॥ ३५॥
नीहारभूधराशिलावलयाभिघातनिर्गच्छदच्छजलशीकरनिर्विशेषैः ।
अम्बावधेहि कनकध्वजमात्रलक्ष्यैरेतां वृतां दिविषदामभितो विमानैः ॥ ३६॥
आस्तामदृष्टमदसीयमिहानुभाव्यं दृष्टं च किं क्वचन दृष्टमथ श्रुतं वा ।
या यादृशीयमथ यासि च यादृशी त्वं ते द्वे युवां परामिह व्यतिसंविदाथे ॥ ३७॥
एतावती जननि! भारतवर्षभूमिरेषैव ते कुलपरम्परयागता भूः ।
स्नानेन पावनजलामपि पावायत्वा भूयोऽप्यमूं प्रतिनिवर्तितुमौचिती वः ॥ ३८॥
इत्यालपन्तमियमाह तमेवमेतन्मन्दाकिनीं प्रति यथात्थ महामते! त्वम् ।
लब्धस्थिरीकरणमात्रभवं यशस्तु सञ्चिन्त्यमानमयशःपरिहार एव ॥ ३९॥
एनां विगाह्य तदशेषतमोपहन्त्रीमेतद्बलेन सुरसिद्धनिषेवितानि ।
वर्षाणि तावदितराण्यपि साधयेयं सेनामिहैव विनिवेश्य भवत्सहाया ॥ ४०॥
त्वत्पादसेवनकृतां त्रिदिवे करस्थे का नाम भूमिवलयाक्रमणेऽपि शङ्का ।
साह्याय किं तव चमूरनुयायिनीयं त्याज्या तु नेति समयोचितमाह सेनाम् ॥ ४१॥
अम्बा तथेति गिरमभ्युपगम्यं तस्य सन्नह्यतामिति च सा पृतनां नियुज्य ।
सस्नौ भवाङ्गपरिरम्भकृतार्थमम्भस्त्रैस्रोतसं किल पुनश्च कृतार्थयन्ती ॥ ४२॥
यद् ब्रह्मणोऽभिभवनं सलिलात्मना प्राग् यश्चाथ शन्तनुभुवां सलिलापवेधः ।
अंहो निरन्वयममृज्यत तत् समस्तं तस्यास्त्रिलोकजननीचरणार्पणेन ॥ ४३॥
सा संवृता नृपसुता परितः सखीभिः स्नानाय गाङ्गसलिले कलितावतारा ।
स्नान्तीभिरत्र सुरपन्नगकन्यकाभिः संयुज्य मज्जनकुतूहलिनी विजह्रे ॥ ४४॥
सख्यो नृपालदुहितुर्विहृतिच्छलेन नेत्रे पिधाय बधिराः फणिराजकन्याः ।
स्मेराननासु परितः सुरसुन्दरीषु स्वैरं किलापजहसुः श्रवणव्यपायात् ॥ ४५॥
संसारासिन्धुतरणिस्तरणिं विनैव सा दूरमप्लवत तत्र समं सखीभिः ।
प्रागार्जितं वितरणित्वकृतं यशो यत् तेनाधुना द्विगुणितं तदभूदमुष्याः ॥ ४६॥
उद्दामनिश्वसितसौरभसारलोभादुन्मज्जनावसरमेव चिरं प्रतीक्ष्य ।
तं देशमप्रजहती भ्रमरावलीव स्नान्त्या बहिर्विरुरुचे कबरी श्लथास्याः ॥ ४७॥
सा नन्दनोपवनचन्दनमङ्गरागमालिम्पती समुपदर्शितमप्सराभिः ।
सस्नौ यदा सुरसरित्सालले तदैव चक्रे सुरद्रुमसमाहरणावसायम् ॥ ४८॥
इत्थं विहृत्य सलिले सुचिरं सखीभिरुन्मज्ज्य नेत्यिकविधेरनु पाण्ड्यकन्या ।
तां सेतुना प्रथमतः सरितं ततार नौकासहस्रनिबिडाकलितेन राज्ञी ॥ ४९॥
अनादपादपि चमूरधिगङ्गमस्या मेने कमप्यतिशयं न तु तावता सा ।
राजीवबान्धवरथे वसतो जनस्य को नाम दीपसमवायकृतः प्रकाशः ॥ ५०॥
आदाय पुष्करमुखैरभितो विकीर्य यावत् किल व्ययितमम्बु सुरस्रवन्त्याः ।
तावत् ततो द्विगुणमप्यभिवर्षति स्म दानोदकैर्द्विपिगणः परितः स्रुतोस्यात् ॥ ५१॥
मातङ्गपुङ्गवतुरङ्गशताङ्गयोधपाणिन्धमे धरणिसेतुपथे चरन्ती ।
नक्तन्दिवैस्त्रिभिरशिश्रयदभ्रसिन्धोः पारं परं निरवशेषमनीकिना सा ॥ ५२॥
सा सन्निपात्य सकलामपि वाहिनीं तामाज्ञां वितीर्य च गिरेरधिरोहणाय ।
आळीजनाकलितसारथिकर्मसुस्थं कर्णीरथं कमपि तु स्वयमारुरोह ॥ ५३॥
तां वाहिनीं सुमहतीमपदिश्य तस्या गङ्गैव तं गिरिवरं पुनरारुरोह ।
प्रस्थानसम्भ्रमवशादनिवेदितं प्राग्वक्तव्यशेषमिव किञ्चन वक्तुमाशे ॥ ५४॥
नीहारशैलशिखरेषु समुत्पतन्तो निम्नोन्नतानि कियदप्यविचारयन्तः ।
जग्मुः शताङ्गयुगसंयमितास्तुरङ्गा देव्याः सुखं नयनरश्मिभिरुद्गृहीताः ॥ ५५॥
प्रस्निग्धकाशकुशकाननमेदुराणि भागीरथीसलिलपातपवित्रितानि ।
स्थानानि संयमवतामतिसुन्दराणि सव्यानि सा विदधती शनकैरयासीत् ॥ ५६॥
रत्नानि तत्र वणिजो भिषजोऽग्रहीपुर्दिव्यापधीर्गजवरानपि राजकीयाः ।
अस्मादृशाः क्षितिसुराः पुनराहरन्त भागीरथीतटरुहाणि कुशाङ्कुराणि ॥ ५७॥
आमुक्तकञ्चुकमधिज्यशरासकाण्डमुन्नद्धकुन्तळनियन्त्रितवन्यपुप्पम् ।
सेनारजोमसृणिताळकसुन्दरं तत् तत्त्वं परं वनचरैरपि तत्र दृष्टम् ॥ ५८॥
दुर्लङ्घतत्पथविलङ्घनकौतुकिन्याः कोलाहलेन महता परितो ध्वजिन्याः ।
यद्यद्विभिद्य पतितं शिखरं हिमाद्रेस्तत्तन्नवेन यशसा समपूरि तस्याः ॥ ५९॥
नासीरसङ्गतभटोद्भटसिंहनादविद्रावितान् गिरिगुहाशयितान् मृगेन्द्रान् ।
वन्यद्विपाः समभिदुद्रुवुरात्मवैरनिर्यातनावसरलाभनितान्तहृष्टाः ॥ ६०॥
माध्वीकमिश्रनववैणवसक्तुभक्तैः कस्तूरिकाहरिणमांसकृतोपदंशैः ।
आतिथ्यमापुरुचितं शबरालयेषु सेनाभटाश्चमरवालाधिवीज्यमानाः ॥ ६१॥
पारीन्द्रनिर्दलितकुञ्जरकुम्भमुक्तमुक्ताफलग्रथितहारकृतोपहाराः ।
स्थानानि तत्र विविधान्युपदर्शयन्तो देवीमसेविषत हैमवताः किराताः ॥ ६२॥
अत्रैव नः कुलपतिं धनुषा जघान मर्त्त्यः स कश्चिदिति वृद्धजना वदन्ति ।
दूरे सुवर्णकदलीवनमेतदम्ब ! जीर्णः कपिर्वसति यत्र चिराय कोऽपि ॥ ६३॥
नाचक्षते न निमिषन्ति न निश्वसन्ति वल्मीकतः प्रसृमरा वपुषा तु मर्त्त्याः ।
सन्ति द्रुमा इह शतं दलपुष्पहीनाश्छित्वा नयाम यदि देवि ! दिदृक्षसे तान् ॥ ६४॥
अस्त्यम्बिकेति ननु गोत्रपितामही नः कोदण्डदण्डकुशला गतभाव्यभिज्ञा ।
कान्त्या गिरा करुणया च भुजोष्मणा च दृग्भ्यां शपेमहि महेश्वरि ! सैव नस्त्वम् ॥
बाहुस्त्वयावममृशे प्रथमं पुरो नस्तद्बाहुसारविजितो भविता पतिस्ते ।
सत्यानि विद्धि शबरीजनभाषितानि जात्वम्ब! चिन्तय न जानपदानिवास्मान् ॥
इत्थं सदारशबरोक्तिकृतस्मितासु राज्ञी सखीषु कृतनर्मवचोविलासा ।
मा जातु खण्डयत मानुषपादपानित्याज्ञाप्य तानति ययौ शनकैर्हिमाद्रिम् ॥ ६७॥
शार्दूलसिंहशरभद्विरदाच्छभल्लवाहद्विषद्वृकवराहपराहतेषु ।
शृङ्गेषु मार्गरहितेष्वपि सा हिमाद्रेः सेना जगाम सुरसिन्धुमनुद्रवन्ती ॥ ६८॥
इत्थं हिमाद्रिशिखरादवतीर्य मन्दं वर्षेऽथ किम्पुरुषनामनि सा विशन्ती ।
नोदन्ययोपससृजे न बुभुक्षया वा नाध्वश्रमेण पृतना न च धर्मतोयैः ॥ ६९॥
अज्ञातमेघजलमश्रुतसस्यभेदमर्थोपसङ्ग्रहणदानकथानभिज्ञम् ।
देशं समीक्ष्य सुमति र्धृतविस्मयोऽपि कामं बभूव स करग्रहणे निराशः ॥ ७०॥
स्वच्छानि भौमसलिलानि सुधाधिकानि सौरभ्यवन्ति च फलानि महीरुहाणाम् ॥
दृष्ट्वैव तृप्तिभरितेषु चमूचरेषु कौतूहलेन जगृहुः कतिचित्तु तानि ॥ ७१॥
सन्त्यद्भुता द्रुमलता मृगपक्षिभेदाः सन्ति स्त्रियोऽपि सुरयौवतनिर्विशेषाः ।
किन्तु क्षितिं विमलसत्त्वमयीं गतास्ता न क्वापि लोभमलभन्त चमूचरास्ते ॥ ७२॥
धन्यान् जटापटलनीडसुखप्रसुप्तनानाविहङ्गकुलनादविनीतखेदान् ।
अध्यात्मयोगनिरताननुगृह्णती सा मन्दं जगाम जननी जगतां त्रयाणाम् ॥ ७३॥
कालाद् बहोर्मुनिकुलेन कथञ्चिदर्न्तीवारशूकवदलक्ष्यत केवलं यत् ।
तद् दृश्यते स्म तरुणारुणकोटिदीप्रं कान्तामयं कलितकार्मुकमात्मतत्त्वम् ॥ ७४॥
उच्चावचैः शमधनाः पृतनाचराणां कोलाहलैः श्रुतिगणैरिव बोध्यमानाः ।
कन्दं फलं सलिलमप्युपजह्रिरे यत् तत् सम्प्रगृह्य बुभुजे स्वयमम्बिका सा ॥ ७५॥
सा तद्यतीत्य समुपत्य च हेमकूटं तेनाध्वना च हरिवर्षमनुप्रपन्ना ।
तस्योत्तरं निषधभूधरमारुरोह प्राक्पश्चिमार्णवतरङ्गकृताभिषेकम् ॥ ७६॥
तस्मिन् गिरौ प्रचलिता पथि पश्चिमे सा मेरुं प्रदक्षिणतया परिवेष्टयन्ती ।
वासं किटेः क्रतुमयस्य हि केतुमालं वर्षं निनाय बलमुच्छ्रितकेतुमालम् ॥ ७७॥
भक्त्या प्रणम्य भगवन्तमभिष्टुता सा विज्ञेन तेन वसुधाभरणश्रमाणाम् ।
तद्दर्शितेन च पथा समवाप नीलं शैलं निजेन यशसा विशदं समन्तात् ॥ ७८॥
सा रम्यकं समतिलङ्घ्य हिरण्मयं च श्वेतं च शृङ्गिणमतीत्य महीधरौ द्वौ ।
प्राप्तोत्तरानथ कुरून् प्रयता ववन्दे पाण्ड्यात्मजा भगवतः प्रथमावतारम् ॥ ७९॥
ये नोदहारिषत वन्दिगणाः स्वकीया जैत्रध्वजो जयति यश्च निजे शताङ्गे ।
तेनादृता तदुपदर्शितमालुलोके सा तत्र वारिनिधिमुत्तरमुत्तरङ्गम् ॥ ८०॥
प्रागेव ये कृतपदा यशसां प्रपञ्चाः स्वोपार्जिताः पितृपितामहसम्भृताश्च ।
स्वं द्रष्टुमप्युपगतानिव तानशेषान् सा तत्र तत्र समवैक्षत फेनकूटान् ॥ ८१॥
पश्चात् समुद्यति रवौ कुरुषूत्तरेषु प्रागेव दक्षिणमिमं विदती पयोधिम् ।
उन्मज्जतात्र तिमिना नलसेतुनेव निस्संशयं व्यवजहार वरूथिनी सा ॥ ८२॥
अभ्युद्यतैस्त्रिभुवनाक्रमणेच्छयेव प्राप्तैः प्रतीरमपि वारिनिधेस्तरङ्गैः ।
लिल्ये समुल्लसदसङ्ख्यतुरङ्गमस्या वीक्ष्य ह्रियेव विपुलं बलमन्तिकस्थम् ॥ ८३॥
अम्भोधरेषु सलिलग्रहणावतीर्णेष्वारात् प्रतिद्विपरुषा चलितान् निहन्तुम् ।
आधोरणा जगृहुरङ्कुशसम्प्रहारैः सेनागजान् धुरि नरेन्द्रकुमारिकायाः ॥ ८४॥
तस्मिन् दिशां विजयकर्मणि धाविता ये ये चाहवेष्वभिमुखं निहताः स्वयोधैः ।
तानर्णवे च तटसीम्नि च तत्र राज्ञो लब्धास्पदान् युगपदक्षत पाण्ड्यकन्या ॥ ८५॥
पर्णाशनैः शमधनैः पनसाम्रजम्बूप्लक्षाशनैरपि च जानपदैर्वृतेषु ।
वर्षेषु तेष्वनधिगत्य करं चरन्ती देवी चकाङ्क्ष जलधेरुपदां ग्रहीतुम् ॥ ८६॥
यावत् परामृशति सा न करेण मौर्वीं यावद् दधाति च निषङ्गमुखे न दृष्टिम् ।
तावत् प्रगृह्य विविधानुपहारभेदांस्तामर्णवः शरणमेत्य वचो बभाषे ॥ ८७॥
मुक्तापगा विशति दक्षिणमम्बुराशिं जम्बूनदी विशति पूर्वमहं तु रिक्तः ।
वेदान् विचेतुमुपशोधितगर्भसारः साक्ष्यत्र मे स भगवान् ननु मत्स्यराजः ॥ ८८॥
त्वबाहुसारविजितैर्जठरं गतैर्मे भूपालकैरवगता ह्यसि भूयसा त्वम् ।
सत्यप्रियासि शरणागतवत्सलासीत्यानीतमेतदियमम्ब ! चिराभिगुप्तम् ॥ ८९॥
मैनाकभूधरचरास्त इमे गजेन्द्रा द्वीपे गभस्तिमति रत्नगणोऽयमासीत् ।
शङ्खा इमे जननि! पश्चिमसिन्धुनीता येषां प्रकाममवमः स हि पाञ्चजन्यः ॥ ९०॥
इक्षूदधेरुपहृताः कमठाश्च मत्स्याः पक्वा इमे गुडरसाः परिशोषिता वा ।
हैयङ्गवीनमकरा इति सम्प्रतीता एते पुनर्जननि! योचितका घृताब्धेः ॥ ९१॥
एषा जरापलितरोगविषादहन्त्री दिव्या सुरोदधिहृता मदिरा सुगन्धिः ।
दध्यर्णवादुपहृतं नवनीतमेतन्नाद्यापि वेद तदिदं नवनीतचोरः ॥ ९२॥
क्षीराब्धिनोपददिरे तुरगा गजाश्च क्षीराशिनः सुविमलानवधारयेमान् ।
एकं तु तच्छकलमैन्दवमास्त दत्तं प्रागेव तद् भगवते प्रमथाधिपाय ॥ ९३॥
सन्ति स्त्रियः कतिचिदत्र सखीरिमास्ते सम्पश्यता न तु मया समुपाहृतास्ताः ।
त्वं कामधेनुरसि कल्पलतासि च त्वं नाहारि तद्द्वितयमम्ब! विडम्बनेति ॥ ९४॥
ताम्रापगासलिलपानसुनिर्वृतानां किं कार्यमस्ति सुधया मधुरोदतो वा ।
मातस्तथाप्युपहृता मणिराशयोऽमी त्वच्छासनश्रमविनोदपदे नतेन ॥ ९५॥
सामुद्रदिव्यमणिजातिषु कौस्तुभश्च चिन्तामणिश्च भुवने विदिते मणी द्वे ।
अन्यादृशी जननि! हारलतेयमेनां वैवाहिकोत्सवविधौ वह मद्विभूत्य ॥ ९६॥
इत्थं निवेद्य निहितानुपहारभेदान् हारं वितीर्य च करे विनतं पुरस्तात् ।
उत्थाप्य सा सुमतिना पतिमापगानामम्बा जगाद वचनैरमृतावसिक्तैः ॥ ९७॥
सख्याः श्रियो मम यतो जनकोऽसि तावत् तद्धर्मतोऽसि जनको मम च त्वमेव ।
दत्तं त्वया हरणमेतदिति ब्रुवाणा सा तं पुपोष नयनाञ्चलचन्द्रिकाभिः ॥ ९८॥
सा तं विसृज्य समुपेत्य च पूर्ववर्षं भद्राश्वमत्र च नदीमतिलङ्घय सीताम् ।
तत्तीरसीमनि तपो विपुलं चरन्तमश्वाननं पुरुषमाद्यमसौ ववन्दे ॥ ९९॥
सा च स्वदर्शनकृतार्थतपःप्रबन्धादश्वाननाद् भगवतो वरमातिथेयात् ।
आसेदुषी विजयमप्रतिघातमग्रे जम्बूनदीप्रभवमापदिलावृतस्थम् ॥ १००॥
यान्युत्तरेषु कुरुषु प्रभवन्ति यानि जम्बूनदीपयसि यानि सुमेरुमूले ।
स्वर्णानि तानि सुमतिः पृथगानिनाय वर्णोत्तराण्यननुभूततया न लोभात् ॥ १०१॥
जम्बूनदीपयसि सर्वसुवर्णभूते सेनाभटा अनवधारितवर्णभेदाः ।
शैवालफेनकमलोत्पलशङ्खभृङ्गहंसान् पृथग् जगृहुराकृतिमात्रभेदात् ॥ १०२॥
पङ्कानि केचिदपरे सिकताः परे तु पद्मोत्पलानि कतिचित् भ्रमरीमरालान् ।
मण्डूककूर्ममकरानितरे तु तत्र हेमाशया जगृहिरे पृतनासु योधाः ॥ १०३॥
प्रतिकरिपरिशङ्कितद्वाहिनीगन्धदन्तावल-
प्रतिहतिशिथिलक्षरज्जम्बुसम्भूतभूरिद्रवा ।
सरिदियमभितोऽपि सम्प्लावयन्ती वनं तीरयो-
रकृत कृतनिवेशमस्मिन् बलं हैममेवाखिलम् ॥ १०४॥
इति महाकविधीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे नवमः सर्गः ।
अथ दशमः सर्गः ।
दिक्पतीनथ विजेतुमुत्सुका देवशैलशिखराग्रवर्तिनः ।
उत्पपात सह सैनिकैर्दिवं स्यन्दनेन महता तटातका ॥ १॥
सज्जसिन्धुरतरङ्गसङ्कुला सा दिवि प्रचलिता पताकिनी ।
आववार सहसामरावतीमप्रतर्कितनिरोधविह्वलाम् ॥ २॥
सत्पथोत्पतनजातकौतुकस्तब्धमुक्ततुरगा शनैः शनैः ।
यावदाप न दिवं तटातका तावदत्र ववृते महान् रणः ॥ ३॥
तद्भटाश्चिरनिरुद्धदोर्मदाः सम्प्रहारविमुखेषु राजमु ।
तं महाहवमुपस्थितं सुरैर्भागधेयफलमित्यमंसत ॥ ४॥
नित्यमुन्मुखचरान् सुरद्विपान् सायकैरिव निपात्य शायितान् ।
कीटपेषमपिषन् ससादिनः पद्भिरेव करिणो मदोद्धताः ॥ ५॥
यत्तदाहवभुवि प्रवर्तितं लोहितं निपतितं क्षमातले ।
अग्रतः सुरगिरेरिलावृते लोहितोदमिति तच्छ्रुतं सरः ॥ ६॥
दिग्जये भुवि हता रणेषु ये द्योचराः समभवन्निरोधिनः ।
ते निपेतुरुपजातमन्यवस्तेजसीव शलभाश्चमूमुखे ॥ ७॥
अभ्युपेयुरधरेद्युरेव यान् सम्प्रसाद्य बहुधा जयाय ये ।
सम्प्रजह्रुरपरेद्युराहवे सैनिकाः सुमनसस्त एव तान् ॥ ८॥
भर्त्सिता दिविचराश्चमूचरैस्त्वङ्कृतेन युधि हुङ्कृतेन च ।
देवमानवदशाविपर्ययं वीक्ष्य वीक्ष्य वितथं निशश्वसुः ॥ ९॥
स्वे बले परबले च ये हतास्तान् द्वयानपि समेत्य देवताम् ।
तत्क्षणात् पुनरुपस्थितान् रणे वीक्ष्य विस्मयमवाप सा चमूः ॥ १०॥
तान् निरीक्ष्य समशीर्षिकान् रणे सैनिकेषु कतिचिन्महारथाः ।
सम्प्रबोध्य मलयध्वजात्मजां सन्निपेतुरनपेक्षितासवः ॥ ११॥
भूसुरस्वमुपभुज्य केवलं ते हि पुष्टवपुषो दिवौकसः ।
तन्मुखे शिथिलतां जगाहिरे सेतवः पयसि सैकता इव ॥ १२॥
यावदस्त्रमभिमन्त्रितं सुरैः सन्निकर्षति न तान् महारथान् ।
तावदेव सह तैः पलायितैस्तत्तदस्त्रमपि धावितं पुरः ॥ १३॥
हन्यमानममृतान्धसां बलं वीक्ष्य केऽपि युधि मानवामराः ।
पूर्वबान्धवदशोपदर्शिनस्तेषु सान्त्ववचनानि चक्रिरे ॥ १४॥
तां पलायनपरामितस्ततो दुर्ग्रहां दिविषदामनीकिनीम् ।
सङ्ग्रहीतुमपटुः शतक्रतुः सम्मुखीनमचलत् स्वयं पुरः ॥ १५॥
तं निरीक्ष्य शतमन्युमग्रतस्तन्मुखे चलितमम्बिकारथम् ।
स्तम्भयन् प्रणतिभिश्च सान्त्वनैः सञ्चचाल सुमतिः स्वयं पुरः ॥ १६॥
तां विहाय शतमन्युतां निजां संश्रितं युधि सहस्रमन्युताम् ।
शक्रमेक्ष्य सुमतौ जयाशिषश्चेतसा प्रयुयुजे तटातका ॥ १७॥
ये शरा नमुचिजम्भभेदिनो ये च वृत्रवलघातिनो हरेः ।
ते किलार्धपथ एव दारिताः सायकैः सुमतिचापनिस्सृतैः ॥ १८॥
आददे जयति मीनलोचनेत्येकमेव मनुमीरयन्नयम् ।
यच्छरानजनि तेन निष्फलं दिव्यमस्त्रमखिलं दिवस्पतेः ॥ १९॥
मार्गणाः कतिपये मरुत्वतस्तस्य नर्मसु पतन्ति वा नवा ।
मर्मसु प्रविविशुस्तदाशुगाः सर्व एव तु मघोनि दृङ्मये ॥ २०॥
अक्षिभिः शरचितैः पुरःस्थितैरक्षतैस्तु चरमाङ्गवर्तिभिः ।
निष्फलैः शतमखे तु निष्क्रिये सन्दधे न सुमतिः शिलीमुखान् ॥ २१॥
तं निरीक्ष्य समयं चमूचराश्चोरहूणयवनादयो भटाः ।
भूषणैर्मणिमयैः समं हरेरायुधं कुलिशमप्यपाहरन् ॥ २२॥
स्थापितो भुवनमातुरग्रतः स प्रसह्य पृतनाग्रचारिभिः ।
लज्जया शररुजा भयेन च स्तम्भवद्वलभिदास्त केवलम् ॥ २३॥
सम्प्रणम्य सुमतिस्तटातकां धारयञ्छिरसि तत्पदं चिरात् ।
लालितो बहुविधाभिरुक्तिभिस्तं च तच्चरणयोर्न्यपातयत् ॥ २४॥
वीक्षितः स करुणार्द्रया दृशा वासवश्चरणयोर्नतस्तया ।
स्वस्थतामुपगतो यथापुरं प्राह तां सुमतिनानुमोदितः ॥ २५॥
पश्य देवि ! पदमेतदामरं पाल्यते स्म मलयध्वजेन यत् ।
अभ्युपेत्य शतशः सहायतामाहवेषु दनुजान् निगृह्णता ॥ २६॥
स्वर्गवीयमयमप्सरोगणः पञ्च देवि! सुरपादपा इमे ।
एष सागरभवो मणिर्महानेष यूथपतिरेष सैन्धवः ॥ २७॥
त्वं गृहाण वितरानुयायितां मां नियोजय यथापुरं तु वा ।
त्वं प्रमाणममरश्रिया समं द्यौरियं तव पदे निवेदिता ॥ २८॥
आगतां नरचमूमतर्कितां तावकीति कथमप्यजानता ।
प्रत्यवस्थितमिव क्षणं हि यत् तत् क्षमस्व शरणागते मयि ॥ २९॥
इत्थमुक्तवति पाकशासने सा जगाद शरणागतप्रिया ।
क्षान्तमेव निखिलं मयाधुना शान्तचेतसि पुरन्दर! त्वयि ॥ ३०॥
स्वीकृतं तदखिलं त्वयार्पितं स्वीकृतं पुनरिदं मया तव ।
एक एव गतशङ्कमिन्द्रतां वर्त्तय त्वमिह वासरे विधेः ॥ ३१॥
सुन्दरेशमभिषेक्तुमर्चितुं स्वर्गवीं सुरतरूंश्च केवलम् ।
मामनु प्रहिणु वासवेति सा तं विसृज्य चलिता ततः `पुरः ॥ ३२॥
आनकध्वनिभिरश्वहेषितैः क्ष्वेलितैर्द्विरदबृंहितैरपि ।
प्रज्वलन्नपि शशाम पावकः पाण्ड्यराजदुहितुर्विनिर्गमे ॥ ३३॥
मा विधेहि सुमतेऽभिषेणनं रुन्धि रुन्धि चलितां पताकिनीम् ।
मामको हि जनको हुताश इत्यादिदेश मलयध्वजात्मजा ॥ ३४॥
यावदित्थमनुशास्ति सा चमू तावदेव तनयादिदृक्षया ।
मङ्गलान्युपहरन्नुपायनान्याजगाम धुरि हव्यवाहनः ॥ ३५॥
सावरुह्य सहसा शताङ्गतः सम्प्रणम्य मुदिता हुताशनम् ।
प्रार्त्थिता मुहुरनेन तानि च प्राभृतानि विविधान्युपाददे ॥ ३६॥
जम्बुसिन्धुतटसम्भवा निशा नीलशैलशिखराहृता मषी ।
अम्बराणि मणयश्च भास्वराः स्वाहया पृथगथोपजह्रिरे ॥ ३७॥
पाणिपीडनमहोत्सवे तव प्रार्थये सपदि साक्षितामिति ।
ईरिते हुतवहेन सस्मिता तं विसृज्य चलति स्म सा पुरः ॥ ३८॥
मा कदापि मधुरापुरीजुषां दृक्पथेषु पततेति बोधिताः ।
नित्यमेव समवर्त्तिना भटास्तां निरीक्ष्य पृतनां प्रदुद्रुवुः ॥ ३९॥
तारिताः सुमतिनाग्रगामिना तत्रतत्र निरयस्थिता जनाः ।
मातुरेष महिमा यदीदृशी भक्तदृष्टिपथपातिनां गतिः ॥ ४०॥
संवृतं मुसलपाशपाणिभिः सर्वतो भटगणैर्गदैरपि ।
पश्यति स्म पथि दूरतः स्थितं प्राञ्जलिं रविसुतं तटातका ॥ ४१॥
सोऽभिगम्य सुमतेरनुज्ञया तां प्रणम्य पदयोः समुत्थितः ।
स्वां गदामुपहरन्नविप्लुतां प्रश्रितो वचनमेतदाददे ॥ ४२॥
भारत क्षितितले भवद्वशे सन्ति दु ष्कृतकृतो न जन्तवः ।
प्राक्स्थिताश्च नरकेषु तारिताः प्राप्त एवमिह विश्रमो मया ॥ ४३॥
निष्क्रियोऽस्मि किमिह स्थितेन मे सञ्चरामि सबलश्चमूमुखे ।
ये भवन्ति परिपन्थिनोऽत्र ते तेषु देवि विनियुङ्क्ष्व मामिति ॥ ४४॥
संयुगेष्वभिमुखा न सन्ति नः सन्ति चेदतिथयो दिवस्तु ते ।
सर्वथैव तव विश्रमोऽर्ह इत्याह तं सुमतिराहितस्मितः ॥ ४५॥
सा निवर्त्य समवर्तिनं ततः सञ्चचाल पुरतः शनैः शनैः ।
आययौ निरृतिराहृतोपदस्तावदेव सबलः सबान्धवः ॥ ४६॥
अद्य पुण्यजनता ममागतेत्यालपन्तमिममानतं पदे ।
सा विसृज्य सलिलाधिपोन्मुखी सञ्चचाल मलयध्वजात्मजा ॥ ४७॥
उल्ललत्तिमितिमिङ्गिलोद्भटं ग्राहकच्छपकुलीरसङ्कुलम् ।
वाहिनी वरुणसैन्यमग्रतः पश्यति स्म सुमतेः पुरस्सरी ॥ ४८॥
शस्त्रजालमपविध्य सर्वतो वागुराश्च बडिशानि च स्वयम् ।
सम्प्रगृह्य मृगयाकुतूहलात् सन्ननाह पृतना चिराय सा ॥ ४९॥
शङ्खविद्रुमसरोजमौक्तिकप्रायमाप्यमुपहारमण्डलम् ।
आहरन् पुनरपां पतिः क्षणादाजगाम शरणं तटातकाम् ॥ ५०॥
वारुणीं पलितरोगहारिणीमद्भुतामगुडपिष्टशीथुजाम् ।
वाजिनश्च हरितानपां पतिः सन्निधाप्य निपपात पादयोः ॥ ५१॥
प्राभृतं तदखिलं प्रचेतसः सा निरीक्ष्य सदयेन चेतसा ।
तं विसृज्य विनतं तटातका गन्धवाहनगरोन्मुखी ययौ ॥ ५२॥
मारुतैर्मलयजेन्दुगन्धिभिर्मन्दमन्दमुपदर्शितात्मभिः ।
स्वर्धुनीसलिलपातशीतलैः सेव्यते स्म चतुरं वरूथिनी ॥ ५३॥
दाक्षिणात्यमनिलं पुरस्सरं ते विधाय मरुतोऽपरे पुनः ।
पारिजातकुसुमोपहारिणस्तां सुमत्यनुमताः सिषेविरे ॥ ५४॥
तान् प्रदर्श्य पवनान् पृथक् पृथग् व्याजहार सचिवो नृपात्मजाम् ।
एष जानपद एव देवि नो मारुतो मलयशैलमाश्रितः ॥ ५५॥
पश्य चक्रपवनानिमान् पुरः सन्ततोर्ध्वगतिवाददेशिकान् ।
आरसातलममीभिरुद्भ्रमत्यर्णवस्तिमितिमिङ्गिलाकुलः ॥ ५६॥
आहरन्ति तरुवन्महागिरीनर्णवान् पृषतवत् किरन्ति च ।
आविरिञ्चिभवनादनर्गलान् पश्य तान् प्रलयमारुतानितः ॥ ५७॥
पश्चिमान् द्रुमलताप्रभञ्जनानौत्तरान् घनतुपारवर्षिणः ।
प्राग्भवान् प्रियकचातकप्रियान् यानवैषि त इमे समीरणाः ॥ ५८॥
भूतले कबलयन्ति पन्नगा व्योम्नि भारवहने नियुञ्जते ।
तावके तु विषये तटातके! सञ्चरन्ति सुखिनः समीरणाः ॥ ५९॥
दर्शिताः सुमतिनत्थमादृताः प्रेषिताश्च सदयं तयानिलाः ।
स्वस्वचेष्टितकृतः कुतूहलात् स्वां पुरीं प्रति ययुस्तदग्रतः ॥ ६०॥
प्रस्थिता धनपतेर्जिगीषया पाण्ड्यराजतनया ततः शनैः ।
प्राक् ततोऽपि स पथि व्यवस्थितः प्राभृतैः कनकरत्नराशिभिः ॥ ६१॥
तं निपत्य पदयोः समुत्थितं यक्षकिम्पुरुषराक्षसेश्वरम् ।
अन्वकम्पत दृशा दयार्द्रया प्रश्रयेण कथयन्तमन्तिके ॥ ६२॥
अम्ब कश्चिदलमेव मे जये नैगमेषु मधुरानिवासिषु ।
भक्त इत्युपनतं प्रतीच्छ मां पश्य किञ्चिदिदमाहृतं पुरः ॥ ६३॥
शङ्खपद्ममकरादयस्त्वमी मातरष्ट निधयो मयाहृताः ।
उत्तमस्तु स वरस्त्वयाग्रतो लभ्यते चल पदानि कानिचित् ॥ ६४॥
इत्युदीरितगिरं विसृज्य तं प्रस्थिता प्रमथनाथसन्निधिम् ।
तावतीमविगणय्य वाहिनीं सन्ननाह समराय सा स्वयम् ॥ ६५॥
चन्द्रशेखरपुरीसमीपतः सा निविश्य सकला पताकिनी ।
सिंहनादमतनिष्ट बृंहितं बृंहितानकनिनादहेषितैः ॥ ६६॥
नादमेनमवकर्ण्य चुक्रुधे नन्दिना पुरभिदा तु प्रिप्रिये ।
नापरोऽस्ति चतुगे महेश्वरान्नादतत्त्वमवबुध्य नन्दितुम् ॥ ६७॥
संवृतः प्रमथसेनया स्वया सन्निकर्षमुपसृत्य शूलिनः ।
व्याहरन्नरचमूसमागमात् प्रज्वलन्निव शिलादनन्दनः ॥ ६८॥
गर्भदासकुलदासतां गता ये हि पाण्ड्यविषये नृपास्त्वयि ।
तेषु वेत्सि कुलशेखरं नृपं तत्सुतं च मलयध्वजं ततः ॥ ६९॥
तस्य नाम दुहिता तटातका किञ्चिदुच्चलितशैशवा सती ।
सन्निपात्य तृणपूलवच्चमूं मानुषीमित इतोऽभिवर्तते ॥ ७०॥
सा मनुष्यवशगेषु केषुचित् तादृशेषु विबुधाधमेष्वपि ।
सम्प्रदर्शितपराक्रमा सती मन्यते न हि महेश! मामपि ॥ ७१॥
तां प्रधाव्य धरणीतलं ततस्तत्पदानुपदिकान् सुराधमान् ।
तापसांश्च कतिचित् तदाश्रयान् दण्डयेयमिति दण्डवन्नतः ॥ ७२॥
तं जगाद गिरिशः कृतस्मितः सा पुनः श्रुतिपथं गतैव नः ।
अप्रमत्तमभिषेणयन्निमा स्वस्तिमान् पुनरुपेहि भामिति ॥ ७३॥
तां गिरं तमपि च स्मिताङ्कुरं सोऽविचिन्त्य किमपि स्मरद्विषः ।
निर्जगाम समराग्रही बहिः सप्तभिर्गणचमूपकोटिभिः ॥ ७४॥
तत्र सप्तनयनास्त्रिनासिकाः षण्मुग्खा द्विजठरा दशाङ्घ्रयः ।
षष्टिसप्ततभुजा ज्वलत्कचा मुण्डिता धृतशिखाः कपर्दिनः ॥ ७५॥
वीतबाहुचरणा विमस्तकाः कुक्षिलग्नवदना शिरोङ्घ्रयः ।
विष्फुलिङ्गनयना विषोद्गिरा लम्बमानरसनोष्ठनासिकाः ॥ ७६॥
श्वेतपीतहरितासितारुणाः शृङ्गिणः सगरुतः सचञ्चवः ।
व्याघ्रदन्तिहयवायसाङ्घ्रयः पादपाचलशिलानखायुधाः ॥ ७७॥
ऋक्षवानरतरक्षुपन्नगद्वीपिसिंहशरभद्विपाननाः ।
निर्ययुर्युगपदट्टहासिनः सङ्घशो युधि गणा मदोल्बणाः ॥ ७८॥
(चक्कलकम्)
धावदश्वमवधूर्णितद्विपं नष्टयोधमवसन्नसैनिकम् ।
सम्प्रमुग्धसचिवं क्षणादभूत् तादृशं तदपि मानवं बलम् ॥ ७९॥
ते पदातिकुलमूरुवेगतः फूत्कृतेन गजवाजिमण्डलम् ।
स्यन्दनांश्च करतालमारुतैर्व्यक्षिपन् रणमुखाद्विदूरतः ॥ ८०॥
क्षुद्रदीपमिव चण्डमारुतः शुष्कगुल्ममिव दावपावकः ।
ध्वान्तवृन्दमिव भास्करोदयस्तद्बलं नरबलं व्यनीनशत् ॥ ८१॥
युद्धदर्शनकुतूहलागताः सिद्धचारणसुपर्वपन्नगाः ।
अप्सरश्चरमभागवर्त्मना दुद्रुवुः प्रमथयूथदृक्पथात् ॥ ८२॥
तां प्रधाव्य पृतनां गणैः समं सम्प्रसर्पति शिलादनन्दने ।
अग्रतो व्यचलदात्तकार्मुकः सम्प्रहृष्टवदनः सखीजनः ॥ ८३॥
बद्धकक्ष्यमपिनद्धकञ्चुक कुञ्चितभ्रुकुटि कोमलाननम् ।
मुग्धभीषणमलक्षि तद्बलं मूर्तमादिमरसद्वयं यथा ॥ ८४॥
स्वोचितप्रतिबलानवेक्षणस्रस्तयुद्धकुतुका शनैरिव ।
आददे धनुरधिज्यमम्बिका सा निरीक्षितसखीजनोद्यमा ॥ ८५॥
तत्र शक्तिपृतनाधनुश्च्युताः सायकाः कनकपुङ्खशोभिनः ।
सर्वतः प्रमथमण्डलेऽपतञ्छर्वरे दिनमणेरिवांशवः ॥ ८६॥
तां पुरैव विकृतां वरूथिनीं स्वाशुगैर्विकृतिमापितां पराम् ।
वीक्ष्य वीक्ष्य समरे विजह्रिरे ता निरीक्षितपरस्पराननाः ॥ ८७॥
संस्तशूलमपविद्धतोमरं ध्वस्तमुद्गरमपास्तकार्मुकम् ।
नन्दिनं शरणमीयुराहवे ताडिता गणवरास्तदाशुगैः ॥ ८८॥
धावतो गणवरान्निवारयस्तर्जयन्युधि च तत्सखीजनान् ।
सन्ददर्श धुरि तां रथे स्थितां स द्वितीय इव शङ्करो गणः ॥ ८९॥
निर्दयं प्रविविधुः सखीजना मन्दमन्दमिषुभिस्तमम्बिका ।
मातृहस्तगलिता हि मार्गणाः कस्य मर्मणि निवेष्टुमीशते ॥ ९०॥
स्वामिनीति जननीति चावशान्निस्सरत्सु वचनेषु चासकृत् ।
पाणिना स युयुधे क्षणं बलादञ्जलिं प्रतिमुहुश्चिकीर्षता ॥ ९१॥
पाण्ड्यराजदुहितुः करच्युता नाशुगास्तमसुभिर्व्ययोजयन् ।
तत्त्वतो हि कुसुमानि सायकानैक्षवं च धनुराहुरागमाः ॥ ९२॥
सर्ववित् स हि शिलादनन्दनः सन्निवृत्य झटिति स्वयं रणात् ।
स्वामिने तदखिलं व्यजिज्ञपत् पादयोः प्रणिपतन् मुहुर्मुहुः ॥ ९३॥
सन्धिरेव भवतस्तयोचितः सङ्गरो न तु महेश! जात्वपि ।
एहि याम इतिवादिनं तु तं सोऽवलम्ब्य निरगात् कृतस्मितः ॥ ९४॥
पाण्ड्यराजदुहितुर्हि दक्षिणः प्रास्फुरत् समरकर्मणे भुजः ॥
वीक्षिते तु वृषभध्वजे विभोरस्फुरत् स्वयमदक्षिणो भुजः ॥ ९५॥
आदिमं रसमिवात्तविग्रहं त्यक्तरौक्ष्यमिव तेजसां निधिम् ।
सा ददर्श शरदिन्दुसुन्दरं पुङ्गवे पुरहरं सनन्दिनम् ॥ ९६॥
स्रंसते स्म सशरं धनुः करात् तत्त्वरे तमुपगूहितुं मनः ।
उन्ममज्ज पुलकोऽभितस्तदा निर्ममज हृदयेऽधिकः कुचः ॥ ९७॥
यं प्रहर्तुमवलम्बितं धनुस्तं निरीक्ष्य समरे तदुज्झितम् ।
तत्कटाक्षशरणः समाददे साभिमान इव मीनकेतनः ॥ ९८॥
तद्विलोकविवशीकृते हरे बाणपातचकिते च नन्दिनि ।
रन्ध्रमेतदुपलभ्य दर्पकः स्वां रुषं सफलयाम्बभूव सः ॥ ९९॥
युध्यते कथमियं कुमारिका युध्यते कथमसौ हरस्त्विति ।
द्रष्टुमिच्छति जगत्रये स्मरम्तावुभौ शरगणैरिवाकिरत् ॥ १००॥
यां विदन्ननपराध्यमाशुगं प्रागजीयत कृतश्रमः स्मरः ।
अद्य लब्धमनया महद्यशः काल एव विजयस्य कारणम् ॥ १०१॥
तस्तम्भिरे च मुमुहुश्च चकम्पिरे च
यत् त्रासिता युधि तया प्रमथाः समस्ताः ।
सद्यो दशा परिणता ननु सैव तस्यां
कस्यापि जीर्यति न शैवजनापचारः ॥ १०२॥
मारस्य चार इव वीक्ष्य हरं पुरस्ता-
दन्तर्यदा प्रविशति स्म कुचस्तृतीयः ।
सम्बोधितः सुमतिना सविधं तदैव
तस्या जगाम तरुणस्तरुणेन्दुमौलिः ॥ १०३॥
ददृशे किल पुष्पवर्षमेकं प्रकटं मूर्ध्नि तयोस्तदा प्रवृत्तम् ।
हृदयस्थपरस्परा धिगम्यं ववृते चान्तरमाङ्गजं तदन्यत् ॥ १०४॥
उन्नमय्य मुखमानतमस्याः पाणिनेदमवदत् प्रमथेशः ।
पश्य देवि! किमपत्रपसे त्वं यत् त्वया युधि वयं विजिताः स्मः ॥ १०५॥
घटितमखिलं ज्ञातो भावो न किञ्चन शेषितं
तदपि भवतीं वाचा याचामि काञ्चनमालिकाम् ।
इति निगदति स्मेरे शम्भौ रसोत्तरमुत्तरं
चतुरमवदत् सद्यो बाला तथा क्रियतामिति ॥ १०६॥
चातुर्यं तदवेत्य वाक्यसरणौ चन्द्रार्धचूडामणि-
र्बाले! तत् क्रियते तथैव भवती सद्यः परावर्त्तताम् ।
आसन्ने विधुवार एव मधुरामेतास्मि सज्जीभवे-
त्याभाष्य स्मितमन्थरं स्वयमसावन्तर्दधे तामपि ॥ १०७॥
सद्यः करग्रहफला तव जैत्रयात्रेत्युक्तं न विस्मर वचः कलशीभुवेति ।
सा बोधिता सुमतिना सविलज्जमन्तः स्मित्वा तदैव मधुराभिमुखी प्रतस्थे ।
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे दशमः सर्गः ।
अथैकादशः सर्गः ।
अथोत्थितां तामनुगृह्णती चमूं सुखप्रसुप्तप्रतिबोधितामिव ।
विहाय सा भूमिपथं सखीवृता विहायसा प्रास्थित पुष्पकाश्रिता ॥ १॥
ददर्श वल्मीकवदुन्नतान् गिरीन् महान्त्यरण्यान्यपि शाङ्कलानिव ।
सुरापगाद्याः सरितोऽपि तन्तुवद् विदूरभावादवनौ नृपात्मजा ॥ २॥
पुरोपशल्योपवनेऽवतीर्य सा शुभ मुहूर्ते सुमतिप्रवेदिते ।
विवेश राज्ञो भवनं परिष्कृतं गजेन दुग्धार्णवजन्मना शनैः ॥ ३॥
प्रविश्य गेहं सदसि क्षणं स्थिता विसृज्य पौराननुयायिनोऽपि च ।
सखीसमेता सुमतौ पुरस्सरे जगाम मातुः सदनं तटातका ॥ ४॥
अभिद्रवन्तीं द्रुतमासनान्निजात् प्रमोदबाष्पस्थगितेक्षणामियम् ।
ननाम नाम स्वमुदीर्य पादयोर्विकीर्णपुष्पा विनयेन मातरम् ॥ ५॥
सुतां विनम्रां परिरभ्य निर्भरं शिरस्युपाघ्राय चुचुम्ब चानने ।
पुनश्च माता परिषस्वजे चिरं पुनश्च जघ्रौ सुचिरं शिरस्पदे ॥ ६॥
नियन्त्रितानन्दतरङ्गसम्प्लवां निरुद्धहर्षाश्रुलवां कथञ्चन ।
समेत्य सख्यः सुमतिश्च पादयोर्मुहुः प्रणेमुर्महिषीं महीपतेः ॥ ७॥
इयं नदीभर्त्तुरियं सुधान्धसामियं नृपाणामुपदेति मन्त्रिणा ।
निवेद्यमानेऽपि सुतामुखार्पितां न दृष्टिमावर्त्तयितुं शशाक सा ॥ ८॥
इयान् जयस्ते सुमतेः प्रभावतः सखीभिराभिः सुखमस्मि पोषिता ।
इमान् समालोकय देवि! तावदित्यबोधयन्मातरमम्बिका स्वयम् ॥ ९॥
तथेति सा मन्त्रिनिवेदितां पृथग् ददर्श दिव्यामुपदां च पार्थिवीम् ।
सुरद्रुमान् स्वर्गगवीं च पूजितान् प्रणम्य जग्राह नृपालभामिनी ॥ १०॥
वरः सुराणां जगतां च यो वरो वरः स एव स्वयमम्बयार्जितः ।
किमेभिरद्येत्यवदन्महत्प्रियं समेत्य सख्यः सुमतिश्च तां प्रति ॥ ११॥
किमेतदित्यप्रतिपत्तिमन्थरां विशिष्य देवीं सुमतिर्विबोधयन् ।
स संविधित्सुः सकलं तदाज्ञया बहिः प्रतस्थे बहुधा तयादृतः ॥ १२॥
उपस्थितेशानविवाहमङ्गलामुदीक्ष्य पुत्रीं मुमुदे न सा तथा ।
यथा व्यषीदत् तनयोत्सवप्रियं पतिं स्मरन्ती मलयध्वजं नृपम् ॥ १३॥
परीत्य हेमाम्बररत्नभूषणैः प्रवर्तितारात्रिकमङ्गला स्वयम् ।
चकार रक्षां जननी तनूभुवः सितेन फाले भसितेन शूलिनः ॥ १४॥
अथोपकार्या विविधाः सुधान्धसां धराभुजां तत्र तपस्विनामपि ।
समस्तवस्तूपचिताः समन्ततश्चकार सज्जाः सुमतिः क्षणादिव ॥ १५॥
सुगन्धिगन्धद्रवलिप्तभित्तिकं सुवर्णरम्भाधटितं गृहे गृहे ।
नियन्त्रितच्छत्रमुदञ्चितध्वजं पुरं स्वतः पौरजनैरलङ्कृतम् ॥ १६॥
विनिर्गतः सुन्दरनाथलिङ्गतो महेश्वरो मानुषमास्थितो वपुः ।
पुरोपशल्येऽवततार संवृतो गणैः सुरैर्मातृगणैश्च सर्वतः ॥ १७॥
स पाण्ड्यदेवीप्रहितेन मन्त्रिणा निवेदितासन्नमुहूर्तमङ्गलः ।
प्रभुर्विवाहोचितवेषसुन्दरः प्रवेष्टुकामो मधुरां विनिर्ययौ ॥ १८॥
किरीटकोटीघटितोऽस्य पाटलो मणिर्बभौ वासुकिनोपदीकृतः ।
निकृत्य बालं विधुमुच्चकैस्ततः परिस्फुरन् बाल इव त्विषां पतिः ॥ १९॥
विजित्य मारं जगदेकधन्विनं यदाप कीर्तिं महतीं महेशितुः ।
तदक्षि तस्मिन्नधुना विजृम्भिते ममज मन्दाक्षवशादिव स्वयम् ॥ २०॥
प्रसक्तमङ्कं विमले कथञ्चन प्रमार्ष्टुमीष्टे न शिवोऽपि सर्वथा ।
मृगेण हीनोऽप्यलिकेऽस्य यत् क्वचित् बभौ मुखेन्दुर्मृगनाभिलाञ्छितः ॥ २१॥
कपोलसौन्दर्यममुष्य पश्यतः कटाक्षरेखाः पतिता जनस्य याः ।
नवोद्गतश्मश्रुनिभादिहैव ता निषेदुरत्यादरकीलिता इव ॥ २२॥
विशुद्धमुक्ताफलकुण्डलाङ्कितं विकीर्णमन्दस्मितसुन्दराधरम् ।
विशालनेत्रं वदनं निरीक्षितुं तदस्य सैवार्हति मीनलोचना ॥ २३॥
विशुद्धहेमत्विषि विश्वमङ्गले वपुष्यमुष्याद्भुतकुङ्कुमाङ्किते ।
अलक्षि सूक्ष्मो विशदश्च कञ्चुकोऽवतंसितेन्दोरिव चन्द्रिकाङ्कुरः ॥ २४॥
मुहूर्तपर्यन्तविलम्बनाक्षमाविजृम्भमाणस्मरसञ्ज्वरार्जितः ।
विनीलिमेव व्यरुचद् भुजान्तरे तनुस्तदीये मृगनाभिचर्चिका ॥ २५॥
पृथग्विधाभिर्मणिहारयष्टिभिः परिष्कृतं तद्वपुरैन्दुशेखरम् ।
अलक्ष्यताखण्डलचापमण्डितः पयोधरः सान्ध्यरुचेव पाटलः ॥ २६॥
मणीमयैरङ्गदकङ्कणादिभिर्भरं न मेने मृदुलोऽपि तद्भुजः ।
महीधराणां महतां फणाभृतां विरोपणासादितलाघवोत्सवः ॥ २७॥
दिगम्बरः काञ्चनमम्बरं हरः कथं बभारेति न विस्मयाय नः ।
तनुत्विषा तस्य दिशो दशापि यत् प्रतप्तकार्त्तस्वरभास्वरीकृताः ॥ २८॥
किमस्य मञ्जीरपदे कृतालयाः परीत्य मुक्ताश्चरणं सिषेविरे ।
महोत्सवं द्रष्टुमिमं महेश! नः सकृत् पुनः संसरणं भवत्विति ॥ २९॥
वपुश्चिदानन्दमयं यदद्भुतं तदावृतं तावदविद्ययाद्यया ।
इदं ततस्सुन्दरमित्थमावृतं मणित्विषेति व्यषदन्महर्षयः ॥ ३०॥
विभूषितस्यास्य पुरः पुरन्दरो विशालमेकं मुकुरं समाददे ।
न तत्समश्चेति गिरं पुरातनीमपाकरिष्यन्निव बिम्बलम्भनात् ॥ ३१॥
स नन्दिना सङ्घटितं पदाब्जयोः पुनन् पुरारिर्मणिपादुकायुगम् ।
करौ कृतार्थौ कमलाक्षवेधसोः सलीलमालम्ब्य शनैर्बहिर्ययौ ॥ ३२॥
मदालसाभिक्रमणाक्षिमीलनैः करार्पणाकुञ्चितकर्णचापलैः ।
गजाननात् तत्क्षणशिक्षितैर्दृढं स पुङ्गवः कुञ्जरपुङ्गवोऽभवत् ॥ ३३॥
उदञ्चिताकुञ्चिततत्पुरःपदक्षणार्पिताङ्घ्रिः श्रवणावलम्बनः ।
सलीलमुन्नम्य स पूर्वपर्वतं पतिस्त्विषां बाल रुरोह तम् ॥ ३४॥
निगृह्यमाणौ करिणौ मुहुर्मुहुः पुनर्नयन्तौ सममाज्ञया विभोः ।
कृतानुलापौ विधिकेशवौ तदा प्रचेलतुस्तस्य तु पार्श्वयोर्द्वयोः ३५॥
क्वचिन्महाकालमुखान् गणेश्वरान् क्वचिच्च देवासुरसिद्धचारणान् ।
नियन्त्रयन् दूरत एव पार्श्वयोश्चचाल नन्दी पुरतः सवासवः ॥ ३६॥
स्मृतीतिहासैर्निगमास्तमेकतः शिवागमास्तन्त्रगणैस्ततोऽन्यतः ।
ववन्दिरे वन्दिदशामुपाश्रिता विमिश्रिता योगिभिरात्मदर्शिभिः ॥ ३७॥
पुरः पुरः पाण्ड्यनृपालवाहिनी ततोऽनु देवाः प्रमथास्ततोऽनु च ।
ततोऽनु भेरीजयकाहलादयस्ततोऽनु चेलुर्विविधा जयध्वजाः ॥ ३८॥
शचीमुखैर्निर्जरकामिनीजनैः समावृते मातृगणैश्च सर्वतः ।
महार्हकर्णीरथमध्यगे रमावचोऽधिदेव्यौ तमनु प्रचेलतुः ॥ ३९॥
श्रियं नृपाणामवरोधसुभ्रुवो द्विजातिपत्न्यो दयितां हविर्भुजः ।
गिरं गृहिण्यो विदुषां च सादरं विशिष्य भक्त्यावनता ववन्दिरे ॥ ४०॥
समुद्धृतं मूर्धनि तस्य पाण्डरं प्रकाशते स्मातपवारणं महत् ।
शिरस्थितं स्वं शिशुमस्य वीक्षितुं समागतः पूर्ण इव क्षपाकरः ॥ ४१॥
सितातपत्रान्तरसम्मितं विभोः शिरस्पदं वीक्षितुमुन्मना मनाक् ।
विधातृहंसः परितः पतन्निव व्यलोकि धूतं दिवि चामरद्वयम् ॥ ४२॥
अयं स राज्ञीपतिरेति पश्यतेत्यनुद्रवज्जानपदोक्तिभनिभिः ।
कृताभ्यसूयेषु गणेषु सस्मितौ हरिर्विरिञ्चश्व तमन्वपश्यताम् ॥ ४३॥
पराक्रमं स्वं प्रकटीचिकीर्षता समाहृतं शम्बरवैरिणा शिवे ।
बलं निजं मौलमिवाङ्गनाजनस्तमीक्षितुं सन्निपपात सर्वतः ॥ ४४॥
तमेकवक्रं द्विभुजं द्विनेत्रमप्यमानुषं भावमिवास्थितं त्विषा ।
निरीक्षमाणा निभृतैर्विलोचनैः परस्परामित्थमवादिषुः स्त्रियः ॥ ४५॥
अहो मुखाम्भोजमहो युगं दृशोरहो भुजद्वन्द्वमहो भुजान्तरम् ।
अहो महत्कौशलमस्य वीक्षितेष्वहो विचित्रा मदवारणे स्थितिः ॥ ४६॥
जिता त्वया यत् पृथिवी न तज्जितं जिताश्च यद्देवि! सुरा न तज्जितम् ।
अनेन यूना यदनन्यनिर्जितं जितं वधूजन्म तदूर्जितं जितम् ॥ ४७॥
अमुं समालोक्य युगेन सा दृशोरमुं समाश्लिष्य भुजद्वयेन वा ।
कथं पुनर्निर्वृणुयात् तटातकाप्यपूर्णकामाः सकला वयं ततः ॥ ४८॥
हृतं मनोऽनेन हृते विलोचने सहैव नीताः सखि! पञ्च चासवः ।
इदं वपुर्नः परमत्र पातितं गतत्रपो विध्यति तच मन्मथः ॥ ४९॥
त्वदीक्षणायोपगतास्त्वदाश्रिता हिनस्ति नस्त्वय्यपि पश्यति स्मरः ।
इतीरयामो वयमस्य सन्निधौ प्रभुः किलायं नगरस्य चास्य नः ॥ ५०॥
मयाम्बुजाक्षः सविशेषमीक्षितो मयाद्य दृष्टः सविधे चतुर्मुखः ।
अमुं युवानं प्रथमं विलोकयन्त्यहं तु मुग्धा न कमप्यवोदिषम् ॥ ५१॥
मयास्य दृष्टे विपुलायते दृशौ मयास्य मन्दस्मितमीक्षितं शुचि ।
अहं द्वयं प्रैक्षिषि साधु साध्वियं पशुर्हि नः पुच्छविषाणवर्जितः ॥ ५२॥
अनङ्गसर्वस्वमनन्यवीक्षितं न्यधायि यत् पाण्ड्यकुमारिकावशे ।
तदप्यवस्कन्तुमुपागतः स्वयं युवा किलायं चतुरो जितस्मरः ॥ ५३॥
इति प्रवृत्ताः प्रतिवीथि सङ्कथा मृगीदृशामाकलयन् कृतस्मितः ।
विकीर्यमाणः पथि लाजमौक्तिकैः पुराङ्गनाभिः पुरशासनो ययौ ॥ ५४॥
स राजगेहं समया मतङ्गजं नियन्त्रयन्नादिशति स्म नन्दिनम् ।
श्रियं च वाणीमपि राजमन्दिरं प्रवेशय प्रागमरीगणैरिति ॥ ५५॥
ततः शिलादात्मजवेत्रताडितद्रवन्नभोभूचरसंसदा पथा ।
समं समस्तामरसुन्दरीजनैर्जगज्जनन्यौ ययतुर्नृपालयम् ॥ ५६॥
पुरस्कृते स्वोचितया सपर्यया पुरोधसा कुम्भभवेन ते उभे ।
अभिद्रुता काञ्चनमालिका जवाद् विकीर्णपुष्पा पदयोरवन्दत ॥ ५७॥
पृथक् पृथक् सा परिरभ्य लालिता शचीरमावाग्जननीभिरादरात् ।
श्रिये सरोजं शुकमुज्ज्वलं गिरे मणिं च शच्यै विनयादुपाहरत् ॥ ५८॥
उपेहि मातामहि ! कुत्र सा वधूः प्रदर्शयास्मज्जननीमितीरिता ।
निनाय ताः काञ्चनमालिका शनैस्तमालयं यत्र तटातकास्थितिः ॥ ५९॥
विसृज्य भद्रासनमात्तपादुकां समायतीं प्रश्रयगन्धिभिः पदैः ।
वधूं विवाहोचितवेषकोमळां निरीक्ष्य तस्थुर्निभृताः सुरस्त्रियः ॥ ६०॥
अलक्ष्यतास्या मणिपादुकाञ्चले समन्ततो मौक्तिकपङ्क्तिरुज्ज्वला ।
अदूरलग्ना चरणारविन्दयोरनुश्रवाणामिव वर्णपद्धतिः ॥ ६१॥
अतीत्य लाक्षारसमाहितं नवं माणप्रभां पादुकयोश्च तावतीम् ।
अकृत्रिमः पाटलिमा पदाब्जयोरलक्ष्यतास्या विसरन् बहिः स्फुटम् ॥ ६२॥
प्रबोधयन्ती श्रियमक्षिसंज्ञया सरस्वती तच्चरणाम्बुजद्वयम् ।
क्षणं निदध्यौ विकचेक्षणा ततश्चिरं तु दध्यौ मुकुळीकृतेक्षणा ॥ ६३॥
समापतन्त्याः सविलासमाबभौ मनोहरोऽस्या मणिमेखलारवः ।
विजित्य शम्भुं मदनेन गर्जता प्रवर्तितोच्चैरिव वीरघोषणा ॥ ६४॥
प्रतिक्षणोन्मेषिपयोधरोन्नतिप्रतिस्फुटत्कञ्चुकसन्धिपूरणः ।
उरोजनिश्शेषसमावृते बभावुरस्यमुष्या मणिहारकोरकः ॥ ६५॥
परस्परस्पर्ध्यपि तत् कुचद्वयं विजेतुकामं किल मेरुमन्दरौ ।
तथा समेतं समये मिथः स्वयं यथोपलभ्येत न किञ्चिदन्तरम् ॥ ६६॥
कृपाणचापग्रहकन्दुकाहतिप्रपन्नकोटीरतटार्पणादिभिः ।
करो न काठिन्यमवाप हेतुभिर्वदान्यतावासनयेव सुभ्रवः ॥ ६७॥
त्रिलोकजेतुर्जयलाञ्छनेन सा त्रिभङ्गिसङ्घट्टितमौक्तिकात्मना ।
करारविन्दं कटकेन बालिका विभूषयामास मनोभवाज्ञया ॥ ६८॥
उपासितुं सा पतिमुत्पलप्रियं करे च कर्णे च निवेशितोत्पला ।
बभार भूयो नयनोत्पले ततः स्वयं बभूवोत्पलदामकोमला ॥ ६९॥
अलक्षि ताटङ्कयुगान्तरार्पितो विनिर्मितो मौक्तिकरत्नमण्डलः ।
स्वयंवरायोपगतस्त्यजन् विधुं तदाननेन्दोरिव तारकागणः ॥ ७०॥
अलक्ष्यतासन्नकरग्रहोत्सवप्रमोदजोऽस्या विशदः स्मिताङ्कुरः ।
विसृत्य नासामणिचन्द्रिका बहिर्विभूषयन्तीव रदच्छदान्तरम् ॥ ७१॥
प्रचीयमानं मुखरामणीयकप्रवाहमित्थं वयसा नवं नवम् ।
अवेक्ष्य मीनाविव जातवल्गनावशोभिषातां चपले तदीक्षणे ॥ ७२॥
विधुं चतुर्धा प्रविभज्य तन्मुखे त्रिभिः कपोलौ निटिलं च कल्पयन् ।
तुरीयमंशं विनियोगवर्जितं न्यवेदयत् स्वामिनि शङ्करे विधिः ॥ ७३॥
विशेषयामास यदर्धचन्द्रतो ललाटमस्या मृगनाभिरेखिका ।
विशेषकत्वं वहति स्म तेन सा ततोऽन्यतस्तत्पदमौपचारिकम् ॥ ७४॥
रराज तद्वेणिलतावलम्बिनी प्रसूनपङ्क्तिश्चरमाङ्कसीमनि ।
प्रहर्त्तुमीशं समये मनोभुवा निवेशिता गूढमिवेषुसंहतिः ॥ ७५॥
हरस्य शृङ्गाररसाधिदेवतामवेक्ष्य तां मन्थरमायतीं पुरः ।
अलज्जत श्रीर्जगदादिसुन्दरी ललज्जिरे लज्जितुमप्सरोगणाः ॥ ७६॥
पदैरिमां प्राकृतवस्तुसंहतिप्रसक्तसङ्केतमलीमसीकृतैः ।
अवर्णयन्ती विववार भारता स्ववैदुषीं मौनत एव केवलम् ॥ ७७॥
शची तदीयाद्भुतरूपदर्शने सहस्रमक्ष्णां स्वयमिच्छती सती ।
सकृत्प्रवृत्त्यापि चकाङ्क्ष गौतमे बलादहल्याकृतशापमात्मनः ॥ ७८॥
ततः शनैर्भूषणगौरवेण सा सखीजनालम्बितहारमण्डला ।
ननाम वाणीकमले नता स्वयं सुराङ्गनाभिः परिषस्वजे शचीम् ॥ ७९॥
अयं प्रणामो ननु लाभ एव नो विवाहदीक्षावभृथे तु देवि! ते ।
न हि प्रणामावसरं लभेवहीत्यवोचतां तां परिरभ्य ते दृढम् ॥ ८०॥
अथावतीर्य द्विरदादलङ्कृतादनुद्रुतः पारिषदैः सुरैरपि ।
विरिञ्चवैकुण्ठकरावलम्बनो विवेश राज्ञो भवनं महेश्वरः ॥ ८१॥
तमर्घ्यपाद्याचमनीयपूर्वया सपर्यया कुम्भभवः सभाजयन् ।
प्रवेशयामास वरं महर्षिभिः प्रसन्नया तस्य दृशा कृतार्थितः ॥ ८२॥
स पाण्ड्यशुद्धान्तविलासिनीजनैर्विकीर्यमाणः शुभलाजमुष्टिभिः ।
जटाभिघातोत्पतदभ्रवाहिनीपयःकणाकीर्ण इवाबभौ वरः ॥ ८३॥
प्रविष्टमन्तः प्रतिहारसीमनि प्रतीक्ष्य जामातरमिन्दुशेखरम् ।
प्रचोदिता काञ्चनमालया रमा चकार पाद्यं पयसास्य पादयोः ॥ ८४॥
प्रदीपहस्ता वचसामधीश्वरा प्रदक्षिणीकृत्य शचीसमन्विता ।
प्रवेशयामास शशाङ्कशेखरं पुरस्सरन्ती दिविषत्पुरन्ध्रिभिः ॥ ८५॥
स विद्रुमस्तम्भचतुष्कशोभितां विचित्रवैदूर्यविटङ्कलाञ्छिताम् ।
विलम्बिमुक्तामणिदामकोमलां विवेश देवोऽथ विवाहवेदिकाम् ॥ ८६॥
भेरीभाङ्कारसान्द्रं बहिरबहिरपि प्रौढशुद्धान्तकान्ता-
पाणिव्याविद्धतूर्यध्वनिजनितचमत्कारसङ्गीतरम्यम् ।
जामातृश्लाघनोक्तिव्यतिकरितवधूबान्धवोल्लासहासं
जज्ञे राज्ञो गृहं तन्मुनिजनरचितोत्तुङ्गमङ्गल्यपाठम् ॥ ८७॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे एकादशः सर्गः ।
अथ द्वादशः सर्गः ।
अथासने रत्नमये निषण्णमाद्यं युवानं मुनयः पुराणाः ।
आशीर्वचोभिर्विविधैरपुष्णन्ननाहतातोद्यनिनादमिश्रैः ॥ १॥
प्रकीर्य पुष्पाणि मणीमयानि पत्नीं नमन्तीं मलयध्वजस्य ।
श्रिया च वाण्या च निवेद्यमानां श्वश्रूं हरः प्रैक्षत गौरवेण ॥ २॥
अगस्त्यमामन्त्र्य ततो विधातुरादेशतः श्रीश्च सरस्वती च ।
निवेशयामासतुरासनार्धे वधूं ह्रिया नम्रमुखीं वरस्य ॥ ३॥
दाने स्वसुर्दानवमर्दनोऽपि नियुज्यमानः कमलासनेन ।
श्रिया समं काञ्चनमालिकायाः समक्षमारान्निषसाद वध्वाः ॥ ४॥
प्रस्थापितः प्राग् गिरिजाविवाहे यत् कुम्भजन्मा तदृणं विनेतुम् ।
ब्रह्माणमीशस्तु विवाहहोमे वत्रे तमध्वर्युमथाब्जयोनिम् ॥ ५॥
यत्नादपि प्रागनवेक्षितं यत् तच्छाम्भवं पादतलं मुकुन्दः ।
पद्माकरावर्जितपाद्यधौतमानर्च पश्यन्निभृतं प्रसूनैः ॥ ६॥
आरोपयन्नङ्कतलं हरिस्तामाचक्षते स्वं परमं पदं याम् ।
राज्यश्रिया दक्षिणया सहैव ददौ त्रिवेदीकवये वराय ॥ ७॥
दातुर्ग्रहीतुश्च किमस्ति गोत्रं को वा पिता कश्च पितामहो वा ।
अतोऽद्भुतस्तुभ्यमिमां ददामीत्यासीदियानेव तु दानमन्त्रः ॥ ८॥
तत्पूर्वमुत्तानदशागृहीतसङ्केतके पाणितले पुरारेः ।
न्यस्तः करः पाण्ड्यकुमारिकायाः सर्वोत्तरत्वं प्रकटीचकार ॥ ९॥
करो गृहीतः पृथिवीपतिभ्यो दिक्पालकेभ्यश्च यया जयन्त्या ।
तस्यास्त्वयाग्राहि करोऽधुनेति देवी गिरां सस्मितमाह देवम् ॥ १०॥
परस्परस्योपरि मन्मथेन प्रयुक्तमस्त्रं समयं प्रतीक्ष्य ।
सन्दर्शयन्ताविव चक्रतुस्तौ माल्यार्पणव्यत्ययमङ्गलानि ॥ ११॥
गृहन् वरः स्वाञ्जलिना मृगाक्ष्या लाजाञ्जलिं होमविधौ चकाशे ।
माल्यापवेधग्लपनापराधनिर्मार्जनायानुनयन्निवेमाम् ॥ १२॥
अश्मानमारोपयितुं पदान्जमालम्बमाने दयिते मृगाक्ष्याः ।
पादग्रहः प्राथमिकोऽयमस्याः प्रचीयतामित्यवदन्मुकुन्दः ॥ १३॥
कान्तः शरण्यो जगतां त्रयाणां तस्याः करस्थे चरणारविन्दे ।
ऐश्वर्यमुर्व्यादि सदाशिवान्तमव्याहतं तद् बुबुधे करस्थम् ॥ १४॥
आमुक्तमञ्जीरमलक्तकाङ्कमाकुञ्चितं किञ्चिदिव ह्रियान्तः ।
स्विन्नं करे स्विद्यति लग्नमैशे धन्याः पदं तद् ददृशुर्जनन्याः ॥ १५॥
आसीत् तदाविष्कृतहर्षबाष्पमक्षिद्वयं काञ्चनमालिकायाः ।
आ मानुषादा च महेश्वरीयादानन्द साम्राज्य इवाभिषिक्तम् ॥ १६॥
आधीयमानेऽश्मनि तत्पदाब्जे मञ्जीरघोषो मधुरो जजृम्भे ।
सद्यः समास्फालितदोर्द्वयेन मुक्तः स्मरेणेव जयाट्टहासः ॥ १७॥
प्रदक्षिणीकुर्वति हव्यवाहं द्वन्द्वे जगन्मङ्गलधाम्नि तस्मिन् ।
प्रदक्षिणीचक्रुरिव प्रजानां दृशस्तदीयोत्पलदामदम्भात् ॥ १८॥
निवर्त्य वैवाहिकहोमशेषमम्भोजभूः कुम्भभुवोपदिष्टः ।
न्यवेशयद्रत्नमयेऽथ पीठे वामे वधूं दक्षिणतो वरञ्च ॥ १९॥
आसन्नमप्यन्तरलेशशून्यं मिथो न तृप्तिं मिथुनं तदूहे ।
अतृप्तयोरेकशरीरभावेऽप्यासत्तिरेषा कतमा तयोः स्यात् ॥ २०॥
आशीर्भिरानुश्रविकीभिराद्यामाचारपद्यामनुपालयन्तः ।
संवर्धयामासुरिमौ समेता ब्रह्मर्षयो ब्रह्ममुखा हसन्तः ॥ २१॥
स दक्षिणाभिः परितोष्य विप्रान् सम्मान्य देवानुचितोपचारैः ।
विश्रान्तिहेतोरवरोधगेहं विवेश देवोऽथ तटातकायाः ॥ २२॥
धैर्योपदेशादसकृत् सखीभ्यां वाणीरमाभ्यां प्रतिबोधितायाः ।
आलम्बमानः करमम्बिकाया मञ्चे परार्ध्ये निषसाद देवः ॥ २३॥
ताम्राधरोष्ठं तरलायताक्षमास्विन्नमषित्रपयावनम्रम् ।
वक्त्रं शनैरुन्नमयाम्बभूव मार्जन्निव स्वेदलवान् स तस्याः ॥ २४॥
ताम्बूलमासन्नसखीवितीर्णमादाय पर्याकुलितां ह्रिया ताम् ।
आलक्षयन्ती कमला सलीलमाह स्म पत्ये प्रतिपादयति ॥ २५॥
कुतो गृहीता वलयास्त्वयेमे केनोपहारीकृत एष हारः ।
इत्यङ्गमङ्गं पतिराममर्श जिज्ञासयेवाभरणेषु तस्याः ॥ २६॥
आपृच्छ्यमाना दयितेन तत् तदवाङ्मुखी नोत्तरमाचचक्षे ।
निर्बन्धपृष्टा तु कथञ्चिदेषा मन्दस्मितेनोत्तरयाम्बभूव ॥ २७॥
माता तवेयं मलयध्वजस्य किं भोगिनी किं गृहिणीषु काचित् ।
इत्युक्तिभिः कोपयतापि पत्या प्रत्युत्तरं भ्रूकुटिरेव लेभे ॥ २८॥
तदिङ्गितानामयथावबोधात् समाचरन्तीभिरिवान्यदन्यत् ।
सल्लाँपयामास रुषा सखीभिः सङ्केतिताभिः स हसन् नवोढाम् ॥ २९॥
यदाह यत् प्रैक्षत यज्जहास यदास्त जोषं यदपि न्यषेधत् ।
सा तेन तेनैव शरीरलाभसाफल्यमापादयति स्म यूनः ॥ ३०॥
स यावदित्थं समयाचकार नवोढया नर्मपरो महेशः ।
तावज्जना भक्तकराः समेत्य निर्वर्तितं पाकविधि शशंसुः ॥ ३१॥
ते शासनात् तत्र महेश्वरस्य प्राक् ब्राह्मणान् भोजयितुं समेतान् ।
सम्मेलयन्ति स्म समन्ततोऽपि स्वयं तु भक्त्या सुमतिर्महर्षीन् ॥ ३२॥
असेवमानौ नटनं पुरारेरपोऽपि यो जात्वपि नाददाते ।
तौ व्याघ्रपादश्च पतञ्जलिश्च सन्नेहतुर्हेमसभां प्रयातुम् ॥ ३३॥
आकर्ण्य तन्निश्चयमानिनाय तौ योगिनौ सुन्दरपाण्ड्यदेवः ।
आचष्ट चैनावभिगम्य भक्त्या पादे स्पृशन् प्रश्रयपूर्वमित्थम् ॥ ३४॥
सभानटः काञ्चनसंसदीव संसेव्यमानः सुरसिद्धसङ्घैः ।
हालास्यनाथोऽपि करोति नृत्तमस्मिन् सदा रूप्यसभान्तराले ॥ ३५॥
अत्रैव नृतं तरुणेन्दुमौलेरासेव्य माध्याह्निकमद्भुतं तत् ।
आगच्छतं क्षिप्रमनुग्रहीतुं प्राणाग्निहोत्राचरणादिहास्मान् ॥ ३६॥
इतीरितौ पाशुपतौ मुनी तौ तथेति गत्वा कनकाम्बुजिन्याम् ।
निर्वर्त्तयन्तौ नियमाभिषेकमासेदतुर्नृत्तसभां पुरारेः ॥ ३७॥
अन्तर्हितब्रह्मकपालजालमाबद्ध्य दृश्येन्दुकलं कपर्दम् ।
आमुक्तवैयाकरणाङ्गदाङ्घ्रिरवातरत् तत्र तदा नटेशः ॥ ३८॥
मुरं पुरा यः स्वयमाजघान स एव देवो मुरजं तदानीम् ।
ससर्ज यस्तालमसेवनीयं स एव तालं जगृहे तु वेधाः ॥ ३९॥
प्रागेव यः पाण्ड्यसुतोपलम्भान्नाथः स्थितो नर्त्तितुकाम एव ।
भक्तानुकम्पामपदिश्य तस्य नृत्तं तदावर्त्तत निर्विशङ्कम् ॥ ४०॥
आतोद्यगीतानुगपादतालमाविर्भवद्भावरसोत्तरङ्गम् ।
आवर्त्तवेगत्रुटिताङ्गहारमनृत्यदीशो ललिताङ्गहारम् ॥ ४१॥
उदाञ्चितोऽङ्घ्रिश्चिरमुल्ललास नृत्ते स्थितावर्त्तकनाम्नि शम्भोः ।
चित्ते विलीने जतुवन्मुनीनां न्यासादिव स्पन्दयितुं न शक्यः ॥ ४२॥
वृत्तौ चकारेव विलम्बितायां मञ्जीरनादैः प्रणवोपदेशम् ।
तस्यां द्रुतायां स तदूर्ध्वलग्नां तुर्यामुपादिक्षदिवार्धमात्राम् ॥ ४३॥
स्वभावरम्याणि यथा यथासन् स्वाच्छन्द्यतस्तस्य विचेष्टितानि ।
तथा तथा पप्रथिरे जगत्यां शैलूषतन्त्रोपनिषद्प्रभेदाः ॥ ४४॥
तालान्तनृत्तारभटीषु तस्य निर्गच्छतां निश्वसितागमानाम् ।
आदौ महाव्याहृतितामवापुर्भूषाभुजङ्गेश्वरफूत्कृतानि ॥ ४५॥
उद्भिन्नरोमाञ्चमुदश्रुपूरमाश्चर्यसम्मूढमनन्यवृत्ति ।
आलेख्यविन्यस्तमिवास्त विश्वमानन्दनृत्तावसरे पुरारेः ॥ ४६॥
संव्यानसम्मृष्टमुखं भवान्या विनस्तचन्द्रार्धविलोभनीयम् ।
नृत्तान्तरम्यं वपुरिन्दुमौलेर्निध्याय तौ तुष्टुवुतुर्मुनीन्द्रौ ॥ ४७॥
नम्रेषु चित्तान्नवनीतवृत्तेर्नाथ! त्वदीयादपि कोमलौ यौ ।
अस्मत्कृते तौ चरणौ यदित्थमायासितौ तत् प्रथमं क्षमेथाः ॥ ४८॥
त्वयीश ! नृत्ताद्विरतेऽपि चित्तं त्वदास्पदं नौ परमाद्भुतेन ।
नाद्यापि नृत्ताद्विरतिं प्रयाति ततो नं किञ्चित् प्रतिभा भजावः ॥ ४९॥
आवां प्रसादेन कृतार्थितौ ते याचावहे लोकहिताय किञ्चित् ।
नृत्तोत्सवः काञ्चनसंसदीव नित्योऽस्त्वमुष्यामपि संसदीति ॥ ५०॥
तथेति दत्वाभिमतं तयोस्तत् प्रसेदिवान् लोकहितार्थनेन ।
देवोऽनुजग्राह पुनः स्वयं तो दत्वा शिवज्ञानमनन्यलभ्यम् ॥ ५१॥
सेवावसाने पुरशासनम्य समागतान् भृमिसुरान् सुरांश्च ।
हैमेषु पीठेषु वितर्णिपाद्यानम्थापयत् कुम्भभवोऽथ भोक्तुम् ॥ ५२॥
ते भाविताश्चन्दनचर्चिकाभिः कर्पूरकाश्मीरकरम्विताभिः ।
अभ्यर्चिता दक्षिणया च माल्यैरभुञ्जतान्नानि रसोत्तराणि ॥ ५३॥
शाकौदनव्यञ्जनसूपयू षैरसायनक्वाथरसप्रभेदैः ।
भक्ष्यैरसङ्ख्यैर्घृतशर्कराढ्यैः फलैर्विचित्रैरपि तृप्तिमापुः ॥ ५४॥
ते भक्ष्यभोज्यैः खलचूर्णलेह्यानिर्यूहपानीयगणैश्च चित्रैः ।
विस्मापिताः स्वां विधिवञ्चितेति जातिं निनिन्दुः शतशः सुधाशाः ॥ ५५॥
आपृच्छमाना विबुधा मनुष्यानाम्वादभङ्गीमभिधां रसं च ।
अत्यादरादभ्यवजह्रुरिस्थमाश्चर्यमग्ना इव तान् पदार्थान् ॥ ५६॥
आकर्ण्य गर्हाममृताशनत्वे तपःफले तत्र सुरैः प्रयुक्ताम् ।
वाताम्बुपर्णाशनवृत्तयोऽपि वाचंयमाः स्वानि जहुर्व्रतानि ॥ ५७॥
अनेकवक्रोदरपाणिचिह्नानालक्ष्य भृतेशगणानसङ्ख्यान् ।
तद्विक्रियायै स्पृहयाम्बभूवुस्तत्र प्रजाः प्रत्यवसानसक्ताः ॥ ५८॥
इत्यं जगत् तर्पितमिन्दुमौलिर्निशम्य निर्वर्तितनित्यकर्मा ।
वध्वा समं भोजनवेदिकायामुपाविशन्मङ्गलतूर्यधोषैः ॥ ५९॥
वाणीविरिञ्चौ कमलामुकुन्दौ शचीमहेन्द्रौ च निषेदुरग्रे ।
हेरम्बषाण्मातुरनन्दिनस्तु पार्थे निदेशेन शशाङ्कमौलेः ॥ ६०॥
अथान्नपूर्णापरिविष्यमाणमन्नं शुचि स्वादु बहुप्रकारम् ।
आमोदयन् नर्मभिरन्तिकस्थानभुङ्क्त वध्वा सह चन्द्रचूडः ॥ ६१॥
स भुक्तशेषं कवलं प्रियायै समन्त्रमेकं प्रथमं ददौ यत् ।
हेतुस्तदासीदिव भाविनीनां तद्भुक्तशेषग्रहसन्ततीनाम् ॥ ६२॥
पक्वं फलं मान्मथमेतदद्य जामातुरेवार्हमिति ब्रुवाणम् ।
सत्यं प्रसादेन तु माधवस्य तल्लब्धमित्याह हसन् स शौरिम् ॥ ६३॥
पत्युः प्रियं बिम्बफलं विनैव फलान्यसङ्ख्यानि मुधाहृतानि ।
अतः पिपासा विरतास्य नेति वाणी वधूमाक्षिपति स्म राज्ञीम् ॥ ६४॥
भोज्यानि यानि त्रिदिवेऽद्भुतानि तान्याददानः स्वयमीषदीषत् ।
सासूययोरात्मजयोमहेशः शैलादये तत्र दैयाम्बभूव ॥ ६५॥
भुक्तोत्थितो नमकथाभिरित्थं विसृज्य विश्रान्तिकृते वयस्यान् ।
सज्जीकृतं प्राप तटातकायाः शय्यागृहं सुन्दरपाण्ड्यदेवः ॥ ६६॥
ततो जनाः पाकगृहे नियुक्तास्तत्रान्नराशीन् शतशोऽवशिष्टान् ।
आवेदयामासुरनुक्रमेण देव्याः पुरः काञ्चनमालिकायाः ॥ ६७॥
कोट्यस्त्रयस्त्रिंशदिति प्रतीता सङ्ख्या त्वियं काचन देवतानाम् ।
सङ्ख्या गणानामपि मानवानां सङ्ख्यायते भुक्तवतां न कैश्चित् ॥ ६८॥
शाकेषु सूपेषु फलेष्वपूपेष्वन्नेषु माध्वीगुडशर्करासु ।
शिष्टानि शक्ता प्रवक्तुं शाधि त्वमेषामुपयोगयोगम् ॥ ६९॥
इतीरितं काञ्चनमालिका तच्चेटीभिरासूचयदात्मजायाः ।
सा च प्रियं किं क्रियतामिहेति मन्दाक्षमन्दाक्षरमन्वयुङ्क्त ॥ ७०॥
तामाह देवस्त्वमसीह राज्ञी दवी त्रयाणामपि विष्टपानाम् ।
तत्तावकीमन्नसमृद्धिमेतां भोक्तुं जनाः के मम सम्भवेयुः ॥ ७१॥
कुण्डोदरो नाम गणोऽयमेकस्तथापि शिष्टः परिचर्यया मे ।
भोक्तुं न यस्यावसरः पुराभूत् तं भोजय स्वोदरपूरमेनम् ॥ ७२॥
इत्यादिशन्नन्नसमृद्धिगर्वमपाचिकीर्षुः स नृपालपन्त्याः ।
देवो गणस्य त्रिजगच्छरीरवैश्वानरात्मा जठरं विवेश ॥ ७३॥
पौरोगवास्तत्र तया नियुक्ताः प्रवेश्य तं भोजनमण्डपान्तः ।
विस्तार्य पत्राणि विशङ्कटानि भक्ष्याणि भोज्यानि ततोऽभ्यवर्षन् ॥ ७४॥
प्राणाहुतेः पर्युपयुक्तमन्नमप्यत्र दृष्ट्योपलभे न यावत् ।
तावत् कथं भोक्तुमुपक्रमेयेत्यूचे स भुङ्क्ष्वेति वदत्सु रोषात् ॥ ७९॥
सा पाण्ड्यदेवी सुमतिश्च तत्र समेत्य विस्मेरविलोचनान्तौ ।
आपूपिकैरान्धसिकैश्च भूयोऽप्यदापयेतां मुहुरन्नराशीन् ॥ ७६॥
पात्राधिकं प्रेक्ष्य स भक्तराशिं व्यामिश्रितं व्यञ्जनशाकभेदैः ।
प्राणाहुतिं प्राथमिकीं कथञ्चिन्निर्वर्त्त्य तस्थौ निभृतं क्षुधार्त्तः ॥ ७७॥
सम्भ्रम्य दास्योऽथ नृपालपत्न्याः सम्भूय सम्भूय यथोपलब्धम् ।
भक्ष्याणि भोज्यान्यदुरक्रमेण पक्वान्यपक्वान्यपि धावमानाः ॥ ७८॥
प्राणाहुतीः पञ्च ततः कथञ्चित् प्रसाध्य खिन्नः क्षुधया महत्या ।
स तावतीनां परिवेषिणीनां न चक्षमे तत्र गणो विलम्बम् ॥ ७९॥
अथान्नकूटैरभितोऽप्यसङ्ख्यैरपूपशैलैश्च निरन्तरालम् ।
महानसं स स्वयमाविवेश महाह्रदं मत्त इव द्विपेन्द्रः ॥ ८०॥
तत्रान्नकूटान् सह भक्ष्यवर्गैरालोडयन् दृष्टिपथं प्रविष्टान् ।
षष्ट्या नवत्या च शतेन चैषां स एकमेकं कबलं चकार ॥ ८१॥
अन्नोच्चयानास्तरणैः सहैव दुग्धानि भाण्डैर्दृतिभिर्घृतानि ।
स्वीकुर्वतोऽस्माच्चकिताः समन्तात् प्रदुद्रुवुः पाकगृहे नियुक्ताः ॥ ८२॥
सुरद्रुमाः स्वर्गगवी च तत्र सम्प्रार्थ्यमाना नरपालपत्न्या ।
यान् यानसङ्ख्यानसृजन पदार्थास्ते तेऽभवन्नस्य किलोपदंशाः ॥ ८३॥
गोधूममाषाढकमुद्गशालिश्यामाकनीवारतिलादिमानि ।
धान्यानि चान्यानि स चर्वति स्म कुड्यैः कुसूलैमणिकैश्च कुम्भैः ॥ ८४॥
सम्भ्रान्तचेटीशतघुष्यमाणतच्चेष्टिताकर्णनजातलज्जाम् ।
अभिद्रवन्तीं स्वयमेव देवीमपाङ्गयन् सस्मितमास्त देवः ॥ ८५॥
अथ क्षणादक्षयमन्नगर्तं ससर्ज तस्मै शफरेक्षणा यम् ।
तमप्यसौ स्थण्डिलमात्रशेषं चक्रे महद्भिः कवलैश्चतुर्भिः ॥ ८६॥
अपूर्णमन्नैरुदरं ममेदमापूरयिष्ये सलिलेन वेति ।
कुण्डोदरे याचति पाण्ड्यकन्या सस्मार गङ्गां तरलोर्मिसङ्घाम् ॥ ८७॥
अथासिन्धुर्मलयाद्रिशृङ्गादाविर्भवन्ती विपुलैस्तरङ्गैः ।
आप्लावयन्तीव भुवं समस्तामभ्यर्णमागान्मधुरानगर्याः ॥ ८८॥
स पाणिना वक्रनिवेशितेन तथा पपौ तामपि दिव्यसिन्धुम् ।
कौतूहलात् प्रेरयतस्तमासीद् गङ्गाधरस्यापि यथानुतापः ॥ ८९॥
स्वीकुर्वतस्तां सिकतावशेषां सृक्कद्वयीमालिहतश्च भूयः ।
सा तस्य तां ग्लानिमवेक्षमाणा गौरी सलज्जा गिरिशं बभाषे ॥ ९०॥
अजानती यद् भवतः प्रभावमन्नोच्चयोच्छेषमवादिषं प्राक् ।
तन्मर्षयन् मानद! तर्पमेनं कुण्डोदरस्यास्य निवारयेति ॥ ९१॥
व्याजेन केनापि गिरं त्वदीयां शुश्रूषमाणो यदकार्षमित्थम् ।
तत् संहृतं देवि! तव प्रभावादश्रान्तपूरास्तु वियन्नदीयम् ॥ ९२॥
वेगागता वेगवतीति नाम्ना ख्याता नदीयं भविता भुवीति ।
प्रसादयन् पाण्ड्यसुतां मृदूक्त्या रेमे तया सुन्दरपाण्ड्यदेवः ॥ ९३॥
अथापरेद्युस्त्रिदशैः समस्तैरगस्त्यमुख्यैः परमर्षिभिश्च ।
पाण्ड्याधिराज्ये कलिताभिषेकः शशास पृथ्वीं स तया महिष्या ॥ ९४॥
इत्थं स पाण्ड्यतनयाचरणावलम्बसौभाग्यसम्पदुपपन्नसमस्तराज्यः ।
देवान् विसृज्य निखिलानुचितोपचारैर्देवः ससागरवनां बुभुजे धरित्रीम् ॥ ९५॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलालार्णव द्वादशः सर्गः ।
अथ त्रयोदशः सर्गः ।
सम्प्राप्येत्थं पाण्ड्यराज्याभिषेकं साधं देव्या सुन्दरः पाण्ड्यदेवः ।
आसीमाद्रेर्निहृतारातिशल्यां पृथ्वीं रेमे बिभ्रदेकातपत्राम् ॥ १॥
साब्धिद्वीपा साटवीदुर्गशैला सर्वाप्युर्वी यत्तुलाकोटिमूर्ध्नि ।
लग्ना दृष्टा रत्नवद् बाहुना तां तस्येदानीं बिभ्रतः कः प्रयासः ॥ २॥
या भूयोभिः पाण्डरैरातपत्रैः सञ्छन्ना भूराप सन्तापमन्तः ।
सैवाहृष्यच्छाद्यमाना तदानीमेकच्छत्रच्छायया तस्य राज्ञः ॥ ३॥
नायष्टारो नाकृतब्रह्माविद्या नादातारो नाप्यधर्मे प्रसक्ताः ।
विप्राः किन्तु त्यक्तपाण्डित्ययोगाः स्थातुं बाल्ये तस्य राष्ट्रे चकाङ्क्षुः ॥ ४॥
चातुर्वर्ण्यं चातुराश्रम्यरम्यं चातुर्वैद्यं तच्चतुर्वर्गयोगम् ।
दृष्ट्वा तेन स्थापितं निर्विशङ्कं तस्थौ धर्मस्तत्र पादैश्चतुर्भिः ॥ ५॥
गावो धान्यं भूषणान्यम्बराणि स्वर्णं रूप्यं यानि चैवंविधानि ।
स्वामिन्यादौ विप्रलब्धे तदीयं सर्वं जज्ञे विप्रलब्धं तदानीम् ॥ ६॥
कैलासाद्रिं शासतः कल्पकोटीः पूर्णः कोशो यस्य भिक्षाकपालैः ।
प्राप्तेनेत्थं पाण्ड्यराज्याधिपत्यं लब्धा सद्यस्तेन लक्ष्मीरपारा ॥ ७॥
शैवाः शाक्ता वैष्णवाः साङ्ख्यनिष्ठा योगाचार्या ब्रह्मविद्याविदोऽपि ।
गत्वा गत्वा तं यथैकं प्रपन्नास्तद्वत् तास्ताः कीर्तयोऽपि त्रिलोक्याम् ॥ ८॥
येऽस्मिन्नम्रास्तेजसा तं प्रपन्ना ये तु द्विष्टास्ते हताः सङ्गरेषु ।
भित्त्वा भानोर्बिम्बमूर्ध्वं पतन्तः पर्यावृत्य प्रापुरन्ते तमेव ॥ ९॥
वक्राम्भोजान्निस्सृतं वाक्यमानं पश्यन् देवो वेदवादायमानम् ।
सङ्ख्याधिक्याद्वेदशाखासु भीतः स्तोकस्तोकं व्याजहाराप्रमत्तः ॥ १०॥
सीमन्यम्भोविप्लवे सेतुबन्धे गोसञ्चारे सार्थसम्मेलने वा ।
या मीनाक्ष्या स्थापिता प्राक् प्रजानां तां मर्यादां स प्रमाणीचकार ॥ ११॥
कोशान् पञ्चैवाहुरन्नादिरूपान् यस्याशेषं शासतोऽमुं प्रपञ्चम् ।
सङ्ख्यातीता हेमरत्नादिरूपास्तस्येदानीं तेऽभवन् पाण्ड्यभर्त्तुः ॥ १२॥
पाण्ड्याध्यक्षः पाण्ड्यजामातृदेवः प्रेयान् राज्ञ्याः पालको द्रामिडानाम् ।
इत्याख्याभिः प्रीतिरस्याधिकासीदात्मब्रह्मज्योतिरादिश्रुतिभ्यः ॥ १३॥
या मीनाक्ष्यास्तावती राज्य शक्तिः सा सङ्क्रान्ता तत्र भूयश्चकाशे ।
प्राप्तोत्कर्षा सानुनि स्फाटिकाद्रेः पत्युर्भासां भास्वरेवांशुरेखा ॥ १४॥
स्वे स्वे धर्मे स्थापिताः सर्व एव क्ष्मापालत्वं बिभ्रता तेन लोकाः ।
कालस्त्वेकश्च्यावितः स्वाधिकाराद् धर्मैकान्त्यं तन्वता मानवेषु ॥ १५॥
इत्थं राज्यं बिभ्रता तेन राज्ञा देवी जातु स्फारचिन्तानिमग्ना ।
भूयो भूयो हेतुमत्रानुयुक्ता प्राह स्मेदं प्राणनाथं मृगाक्षी ॥ १६॥
सञ्चिन्वाना तावकीनात् प्रसादाद् धर्मं तं तं नाथ! माता मदीया ।
जातौत्सुक्या तीर्थयात्राविधाने स्नातुं सिन्धौ श्वः प्रतिष्ठासते सा ॥ १७॥
इत्याकर्ण्य प्रेयसीखेदमूलं तत्रानेष्यन् सागरान् सप्त देवः ।
सस्माराग्रे सद्य एवास्य तेऽपि प्रादुर्भूता मूर्तिमन्तः प्रणेमुः ॥ १८॥
प्राचि स्थाने सोमसौन्दर्यनेतुः प्रागेवास्ते कश्चिदेकस्तटाकः ।
सर्वे तस्मिन् सन्निधत्तेति देवो नामादेशं सागरानादिदेश ॥ १९॥
पश्यन्तीनामग्रतस्ते प्रजानां त्यक्त्वा रूपं पौरुषं सिन्धुराजाः ।
दृश्यन्ते स्म व्याम्नि दूरे तरङ्गैराजिघ्रन्तो दिक्तटानुत्तरङ्गैः ॥ २०॥
स्वं स्वं रूपं सङ्क्षिपन्तोऽपि ते ते कासारान्तस्सम्भवाह समुद्राः ।
आलक्ष्यन्त स्पष्टमत्यद्भुताभिर्वल्गन्तीभिः पङ्क्तिभिर्वीचिकानाम् ॥ २१॥
आक्रामद्भिर्योमकक्ष्यामकाण्डे स्रोतोभिस्तैः स्वीकृताः सागराणाम् ।
जग्मुर्मेधास्तत्र शैवालभावं विद्युल्लेखा विद्रुमत्वं च तेषाम् ॥ २२॥
आसप्तर्षिस्थानमाक्रान्तिहेतोः संवर्तेषु द्यामिव द्रष्टुकामैः ।
आरूढे व्योम्न्यर्णवैरभ्रसिन्धोः सव्यं चक्षुः शश्वदस्पन्दतोच्चैः ॥ २३॥
भागीरथ्या जातु लेभेऽभिषेकं पर्याप्तं यः प्राग्युगे व्योमकेशः ।
द्रव्यैस्तैस्तैर्दुग्धदध्याज्यमुख्यैर्द्वैतीयीकः सोऽस्य जज्ञेऽभिषेकः ॥ २४॥
पश्यत्यग्रे पाण्ड्यदेवे ततस्ते पारावाराः पल्वले तत्र पेतुः ।
पार्श्वस्थास्नोरृत्विजः कुम्भयोनेः प्रायस्तालुन्यार्द्रतामावहन्तः ॥ २५॥
क्षीरं सर्पिर्वारुणीमिक्षुसारं दध्यप्यभ्रे दुर्लभं पातुकामाः ।
विष्वग् देवाः सम्पतन्तो विमानैः स्रोतस्येषां कीटमज्जं ममज्जुः ॥ २६॥
क्षारं वारि क्षीरमुख्यानि वस्तून्येकं सर्वाण्येकदैवाजधान ।
मौढ्यं ह्येकं हन्ति राशिं गुणानां शौर्यौदार्यस्थैर्यगाम्भीर्यमुख्यम् ॥ २७॥
शब्दस्पर्शौ रूपगन्धौ रसश्च प्राप्तास्तीर्थे चित्रतां तत्र सद्यः ।
आस्तामेतन्मज्जतामत्र नॄणां स्वर्गेऽप्यासीच्चित्रता यद्विचित्रा ॥ २८॥
सर्वे गन्धा यत्र सर्वे रसाश्च प्रादुर्भूतास्तीर्थराजे हि तस्मिन् ।
स्नानाल्लभ्ये तादृशि ब्रह्मभावे न्यायज्ञानां नागमाः पर्युपास्याः ॥ २९॥
नीरक्षीरे द्वे विवेक्तुं प्रगल्भा हंसास्तस्मिन् सर्वसङ्घातरूपे ।
भमोत्साहा मत्स्यमण्डूककूर्मैः प्राप्ताः साम्यं न प्रचेलुर्विलज्जाः ॥ ३०॥
पत्या सार्धं योपितोऽधिक्रियन्ते तीर्थे स्नातुं पुत्रवत्योऽथवेति ।
श्रुत्वा शास्त्रं चिन्तया दूयमानां श्वश्रूमन्तस्तत्र शुश्राव देवः ॥ ३१॥
आवर्तार्हं स्थानमुल्लङ्घ्य सर्वं सम्प्राप्तस्तच्छाश्वतं धाम शम्भोः ।
प्रत्यानेयो वल्लभोऽस्याः कथं वेत्यन्तश्चिन्तामाप देवस्ततोऽपि ॥ ३२॥
पत्युश्छायां पाण्ड्यदेव्याः स कामप्यानीयाग्रे दर्शयन् प्रेयसी स्वाम् ।
तद्वृत्तान्तस्मेरदृष्ट्यानया तां वृत्तान्तं तं वेदयामास देवः ॥ ३३॥
सा संहृष्टा तां निशम्य प्रवृत्तिं पश्यन्ती च प्राणनाथं विमाने ।
आलिङ्गन्ती निभरं मीननेत्रां भूयो भूयो मूर्ध्नि चैनामजिघ्रत् ॥ ३४॥
त्वन्मातृत्वात् सिद्धमेवापवर्गं मन्वानाहं तेन हृष्टा न तावत् ।
यावत् तातं वीक्षमाणा तवेति स्तावंस्तावं सा बभाष कुमारीम् ॥ ३५॥
लब्ध्वा योगं लज्जमाना विमानादाप्लुत्यारादागतेन प्रियेण ।
दत्तानुज्ञा देवपाण्ड्येन देवी सस्नौ तीर्थे सप्तरत्नाकरे सा ॥ ३६॥
दीनं रूपं प्रेयसा विप्रयोगाद् देव्याः स्नान्त्यास्तत्र दृष्टं जनैर्यत् ।
उन्मजन्त्यास्तत् ततः पर्यणंसीच्चन्द्रापीडं चारुहासं त्रिणेत्रम् ॥ ३७॥
सा गच्छन्ती शाश्वतं धाम शम्भोः सार्धं पत्या सर्वसौभाग्यधाम ।
क्लेशं कन्याविप्रयोगप्रसक्तं किञ्चिञ्चिते धारयन्तीदमूचे ॥ ३८॥
अद्य ज्ञातं ब्रह्म पूर्णं युवामित्यद्योत्सन्नः पाशवर्गोऽखिलो मे ।
दूयेऽथापि त्वर्धविच्छिन्नमासीत् त्वत्सौभाग्यालोकभाग्यं किलेति ॥ ३९॥
शुश्रूषस्व प्रेयसः पादपद्मं क्षान्त्या धृत्या प्रेमवत्या च भक्त्या ।
लब्ध्वा पुत्रं राज्यभारेऽभिषिच्य द्रष्टास्मि त्वां स्वं पदं प्रत्युपेताम् ॥ ४०॥
इत्यादिश्य प्रस्थितायां जनन्यां सर्वोत्तीर्णं शाङ्करं धाम दिव्यम् ।
आनन्दोत्थैः शोकजैश्चाश्रुपूरैर्वक्रं देव्या दूषितं भूषितं च ॥ ४१॥
ताभिस्ताभिस्तत्प्रसङ्गोचिताभिर्मार्जन् वाग्भिर्मानसं क्लेशमस्याः ।
वारिक्रीडां वारिजाक्ष्यानयासावानन्दाब्धावाचचार प्रवीरः ॥ ४२॥
दीनान् दानैर्देवता यज्ञभागैरार्त्तानार्तिच्छेदनैस्तत्तदर्हैः ।
जिज्ञासूनप्यात्मविज्ञानदानैर्देवो रक्षन् पालयामास पृथ्वीम् ॥ ४३॥
अन्तर्वत्नीं जातु कालेन पत्नीं दर्शं दर्शं पिप्रिये देवपाण्ड्यः ।
केकीवाम्भस्सम्भृतां मेघमालां माध्वीगर्भां पद्मिनीमप्यळीव ॥ ४४॥
यत् कातर्यं यौवनेनाक्ष्णि दत्तं यच्चानीतं दौहृदेनाथ तस्याः ।
प्रागल्भ्याय प्राभवत् सर्वमेतत् तत्सम्भूतेरद्भुतं मीनकेतोः ॥ ४५॥
पुष्टान्यङ्गान्यापुरस्याः कृशत्वं नित्यं कार्श्यं निर्जहौ मध्यदेशः ।
पर्यायेण ह्रासवृद्ध्योः प्रवृत्तिस्तत्राप्यासीदीदृशः कालभेदः ॥ ४६॥
अन्योन्येन स्पर्धमानावुरोजावास्तामस्या यौवनोपक्रमं यौ
स्पर्धां मुख्यामद्य तावन्वभूतां सङ्घर्षेणान्योन्यमासादितेन ॥ ४७॥
शक्तिः ख्याता यावती या च तस्याः सर्वाप्येषालम्भि गर्भेण नूनम् ।
नो चेदित्थं स्यात् कथङ्कारमस्याः स्नातुं पातुं स्पन्दितुं चाप्यशक्तिः ॥ ४८॥
केन्द्रे चन्द्रे देशिके चामराणामृक्षे रौद्र रौद्रवृत्तिः परेषु ।
प्रादुर्भूतः पाण्ड्यवंशस्य भूत्यै तस्या गर्भात् तारकारिः कुमारः ॥ ४९॥
आनेष्यन्ते यानि तेनात्मजेन स्वर्णान्यग्रे मेरुमूलादमीषाम् ।
चक्रे देवः कोशगेहेऽवकाशं भूदेवानां भूरिदानच्छलेन ॥ ५०॥
राज्ञां पश्यन् राज्यतन्त्रस्थितानां बालो दोषान् बाहुमुख्यप्रयुक्तान् ।
साब्धिद्वीपां पालयिष्यन् धरित्रीं चक्रे देवः षण्मुखोऽप्यैकमुख्यम् ॥ ५१॥
उग्रस्यर्क्षे जातमुग्रं प्रकृत्याप्युद्गन्तारं तेजसा च श्रिया च ।
जानन् बालं शासनात् कुम्भयानेश्चक्रे नाम्नाप्युग्र इत्येव देवः ॥ ५२॥
मीमांसाङ्गन्यायधर्मेतिहासैः सार्धं वेदाः स्वम्वशाखासमेताः ।
प्राप्ते काले प्रत्यभुः पाण्ड्यसूनोद्वारं कृत्वा देशिकस्योपदेशम् ॥ ५३॥
दैतेयारिर्येन खड्गे विनीतश्चापे शिष्यो जामदग्न्यो यदीयः ।
साक्षादासीन्मेरुधन्वा स देवः शस्त्रास्त्राणां शासिता तस्य यूनः ॥ ५४॥
कन्या ख्याता कान्तिमत्याख्ययासीद् भास्वर्सेश्या सोमचूडम्य राज्ञः ।
पित्रा दत्तां तामुपानीय देवः पाणौ तेन ग्राहयामास यूना ॥ ५५॥
शक्तिर्दण्डश्चक्रमित्यायुधानि त्रीणि प्रौढज्वालमालाकुलानि ।
दत्वा तस्मै देवदेवोऽभ्यषिञ्चत् प्रह्वीभूतं पाण्ड्यराज्ये कुमारम् ॥ ५६॥
प्रागासीद्यो देवसेनापतिः स प्रापदानीं पाण्ड्यसेनापतित्वम् ।
दैतेयः प्राक् तारको निर्जितोऽद्य त्वज्ञानाब्धेस्तारकस्तात एव ५७॥
पृथ्वीं सर्वामर्पयित्वा कुमारे पृथ्वीं कीर्तिं केवलं गृह्णतः स्वाम् ।
सार्धं देव्या वत्सराणां सहस्राण्येवं षष्टिः षट् च तम्य व्यतीयुः ॥ ५८॥
इत्थं पाल्या भूमिरित्थं विजेया दृप्ता इत्थं वर्तितव्यं त्वयेति ।
आदिश्योग्रं दम्पती मूललिङ्गे मीनाक्ष्यां च प्रापतुस्तौ प्रवेशम् ॥ ५९॥
तौ मीनाक्षीसुन्दरेशात्मनाथच्छन्नौ किञ्चित् प्रत्यहं सेवमानः ।
चक्रे राज्यं नामयन् राजवंश्यानुग्रम्पश्यैः शासनैरुग्रपाण्ड्यः ॥ ६०॥
ईजे शम्भुं यच्छतेनाश्वमेधैर्यच्चाभुङ्क्त स्वर्गभागान् स भूमौ ।
तेनासूयां तत्र शक्रो बबन्ध प्रायेणायं पामराणां स्वभावः ॥ ६१॥
आक्रम्याम्भस्सम्प्लवै राजधानीमुन्मर्यादैरुग्रपाण्ड्यम्य राज्ञः ।
राष्ट्रं चास्य स्वीकुरुष्वेति शक्रो नेदीयांसं दक्षिणाब्धिं न्ययुक्त ॥ ६२॥
अर्धे रात्रेरप्रसक्ते कथञ्चिद् वर्षे वाते दुर्दिने वा क्षणेन ।
सन्नह्यद्भिः सर्वतो वीचिसङ्घैः पारावारः स्वात् पदादुच्चचाल ॥ ६३॥
एकैकोर्मिस्पन्दमात्रादपि क्ष्मां क्रोशं क्रोशद्वन्द्वमप्यावृणानः ।
भीमैर्घोषैर्भीषयन्नम्बुराशिर्ग्रामं ग्रामं मज्जयन् निर्जगाम ॥ ६४॥
उच्चैरुच्चैरुत्पतन्तः पतन्तो घ्नन्तो जन्तून् गण्डशैलान् क्षिपन्तः ।
आवृण्वानाः सैकतैरद्रिकूटानभ्यक्रामन्नूर्मयो वारिराशेः ॥ ६५॥
वल्गन्तोऽग्रे दुर्ग्रहा वीचिकानां जातोत्साहा जन्तवः सागरीयाः ।
व्यादायास्यं व्याघ्रसिंहद्विपादीन् वन्यान् सत्त्वान् लीलयैवाग्रहीषुः ॥ ६६॥
इत्थं पुर्या योजने योजनार्धे यावत् सिन्धुर्नाजिहीते निशीथे ।
तावत् स्वप्ने बोवितस्तां प्रवृत्तिं सूक्त्या शम्भोर्जागरामास देवः ॥ ६७॥
आरुह्य द्रागभ्रमातङ्गकल्पं क्रुद्धो देवः कुञ्जरं किञ्चिदुच्चैः ।
पाणौ कुर्वन् शक्तिमीशेन दत्तां पाण्ड्यः पारावारमभ्युज्जगाम ॥ ६८॥
शैलेनेवोत्सर्पता कज्जलानां व्योम्नेवाधो धावता सन्निपत्य ।
सोऽभूत् तेन स्रोतसा वारिराशेर्हृष्टो देवः सद्य एवाथ रुष्टः ॥ ६९॥
नायं कालः कौतुकं कर्त्तुमस्मिन् नश्यत्स्वेवं प्राणिपूच्चावचेषु ।
इत्यालोच्य प्रज्वलन् प्रज्वलन्तीं पाण्ड्यः शक्तिं पातयामास सिन्धौ ॥ ७०॥
शीत्कुर्वाणा सा विशन्ती समुद्रे सर्वं पाथः सम्भ्रमत्कूर्मनक्रम् ।
उच्छासेनैकेन यान्ती पिबन्ती जह्रे भूमेः प्राक्तनं चार्द्रभावम् ॥ ७१॥
मर्यादाब्धेर्मा विलोपीति शक्तिं प्रत्याहृत्य प्रज्वलन्तीं स।भूयः ।
तत्संसिद्धां तावतीमप्यदत्त क्षोणीं देवः सुन्दरेशाय सद्यः ॥ ७२॥
आकैलासादा च लङ्कोपकण्ठाज्जाते दैवाज्जात्वनावृष्टियोगे ।
राज्ञः सर्वान् मेलयन् पर्यपृच्छद् राजा पाण्ड्यः कुम्भयोनिं विधेयम् ॥ ७३॥
तस्यादेशादर्चनाभिः प्रणामैस्ते ते वृष्टिं देवराजं ययाचुः ।
दैन्यं त्वेतन्मीननेत्रात्मजस्य स्वान्ते जातु स्वादुतां नाबभार ॥ ७४॥
अभ्यर्णेऽसौ जातुचिच्चन्दनाद्रेराखेटार्थं पर्यटन् पाण्ड्यदेवः ।
स्वच्छासीनान् पुष्कलावर्तकादीन् शृङ्गोत्सङ्गे तस्य मेघानपश्यत् ॥ ७५॥
कः सुत्रामा कात्र याच्ज्ञा वराके वृष्टिर्लभ्या विक्रमेणेति देवः ।
मत्वा भृत्यैर्ग्राहयन्नम्बुवाहान् कारागारे वासयामास बद्धान् ॥ ७६॥
केचिन्मेघास्तत्र चोद्यानपालैः केचिच्छेकान् पालयद्भिर्मयूरान् ।
आकृष्यन्त स्वैरमारक्षकाणां सौहार्देन द्विस्सकृद् गूढमह्नाम् ॥ ७७॥
नश्यद्गर्जा लुप्तबिधुद्विलासाः संशुप्यन्तः साध्वसेनाम्बुवाहाः ।
धूलीजालैर्घूसरा धूमशेषास्तत्रावात्सुः शासनात् तस्य राज्ञः ॥ ७८॥
आपातालादा च सप्तर्षिलोकादम्भोभिर्ये विश्वमाप्लावयन्ते ।
तानम्भोदांस्तत्र रुद्धान् निशम्य क्रुध्यन्निन्द्रस्तेन योद्धं प्रतस्थे ॥ ७९॥
ज्यानिर्घोषच्छादिताशावकाशं बाणासारध्वस्तहस्त्यश्वयोधम् ।
रक्तस्रोतःपातरक्तं समन्ताज्जज्ञ युद्धं तस्य चाखण्डलस्य ॥ ८०॥
चापोन्मुक्तैः सायकौघैर्मोघैर्वेधं वेधं व्योमयानादमर्त्त्यान् ।
यूथंयूथं पातयन् कौतुकेन श्यैनम्पातामाचचारेव वीरः ॥ ८१॥
येऽवागृह्णन् खेचरा वृष्टिमुर्व्यां तेषामेवोज्जासयन्नङ्गमङ्गम् ।
मर्माविद्भिर्मार्गणैरुग्रपाण्ड्यश्चक्रे वृष्टिं मज्जमांसास्रविस्राम् ॥ ८२॥
उन्मर्यादैरुत्पतद्भिस्तदस्त्रः कीर्णे विष्वक् कण्टकौघैरिवाभ्रे ।
स्थातुं यातुं स्पन्दितुं चाप्यशक्ता तम्तम्भेऽसौ वाहिनी जम्भहन्तुः ॥ ८३॥
तत्कोदण्डोन्मुक्तनाराचधारासद्यःकृत्तभ्रश्यदश्वेभयोधम् ।
हाहाकुर्वत्सिद्धगन्धर्ववर्गं शौनासीरं तत्र नासीरमासीत् ॥ ८४॥
मर्त्त्या युद्धे पातिता देवभावं लब्ध्वा देवीर्घावमाना वरीतुम् ।
धावद्देवस्त्रैणमुद्भान्तपालं चक्रुः स्वर्गं सम्प्रवृत्तापवर्गम् ॥ ८५॥
अस्त्रैरस्त्रं वारयन्नुग्रपाण्ड्यः शस्त्रैः शस्त्रं शस्त्रिणश्चावभिन्दन् ।
जातस्तातस्याक्षिकोणात् तृतीयाज्जज्वालोच्चैर्जातवेदा इवान्ते ॥ ८६॥
पश्यन् पाण्ड्यो वज्रमिन्द्रेण दत्तं प्रायुङ्क्तोग्रं चक्रमीशादवाप्तम् ।
तद् दम्भोलिं स्तम्भयत् तस्य मौलिं भित्त्वा भूयः पाणिमस्याजगाम ॥ ८७॥
भग्ने शक्रे भग्नकोटीरकोटौ धावत्यग्रे मुक्तकेशं सुधाशाः ।
चेलुर्विष्वक् चण्डवातावधूता दूरे दूरे तूलपिण्डा इवाभ्रे ॥ ८८॥
क्रन्दद्गन्धद्विपमपसरत्सैन्धवोधूतयोध-
प्रत्युद्धारव्यसनविमुखापेतपादातजातम् ।
धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध-
भ्राम्यत्पौरं नगरमभवज्जर्जरं निर्जराणाम् ॥ ८९॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे त्रयोदशः सर्गः ।
अथ चतुर्दशः सर्गः ।
तस्मिन् कुमारे मीनाक्ष्यास्तथा शासति मेदिनीम् ।
ताराग्रहाणां पञ्चानां जाता जात्वपि वक्रता ॥ १॥
अवागृह्णत ते वृष्टिमासेतोराहिमाचलात् ।
जलदुर्भिक्षेतश्चात्र जग्ले जानपदैर्जनैः ॥ २॥
सोमवारव्रतेनाथ सोमसुन्दरमीश्वरम् ।
स समाराधयाञ्चके शासनात् कुम्भजन्मनः ॥ ३॥
तस्य चिन्तयतः स्वप्ने तरुणेन्दुशिखामणिः ।
आविर्भूय दयासिन्धुरनुजग्राह पार्थिवम् ॥ ४॥
वार्षिकीयमनावृष्टिर्वकैः शुक्रादिभिः कृता ।
किं करिष्यति वर्षान्ते किङ्करिष्यन्ति ते ग्रहाः ॥ ५॥
दण्डश्चण्डायुधाख्यो यो दत्तोऽस्माभिः पुरा तव ।
कनकं तेन हेमाद्रेः कणेहत्योपनीयताम् ॥ ६॥
इति सम्बोधितस्तेन प्रतिबुद्धो महीपतिः ।
प्रयाणं रोचयामास प्रातर्हेमाचलं प्रति ॥ ७॥
चण्डायुधं समादाय स गच्छन्निरवर्णयत् ।
भूपद्मकर्णिकाकारं भूपालः कनकाचलम् ॥ ८॥
निकषे व्योम्नि यं घर्षन् वेधा जलदसिक्थके ।
संयोज्यालोकतेऽद्यापि वर्णं सौदामनीच्छलात् ॥ ९॥
श्रीकण्ठकार्मुके यत्र शृङ्गलग्ना वियन्नदी ।
वलयीकृत्य विन्यस्ता वासुकिज्येव दृश्यते ॥ १०॥
सर्वरत्नाकरं हैमं संरक्षितुमहर्निशम् ।
यामिकाविव चन्द्रार्कौ यं न जातु विमुञ्चतः ॥ ११॥
प्रस्तरा यत्र रत्नानि मृत्तिका यत्र काञ्चनम् ।
निर्झरो जाह्नवी यत्र लुब्धको यत्र शङ्करः ॥ १२॥
यजन्ति च तपस्यन्ति यमुद्दिश्यैव देहिनः ।
यत्परं निगमस्यार्धं योऽपवर्गादनन्तरः ॥ १३॥
ये केचिद् द्विपदा ये च षट्पदा ये चतुष्पदाः ।
सर्वेऽप्यष्टापदमयाः सम्बन्धाद्यम्य विश्रुताः ॥ १४॥
द्योर्मूर्धा पृथिवी मध्यं पादः पातालमण्डलम् ।
यस्य गङ्गाधरम्येयं युक्ता त्रैलोक्यरूपता ॥ १५॥
द्रवीभवत्सु शृङ्गेषु यत्र दावाग्निसङ्गमात् ।
स्वर्गास्थिरत्ववादानां प्रत्यक्षैव प्रमाणता ॥ १६॥
काञ्चने यत्र मृद्भूते कामिन्यस्त्रिदिवौकसाम् ।
कुतूहलिन्यो भूषासु कुलालान् पर्युपासते ॥ १७॥
पल्लवं जीर्णपत्रं च प्रत्यभिज्ञातुमक्षमाः ।
हैमेषु सहकारेषु खिद्यन्ते यत्र कोकिलाः ॥ १८॥
चामीकरैकरूपेषु सर्वेषु कुसुमेष्वपि ।
व्युत्पन्ना एव यत्रत्या गन्धेषु न मधुव्रताः ॥ १९॥
स तं प्रदक्षिणीकृत्य सर्वदेवालयं गिरिम् ।
तस्थौ पाण्ड्यः पुरोभागे तस्य काङ्क्षन्ननुग्रहम् ॥ २०॥
उदासामास हेमाद्रिरुग्र पाण्ड्येऽपि पार्थिवे ।
किं चकारार्णवो रामे निसर्गोऽयं जडात्मनाम् ॥ २१॥
प्रकृत्यापि विनीतस्य पाण्ड्यस्योग्रस्य दण्डिनः ।
अभिख्यानुगुणं वृत्तमान्तरं करणं तदा ॥ २२॥
माहेश्वरं स तं दण्डं मकरद्वयलाञ्छितम् ।
आवर्त्त्य रुषितो वेगादाजघान सुरालयम् ॥ २३॥
स्थिरधन्वेति भूतेशः श्रूयते येन धन्वना ।
चकम्पे स हतस्तेन चामीकरमयो गिरिः ॥ २४॥
तापिते तपनालोकैस्ताडिते तेन दण्डतः ।
आसीद दिष्ट्यात्र वैपुल्यमसम्बाधाय नाकिनाम् ॥ २५॥
कम्पिते दण्डघातेन काञ्चने तत्र भूधरे ।
पौलस्त्यतुलितस्याद्रेः परिलुप्तमिवं ह्रिया ॥ २६॥
हालास्यनाथतनयमवबुध्य ततः स तम् ।
स्वं रूपं दर्शयन्नाह सुविनीतं सुरालयः ॥ २७॥
अज्ञासिषमहं न त्वामास्थितः स्थावरं वपुः ।
जानन्निह जगत्तत्त्वं जातु न क्रोद्धुमर्हसि ॥ २८॥
चूर्णीकुर्यां अपि त्वं मां चापं चेत् पितुरेव ते ।
स्वामिनस्तस्य सा हानिः स्वस्य किं परिहीयते ॥ २९॥
अस्ति मे बहुशः स्वर्णमत्यल्पमिदमुच्यते ।
अहमेव तवास्मि स्वं मनोहत्योपयुङ्क्ष्व माम् ॥ ३०॥
इति प्रसादितस्तेन दर्शितश्च महाखनिम् ।
जग्राह विविधं हेम भित्त्वा चण्डायुधेन सः ॥ ३१॥
नभश्चरहयाकृष्टैर्नरदेवः परश्शतैः ।
मनोभिरपि दुष्प्रापमनोभिस्तदुपाहरत् ॥ ३२॥
स चामीकरवर्षेण सर्वं प्रकृतिमण्डलम् ।
पालयामास नृपतिः पाण्ड्यो यावदवग्रहम् ॥ ३३॥
तथा ववर्ष कनकं भूयोभूयः स भूतले ।
अवग्रहं यथा नित्यमाचकाङ्क्षुः शरीरिणः ॥ ३४॥
स कान्तिमत्यां प्रेयस्यां चन्द्रमौलेरनुग्रहात् ।
पुत्रं यथार्थनामानं वीरपाण्ड्यमविन्दत ॥ ३९॥
विन्यस्य सकलां पृथ्वीं वीरपाण्ड्ये महीपतिः ।
प्रविवेश परं धाम परमानन्दलक्षणम् ॥ ३६॥
तस्मिन् भक्त्या च पूजाभिस्तपसा चाम्बिकापतेः ।
पुत्रादपि विशेषेण पौत्रे प्रीतिरवर्धत ॥ ३७॥
जिज्ञासमानाः श्रुत्यर्थं सेवया सुन्दरेशितुः ।
कण्वादयो मुनिवराः कदम्बवनमाययुः ॥ ३८॥
तपोभिः कर्मभिर्ध्यानैर्दानैरपि पृथग्विधैः ।
निन्युः संवत्सरं पूर्णं नियतास्ते शिवान्तिके ॥ ३९॥
प्रसन्नः सुन्दरेशोऽथ भक्तिलेशवशंवदः ।
विप्ररूपेण विप्रेभ्यो विववार निजं वपुः ॥ ४०॥
उपसन्नः स मुनिभिः सन्निधौ सुन्दरेशितुः ।
व्याघ्रचर्मासनो वेदान् व्याख्यातुमुपचक्रमे ॥ ४१॥
अस्ति वाग्ब्रह्म तत् किञ्चिदखिलोत्पत्तिकारणम् ।
प्रणवोङ्कारतारादिपर्यायगणघोषितम् ॥ ४२॥
तदेकधा त्रिधा विप्राश्चतुर्धा पञ्चधा स्थितम् ।
अपि द्वादशधा भिन्नमागमेषूपदिश्यते ॥ ४३॥
ततो व्याहृतयस्ताभ्यो गायत्री विश्वपावनी ।
ततो वेदाः सोपभेदास्तेभ्यः सर्वं च वाङ्मयम् ॥ ४४॥
प्रभावं तस्य तारस्य ब्रूयां शब्देन केन वः ।
तत्प्रसूता गिरः सर्वास्तद्व्याप्या व्यापकस्तु सः ॥ ४५॥
एकमातृप्रसूतानामैकमत्यप्रवर्तिनाम् ।
स्ववैमत्येन वैमत्यं शास्त्राणां बालिशा जगुः ॥ ४६॥
अस्ति यत् परमं ज्योतिरस्मिन् लिङ्गे तिरोहितम् ।
तदेव सकलैः शब्दैस्तात्पर्यविषयीकृतम् ॥ ४७॥
अङ्गानि मन्त्रास्तन्त्राणि शास्त्राणि निगमा अपि ।
अन्ततो लोकगाथा अप्यत्रैवायान्ति विश्रमम् ॥ ४८॥
इमा गिरः समस्ताश्च रुद्राय स्थिरधन्वने ।
इति ब्रुवाणा वाणी वः प्रमाणमकुतोभवा ॥ ४९॥
सर्वानुग्राहिणी शक्तिः शम्भोरनतिरोकणी ।
तामप्रपद्य तत्तत्त्वं न शब्दैरवधार्यते ॥ ५०॥
आरोहन्त इव स्तोकमवरोहन्ति भूयसा ।
जानन्त इव मुह्यन्ति तत्पादविमुखा जनाः ॥ ५१॥
सा वक्ति सा वाचयति सा चेतयति सा चितिः ।
सा गतिः सा गमयति सैवेयं मीनलोचना ॥ ५२॥
तामनन्याः प्रपद्यध्वं तपोदानाध्वरादिभिः ।
वाङ्मयं सर्वमेकस्थं ततो वः प्रतिभास्यति ॥ ५३॥
अनुगृह्यैवमीशस्तान् मस्तन्यस्तेन पाणिना ।
मिषतामग्रतस्तेषां मूललिङ्गे तिरोदधे ॥ ५४॥
अथ कालेन महता वीरपाण्ड्यो महीपतिः ।
भूयसस्तनयान् लेभे भोगस्त्रीषु दुराशयान् ॥ ५५॥
समाराध्याथ बहुधा साम्बं हालास्यवल्लभम् ।
देवो वंशकरं पुत्रं देव्यां समुदपादयत् ॥ ५६॥
सर्वदा मृगयासक्तः स जातु विपिनान्तरे ।
सञ्चरन् राजशार्दूलः शार्दूलेन निपातितः ॥ ५७॥
तदेव रन्ध्रमासाद्य तस्य भोगवधूसुताः ।
परिलुण्टितसर्वस्वाः पलायन्त ततस्ततः ॥ ५८॥
कुलवृद्धास्ततस्तस्य कुमारं पञ्चवार्षिकम् ।
अभिषेक्तुं पदे तस्मिन्नन्योन्यं सममन्त्रयन् ॥ ५९॥
मकुटेनाभिषेक्तव्यमभिषेकेण सुस्थिरे ।
राज्ये रत्नानि सम्पाद्य मकुटं कर्त्तुमीश्महे ॥ ६०॥
अन्योन्याश्रयदुस्स्थोऽयमभिषेकोऽस्य भाति नः ।
न मिथ्यानुग्रहः शम्भोर्न विद्मः पुनरायतिम् ॥ ६१॥
इति चिन्तयतां तेषामग्रतः पाण्ड्यमन्त्रिणाम् ।
आविरासीत् तदा शम्भुराश्रितो वैश्यविग्रहम् ॥ ६२॥
स भृत्यैर्बहुभिर्वीतः समृद्ध्या परया ज्वलन् ।
रत्नानां वाणिगस्मीति राजभृत्यानुपासदत् ॥ ६३॥
सं भृत्यैराहृतां रत्नपेटीमुद्घाटयन् पुरः ।
वैदग्ध्यं रत्नशास्त्रेषु व्याकुर्वन्नाददे गिरम् ॥ ६४॥
सर्वे पश्यन्ति रत्नानि सर्वे विभ्रति च स्वयम् ।
तत्त्वं तु ब्रह्मण इव तेषां नावैति कश्चन ॥ ६५॥
पशुभावं प्रपन्नस्य पाकशासितुरध्वरे ।
वलस्य देहधातुभ्यो वराद्धातुर्यदुद्भवः ॥ ६६॥
या वीर्याच्चन्द्रचूडस्य रत्नजातिः पुराजनि ।
या च यज्ञवराहस्य फेननिष्यन्दबिन्दुभिः ॥ ६७॥
या दृङ्मलान्महेन्द्रस्य या दधीच्यस्थिमण्डलात् ।
ये चाकरा भुवि स्वर्गे पाताले च पृथग्विधाः ॥ ६८॥
या छाया याकृतर्निष्ठा यः स्पर्शो यच्च गौरवम् ।
यन्मानं यानि मूल्यानि ये दोषा ये च वा गुणाः ॥ ६९॥
ये जातिभेदा विविधा जात्याभासाश्च ये पुनः ।
ये रागकृत्रिमाः केचिद् ये च सर्वात्मकृत्रिमाः ॥ ७०॥
यदा धार्यं यथा धार्यं यैर्धार्यं यत्र वा पुनः ।
यथा क्रयो विक्रयो वा यथा दानप्रतिग्रहौ ॥ ७१॥
यश्चैषां रक्षणोपायो यः परीक्षाविधिक्रमः ।
या चाप्येषामुपनिषदध्यात्ममधिदैवतम् ॥ ७२॥
चातुर्वर्ण्यव्यवस्था या या स्त्रीपुंसविकल्पना ।
जीवाजीवविभागो यो या मर्त्यामरभोग्यता ॥ ७३॥
ये च दौर्लभ्यसौलभ्ये येषामौत्पातिकी जनिः ।
यदौषधोपयोगित्वं याश्च संज्ञाः परश्शताः ॥ ७४॥
शक्तः को वेदितुमिदं सर्वमेकं तमन्तरा ।
रत्नं समस्तदेवानां रत्नसानुशरासनम् ॥ ७५॥
नप्तायं देवपाण्ड्यस्य नन्वसौ पार्थिवात्मजः ।
अर्हतीदं रत्नजातममूल्यं मदुपाहृतम् ॥ ७६॥
अभिनिर्वर्त्त्य कोटीरमभिषिच्य च पार्त्थिवम् ।
राज्ये स्वस्थीकृते दत्त रत्नमूल्यं यथोचितम् ॥ ७७॥
इत्युदीर्य मणीन् दिव्यान् दत्वा तेभ्यः स काङ्क्षितान् ।
सद्यस्तिरोदधे तेषां समक्षं सपरिच्छदः ॥ ७८॥
चिह्नेन तेन ते सर्वे चिन्तयन्तस्तमीश्वरम् ।
प्रशशंसुः शिशोर्भाग्यं बाष्पगद्गदया गिरा ॥ ७९॥
सद्यो निर्माप्य ते मौलिं शास्त्रदृष्टेन वर्त्मना ।
अभ्यषिञ्चन् नृपं बालमखिला राजमन्त्रिणः ॥ ८०॥
दृष्ट्या दयायैवायं देवदेवस्य शूलिनः ।
अभिषिक्तः पुरा पश्चादभ्यषिच्यत मन्त्रिभिः ॥ ८१॥
तस्याभिषेकपाण्ड्याख्या तदादि भुवि पप्रथे ।
ईदृशं भक्तसौलभ्यमिन्दुचूडस्य देहिषु ॥ ८२॥
यदचेष्टत यत्प्राह स बालः पाण्ड्यभूपतिः ।
तत्सर्वं वरिवस्येति जग्राह मधुरेश्वरः ॥ ८३॥
यदवस्त यदाजघ्रौ यदभुङ्क्त यदालिपत् ।
यद् दधौ च स सर्वं तच्छिव एव निवेदितम् ॥ ८४॥
दिदृक्षा शिवलिङ्गेषु शुश्रूषा शिववैभवे ।
चिकीर्षा शिवपूजासु शिशोरेवास्य कौतुकम् ॥ ८५॥
रत्नदस्य विभोलिङ्गं रत्नैरेवाभ्यपूजयत् ।
अधमर्णं स्वमात्मानं स जानन् शाश्वतीः समाः ॥ ८६॥
देवस्तस्मै शिलास्वेव ददौ रत्नानि कानिचित् ।
सर्ववस्तुषु रत्नानि स तस्मै समुपाहरत् ॥ ८७॥
वासवो जातुचित् कर्त्तुं वार्षिकं कमलार्चनम् ।
प्राप्तस्तेन कृतां शम्भोः पश्यन् पूजामलज्जत ॥ ८८॥
कथान्तरे कदाचित् स कथयामास पाशिने ।
भक्तवात्सल्यमीशस्य भक्तिं पाण्ड्यशिशोश्च ताम् ॥ ८९॥
परक्ष्यि तद् द्वयमपि शक्रभाषितं ततः शिवं स्वयमपि।तत्र सेवितुम् ।
जलग्रहामयमृदितो जलेश्वरः पुरं निजं पुनरगमत् सविस्मयः ॥ ९०॥
कस्तूरीहिमवालुकाहिमपयःश्रीगन्धगोरोचना-
काश्मीरैरनुलेपितः पशुपतिः पाण्ड्यात्मजेनासकृत् ।
कस्तूरीघनसारसुन्दर इति ख्यातिं तदादि श्रितो
येनाद्यापि समीहते तनुभृतां तामेव सेवां पराम् ॥ ९१॥
इति महाकविश्रीनीलकण्ठदीक्षितग्रणीते शिवलीलार्णवे चतुर्दशः सर्गः ।
अथ पञ्चदशः सर्गः ।
सलिलाधिपतिप्रचोदितः सरिदीशो मधुराजिघृक्षया ।
ववृधे विजितोऽपि सन् पुरा समये कस्य न सम्भवेद् भ्रमः ॥ १॥
समभिद्रवता शनैः शनैः सलिलानां निधिनातिभीषिताः ।
शरणं नृपतिं ययुः प्रजाः स च हालास्यनिकेतनं हरम् ॥ २॥
चतुरश्चिकुरान् जटापदाच्चतुरः स्वानवचित्य शङ्करः ।
परिपश्यति पाण्ड्यभूपतौ विचकार त्वरितं विहायसि ॥ ३॥
अपिबन्नधिगत्य मेघतां सकलं ते सलिलं सरस्वतः ।
परिशुष्क इवांस्तृतः पटः प्रदरस्थानगतं जलाञ्जलिम् ॥ ४॥
अपि वीक्ष्य तदद्भुतं महद् वरुणो न व्यरमत् परीक्षणात् ।
विबुधेष्वषपि चेदियं दशा मतिभेदो मनुजेषु नाद्भुतः ॥ ५॥
प्रहिता वरुणेन तोयदाः कृतवैरप्रतियातनेच्छवः ।
प्रलयागमभैरवै रवैः कबलीचक्रुरिवाखिलं नभः ॥ ६॥
सुदृशां कलहस्पृशामपि स्वयमालिङ्गननर्महेतुभिः ।
कटुभिर्ममृजे घनारवैस्तरुणानामपराधभीरुता ॥ ७॥
अपराद्धशरं शरव्यतः सकृदाकर्षणसन्नदोलतम् ।
मदनस्य चिरोज्झितं धनुः परिचेतव्यमिवाभवत् पुनः ॥ ८॥
यदुपैक्षि यदर्धदर्शितं यदपि प्रागथवास्ति विस्मृतम् ।
अनुतप्त इवाधुना व्यधादखिलं कर्म तदद्भुतं स्मरः ॥ ९॥
विधिरभ्रजलैः पुरोऽनिलैर्वियता केतकगर्भवर्त्तिना ।
तटिता नवनीपपांसुना व्यसृजद् धर्महतं पुनः स्मरम् ॥ १०॥
विधुतं पवनेन चातकाः पतितं चञ्चुपुटे कथञ्चन ।
क्षुधिताः क्षुधिते पुरः शिशौ नवमम्भो न ददुर्न वा पपुः ॥ ११॥
चलितषु सितच्छदेषु यैः सरसि स्थातुमचिन्ति षट्पदैः ।
विरताब्जतया न तैः स्थितं विपदन्यव्यसनार्थिनां पुरः ॥ १२॥
कमलं न चकास्ति कैतकं कलहंसा नहि सन्ति कोकिनः ।
न शशी ननु चास्ति मन्मथः किमभावादिह किं विहीयते ॥ १३॥
कटु भेकगणेन चुक्रुशे कलकेकामुखरेषु ककिषु ।
कवयः कवयन्तु तावता कविपाशः किमुपैति मूकताम् ॥ १४॥
सरसी चिरकालशीलनादजद्भिर्भ्रमरैरदृश्यत ।
क्षुभितोद्गतगर्भकर्दमच्छुरतेवाम्बुजिनीनिमज्जनान् ॥ १५॥
अवधूय दुकूलपल्लवानलकानप्यवमृश्य विश्लथान् ।
तरुणैरिव मेघमारुतैस्तरुणीनां ममृजे रतिश्रमः ॥ १६॥
चिरसम्भृतचातकोदरज्वलनोज्जासनलब्धजन्माभिः ।
विततैरिव धूममण्डलैर्वियदापूरितमम्बुदैर्नवैः ॥ १७॥
निबिडे चरमाङ्गमण्डले निपतन्ती जलदस्य चन्द्रिका ।
स्थगिता चिरमक्षरत् क्षितौ कणशः किं करकोपलात्मना ॥ १८॥
अतिथेरपि भाग्यतो भवत्यभिवृद्धिर्भवने कुडुम्बिनाम् ।
कलहंसकुले विनिर्गते कथमासन् कमलाकरश्रियः ॥ १९॥
विरमत्कमलोत्पलं सरो व्यरुचत् पुष्पितकैतकैस्तटैः ।
गजवाजिसमाकुलं बहिर्भवनं राज्ञ इवान्ततोऽधनम् ॥ २०॥
कमलैर्विरतं कलानिधिः कलहंसाश्च न गोचरे दृशाम् ।
शनिरास्त ककारमस्तके समये तत्र कलापिनं विना ॥ २१॥
महिषा जहृषुर्मदागमे महिषैस्तुल्यधियश्च कर्षकाः ।
अभवन्तु न हंसगृह्य इत्ययशोनैल्यमिवावहद् घनः ॥ २२॥
बभुरुल्लसितास्तटिल्लता जगदन्धकरणीषु रात्रिषु ।
पथि चारयतोऽभिसारिकाः प्रसवेषोः करदीपिका इव ॥ २३॥
परिलुप्तरवीन्दुतारके समये सन्तमसावृते सदा ।
द्युनिशोरुपदेशदेशिका युवतीनां गृहचक्रवाकिकाः ॥ २४॥
स्तनिते स्तनिते पयोमुचां कलकेकामुखराः कलापिनीः ।
अभिलक्ष्य भृशं ललज्जिरे रभसालिङ्गितवल्लभाः स्त्रियः ॥ २५॥
स्थगितार्ककरैः पयोधरैः परिलुप्तप्रसवासु वल्लिषु ।
पवनापहृताः पयःकणा मदनस्यास्त्रपदेऽभिषेचिताः ॥ २६॥
नवतोयनिपातहर्षितां नगरीं तामवलोक्य कुप्यतः ।
अथ ते वरुणस्य शासनादतिमात्रं ववृषुः पयोमुचः ॥ २७॥
परमां सखितां प्रचेतसः प्रतिपेदेऽग्निसखः समीरणः ।
समयानुगुणैव शत्रुता सखिता वा त्रिदिवौकसामपि ॥ २८॥
परिपाटितकाननद्रुमाः परिकृष्टेभगवाश्वमानवाः ।
सरितः परितो जजृम्भिरे विकटावर्त्ततरङ्गसङ्कुलाः ॥ २९॥
गणशः पशुपक्षिमानवान् गणशो ग्रामपुराश्रमालयान् ।
पवमानसखाः पयोमुचः पणबन्धादिव पर्यपातयन् ॥ ३०॥
न दिशो विदिशो न पादपा न समुद्राः सरितो न पर्वताः ।
न दिवा न निशा न चान्ततो जगदप्यैक्षत मध्यमं तदा ॥ ३१॥
अथ पाण्ड्यसुते समं जनैः शरणं जग्मुषि चन्द्रशेखरः ।
स्वकपर्दभवैः पयोधरैः स्थगयामास स वर्षतो घनान् ॥ ३२॥
पटमण्डपवद्यवस्थिताः परितस्ते मधुरां पयोमुचः ।
रुरुधुर्भुवि वारिसम्प्लवं जगृहुश्चोपरि निष्पतत् पयः ॥ ३३॥
पटगर्भगता इव प्रजाः कियदप्यश्रुतवर्षनिस्वनाः ।
व्यजनैरुपवीज्य लेभिरे नगरस्था मरुतं कथञ्चन ॥ ३४॥
अपि यत् प्रलयेषु वर्षितुं समरक्षन् सलिलं वलाहकाः ।
अभिवृष्य तदप्यशेषतो गृहधूमा इव खे चकाशिरे ॥ ३५॥
प्रथमं पतितैः पयोभरैः परमम्भोधिरपूरि शोषितः ।
चरमं पतितं तु तत्पयो जगृहुः शैवकपर्दवारिदाः ॥ ३६॥
जलदा जलदैर्निराकृताः प्रतियान्तः परितो यथागतम् ।
वरुणेन न सम्बभाषिरे वरुणस्तैरपि लज्जया मिथः ॥ ३७॥
परितो विनिवेशितान् घनान् प्रतिसंहृत्य निजान् महेश्वरः ।
परिदर्शयति स्म नागरैः प्रकृतिस्थं निखिलं महीतलम् ॥ ३८॥
चतसृष्वपि दिक्षु कूटवज्जलदान् न्यस्य ररक्ष यत् पुरीम् ।
तदुपक्रममभ्ययोजयत् स चतुष्कूटसमाख्ययापि ताम् ॥ ३९॥
अतिमानुषदेवदानवं वरुणो वीक्ष्य तदद्भुतद्वयम् ।
मघवोदितमीशवैभवं मनसामन्यत दिक्प्रदर्शनम् ॥ ४०॥
स समेत्य सुवर्णपद्मिनीसलिलस्नानगलज्जलग्रहः ।
कनकाम्बुरुहैस्तदुद्भवैः कलयामास महेश्वरार्चनम् ॥ ४१॥
स्तुतिभिर्बहुभिः प्रसादयन् स महेशं शफरेक्षणामपि ।
कृतपाण्ड्यनृपालसौहृदः कृतकृत्यः स्वपुरं पुनर्ययौ ॥ ४२॥
अथ जात्वभिषेकपाण्ड्यभूरमणे शासति राज्यमूर्जितम् ।
समदृश्यत सिद्धवेषभृत् सह शिष्यैर्मधुरापुरे हरः ॥ ४३॥
जपदामकरो जटाधरः कलयन् काञ्चनवेत्रमुज्ज्वलम् ।
विचचार युवातिसुन्दरो भसितालेपनपाण्डरच्छविः ॥ ४४॥
करुणैकमयः कलानिधिः सुलभः सुन्दरमूर्तिरुज्ज्वलः ।
अवलोकित एव देहिनामहरद् वाङ्मनसे स तापसः ॥ ४५॥
बहुशः कुणिमूकलोहेला बधिरक्लीबजडान्धपङ्गवः ।
जटिलेन कृतार्थिता जनाश्चरणाम्भोजरजोऽनुषङ्गतः ॥ ४६॥
चरणोदकसेवया हरन्नपि वन्ध्यत्वमनेकधा स्थितम् ।
अवसन्नतरं हरश्चिरादनुजग्राह कुलं कुडुम्बिनाम् ॥ ४७॥
जरतस्तरुणान् प्रकल्पयन् युवभावं युवसु स्थिरं दिशन् ।
अपि वर्षगणानुवर्तिनीः शमयामास रुजः स भस्मना ॥ ४८॥
भसितं रसनासु निक्षिपन् कवयामास जडाननेकधा ।
विततार परां विरक्ततां विषयासङ्गमलीमसात्मनाम् ॥ ४९॥
अपि दुर्लभभैक्ष्यजीवनानकरोदाढ्यतरान् गिरैव सः ।
उदजीवयदुक्षणादपामुरगक्ष्वेलहतानपि क्षणात् ॥ ५०॥
पतिवल्लभतां मृगीदृशां प्रमदासु प्रियतां विलासिनाम् ।
व्यतरद् भिषजां च मूलिका विविधप्रत्ययकारिणीर्हरः ॥ ५१॥
घुटिकांशुकखड्गपादुकारसलेपाञ्जनमुख्यसिद्धयः ।
तमनुस्मरतां शरीरिणां स्वत एव प्रचकाशिरे तदा ॥ ५२॥
ग्रहभूतपिशाचयक्षिणीगणकूश्माण्डविनायकादयः ।
अभिदुद्रुवुरादिसिद्ध इत्यभिधानाक्षरकीर्तनान्नृणाम् ॥ ५३॥
स जगाद दृशोरगोचरः कथयन्नेव कथास्तिरोदधे ।
स्थविरम्तरुणोऽथ मुण्डितो जटिलश्चैष जनैरदृश्यत ॥ ५४॥
समदर्शयदुन्नतान् गिरीन् सविधे वारिनिधीन् वनानि च ।
स्तुवतां हसतां प्रधावतां मिषतामेव तदुन्ममार्ज सः ॥ ५५॥
कियदित्यभिदध्महेऽद्भुतं किमितीदं चरितं स्तुवीम वा ।
वयमप्युपदर्शयेम तद्यदि हि स्याम जगच्छरीरिणः ॥ ५६॥
इति केलिकलाकुतूहली विजहारैष यथा यथा पुरे ।
अशृणोदखिलं तथा तथा प्रकृतिभ्यो नृपतिः पदे पदे ॥ ५७॥
स कदाचन सुन्दरेशितुर्वितते धाम्नि विमानपश्चिमे ।
उपविष्टममुं यदृच्छया नृपतिः प्रेक्षत सेवितुं गतः ॥ ५८॥
दृशमस्य तृणीकृतामरां गिरमज्ञातपरानुवर्तनाम् ।
स्थितमीप्सितगन्धदुर्विधं परिपश्यन् नृपतिर्विसिष्मिये ॥ ५९॥
अतिवाङ्मनसैर्महोभरैरपि तत्त्वं परमस्य सूचितम् ।
अधिगन्तुमनाः स्वयं मनागनुयुङ्क्ते स्म स गोत्रनामनी ॥ ६०॥
श्रवणे दधदक्षमालिकां शिथिलीकृत्य स पद्ममासनम् ।
अमृतस्नपितैरिवाक्षरैरिदमाह स्म नृपं तपोधनः ॥ ६१॥
न कुलं न गृहं न बान्धवा नच वर्णाश्रमयन्त्रणापि नः ।
अवधूतपदे निषेदुषामभिधा सिद्ध इति स्फुटैव ते ॥ ६२॥
चतुरुत्तरषष्टिभेदतः प्रथिता या भुवने कला इति ।
यदि तासु कुतूहली भवानभिसम्पश्यतु सिद्धिमद्भुताम् ॥ ६३॥
इति वादिनि योगिनां वरे पुनरूचे नृपतिः कुतूहली ।
उपदीकृतमिक्षुमायतं कमनीयं कलयन् करेण तम् ॥ ६४॥
अयमस्ति विमानधारको द्विरदो यः किल दार्षदः पुरः ।
इममिक्षुमसौ गिलत्विति स्मयमानः स तदन्वमन्यत ॥ ६५॥
स ततः पुरतः शिलागजः स्तनितस्निग्धगभीरबृंहितः ।
नरपालकराग्रवर्त्तिनं नवमिझु विचकर्ष शुण्डया ॥ ६६॥
कबलीकृतकोमलेक्षुणा करिणा तत्र विमानवर्त्तिना ।
जगृहे नृपकण्ठमालिकामणिहारोऽपि मृणालकोमलः ॥ ६७॥
चकिताः स्तिमिताः पलायिता रुषिताश्चानुचरा महीपतेः ।
उपलद्विरदस्य चेष्टितान्युपलभ्य क्षुभिताः प्रचुक्रुशुः ॥ ६८॥
न निकर्षचिकर्षिया कृतं न परीचिक्षिषया न गर्वतः ।
कुतुकेन तु वृत्तमेतदित्यसकृत् तं प्रणमन्नसान्त्वयत् ॥ ६९॥
नमते धरणीभृते वरं तनयं वंशकरं प्रसादयन् ।
स्मयमानमुखाम्बुजो हरो मिषतस्तस्य पुरस्तिरोदधे ॥ ७०॥
अथ विक्रमपाण्ड्यभूपतिस्तनयोऽभूदभिषेकपाण्ड्यतः ।
उदितोदितमुद्वहन् कुलं कुलदासः कुसुमायुधद्विषः ॥ ७१॥
स पितुः परलोकमेयुषश्वरमाज्ञां शिरसोपधारयन् ।
अनुपाधिमनन्यगामिनीमचलां भक्तिमधत्त शङ्करे ॥ ७२॥
शिवनामपरः शिवाश्रयः शिवविन्यस्तभरः शिवाश्रमी ।
जगदाकलयन् शिवात्मकं जननाथो बुभुजे वसुन्धराम् ॥ ७३॥
शशिनीव समस्तवल्लभे नृपतौ भूतपतेः प्रणप्तरि ।
पितरीव सुता महीभुजो बिभरामासुरविप्लुतां मतिम् ॥ ७४॥
कुलशेखरपाण्ड्यसप्तमं नृपतिं तं किल चोलपार्थिवः ।
न ममर्ष शरद्विनिर्मलं शशिनं चोर इव स्वदोषतः ॥ ७५॥
अतिवर्तितुमेनमक्षमः स वराकः समरे भुजोष्मणा ।
क्षपणैः क्रतुमाभिचारिक कलयामास पयःस्विनीतटे ॥ ७६॥
तत उच्चलितो दुरध्वराद् द्विरदः कोऽपि गिरीन्द्रभीषणः ।
समया मधुरामुपाद्रवत् कलयन् मुद्गरमायसं करे ॥ ७७॥
तमुदन्तमयं विचारयन् शरणं प्राप शशाङ्कशेखरम् ।
स च तत्र किरातरूपभृत् परिचक्राम निजालयाद् बहिः ॥ ७८॥
वनपल्लवभङ्गशेखरं वरगुञ्जाफलपुञ्जभूषणम् ।
अधिरोपितकार्मुकं जना ददृशुर्दिव्यममुं वनेचरम् ॥ ७९॥
उपलभ्य गजं तमुद्धतं पथि गव्यूतियुगे व्यवस्थितम् ।
नरसिंहमयोजयच्छरे नरसिंहस्य मुदे वनेचरः ॥ ८०॥
त्रिपुरेषु गतेषु लक्ष्यतां हसितेनास्मि पुराप्यपोदितः ।
इति सत्वरमीशकार्मुकादुदयासीद् दनुजान्तकः शरः ॥ ८१॥
स हसन्नचलेन धन्वना विशिखेन स्वयमच्युतेन च ।
जगदेकधनुर्धरः क्षणादभिनत् सिन्धुरमाभिचारिकम् ॥ ८२॥
नरकेसरिणास्त्ररूपिणा शमिते हस्तिनि शैलतां गते ।
तमनु प्रहितास्तथागता न समैक्ष्यन्त यथा तथा गताः ॥ ८३॥
सुगतान् सुगतात्मनेषुणा स विजिग्ये चतुरो वनेचरः ।
अहिरेव हि वेत्त्यहेः पदं कथमन्येन घटेत तज्जयः ॥ ८४॥
विदितः किल सर्वदेहिनां विजयः पञ्चमुखेन हस्तिनः ।
गुणगृह्यतया तदप्यसौ मुमुदे विक्रमपाण्ड्यपार्थिवः ॥ ८५॥
अनुगृह्य दयार्द्रया दृशा प्रणतं भूतपतिः प्रजेश्वरम् ।
तनयं च तदन्वयोचितं वरमस्मै वितरंस्तिरोदधे ॥ ८६॥
अजनिष्ट विभोरनुग्रहात् तनयस्तस्य च राजशेखरः ।
यदुपाहितभूभरो गुरुः प्रतिपेदे पदमैश्वरं परम् ॥ ८७॥
सप्तमो मलयध्वजस्य स सप्तसप्तिसमद्युति-
र्बिभ्रदङ्गदनिर्विशेषमशेषमेव महीतलम् ।
आरराध सभाजनैरतिमानुषैर्मधुरेश्वरं
रञ्जयन् जनताः सुतानिव राजशेखरपार्थिवः ॥ ८८॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे पञ्चदशः सर्गः ।
अथ षोडशः सर्गः ।
अथ क्षितिं बिभ्रति राजशेखरे द्विजो विरूपाक्ष इति प्रथां गतः ।
चिराय शम्भुं तपसा प्रसादयन्नवाप गौरीत्यभिविश्रुतां सुताम् ॥ १॥
स कन्यया जात्वपि पञ्चवर्षया समेत्य तातस्तपसेऽभियाचितः ।
अदेयमप्येवमपत्यसौहृदाददिक्षदेकाक्षरमम्बिकामनुम् ॥ २॥
भवप्रवाहप्रतिपन्नवासनाप्रबन्धयोगेन कुमारिकापि सा ।
असाधयन्मन्त्रमशेषसिद्धिदं जगन्निदानं जपयज्ञनिष्ठया ॥ ३॥
गुरौ वसन्तं कृतभैक्षवृत्तिकं कदाचिदेकं गृहमागतं वटुम् ।
अवेक्ष्य तम्मै गुरुरात्मजामदादचिन्तयित्वा कुलशीलबन्धुताः ॥ ४॥
दुरागमाभ्यासविलुप्तसत्पथे महेश्वरद्वेषमलीमसात्मनि ।
दधीचिशापोपहते द्विजान्वये प्रसूतमेनं बुबुधे ततस्तु सः ॥ ५॥
अलङ्घनीयं शिवशासनं सुरैरपि स्वयम्भूविबुधेश्वरादिभिः ।
स चिन्तयन् स्वोचितदानसत्कृतां सहोपयन्त्रा प्रजिघाय कन्यकाम् ॥ ६॥
अथ स्नुषामात्मभुवा स्वयं हृतामवेक्ष्य फाले भासतेन लाञ्छिताम् ।
शिवद्विषो तच्छ्वशुरौ ज्वलद्रुषौ निवेशयामासतुरालये पृथक् ॥ ७॥
शिवार्चनध्यानकथाविवर्जिते श्मशानतुल्ये सदने तु तत्र सा ।
अमङ्गले सत्यपि सर्वमङ्गलामनुस्मरन्ती दिवसानि चिक्षिपे ॥ ८॥
ततः सदारे श्वशुरे बहिर्गते कदाचिदेनां सदने निषेदुषीम् ।
प्रहर्षयन् प्रादुरभूद् द्विजात्मना विभूतिरुद्राक्षविभूषितो हरः ॥ ९॥
तमातिथेयीभिरसौ सभाजयन्त्युपास्त यावज्जरठं द्विजर्षभम् ।
विवेश तावच्छशुरस्तमालयं स च द्विजोऽदृश्यत सुन्दरो युवा ॥ १०॥
ततः शिवानुस्मरणैकसाधनां स वेपमानामभिलक्ष्य तां हरः ।
स्तनन्धयोऽदृश्यत तत्समीपतः स्वरेण तस्याः श्वशुरावमर्षयन् ॥ ११॥
ततस्तु पृष्टा प्रतिवशिनीसुतं तमालपन्ती श्वशुरेण कुप्यता ।
बहिर्निरस्ता शिशुनामुना समं निनाय पर्यश्रुमुखी निशामसौ ॥ १२॥
भवस्य तं पश्चिमवक्ररूपिणं शिशु स्मरन्तीं हृदि विप्रकन्यकाम् ।
निनाय कल्ये निजमास्पदं शिवो वृषेण विस्मापितविष्टपत्रयः ॥ १३॥
स्तनन्धयं देवमुपास्य सा जहौ स्तनन्धयत्वं भवसङ्घसञ्चितम् ।
क्रमेत शम्भाववितर्क्यवैभवे क्व तत्क्रतुन्यायविदुक्तिपद्धतिः ॥ १४॥
मनुं किलं द्यक्षरमाचचक्षिरे प्रभुं प्रजासर्गविधौ पुराविदः ।
अयं तु सृष्टिस्थितिसंहृतिक्षमो मनुं यमेकाक्षरमारराध सा ॥ १५॥
कदापि देवः करिकालचोलतो निशम्य नृत्तानभियुक्ततां निजाम् ।
बभूव सद्यो नटसूत्रपारगः किमादिशैलूषकुले तदद्भुतम् ॥ १६॥
शिवे प्रसक्ते सति शैवरात्रके महाव्रते मन्दिरमैशमाश्रितः ।
प्रसन्नमभ्यर्चनया हरं पुनः प्रसादयिष्यन् प्रणनर्त्त पार्थिवः ॥ १७॥
उदञ्चिताकुञ्चितसव्यपादिकाचिरानुवृत्तिश्रमखिन्नमानसः ।
श्रमं तमीशेऽपि समं व्यचिन्तयत् स हि स्वयं पश्यति शम्भुमात्मवत् ॥ १८॥
निधाय सव्यं निभृतं पदं क्षितावुदञ्चयन् दक्षिणमङ्घ्रिमुच्चकैः ।
नटन्नुदस्व श्रममित्यनुक्षणं नटेश्वरं प्रार्थयते स्म पार्थिवः ॥ १९॥
अदर्शितस्पन्दमथेषदप्यमुं नटेशबिम्बं कलयन् नरेश्वरः ।
कृपाणकृत्तेन निजेन मौलिना स देवमाराधयितुं समैहत ॥ २०॥
न किञ्चिदानन्दमयं स वेद तं न वा किमर्चास्वनपायिनीं स्थितिम् ।
तथापि तस्याभवदीदृशी मतिस्तथा हि भक्तिस्तपसापि दुर्लभा ॥ २१॥
अवेत्य दुर्भेदममुष्य निश्चयं तथा स देवः प्रससाद नर्त्तितुम् ।
न दुर्लभा तस्य कदापि वश्यता सुदुर्लभा तु स्थिरशीलतैव नः ॥ २२॥
अनन्यथात्वव्रतमात्मकर्मणामपि त्यजन् दूरत एव शङ्करः ।
यथा स मेने हृदि राजशेखरस्तथा विपर्यस्य ननर्त्त तत्क्षणम् ॥ २३॥
निधाय सव्ये निखिलं भरं तनोः पदे यदास्त प्रकृतिस्तु तस्य सा ।
प्रपञ्चसर्गस्थितिभङ्गभारमप्ययं तु तत्रैव निवेश्य निर्वृतः ॥ २४॥
तदद्भुतं ताण्डवमैन्दुशेखरं प्रसादतस्तस्य सिषेविरे जनाः ।
गणेश्वरास्ते विषये महीपतेर्वसन्ति ये शङ्करभक्तिशालिनः ॥ २५॥
बबन्ध भाक्तं स्वकृते कृते नृपो विशिष्य तस्मिन् विपरीतताण्डवे ।
तदादि तद्वंशभुवोऽपि पार्थिवास्तमेव देवं शरणं प्रपेदिरे ॥ २६॥
प्रमार्ष्टुमागः शतशः समर्पयन् पतिः प्रजानां मणिभूषणानि सः ।
सुतं कुलोत्तुङ्ग इति श्रुतं ततो वरेण लेभे नचिरेण शूलिनः ॥ २७॥
गते धरित्रीभृति राजशेखरे गतिं समाख्याविधयैव सूचिताम् ।
कुलोचितोत्तुङ्गगुणाकरश्चिराद् दधौ कुलोत्तुङ्गमहीपतिः क्षितिम् ॥ २८॥
गुणेन शीलेन कुलेन चोन्नतं तमीक्षमाणाः क्षितिपास्ततस्ततः ।
उपाहरन् स्वस्वकुमारिकाः स्वतस्ततोऽयुतं तस्य बभूवुरङ्गनाः ॥ २९॥
स तासु लेभे सकलासु पार्थिवः समानरूपान्वयशीलवृत्तिषु ।
कुलोचितौदार्यविवेकशालिनां कुमारकाणामयुतानि षट् ततः ॥ ३०॥
अजायतानन्तगुणाख्यया श्रुतरस्तनूभवानां प्रथमो धरापतेः ।
तदाश्रितास्तच्चरणार्पितासवः परेऽपि तत्तुल्यगुणा विजह्रिरे ॥ ३१॥
यदीदृशी दारसमृद्धिरीदृशी कुलाभिवृद्धिश्च बभूव भूपतेः ।
इदं हि लीलायितमिन्दुशेखरप्रसादलेशप्रतिलम्भसम्पदः ॥ ३२॥
स वीरभद्रः स्वशरीरसम्भवैः स्वतुल्यतेजोनिधिभिर्गणैरिव ।
समं कुलोत्तुङ्गमहीपतिः सुतैः शशांस सर्वाञ्छिवशासनद्विषः ॥ ३३॥
अथ द्विजः कश्चन बालपुत्रया समं गृहिण्या मधुरां समासदत् ।
तले वटस्यास्त विशालशीतले क्वचित् कठोरातपतापतापितः ॥ ३४॥
असञ्चरत्पान्थमनालपद्द्विजं सरोजकोशोदरलीनषट्पदम् ।
प्रतप्तहेमप्रतिमं समस्तमप्यभृदहर्मध्यगते जगद् रवौ ॥ ३५॥
ज्वलद् विनापि ज्वलनेन भूतले मदान्धभद्रेभनखम्पचं रजः ।
अवेक्षमाणैर्नयनैः शरीरिणामतिप्रतेपे दहनाहतैरिव ॥ ३६॥
स गेहिनीं बाहुलतोपधायिना कुचाग्रविन्यस्तमुखेन सूनुना ।
तले शयानां तृपयादितां तरोरवेक्ष्य हर्त्तुं सलिलं ययौ बहिः ॥ ३७॥
स किञ्चिदासाद्य सरोऽतिनिर्मलं हरन् जलं पद्मदलेन शीतलम् ।
ददर्श विद्धां दयितां महेपुणा रुदन्तमस्याः शिशुमप्युरस्स्थले ॥ ३८॥
प्रियावियोगव्यसनाभिमूर्च्छितः स यावदन्विप्यति तत्र कारणम् ।
ददर्श तावन्मृगयाविहारिणं धनुर्धरं लुब्धकमेकमन्तिके ॥ ३९॥
अनेन नूनं दयिता ममाहतेत्यवेत्य केशेषु परामृशन्नमुम् ।
उपेत्य राज्ञः प्रतिहारमुच्चकैर्द्विजः प्रचुक्रोश विषादविह्वलः ॥ ४०॥
ततः कुलोत्तुङ्गनृपस्तदद्भुतं निशम्य खिन्नः पृथगन्वयुङ्क्त तौ ।
न निश्चिकायैकमघाभियोक्तरि द्विजे किराते च दृढं मृषोत्तरे ॥ ४१॥
न तत्त्वमत्र व्यवसातुमीश्महे विना प्रसादाद् गिरिजापतेरिति ।
निरुध्य लुब्धं शमयन् द्विजं गिरा नृपः प्रपेदे शरणं पिनाकिनम् ॥ ४२॥
द्विजद्वितीयो नगराद् बहिश्चरन् निशि त्वमस्यामुपलप्स्यसेऽखिलम् ।
इतीरितो भूपतिरिन्दुमौलिना स वैश्यवीथ्यामचरत् क्वचिद्बहिः ॥ ४३॥
ततः क्वचित् संवदतोर्द्वयोर्मिथः कथां स शुश्राव कृतान्तदूतयोः ।
निनीषतोर्वैश्यगृहे वरं क्षणात् प्रवृत्तवैवाहिकमङ्गलावधौ ॥ ४४॥
शरव्यमुद्दिश्य शकुन्तमेककं पुरा पुलिन्देन चिरार्पितः शरः ।
वटद्रुलगः पवनाहतः पतन् यथावधीद् विप्रवधूमतर्कितम् ॥ ४५॥
तथाद्य वैवाहिकतूर्यनिस्वनैः परिभ्रमन्त्यात्र गवा निपातितम् ।
वरं समादाय करग्रहावधौ पुनर्निवर्त्तेवहि तत्क्षणादिति ॥ ४६॥
सुविस्मितस्तेन सह द्विजन्मना स्वसंशयच्छेदकरीं गिरं तयोः ।
निशम्य संवादकृते नृपः क्षणं प्रतीक्ष्य तस्थौ वरपातनक्षणम् ॥ ४७॥
तथैव वृत्तेऽत्र कृतान्तचेष्टिते धनैः प्रभृतैः परितोप्य स द्विजम् ।
विसृज्य च व्याधमनुग्रहं विभोरशेषमावेदयति स्म मन्त्रिपु ॥ ४८॥
विधुः कलङ्की वियति भ्रमन्नसौ कलङ्कशङ्कापि न शङ्कराश्रिते ।
अतो न ते स्यादपवादभीरिति प्रशंसितः पाण्ड्यनृपः स मन्त्रिभिः ॥ ४९॥
निवेशितोऽनन्तगुणोऽथ मन्त्रिभिः पदे पितुः शाङ्करमेयुषः पदम् ।
स रत्नकेयूरवदावहद् भुजे चतुस्समुद्रीपरिवेष्टितां भुवम् ॥ ५०॥
द्विजाधमः कश्चिदवन्तिषु स्थितः स्वमातृसक्तस्तदमर्षिणं गुरुम् ।
निहत्य हृत्वा निखिलं च तद्धनं निशि प्रतस्थे सह मातृपाशया ॥ ५१॥
तमध्वनि व्याधभटा मदोद्भटाः प्रहृत्य सर्वस्वमथापहृत्य च ।
अपि स्त्रियं तामवरुध्य सुन्दरीमहासिषुस्तं तनुमात्रशेपितम् ॥ ५२॥
कदन्नभिक्षाधिगमाव्यवस्थया कृशो रुजार्त्तः कृपणो दिगम्बरः ।
परिभ्रमन् दिक्षु कदाचिदानशे स भाग्ययोगेन कदम्बकाननम् ॥ ५३॥
अयत्नमाच्छादनमन्नमप्यसौ प्रविष्टमात्रो नगरीमविन्दत ।
अनुग्रहान्मीनदृशोऽधुनापि यन्न तत्र कश्चित् क्षुधितो न दुःखितः ॥ ५४॥
स सञ्चरञ् जातु किरातदम्पती विलासिनौ विश्वविलक्षणश्रियौ ।
ददर्श दिष्ट्या निशि नतत्परौ महेशधामप्रतिहारसीमनि ॥ ५५॥
स तत्र विस्रम्भमवाप्य सँल्लपन् न्यवेदयत् स्वं निखिलं विचेष्टितम् ।
ततः किरातीवचनानुवर्तिना किरातयूनेत्थमबोधि निष्कृतिम् ॥ ५६॥
न कर्मयोगैर्न तपश्शतेन वा विनेतुमंहस्तव विप्र! पार्यते ।
दुरुत्तरं दुप्कृतमप्यमुं शिवं प्रपद्य वर्षैस्त्रिभिरुत्तरिष्यसि ॥ ५७॥
इतीरयित्वैव तिरोहितं क्षणादवेक्ष्य तद् द्वन्द्वमपास्तसंशयः ।
अवाललम्बे दृढमम्बिकासखं स विप्रबन्धुः शरणं शरीरिणाम् ॥ ५८॥
जपार्चनध्याननतिप्रदिक्षिणस्तवैः स तिस्रः शरदो निरन्तरम् ।
प्रसाद्य देवं प्रमथैः पुरोकसां समक्षमानीयत शाङ्करं पुरम् ॥ ५९॥
विशन् पुरीमेव विधूतपातकः सकृत् प्रणम्यैव शिवं गणोऽभवत् ।
परन्तु वैदेशिक एष वत्सरान् प्रतारितस्त्रीनिति पौरवागभूत् ॥ ६०॥
अनुस्मरन् स्वं चरितं विसिष्मिये स नीयमानः प्रमथैः शिवान्तिकम् ।
विमृष्टमर्मा तु शिवे न्यवेशयत् ततस्त्रिवर्षार्चनयाधमर्णताम् ॥ ६१॥
अथाङ्क इत्यस्त्रविदां पुरोगमो गुरुर्भटानां खुरलीषु विश्रुतः ।
बहून् समध्यापयदस्त्रसंहितां प्रयोगसंहाररहस्यकोविदः ॥ ६२॥
बभूव शिष्येष्वमितेषु सिद्ध इत्यभिख्यया कश्चन तस्य वल्लभः ।
तमस्त्रशस्त्रेषु विशिष्य पुत्रवद् गुरुर्व्यनैषीदविदन् दुराशयम् ॥ ६३॥
स दुर्मतिः स्वं गुरुमप्रकाशयन् प्रकाशयन् स्वां पटुतां तदाहिताम् ।
अपि स्वशिष्या इति शस्त्रकोविदान् भटान् सतीर्थ्यान् प्रलपंश्चचार सः ॥ ६४॥
कदाचिदङ्कस्य सदा सदाशिवप्रणामहेतोर्वसतः शिवालये ।
उपेत्य गेहं युवतिं च तत्प्रियां रहो जिघृक्षन्ननयावधीरितः ॥ ६५॥
तमङ्करूपं परिगृह्य जातुचिद् दुराशयं द्वन्द्वरणे निबर्हितुम् ।
पुराद् बहिः पश्यति पौरमण्डले कृपाणपाणिर्युयुधेऽमुना हरः ॥ ६६॥
स वञ्चयन् वेगममुप्य लीलया कदापि मर्म स्वकमप्रदर्शयन् ।
अपक्रमाभिक्रमसम्प्लुतोप्लुतैर्विचित्रमीशो व्यचरद् रणाङ्गणे ॥ ६७॥
अवस्थितः स्थाणुवदग्रतो रिपोर्निपातयन्निश्चलमायुधं क्षितौ ।
अपि प्रहाराञ्छतशोऽस्य निस्सृतानवञ्चयत् किञ्चिदिवाङ्गकुञ्चनैः ॥ ६८॥
हसन्नवज्ञामसृणैर्विलोचनैरवेक्षमाणस्तृणवत् तमुद्भटम् ।
किमप्यभिक्रम्य चकार हुङ्कृतैः कृपाणमुष्टिं शिथिलं स वैरिणः ॥ ६९॥
उदस्यतीवासिमधो निपातयत्यधो दधातीव निहन्ति मूर्धनि ।
प्रमत्तवत् तिष्ठति नाभिगम्यते परेण तस्यैवमवर्त्तताहवः ॥ ७०॥
असिं विधुन्वन् भ्रमयन्नुदञ्चयन् निपातयन्निश्चलमावहन् पुनः ।
करोऽस्य दुर्योधमनोभयङ्करो निमेषमप्यैक्षत नैकचेष्टितः ॥ ७१॥
अविक्षतः क्वाप्यसिधेनुधारया विभिद्य तस्योदरमाहरन् शिरः ।
प्रकाशयन्नङ्कजयं दिशां मुखे तिरोदधे तद्वपुरिन्दुशेखरः ॥ ७२॥
अहो जिगायाङ्क इति प्रशंसतां ततो जनानामवकर्णयन् गिरः ।
विसिष्मियेऽङ्कः शिवसन्निधौ वसन्नबुद्धतत्सङ्गरसङ्कथः स्वयम् ॥ ७३॥
विचित्रमेतत् किल वृत्तमीशितुः प्रवृत्तमङ्के परभक्तिशालिनि ।
इति स्तुवन्तो मधुरौकसः शिवादनन्यमैक्षन्त तमस्त्रकोविदम् ॥ ७४॥
किमेतदङ्केन शिवे निवेदितं किमन्ततो वेत्ति स तं व्यतिक्रमम् ।
अहो दयालुत्वमनङ्गहन्तुरित्यभूञ्चलानामपि निश्चलं मनः ॥ ७५॥
ततः स कालेन शशाङ्कशेखरः सदारमेनं प्रमथेष्वयोजयत् ।
तरन्ति नाद्यापि तपोधना द्विजाः क ईश्वराणामवधारयेन्मनः ॥ ७६॥
तदादि भूयश्शिवभक्तिगौरवे विजृम्भमाणे विषये महीभुजः ।
तथागताः केऽप्यभिचर्य पन्नगं न्ययुञ्जतोद्दामविषामिभीषणम् ॥ ७७॥
तमद्रिकूटप्रतिमं महोरगं समापतन्तं नृपतिर्विचारयन् ।
पुराद्विनिर्गत्य पुराहितं स्मरन् शरं शरासे समधत्त दारुणम् ॥ ७८॥
महेशभूषान्वययोगशङ्कितः क्षणं विनिश्चित्य स मायिकं ततः ।
अताडयत् पन्नगपाशमाशुगैः स चावमत् तद्व्यथया विषानलम् ॥ ७९॥
हालाहलेनेव पुरा विनिर्यता विषेण तेन ज्वलताभितापिताः ।
जनाः क्षितीशेन समं समाययुः शरण्यमीशं शरणं समाकुलाः ॥ ८०॥
कृतस्मितो नीपवनेश्वरस्ततः कियत्तदस्तीति गिरा प्रहर्षयन् ।
उपेत्य लिङ्गादुरगान्तिकं गतः समन्ततः प्रेक्षत शान्तया दृशा ॥ ८१॥
ततः पुरैवोन्मथिते फणाधरे धराधरत्वं प्रतिपद्य तस्थुषि ।
विषाग्नितप्तान् मनुजान् द्रुमानपि व्यधत्त देवः करुणामृताप्लुतान् ॥ ८२॥
तथा गते भोगिनि गां सुदुर्जयां तथागताः काञ्चिदथाभिचारिकीम् ।
अकल्पयञ्जेतुमिमां समादिशद् दयानिधिर्वाहवृषं वृषध्वजः ॥ ८३॥
स तुङ्गशृङ्गव्यतिषङ्गनिर्दलद्धनाघनस्रस्तघनाम्बुवृष्टिभिः ।
खुरक्षतक्षोणिरजः शमं नयन् महावृषः प्रास्थित तज्जिगीषया ॥ ८४॥
पदैः स यद् ध्यानतपोध्वरांहतिप्रभेदभिन्नैर्विददार मेदिनीम् ।
रजोभिरुद्धूलितसर्वविग्रहा बभूवुरेतत्प्रभवैर्महर्षयः ॥ ८५॥
वृषस्तदुद्धूय विषाणयोर्युगं प्रसह्य तस्या हृदयं बिभेद गोः ।
जरद्गवीनां हृदयं विविच्यते यदन्तराश्चर्यगवाक्ष वर्त्मना ॥ ८६॥
स तां पतन्तीमवनीधरात्मना समीक्ष्य शैलः स्वयमप्यभूद् वृषः ।
उदग्रशृङ्गः पुरमुत्तरेण यो विराजतेऽद्यापि वृषाचलाख्यया ॥ ८७॥
ततः कुमारं कुलभूषणाभिधं तपोभिरासाद्य कुलाहविक्रमम् ।
तदर्पिताशेषधुरो धरापतिः पदं प्रपदे परमैन्दुशेखरम् ॥ ८८॥
गाम्भीर्येण निषङ्गतां विशिखतां धर्मद्रुहां निग्रहा-
दुच्छ्रायेण शरासतां कटकतामुच्चावचैर्वाङ्मुखैः ।
विश्वेषामनुरञ्जनैरनुपमैरुत्तंसतामप्यसौ
बिभ्राणः कुलभूषणः कुलपतिं देवः सिषेवे शिवम् ॥ ८९॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीतेषोडशः सर्गः ।
अथ सप्तदशः सर्गः ।
कुलभूषणस्तदनु भूमिपतिः कुलदैवतस्य मधुराधिपतेः
चरणं सदा परिचरन्नशिषच्चतुरर्णवीवलयितामवनिम् ॥ १॥
अजनिष्ट सुन्दर इति प्रथितो नृपतेरमुष्य पृतनाधिपतिः ।
अतनिष्ट भक्तिमयमष्टविधामपि सुन्दरेशपदपङ्कजयोः ॥ २॥
अभिषेणनाय कृतसन्नहने शबरेश्वरे बलिनि चेदिपतौ ।
भटसङ्ग्रहाय स बहु द्रविणं प्रददौ चमूपतिवशे नृपतिः ॥ ३॥
स शिवे निवेद्य शबरेन्द्रजये प्रतिभूर्भवानवनिभर्त्तुरिति ।
अविचिन्त्य किञ्चिदपि पर्यचरद्द्रविणैस्तु तैर्द्रविणनाथसखम् ॥ ४॥
अतिनूत्नमातनुत धाम विभोः स सुधार्पणस्फुटितसङ्घटनैः ।
रथमूर्जितं क्षितिरथस्य हयान् करिणश्च काञ्चनमयानकरोत् ॥ ५॥
बलमानयेयमिति मन्त्रिवरान् बहुधा तु सोऽतिसमधत्त गिरा ।
कुलभूषणाय परिपृष्टवते कथयाम्बभूव पृतनां मिलिताम् ॥ ६॥
सचिवोदितश्रवणजातरुषं नृपमिङ्गितैस्समवबुद्ध्य ततः ।
बहिरानिनाय स महीरमणं बलदर्शनाय सह तैः पिशुनैः ॥ ७॥
समये शशाङ्कशकलाभरणः सहितो गणैर्मनुजरूपधरैः ।
स्वयमाजगाम पृतनारजसा स्थगयन् दिशश्च विदिशश्च पुरः ॥ ८॥
रथवाजिसिन्धुरपदातिभिदाप्रविभक्तमप्युपसमेत्य मिथः ।
चलितं बलं नृपतिना ददृशे चतुरम्बुराशिसमवाय इव ॥ ९॥
असिचर्मचापशरकुन्तगदापरिघत्रिशूलनलिकादिकराम् ।
अतिभीषणाकृतिमदृष्टचरीं परिपश्यति स्म स पदातिचमूम् ॥ १०॥
प्रलयान्तघोरपवनाभिहतप्रचलद्धराधरकुलप्रतिमम् ।
प्रसमीक्ष्य तं मदगजप्रकरं परिदुद्रुवुर्नरपतेः करिणः ॥ ११॥
करभोष्ट्रपुङ्गवकरीन्द्रधृतैर्विविधायुधोपकरणैश्च रथैः ।
विविधध्वजैर्धुरि विभोश्चलिता रथिकाः शिलादतनयप्रमुखाः ॥ १२॥
कुरुविन्दकज्जलकुसुम्भनिशाशरकाण्डवासवशरासरुचः ।
मसृणोन्नतांसलमहाहनवस्तुरगाः प्रचेलुरथ तस्य पुरः ॥ १३॥
सुरवाहिनीलहरिशुभ्रपटीपरिवीतमौलिरसिचर्मधरः ।
परिनयंस्तुरगमिन्दुधरो निरगादनादिरपि सादिवपुः ॥ १४॥
असकृद्विरिञ्चमुखमन्दुरिकाकुतुकादिवोत्पतितुमभ्रपथे ।
त्वरमाणमागमतुरङ्गवरं शमयन्निगालकरघट्टनया ॥ १५॥
हयमुत्पतन्तमिषुव द्रभसादवरुद्ध्य सव्यमपसव्यमपि ।
भ्रमयन्नयत्नलवमूरुयुगद्रढिमैकदेशहतदुर्विनयम् ॥ १६॥
अभिगच्छति क्षितिभृति स्वयमप्यभिगम्य मूर्त्त इव वीररसः ।
अवधूय खड्गमवरुद्ध्य हयं प्रणनाम तं प्रणतमेष पुरः ॥ १७॥
अवितर्क्यवैभवमदृष्टचरं तमवेक्ष्य तामपि चमूं महतीम् ।
तदुदाररूपहृतवाङ्मनसः क्षणमास्त पाण्ड्यनृपतिस्स्तिमितः ॥ १८॥
वचनैरमुं प्रकटितप्रणयैर्वसनैर्विभूषणगणैश्च नृपः ।
परितोषयन् प्रतिमुहुः प्रणमन् परिषस्वजे दृढमभीक्ष्णमपि ॥ १९॥
मशकं विजेतुमनुचिन्तयता मदसिन्धुरोऽयमुपलब्ध इति ।
कथयन् नृपश्चरमुखादशृणोन्मृगयासु सिंहनिहतं विमतम् ॥ २०॥
अथ पार्थिवः प्रमुदितस्तमसावनुमन्यते स्म शिबिराय यदा ।
स तिरोदधे सतुरगः सबलो गिरिशस्तदैव धुरि भूमिभुजः ॥ २१॥
तदवेत्य केलिषु कुतूहलिनो मधुरेश्वरस्य महिमायमिति ।
पिशुनान् निगृह्य पृतनाधिपतिं बहुमन्यते स्म बहुधा नृपतिः ॥ २२॥
निखिलं पुरा निजधनं गिरिशे व्ययितं यथा किल चमूपतिना ।
सकलं तथा व्ययितुमेव नृपश्चकमे तदादि मधुराधिपतौ ॥ २३॥
गजवाजिगोमहिषधान्यधनक्षितिभृत्यमित्रसुतदारमुखम् ।
सकलं शिवाय न ममेति वदन् क्रतुनारराध महताथ शिवम् ॥ २४॥
अवलोक्य रिक्तमथ कोशगृहं नृपतेर्दयानिधिरनङ्गरिपुः ।
धनमक्षयं वितरति स्म तथा स यथा न पारयति तद् व्ययितुम् ॥ २५॥
धनमक्षयं धनपतेर्दिशतो विगता शिवस्य नहि भिक्षुकता ।
कुलभूषणेऽद्य तु तदर्पयतः सदनं सुवर्णमणिचित्रमभूत् ॥ २९॥
अथ कन्यकाः किल कुलेषु विशामतिसुन्दरेण वपुषा शतशः ।
अलभन्त जन्म मधुरानगरे समयेन शङ्करकथानिरताः ॥ २७॥
परपुंसि दारुवनचाराइण याः परमं बबन्धुरभिलाषभिमाः ।
मुनिसुभ्रुवो हि पतिशापवशादभजन् विशां पुनरपत्यदशाम् ॥ २८॥
अथ तासु तत्र कलितावतरे तरुणिम्नि वैश्यतनयासु शनैः ।
मनसि स्मरस्मरजितौ युगपत् सुहृदाविव प्रविशतः स्म तदा ॥ २९॥
अथ वैश्यवीथिषु वणिक्तरुणो विमलाम्बरो विविधभूषणभृत् ।
अतिसुन्दरो वलयविक्रयिणामवलम्ब्य रूपमचरद् गिरिशः ॥ ३०॥
वितथेषु पुष्पविशिखेषु शिवे वलयायुधानि बहुधा कलयन् ।
अयमालि! सञ्चरति पञ्चशरो न मृषेति तत्र जगदुः सुदृशः ॥ ३१॥
वणिजस्ततो वलयविक्रयिणो भवति स्म वैश्यसुदृशां च तदा ।
इतरेतराशयचमत्करणी सरसा वचःप्रतिवचस्सरणिः ॥ ३२॥
वितरन्तु पक्वमिह तालफलं यदि वापि जम्भलफलं विपुलम् ।
वलयानिमान् दधतु वामदृशः कनकेन किं मम गिरौ वसतः ॥ ३३॥
क्व नु काञ्चिदेशमपहाय गतिर्मम वः कदाचिदिति मत्सविधे ।
अधरेद्युरुक्तमधुना तु कथं वसतिं निजामभिदधासि गिरौ ॥ ३४॥
अतनुज्वरादभिहतोऽस्मि चिरात् तृषितोऽस्मि कापि यदि बिम्बफलैः ।
तरुणी भिषज्यति ममार्त्तिमिमां पथिकस्य मे भवति सा शरणम् ॥ ३५॥
उचितोपयोगविरहादफलं वितरामि तावदिह बिम्बफलम् ।
मदनाश्रवस्य परितश्चरतो भवतः कथं भवतु विज्वरता ॥ ३६॥
सुदृढास्तवैव करयोरुचिता इति ये त्वया सुघटिता वलयाः ।
त्वयि निर्गते सपदि तैर्गलितं वचनं कथं नु तव विश्वसिमः ॥ ३७॥
वलयान् प्रदाय करिदन्तमयान् न मणिर्न काञ्चनमयाचि मया ।
अपि काञ्चिकार्थनमभूद् विफलं त्वयि मे प्रतिश्रुतमपीह कथम् ॥ ३८॥
मम देहि विद्रुममयान् वलयान् मम देहि विद्रुममणिं प्रथमम् ।
मम देहि दन्तवलयान् विमलांस्तव तन्वि! वेद्मि न हि दन्तपदम् ॥ ३९॥
इति सँल्लपन् सरसमिन्दुधरो विचरन् गृहेषु विविधेषु विशाम् ।
करपल्लवव्यतिकरेण तदा सफलीचकार जननं सुदृशाम् ॥ ४०॥
अथ ता मुनीन्द्रदयिता न चिरात् तनयोपलम्भमुदिताः शतशः ।
परिमृष्टशापकलुषाः प्रमथैर्गिरिशो निनाय कलधौतगिरिम् ॥ ४१॥
स कदाचिदास्त वटमूलतले सनकादिभिः शमधनैर्नियतैः ।
अणिमादिसिद्धिकृतमद्रिसुताचरणार्चनोपनिषदं कथयन् ॥ ४२॥
उपदेशमेनमतिभक्तिवशादुपशृण्वतां शमवतां सविधे ।
अपि यक्षिणीरनवधानपराः कुपितः शशाप कुमुमास्त्रहरः ॥ ४३॥
क्वचिदत्र पाण्ड्यविषये विपिने विजने तले वटतरोर्महतः ।
उपलत्वमेत्य वसतेति ततः प्रससाद ताभिरसकृत् प्रणतः ॥ ४४॥
स समाः सहस्रमतिलङ्घ्य ततः परिगृह्य देशिकतनुं गिरिशः ।
अणिमादिसिद्धिमनुगृह्य पुनर्नयति स्म यक्षवनितास्त्रिदिवम् ॥ ४५॥
कुलभूषणोऽपि धरणीरमणः शफरेक्षणापहचरार्चनया ।
अथ राजपूर्वपदमिन्द्रमसौ लभते म्म शिक्षितनयं तनयम् ॥ ४६॥
अपि राजसिंह इति कश्चिदभूदनुजोऽस्य दुर्विषयलुप्तमतिः ।
समनन्तरं पितुरयं सहजं सुतवद् ररक्ष तमपि क्षितिपः ॥ ४७॥
समयेऽत्र चोलनृपतिः प्रथितः कुलशत्रुरस्य किल पाण्ड्यविभोः ।
मधुरेशदर्शनकुतूहलिना मनसान्वतप्यत तपांसि चरन् ॥ ४८॥
स्वपने कदाचिदथ चोलनृपं प्रतिबोद्ध्य गूढमुपयातमिमम् ।
विघटय्य गोपुरकवाटयुगं निजमानिनाय निशि धाम शिवः ॥ ४९॥
स निमज्ज्य हेमनलिनीसलिले प्रणिपत्य मीननयनागिरिशौ ।
तदनुग्रहेण नगराच्च बहिर्निरगात् तदैव निशि चोलनृपः ॥ ५०॥
स पुनश्च गोपुरकवाटयुगं घटयञ्छिवो वृषभमुद्रिकया ।
परिचिह्नयन् मनसि पाण्ड्यविभोरतनिष्ट संशयमभेद्यतरम् ॥ ५१॥
स परेद्युराप्तसचिवैर्विमृशन्नपि किञ्चिदध्यवससो न यदा ।
नृपतिस्तदा निखिलमोहहरं शरणं ययौ शशिकलाभरणम् ॥ ५२॥
अपदानमेतदधिगत्य नृपः सकलं गिरा गगनसम्भवया ।
सखितामियेष गुणगृह्यतया स तदैव चोलधरणीपतिना ॥ ५३॥
अथ राजसिंहनृपतिर्नृपतेरनुजो विगृह्य कियदप्यपदे ।
उपयम्य चोलनृपतेस्तनयामपि तेन सख्यमकरोत् सुदृढम् ॥ ५४॥
अथ तौ समेत्य मधुरानगरीमभिजग्मतुर्बहुचमूसहितौ ।
ददृशे निदाघसमयोऽपि तदा परिशोषयन् सलिलशब्दमपि ॥ ५५॥
अपि शुष्यति त्रिदिवसिन्धुजले तृषया हतेषु तुरगेषु भृशम् ।
गतिमान्द्यतो गगनसीम्नि रवर्दिवसेषु दैर्घ्यमजनिष्ट तदा ॥ ५६॥
तपने जगत् तपति निष्करुणं समये समस्तमयशो निहितम् ।
सचिवः खलः शिथिलयन् प्रकृतीर्नृपतिं किलापदि निमज्जयति ॥ ५७॥
बिततेषु विश्वजयिनः कुसुमेष्वतनोः शिरीषमवशिष्टमिदम् ।
तदपि प्रणश्यतु किमस्य गतं प्रभवोऽपि किं परमुखादरिणः ॥ ५८॥
कुचकुम्भमेव मदनः सुदृशामवलम्ब्य पूर्वमजयद् भुवनम् ।
अधुनापि चेत् स कुशली तदलं किमनेन धर्महतकेन शुना ॥ ५९॥
अविचारितारिसममित्रकथे समये जगत् तपति दुर्ललिते ।
मदनस्तदाशुगहताश्च समं शरणं ययुः स्तनगिरिं सुदृशाम् ॥ ६०॥
मदने प्रवर्त्तयति वारयति श्रमवारिशीकरकिरे समये ।
अलभन्त कामिषु गतागतिकामसकृञ्चरा इव दृशः सुदृशाम् ॥ ६१॥
अनवेक्ष्य नाथमियमम्बुजिनी शिशिरे यदास्त विदितं किल तत् ।
परया श्रिया ज्वलति तत्र रवौ कथमद्य जीवनकथापि गता ॥ ६२॥
विकचेषु सूरकिरणोष्मभिया मुकुलीकृतेषु च निवाततया ।
कमलोदरेषु शयितुं भ्रमरो न शशाक तप्तमधुसेवनतः ॥ ६३॥
अपि नारिकेलसलिलेक्षुरसैरजहत् तृषो रविकरक्वथितैः ।
अपिबन्नहःपरिणतौ सुदृशामधरं प्रियाः प्रणयशीतलितम् ॥ ६४॥
करिणोऽपि कर्णवलयानसकृञ्चलयाम्बभूवुरनिलाय मुधा ।
ववृते न फूत्कृतिषु वामदृशां व्यजनेऽपि लुप्त इव गन्धवहः ॥ ६५॥
अनवग्रहैरपरदिक्पवनैः समुदस्यमानमपदिश्य रजः ।
सलिलाशया मरुमरीचिषु किं धरणी दिगन्तमगमत् तृषिता ॥ ६६॥
अतिचण्डपश्चिमसमीरहृतैरभितोऽपि तिग्ममहसः किरणैः ।
अनुषञ्जिता इव वनावलयो दवसङ्गता ददृशिरे शतशः ॥ ६७॥
सरसीषु पल्वलदशा ददृशे भुवि पल्वलेष्वपि च शाड्वलता ।
अपि शाड्वलेषु चिरजाङ्गलता परतो वयं न वदितुं प्रभवः ॥ ६८॥
पवनेन संवलित एव शिखी परिजृम्भते न परथेत्ययशः ।
परिमार्ष्टुम्मेव पवने विरमत्यदहद् वनं वनमहो दहनः ॥ ६९॥
क्वथितं जलं क्षितितलं ज्वलितं मरुतश्च मुर्मुरकिरः परितः ।
गगनं च दुर्विषहमर्ककरैरिति पर्यणंस्त जगदग्निमयम् ॥ ७०॥
अपनीय कञ्चुकमहर्विरमे मरुदाशया रहसि मुग्धवधूः ।
समवस्थिताः समुपलभ्य हठात् परिरेभिरे सुकृतिनस्तरुणाः ॥ ७१॥
रजनीमुखाहृतमृणाललतादलयैः शशाङ्ककिरणस्नपितैः ।
उषसि स्वयं प्रियतमोपहृतैः सरसीष्ववर्तयत चक्रगणः ॥ ७२॥
इयतापि तावदिदमापतितं प्रलयं तरेम पयसेति दृढम् ।
अवगत्य यत्र शफरैरुषितं लुलितं सरस्तदपदे महिषैः ॥ ७३॥
अवगाह्य पद्ममकरन्दझरीष्वहिमद्युतावनुदिते भ्रमराः ।
अजपन्नुपांशु कृतझङ्करणा मदनापमृत्युहरमन्त्रमिव ॥ ७४॥
धृतमल्लिकाकुसुमहारलता, घनसारचन्दनरसार्द्रकुचाः ।
वनिता दुकूलवसनाभरणास्तरुणानुपासत दिनापगमे ॥ ७५॥
कटकं प्रविष्टवति चण्डकरे कटकं तदव्यथत चोळपतेः ।
ववृधे तु पाण्ड्यनृपतेः समये महसां निवेरिव महः परुषम् ॥ ७९॥
अथ सुन्दरेशमभिवन्द्य नृपः कलयन् प्रसादबलमस्य बलम् ।
निरगाद्यथोपनतसैन्यवृतो नगरादरातिविजयाय तदा ॥ ७७॥
चिरसम्प्ररूढदृढमत्सरयोरजनिष्ट जन्यमथ तत्र तयोः ।
अपि विस्मयाय हृदि यद् द्युसदामपि नारदस्य यदलम्मतये ॥ ७८॥
असिकुन्तशूलपरशुच्छुरिकापरिघाभिघातविगलद्रुधिरम् ।
अविचारितस्वपरसैन्यमभूत् प्रथनं तदस्थिरजयापजयम् ॥ ७९॥
समरे भुजाभुजि कचाकचि च प्रहरद्वयं चलति तद्बलयोः ।
तदवेक्षितुं गगनमध्यतलं रविरध्यरोहदतितुङ्गमिव ॥ ८०॥
मधुमासपुष्पितपलाशवनप्रतिमं तुरङ्गखुरधूलिवृतम् ।
तदुदन्यया परुषयाभिहतं बलयोर्द्वयं सममभूद् विरतम् ॥ ८१॥
परिपूरितां शिशिरकुम्भशतैर्विपुलां प्रपां क्वचन पाण्ड्यबले ।
अधिरुह्य मौलिसरिदम्बुभरैस्तृषितानतर्पयत भूतपतिः ॥ ८२॥
करुणामृतेन मधुराधिपतेर्मधुरैश्च मौलितटिनीसलिलैः ।
परिपोषिताः सपदि पाण्ड्यभटाः पुनराहवाय मतिमादधिरे ॥ ८३॥
अथ सिंहनादमुखरा युगपन्नृपतेर्भटाः परिनिपत्य रणे ।
सह राजसिंहधरणीपतिना जगृहुः करे सपदि चोलनृपम् ॥ ८४॥
जयं समासाद्य निवर्तमानः प्रपां पुनः क्वाप्यनवेक्षमाणः ।
राजेन्द्रपाण्ड्यो मधुरेश्वरस्य लीलायितं तत् कलयाम्बभूव ॥ ८५॥
सख्यं प्रदाय मधुरेश्वरभक्तियोगात् सत्कृत्य चोलनृपतिं विससर्ज पाण्ड्यः ।
तं राजसिंहमपि दुर्मदमुन्मदिष्णुं भ्रातेति जातकरुणो बिभराम्बभूव ॥ ८६॥
अम्भोभिः केवलैरप्यवनिपतिचमूं तर्पयन् जातु तप्तां
ख्यातिं धत्ते यदीशः कियदिव न यशो नित्यमन्नप्रदायाः ।
देव्या मीनेक्षणाया इति नगरजुषामद्भुतान् भक्तिवादान्
शृण्वन् राजेन्द्रपाण्ड्यः सकलमपि महीचक्रमेकः शशास ॥ ८७॥
ततो राजेशपाण्ड्योऽभूद्राजगम्भीर इत्यतः ।
पुरुहूतजिदप्यस्मादस्मादासीत् कुलध्वजः ॥ ८८॥
सुन्दरेशप्रसादेन सुन्दरेशाङ्घ्रिशेखरः ।
ततो जज्ञे यतो जज्ञे तारेन्दुविमलं यशः ॥ ८९॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे सप्तदशः सर्गः ।
अथ अष्टादशः सर्गः ।
स हयान् सहस्रमयुतं भटोत्तमान् करिणः शतं दश महारथानपि ।
परिगृह्य सैन्यमुचितं व्ययं चरन्नवशिष्टमन्यदखिलं शिवे ददौ ॥ १॥
अथ धाम्नि पुष्पवननाम्नि धूर्जटेरविदूरवर्तिनि कदम्बकाननात् ।
अजनिष्ट कापि किल हेमनायिकेत्यभिविश्रुता जगति रुन्द्रकन्यका ॥ २॥
शिवभक्तपूजनपरा शिवव्रता शिवबिम्बमेकमखिलोत्सवोचितम् ।
परिकल्प्य सिक्थकमयं प्रचक्रमे परिशुद्धताम्रकणसञ्चयाय सा ॥ ३॥
अथ नाचिरादनुपलब्धसाधना दधती तमेव सुदृढं मनोरथम् ।
मधुरेशमेव धृतसिद्धविग्रहं मदिरेक्षणालभत भाग्यतोऽतिथिम् ॥ ४॥
प्रणिपत्य तं परिचरन्त्यनेकधा रससिद्धिदर्शनपरेण तेन सा ।
अनुकम्पिता सकलमायसं गृहे भसितेन तस्य नयति स्म हेमताम् ॥ ५॥
कृतविस्मयाथ गिरिशे तिरोहिते परिकल्प्य तां प्रतिकृतिं हिरण्मयीम् ।
अवलम्ब्य गण्डतलमङ्गुलीमुखैः परिचुम्बति स्म गणिकातिसुन्दरम् ॥ ६॥
अधुनापि तन्नखपदं यदीक्ष्यते विमले कपोलफलके महेशितुः ।
श्रमवारिलेशवति तत्र सङ्गतं शकलं विधोरिव जटापरिच्युतम् ॥ ७॥
अपि यन्महाक्रतुभिराप्तदक्षिणैरपि वा त्रयीपरिचयैरहर्निशम् ।
अनवाप्यमस्ति पदमैन्दुशेखरं तदवाप सा तदनुकम्पिता ततः ॥ ८॥
गजवाजियोधरथयूथभीषणां परिगृह्य चोलनृपतौ पताकिनीम् ।
अभिगच्छति स्वयमनन्यसाधनः शिवमारराध शिवपादशेखरः ॥ ९॥
तमुवाच वागथ नभस्समुद्भवा न बिभीहि तस्य महती चमूरिति ।
अभिषेणय त्वमरिमल्पसैनिको विजयस्तवैव भवितेति पार्थिवम् ॥ १०॥
अथ पाण्ड्यमल्पबलमभ्ययात् बली सरितं समुद्र इव चोलपार्थिवः ।
नृपतिश्च निश्चलमतिर्व्यवस्थितः कलयन् पुरः कनकशैलकार्मुकम् ॥ ११॥
अथ युद्धमुद्धतमवर्धत क्षणाद् दृढरूढगूढतरवैरयोस्तयोः ।
असिपातपाटितपतन्मतङ्गजस्रवदस्रसिन्धुहृतसैन्धवव्रजम् ॥ १२॥
निशितेषु तत्र निपतत्सु सायकेष्वभितो भयादतिविदूरवर्तिनः ।
निहतान् हयद्विपभटान् निनीषवो मुहुराह्वयन् यमभटाः प्रसान्त्वनैः ॥ १३॥
वपुरानिलं न पिशिताशनक्षमं यदि पार्थिवं शरशतैर्विभेत्स्यते ।
इदमुत्तरेम कथमर्थकृच्छ्रमित्यवलन्त दूरमभितः पिशाचिकाः ॥ १४॥
प्रथमं हता युधि दिवं समुद्गताः पुनरर्धवर्त्मनि शरैर्निपातिताः ।
पुनरुद्गता द्विगुणभागभाजिनः कतिचिद् भटा दिवि कृताः सुधाशनैः ॥ १५॥
अगृहीतशक्तिकतया मिथः कथास्ववबद्रमौनकृतहस्तचेष्टिताः ।
अमरस्त्रियो रणहताश्च तद्भटाः पशुवत् सुखं निखिलमप्यभुञ्जत ॥ १६॥
धवलातपत्रवलयाश्चकाशिरे रदनाश्च मत्तकरिणां निपातिताः ।
यशसो दिगन्तमभिपूरयिष्यतः प्रथमोद्गता रणतलेऽङ्कुरा इव ॥ १७॥
तुरगैः समं तुरगसादिनो हता दिवमुद्ययुः समधिरुह्य तान् पुनः ।
अतिसाहसेन दिवमभ्युपेयुषामपि वाह्यवाहकदशा न शाम्यति ॥ १८॥
अवभिद्य बिम्बमहिमद्युतेर्दिवं प्रति गच्छतां युधि भटाश्वदन्तिनाम् ।
गणनाममर्त्यगणका वितेनिरे चरमाङ्गसीम्नि निभृता विवस्वतः ॥ १९॥
शरपञ्जरस्थगितभूनभोन्तरे समाराङ्गणे घनतमस्समावृते ।
अभिसारिकेव विजयेन्दिरा चरन्त्यवृणीत तं तमविशेषदर्शिनी ॥ २०॥
बलयोर्द्वयोरपि मदोद्भटा भटा बहवस्तथा रणमुखे निपातिताः ।
सकलं यथाजनि पुरं शतक्रतोर्हृतदारमन्दिरविमानभूषणम् ॥ २१॥
हतशिष्टमल्पमवलोकयन् बलं प्रचचाल पाण्ड्यनृपतिर्यदा पुरः ।
तरसावपत्य हयसादिरूपतः पुरतश्चचाल पुरशासनस्तदा ॥ २२॥
परुषं रुषा परिरटन् करेण च भ्रमयन् युधि त्रिशिखमुन्मिषच्छिखम् ।
प्रचलन पदानि कतिचित् पुराहितः शिथिलीचकार निखिलं बलं द्विषाम् ॥ २३॥
अपविद्धकुन्तलमचिन्तिताटवीसलिलानलप्रदरगर्त्तकण्टकम् ।
अनवेक्षितस्वजनमानशे दिशो बधिरन्धमूकमिव तद् बलं द्विषाम् ॥ २४॥
सह धावतो निजजनान् परभ्रमादभिगम्य केचिदभयं ययाचिरे ।
अपरे क्षताः स्म इति मूर्च्छिताः स्वयं क्षतजोक्षितान् पथि समीक्ष्य धावतः ॥ २५॥
अधियुद्धरङ्गमसवस्तृणीकृताः शिवपादशेखरवरूथिनीभटैः ।
इति किं प्रतीक्ष्य रुषिताखिलं तृणं पृतना चचर्व पथि चोलभूभृतः ॥ २६॥
अथ मुक्तकेशमपथेन विद्रवन् सरसि क्वचित् सतुरगः ससैनिकः ।
निममज्ज चोलनृपतिर्न्निमज्जयन्नखिलं कुलं स्वमयशःपयोनिधौ ॥ २७॥
अतुलानि हेममणिभूषणाम्बराण्युपहृत्य तस्य कटकान्महीपतिः ।
अखिलानि तान्युपददे महाशयो हरिणाङ्कचूडचरणारविन्दयोः ॥ २८॥
अथ भक्तसौम्य इति कश्चिदर्चयन्ननिशान्नदाननियमेन शङ्करम् ।
अनुवर्तयन् व्रतमृणार्णधारयाप्यवसीदति स्म विधनः स सर्वथा ॥ २९॥
व्रतभङ्गखेदविवशं तमग्रतः पतितं जिहासुमपि दुर्लभानसून् ।
प्रतिपाद्य तण्डुलनिधानमक्षयं परिरक्षति स्म मधुरेश्वरो हरः ॥ ३०॥
अथ कश्चिदर्थपतिरित्यभिख्यया विदितो विशामधिपतिः पुरे वसन् ।
असुतो धनानि भगिनीसुते दिशन् दशमी जगाम तपसे वनाश्रमम् ॥ ३१॥
अखिलं धनं तदपहर्तुमिच्छवो भगिनीसुते विनिहितं सनाभयः ।
पृथुकं यदा तमधिकं बबाधिरे शरणं ययौ स मधुरेश्वरं तदा ॥ ३२॥
अथ तस्य मातुलवपुः परो भवन्नभिजित्य तान् नृपसमे विरोधिनः ।
सहसा यदा पुरहरस्तिरोदधे सकलैस्तदा सदसि विस्मितं जनैः ॥ ३३॥
तनयं ततो वरगुणं तपोबलाच्छिवभक्तमेत्य शिवपादशेखरः ।
अखिलं महीवलयमर्पयन् सुते शफरेक्षणाचरणयोरलीयत ॥ ३४॥
स कदाचिदेत्य मृगयां परापतन् शयितं क्वचिद् द्रुमतले पथि द्विजम् ।
निहतं तुरङ्गखुरघट्टनैर्विदन् बिभयाम्बभूव जगृहे च हत्यया ॥ ३५॥
वसुधेश्वरो वरगुणोऽथ दुःखितः सकलं निनाय सचिवेषु भूभरम् ।
जपदानहोमविधिभिर्जगत्पतिं सततं यजन्नपि न शान्तिमाप सः ॥ ३१॥
अशृणोत् स वाचमशरीरिणीं ततः करुणालयस्य हरिणाङ्कधारिणः ।
मधुराकृतस्य हि महत्त्वमंहसः सुकृतस्य वा न पथि वर्तते गिराम् ॥ ३७॥
मम लिङ्गमर्जुनतरोरधस्तले महदस्ति सह्यतनयातटे शुभे ।
तदुपासनेन तव तात! दुष्कृतं सकलं प्रयाति विलयं क्षणादिति ॥ ३८॥
स तथेति कार्यमवधार्य निस्सरन्नपदिश्य चोळनरपालविग्रहम् ।
शिवमर्जुनेशमाभिवन्द्य तत्क्षणादभवन्निवृत्तकलुषो महीपतिः ॥ ३९॥
स पुनः समेत्य नगरीमकल्मषः फणिवक्रमुक्त इव पार्विको विधुः ।
प्रशशास वासव इव त्रिविष्टपं वसुधेश्वरो वरगुणः क्षमातलम् ॥ ४०॥
अथ भद्र इत्यभिमतः क्षमापतेरतिविश्रुतश्च भुवि गायकाग्रणीः ।
उपवीणयन्ननिशमुत्पलप्रियं चिरमास्त कश्चन कदम्बकानने ॥ ४१॥
अथ तं विजेतुमपरस्तु गायकः प्रथयन् यशो विरुदडिण्डिमस्वनैः ।
नृपतिं ददर्श स यदा तदा शिवः स्वयमेव भक्तमवितुं मनो दधे ॥ ४२॥
स निधाय मूर्ध्नि शशिखण्डमण्डने सुमहान्तमिन्धनभरं नराकृतिः ।
दिवसावसानसमयावधि भ्रमन् परितश्चचार मधुरापुरे हरः ॥ ४३॥
इदमिन्धनं धनमिवाहृतं चिरादतिशुष्कमव्रणमकण्टकं गुरु ।
क्षममस्य मूल्यमुपकल्प्य गृह्यतामिति घोषयन् परिचचार शङ्करः ॥ ४४॥
उपगायतोऽस्य पथि गानवैभवादुपजातपल्लवतयातिकोमलम् ।
अपि मस्तकस्थसरिदम्भसार्दितं न तदिन्धनं जगृहिरे पुरौकसः ॥ ४५॥
चरतोऽस्य तत्र नगरे ततस्ततश्चरणाब्जविन्यसनभावितं रजः ।
चतुराननप्रभृतिभिः समं सुरैः प्रणिपत्य सञ्जगृहिरे महर्षयः ॥ ४६॥
करयुग्मसङ्गमितभारमन्थरं घटितश्रमाम्बुकणमस्य वीथिषु ।
क्रयवादनादजितकोकिलारवं गतमागतं च न गतं ममाशयात् ॥ ४७॥
अथ काष्ठभारमवरोप्य दुर्भरं स बहिर्गृहादभिनवस्य गायतः ।
उपविश्य वीतभरणश्रमः शनैरुपगायति स्म मधुरं यदृच्छया ॥ ४८॥
अथ षाडवौडवविभेदि सर्वमप्यवलम्ब्य रागकुलमस्तसङ्करम् ।
स जगावनुल्लिखिततानधोरणीमधुरं ह्रिये हृदि भिये च गायताम् ॥ ४९॥
अथ विस्मयादभिनवस्य गायतो गुरुसम्प्रदायमभिगम्य पृच्छतः ।
स जगाद भद्रसदने गतागतैरदसीयगीतिगुणरीतिमाहृताम् ॥ ५०॥
तदुदीरितश्रवणलब्धसाध्वसे प्रपलायिते सपदि तत्र गायके ।
उपगम्य भद्रमुचितैर्विभूषणेर्बहुमन्यते म्म नृपतिर्धनैरपि ॥ ५१॥
स ददौ समस्तमपि तन्महेश्वरे विततार यद् वरगुणोऽस्य पार्थिवः ।
अपि सञ्चितं वसु दिशन् शिवाश्रमिष्वधनो बभूव बहुधार्जयन्नपि ॥ ५२॥
कविगायकाभिमतकल्पशाखिनः सविधे कदाचिदथ चेरभूपतेः ।
प्रवितीर्य पुत्रमपि भक्तमात्मनः प्रजिघाय भद्रममृतांशुशेखरः ॥ ५३॥
स्वपने पुरैव स च तत्समागमं प्रतिबोधितः पुरहरेण पार्थिवः ।
अभिगम्य भद्रममितैर्विभूषणद्रविणाम्बरैः सपदि पर्यपूजयत् ॥ ५४॥
इति कन्दलत्यहरहर्दयारसे शफरेक्षणासहचरस्य गायके ।
भवति स्म भक्तिरपि तस्य तावती चरमं शरीरमधितष्ठुषस्तदा ॥ ५५॥
उषसि प्रगे तदनु सङ्गवे ततो दिनमध्यगे दिनमणौ निशामुखे ।
रजनीदले च नियमादसेवत प्रमथाधिनाथमुपवीणयन्नयम् ॥ ५६॥
समयेषु षट्सु नियमेन यज्जगौ स बहिर्वृषात् स्वयमनावृते वसन् ।
द्रढिमानमस्य नियमे परीक्षितुं जलदानचोदयत वृष्टये हरः ॥ ५७॥
स्तनितारवैर्बधिरतामगुर्दिशस्तटितां त्विषा तनुभृतां हृता दृशः ।
अपतन् क्षितावशनयः पदे पदे तिमिरं निरन्तरमरुद्ध रोदसी ॥ ५८॥
जगदास्त बद्धमिव जातसाध्वसं समये यदा स तु तदैव गायकः ।
अवगाह्य हेमकमलाकरे शनैरभिगम्य सन्निधिमगायदैश्वरम् ॥ ५९॥
अथ मेघरञ्जिमहिरञ्जिमुख्यतन्मृदुगानसंवलितरागवैभवात् ।
द्रवतां प्रपन्नमिव भूनभोन्तरं ददृशे तदा जलधरैर्निशात्यये ॥ ६०॥
करकोपलैर्विघटिता विपञ्चिका करजा न तस्य वशवर्त्तिनोऽभवन् ।
अपि कम्पमानवपुरप्रकम्पिनीमवलम्ब्य भक्तिमयमुज्जगौ पुनः ॥ ६१॥
घनकर्दमद्रवनिमग्नमग्रतश्चरणद्वयं चलयितुं च नाशकत् ।
स यदा तदास्य विपुलं समुन्नतं स्वयमुद्बभूव माणिचित्रमासनम् ॥ ६२॥
स निविश्य तत्र शिवसक्तया दृशा निरवर्त्तयन्नियममत्वरो यदा ।
विरतं घनैर्विमलमम्बरं बभौ विललास दिक्षु च तदैव कौसुदी ॥ ६३॥
फलकं तदद्भुतमवेक्ष्य पार्थिवः प्रणिपत्य भद्रमसकृत् प्रशस्य च ।
शिवलिङ्गतोऽपि शिवयोगिषु स्थिरां शिवभावनामकृत तत्प्रभृत्ययम् ॥ ६४॥
अथ राजराज इति दिक्षु विश्रुतं तनयं बहुश्रुतमसावविन्दत ।
तपसा प्रसाद्य तरुणेन्दुशेखरं मलयध्वजान्वयमहानिधिं नृपः ॥ ६५॥
अवरोप्य भारमखिलं भुवः सुते लघुरुत्पतन् वरगुणः शिवान्तिकम् ।
अवनीभृतः पुनरन्धात् फणाधरानियमस्य भूभरणवासनेदृशी ॥ ६६॥
उदितोदितं विविधया सपर्यया भजतां स्वमेव भुवि पाण्ड्यभूभुजाम् ।
अपवर्गमेकविधमर्पयन्नयं मधुरेश्वरोऽपि महतीं ह्रियं दधे ॥ ६७॥
अथ राजराज इति लब्धमाख्यया पुरभित्सखत्वमतिशय्य वर्त्तितुम् ।
पितरौ गुरुं सुहृदमात्मनः प्रभुं कुलदैवतं च कुरुते स्म तं नृपः ॥ ६८॥
निममज्ज तस्य हृदयं निसर्गतः शफरेक्षणासहचराङ्घ्रिपद्मयोः ।
कुलशेखरान्वयभुवां शिवव्रते कुत एष कारणगवेषणश्रमः ॥ ६९॥
अथ भद्रनामनि चिराय गायके शिवलोकमेयुषि तदीयगेहिनी ।
चतुरा ततोऽपि किल गानविद्यया शिवमारराध समयेषु षट्स्वपि ॥ ७०॥
अवरोधगहमधिजग्मुषी विभोरवनीपतेर्दयितया कयाचन ।
कलहायते स्म निजगानविद्यया दृढया महेशदयया च जातु सा ॥ ७१॥
तदुपक्रमं धरणिवल्लभोऽपि तामवमन्तुमाहितकुतूहलश्चिरात् ।
स्वयमानिनाय जलराशिमध्यतः सुदृशं स काञ्चिदथ गानकोविदाम् ॥ ७२॥
जगतुस्ततः सदसि ते महीपतेरधिकेत्यगृह्यत तु तत्र नूतना ।
मनसाधिगम्य मधुरेश्वरं शुचा भणति स्म भद्रगृहिणी पुनर्नृपम् ॥ ७३॥
सदसि स्थिता मयि चिरादमर्षिणो यदि किञ्चिदाहुरिह किं ततः क्षतम् ।
अभिगम्य सन्निधिमनङ्गशासितुः कथयन्त्वमी तरतमत्वमावयोः ॥ ७४॥
विजयेत या भवतु सात्र भट्टिनी विजिता तु मा भवतु सात्र किङ्करा ।
इति सा यदाह तदनिच्छतोऽप्यभूदभिनन्दनीयमवनीभुजस्तदा ॥ ७५॥
अथ ते समेत्य सविधं महेशितुः सह पार्थिवेन सदसि स्थितैरपि ।
जगतुर्गिरा मधुरयादितस्ततः परिवादिनीमुरलिकाविपञ्चिभिः ॥ ७६॥
अधिका तु यद्यपि नवैव तत्त्वतस्तदपि प्रपन्नजनपक्षपातिनः ।
मधुरेश्वरस्य किल मायया वृता बहुधा समस्तुवत भद्रगेहिनीम् ॥ ७७॥
जयभङ्गयोर्विदितयोर्विपर्ययादपि तत्र नीपवनभर्तुराज्ञया ।
विजिता नवैव विजितं तु भद्रयेत्यगदीदभीक्ष्णमवशो महीपतिः ॥ ७८॥
अवलम्ब्य दास्यमथ सिंहलागता सदसि स्वयं परिचचार भद्रिकाम् ।
स च पार्थिवः कनकभूषणाम्बरैर्विविधैरपूजयत विस्मयेन ताम् ॥ ७९॥
इति राजराजधरणीपतेः क्षितिं परिरक्षतः प्रणिहितेन चेतसा ।
विनयो विवेकत इवातिविश्रुतस्तनयोऽभवत् सुगुण इत्यभिख्यया ॥ ८०॥
तारुण्य एव विनयावनतं कुमारं
तं राजराजनृपतिः सकलागमज्ञम् ।
पश्यन्नखण्डितपराक्रममभ्यषिञ्चत्
सम्प्रार्थितः प्रकृतिभिः किल यौवराज्ये ॥ ८१॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवेऽष्टादशः सर्गः ।
अथैकोनविंशः सर्गः ।
तनूभवे वहति ततो वसुन्धरां चिरादसौ नृपतिरुपेत्य विश्रमम् ।
वनेचरैः सह मृगयाकुतूहली वनंवनं व्यचरदधिज्यकार्मुकः ॥ १॥
परिभ्रमच्छ्वगणविकृष्टशृङ्खलावलीघनध्वनिजनितप्रबोधनाः ।
ततस्ततस्तरुतलकुञ्जपुञ्जतो विनिर्ययुर्विवृतमुखा मृगादनाः ॥ २॥
पुनः पुनः परिपततः शुनः क्रुधा जिघृक्षवः खरनखरास्तरक्षवः ।
प्रचक्रमुः किमपि यदा तदा शरैर्निरन्तरानकृततरामिमान् नृपः ॥ ३॥
स्तनग्रहग्रहिलतया निरुन्धतस्तनन्धयन् सपदि विलङ्घय सम्प्लुता ।
मृगी मृगं क्षितिपतिपाणिगोचरादपालयत् स्वयमभिपेतुषी पुरः ॥ ४॥
स्वसायकादपि चललक्ष्यपातिनः स्वयं पुरः परिचलता महीभृता ।
अरुध्यत प्रथममविध्यत त्वथ त्वरोच्चलत्तुरगखुरक्षता मृगी ॥ ५॥
सटासु तच्छबरभटावलम्बितः प्रकम्प्रितुं किमपि न चक्षमे स्वतः ।
अवैक्षत भ्रुकुटिविटङ्कभीमया दृशा पुनस्तदपि मृगान् मृगाधिपः ॥ ६॥
वृथा नयन् विपिनचरान् शराहतान् विषादमावहत यमन्तरन्तकः ।
स तस्य ते महिषगणान् निपातयन्नपाहरद् वनभुवि वाहनार्पणात् ॥ ७॥
गणङ्गणं चमरवराहगण्डकान् वृकानपि क्षपयति तत्र पार्थिवे ।
किटिर्झटित्युपनिपपात कश्चन क्रुधा ज्वलन्नचलगुहागृहात् ततः ॥ ८॥
स दंष्ट्रया कुलिशनिशातधारया परिक्षिपन् शबरभटानितस्ततः ।
गणं शुनामविगणयन् पदेपदे धरापतेस्तुरगसमीपमापतत् ॥ ९॥
अवस्थितं धुरि तमवेक्ष्य पार्थिवः स सन्दधे धनुषि न यावदाशुगम् ।
स तावदुञ्चलितविषाणकोणतो व्यदारयच्चरणतले तुरङ्गमम् ॥ १०॥
अवप्लुतः सपदि तुरङ्गमात् ततः पतिः क्षिते रथमधिरुह्य तं पुरः ।
अवाकिरज्ज्वलितमुखैः शिलीमुखैर्धराधरं जलद इवाम्बुवृष्टिभिः ॥ ११॥
स तद्धनुर्वलयविनिस्सृतैः शरैः समाचितः शललगणैरिवाभितः ।
अचूर्णयन्मुखमसकृद् विघूर्णयन् ससारथिं सतुरगमम्य तं रथम् ॥ १२॥
ततः प्लुतः सपदि रथान्महारथस्तमुद्धतं गिरिमिव जङ्गमं किटिम् ।
अनुद्रुतं प्रियतमया नृपो रयादपातयत् स भुवि कृपाणपाटितम् ॥ १३॥
ततः प्रभृत्यजनि वराहशैल इत्यभिख्यया धरणिधरः स विश्रुतः ।
उपत्यकामुपरुरुधे स यस्य तां पतन् किटिः पृथुरिव पादपर्वतः ॥ १४॥
गते पुरं धरणिपतौ सविस्मये क्षुधार्दितास्तदनु वराहपोतकाः ।
प्रसूस्तनप्रणयकृतातिकूजिता दशापतन् द्विसमधिकास्तदावशाः ॥ १५॥
तपस्विनामवनकृते तपस्यतां गिरेस्तटे कृतरतिरत्र शङ्करः ।
कृपालयः किटिपृथुकानपालयत् स तत्प्रसूतनुरमितैः स्तनामृतैः ॥ १६॥
पुरा युगे वृषलकुमारका हि ते तदाश्रिताः शमधनशापतो वपुः ।
समुद्धृताः पुरमथनस्तनामृतैः क्षणाद् दधुः किटिवदना मनुष्यताम् ॥ १७॥
कलासु ते दधुरखिलासु कौशलं विशिष्य च क्षितिपतितन्त्रवैदुषीम् ।
न सूकरः शिवचरणे कृताशयः स सूकरः पुरभिदि यः पराङ्मुखः ॥ १८॥
वराहताभरणविलासवासनावशादिव श्रुतिशतमौलिलालितम् ।
विमार्गितुं चरणयुगं पुराद्वषः कुतूहलं सततममी वितेनिरे ॥ १९॥
अनुज्ञया तदनु कदापि धूर्जटेरवस्थितानचलगुहासु तान् नृपः ।
समानयन् सचिवपदे न्यवेशयद् वचम्विनो नरपतितन्त्रकोविदान् ॥ २०॥
सभाजिता नृपतिवरेण सर्वथा चिरायुषो द्विसमधिका दशापि ते ।
शिवाश्रमव्यतिकरधूतकल्मषाः शिवं ययुः प्रणतशिवङ्करं ततः ॥ २१॥
ततो गते पितरि पदं महेशितुस्तदात्मजः सुगुणनृपालशेखरः ।
अपालयच्चिरमवनीं ससागरामचञ्चलामकृत च भक्तिमीश्वरे ॥ २२॥
बहिर्भ्रमन् क्षुदुपशमाय सर्वदा बलीयसा करटकुलेन ताडितः ।
अचञ्चलं चरणयुगं शिवस्य कोऽप्यकिञ्चनः शरणयति स्म खञ्जनः ॥ २३॥
विहङ्गमः करटभिया शिवालये निलीय स क्वचन विटङ्कसीमानि ।
सकृत् पतन् कनकसरोजिनीपयस्युपोषितः कतिचिदुवास वासरान् ॥ २४॥
जुहाव किं किमयमयष्ट किं ददौ जजाप किं मलिनतनुर्विहङ्गमः ।
तपस्तदप्यजनि तदस्य चेष्टितं परन्तपप्रपदनतः किमन्ततः ॥ २५॥
स मृत्युभीशमनमनूपदेशतो बलीयसामपि बलिनं चकार तम् ।
बलान्यमी किल बलवत्सु विश्रुताः प्रसादशीकरपरमाणवोऽस्य ये ॥ २१॥
स सर्वमध्यकुरुत पक्षिमण्डलं परिग्रहात् प्रमथपतेर्विहङ्गमः ।
तदादि खल्विदमधुनापि लक्ष्यते तदन्वये विहगकुलाधिकं बलम् ॥ २७॥
ततस्ततः सरसि निरीक्ष्य यादसां परम्परप्रतिहतिपातकं बकः ।
निवृत्तजात्युचितविचेष्टितः स कोऽप्यगाहत प्रियकवनं कदाचन ॥ २८॥
विगाहते कनकसरोजिनीजले विलोकते न तु शफरान् दृशापि सः ।
बिभर्त्ति तु स्वकमुदरं बिसाङ्कुरैः प्रदक्षिणं भ्रमति सदा च शूलिनः ॥ २९॥
इति व्रतं दृढतरमेष धारयन्नुपास्त तन्त्रिपुरहरं यदा चिरम् ।
तदा स्वयं तरुणशशाङ्कमौलिना सरः कृतं विगतसरोजसङ्कथम् ॥ ३०॥
स वल्गतो नवनवनीतकोमलान् समीपतः शफरशिशून् विलोकयन् ।
क्षुधा किल क्षुभितमना मनागिव प्रचक्रमे पिशितपरिग्रहक्रमे ॥ ३१॥
समुत्प्लुतं वदनपुटे स्वयं ततः शरारिरादित शफरार्भकं यदा ।
तदा झटित्यवबुबुधे व्रतक्षतिं विवेकिषु प्रभवति किं चिरं तमः ॥ ३२॥
परित्यजन्नपि पललं झटित्ययं प्रवर्त्तनात् क्षणमपथे कृतव्यथः ।
असूनपि व्ययितुमियेष दुस्त्यजानहो सतां प्रकृतिरपत्रपिष्णुता ॥ ३३॥
स रक्षितुं बकमकरोद्यथापुरं सरस्तदुल्लसितमृणालपल्लवम् ।
तदादि चाकृत तपनीयपद्मिनीं विवर्जितां कियदपि यादसां गणैः ॥ ३४॥
स खञ्जनः स च बकशाबकः प्रभोरनुग्रहात् परममवापतुः पदम् ।
द्विजे द्विजो यदि दयते क्षमं हि तद् द्विजो ह्ययं विबुधगणेषु गीयते ॥ ३५॥
दिवं गते सुगुणनृपे दयानिधावुपर्युपर्युपचितसद्गुणोत्तराः ।
तदन्वये धरणिभुजो महारथाः परश्शता धरणिमिमामपालयन् ॥ ३६॥
युगे युगे कुलमुदितोदितं हि तत् प्रवर्तितं प्रथममनङ्गवैरिणा ।
प्रियङ्करं प्रियकवनीपतेरभूदभग्नमादिवसपरिक्षयं विधेः ॥ ३७॥
उपस्थिते युगविगमे पृथग्विधाः समुद्गता दिशि दिशि धूमकेतवः ।
अरुद्ध च द्युमणिमहर्मुखे सदा कबन्धवत् किमपि निरन्तरं तमः ॥ ३८॥
समन्ततोऽजनि शतवार्षिकः क्षिताववग्रहः स्वयमनवग्रहस्ततः ।
चतुर्विधं जनुरपि भूतसंसदां विलुप्यते जगति निरन्वयं यथा ॥ ३९॥
विवस्वतो विदधति सप्त रश्मयो जगत्सु ये जलतुहिनाभिवर्षणम् ।
समेऽपि ते तपनतया पृथक्पृथक् प्रतापने प्रववृतिरे समन्ततः ॥ ४०॥
द्रवीकृतैः प्रथममथोपशोषितैः स्थलीकृतैर्हिमशिखरैः समन्ततः ।
हिमालयो मृदुपलमात्रशेषितो विदिद्युते भुवि किल वेत्रदण्डवत् ॥ ४१॥
प्रतापिताः प्रथममबिन्धनाग्निना विशोषितास्तदनु करैर्विवस्वताम् ।
उपर्यधः क्वथितजलौघपाचितैस्तिमिङ्गलैर्जलनिधयः कषायिताः ॥ ४२॥
विशोषिताम्भसि विधुमण्डले तदा विसृत्वरा अपि किरणा विवस्वतः ।
खरातपा निशि परिणम्य चन्द्रिकाप्रवर्त्तनप्रतिहतशक्तयोऽदहन् ॥ ४३॥
पराकृतद्रुमतृणगुल्मसङ्कथे पयोधरस्मृतिविधुरे युगात्यये ।
अपि त्रिवृत्करणपथोपपादितं पयः क्षितावजनि कथावशेषितम् ॥ ४४॥
फणीशितुर्वदनसहस्रनिस्सृता विषानलोद्वमनविशेषभीषणाः ।
समीरणाः सरभसताडितस्खलत्परस्परा ववुरपरस्परास्ततः ॥ ४५॥
विषानलव्यतिकरशोषितान्तरद्रवत्स्फुटद्दृढतरसन्धिबन्धनाः ।
शिलोच्चया अपि हि रजश्छटात्मना दिशन्दिशं पवनवशेन निन्यिरे ॥ ४६॥
प्रदीपिता इव पवनेन ताडिताः प्रतिक्षणावसितपुनस्समुद्गताः ।
प्रजज्वलुः कथमपि चण्डरश्मयः पदे पदे स्खलितरथा वियत्पथे ॥ ४७॥
पयः किल प्रतिहतकल्मषं सुधेत्युदारहन्त्युदकरहस्यकोविदाः ।
पयःकथामपि पवनेन लुम्पता सुधान्धसोऽप्यजहुरसून् गतान्धसः ॥ ४८॥
प्रसर्पता धरणितलादसातलं महोष्मणा युगविगमाहिमत्विषाम् ।
प्रतापिताः पुनरशनातिमात्रयाप्यसूनहो जहुरहयो महानिलैः ॥ ४९॥
अधस्पदे कमठवराहभोगिनामवस्थितस्तदनु ललाटलोचनः ।
किमेतदित्युपरि दृशं द्वयाधिकामवाकिरद् दरदलितामवज्ञया ॥ ५०॥
ततोऽग्निना कमलभवाण्डमूलभूनिविष्टधूर्जटिनिटिलाक्षिजन्मना ।
चटच्चटच्चटदिति भूर्भुवस्स्वरित्यदह्यत त्रिजगदपि प्रसह्य तत् ॥ ५१॥
उदन्वतामुदरतलेषु शोषितास्तदीरिता लवणमया महाद्रयः ।
समन्ततः सदसि विधातुरुद्ययुर्महोपला इव युधि यन्त्रनिस्सृताः ॥ ५२॥
नभस्स्वतामजनि विवस्वतामपि क्षणादहो भसितदशा तदर्चिषा ।
बलीयसामपि बलिभिर्भुवः क्षयः परं त्वसौ भवति कियद्विलम्बितः ॥ ५३॥
तदर्चिषा गिरिशिखरस्फुलिङ्गया जना महःप्रभृतिषु जातसञ्ज्वराः ।
चिरायुषः सनकसनन्दनादयः प्रदुद्रुवुः पदमकुतोभयं विधेः ॥ ५४॥
अवस्थिताः प्रियकवने युगात्ययेऽप्यविक्रिया मदनजितः प्रभावतः ।
विशङ्कटे कनकसरोजिनीतटे विशृङ्खलाः प्रमथगणा विजह्रिरे ॥ ५५॥
कपर्दिनस्तदनु कपर्दमण्डलात् समुद्गता नभसि घना घनान्घनाः ।
नजृम्भिरे जगदखिलं हविर्भुजा परिश्रितं प्रशमयितुं समन्ततः ॥ ५६॥
कणानपां करिकलभानिव च्युतान् पटत्पटद्ध्वनिमुखरान् पयोमुचाम् ।
प्रसारयन्निव रसनां शिखाच्छलात् पपौ शनैस्सिमिसिमिति क्षयानलः ॥ ५७॥
पयःकणप्रशमितकल्पपावकप्रसृत्वरप्रतिनवधूममण्डलैः ।
समन्ततः पुनरपि सान्द्रतां गता वलाहका ववृषुरपो निरन्तरम् ॥ ५८॥
ततस्ततो जलदकुले तटिद्गणाश्चकाशिरे चपलमरीचिवीचयः ।
विहाय भूतलमिव तद्दिधक्षया विनिस्सृताः प्रलयहुताशनार्चिषः ॥ ५९॥
ततोऽयुतायुतयुगयोजनोन्नतास्तदर्चिषः सलिलनिपातकुण्ठिताः ।
हसीयसीमुपगमिता दशां तदा निरीक्षिताः प्रियकवनाश्रितैर्गणैः ॥ ६०॥
परस्परं प्रलयहुताशमेघयोर्भयानके प्रचलति साम्परायिके ।
समागता भुवि समये हविर्भुजा सनाभयः किमशनयः पयोमुचः ॥ ६१॥
उभावपि प्रलयदशानिरङ्कुशावुभावपि त्रिपुरहरस्य गात्रजौ ।
तथापि तु व्यजयत वारिदोऽनलं जयः कथं जगदुपतापिनो भवेत् ॥ ६२॥
भयानकैरशनिनिपातनिस्वनैः प्रतिक्षणक्षुभितहृदः पयोमुचाम् ।
अपि क्षपामनुभवतः पदे निजे प्रजागरः परिणमति स्म वेधसः ॥ ६३॥
अचन्द्रमस्तपनमपेततारकं प्रशान्तपावकमवसन्नमारुतम् ।
अकालदिग्भुवनमसच्छुभाशुभं तमोमयं पयसि ममज्ज तज्जगत् ॥ ६४॥
यदण्डतो बहिरबहिश्च यज्जलं तदेकतां गतमिव सर्वतस्तदा ।
अगाधमप्रचलमपारमस्वनं प्रवृद्धमाध्रुवपदमारसातलम् ॥ ६५॥
जडाजडे जगति गते रसातलक्षमानभस्सुरनरतिर्यगात्मनि ।
जलास्तरे वटदलतल्पमाश्रितो जगन्निधिर्व्यहरत कोऽपि बालकः ॥ ६६॥
समन्ततो जगति समावृतेऽम्भसाप्यमज्जति प्रियकवने निजाज्ञया ।
स बुद्बुदोदर इव सार्धमम्बया समं गणैरपि विजहार शङ्करः ॥ ६७॥
चतुर्मुखे स्वपति विलुप्तसङ्कथे चराचरे विरमति कालकल्पने ।
अनुश्रवैः परमधिगम्य तुष्टुवुर्महर्षयः कतिचन तं महीं गतम् ॥ ६८॥
जलप्लवैर्बहिरवहिश्च धूर्जटेर्जटाटवीहिमकरचन्द्रिकाङ्कुरैः ।
जडीकृते सति मधुरेश्वरालये जगुर्गणा जहसुरनर्त्तिषुः सुखम् ॥ ६९॥
परिक्षये प्रलयनिशस्ततश्चिरात् पयोजभूः सलिलशयस्य शार्ङ्गिणः ।
निदेशतो निखिलमिदं जगत्त्रयं यथापुरं पुनरसृजत् प्रयत्नतः ॥ ७०॥
प्रकल्पयन् प्रथममहर्निशाकरौ प्रणाशयन् कबलितविष्टपं तमः ।
विशोषयन् सलिलमशेषमुत्थितं विनिर्ममे विधिरमरालयं पुनः ॥ ७१॥
ततः क्षितौ कथमपि धाम शाकरं तदेकमक्षतमभिजानतामुना ।
सरिद्गिरिस्थलसरिदीश्वरादिकं सुमेधसा निखिलमकल्पि वेधसा ॥ ७२॥
ततः सृजन् स विबुधमर्त्त्यभोगिनो निवेशयन् निजनिजधामसु स्थिरम् ।
प्रवर्त्तयन् सुपरिचितेषु कर्मसु व्यधत्त तच्छयितमिवोत्थितं जगत् ॥ ७३॥
ततश्चिरादजनि तु वंशशेखरो महीपतिर्द्रमिडकुलेषु कश्चन ।
प्रभुत्वमावहत स पाण्ड्यमण्डले महेश्वरार्पितहृदयो महाशयः ॥ ७४॥
स सुन्दरेश्वरसदनैकशपिणीं भजन् पुरीं भुवि मधुरेति विश्रुताम् ।
निवेशयन् क्वचिदपि काश्चन प्रजाः क्वचित् स्वयं न्यविशत कल्पितालयः ॥ ७५॥
दिनेदिने मदनजितः सपर्यया समृद्धया स धरणिवल्लभश्रिया ।
यथापुरं पुरमचिकर्षिदुच्छ्रितैः समन्ततो नृपगृहसालगोपुरैः ॥ ७६॥
स वेदितुं पुरपरिमाणमुत्युको जड़ए जगत्यविदिततत्पुरस्थितौ ।
दृढव्रतो द्रमिडकुलाब्धिचन्द्रमाः समाहितः शरणयति स्म शङ्करम् ॥ ७७॥
कृपानिधिस्तदनु शशाङ्कशेखरः कृतादरः क्षितिभृति वंशशेखरे ।
प्रदर्शय स्थलपरिमाणमित्यशाद् विभूषणं भुजगवरं विनिक्षिपन् ॥ ७८॥
स पुष्पकाननभुवि वालमर्पयन् प्रदक्षिणं परिचलितः फणीश्वरः ।
शिरस्पदं पुनरपि तत्र योजयन्नदर्शयत् पुरपरिमाणमद्भुतम् ॥ ७९॥
हरित्स्वसौ चतसृषु पुष्पकाननं गुहाचलं भुजगगिरिं वृषाचलम् ।
अनुक्रमादहितिलकः प्रदर्शयन् द्वियोजनं पुरमवदत् समन्ततः ॥ ८०॥
तिरोहिते पुरहरभूषणोरगे तदाकृतिं वरणमयं प्रकल्पयन् ।
विशङ्कटैर्विपणिपथैः शिरोगृहैरलङ्कृतं पुरमकरोद् यथापुरम् ॥ ८१॥
हालाहलास्यपरिवेष्टनलब्धसीमं
हालास्यमित्यभिधया नगरं तदासीत् ।
भोगाभिवेष्टिततयापि च भोगभूमिः
कैवल्यभूरपि बभूव महीविभागे ॥ ८२॥
आसादयन्नश्वपतिं सहायमथैकदा विक्रमचोलदेवः ।
विचार्य विस्रब्धममुं नृपालमायोधनायोपजगाम सैन्यैः ॥ ८३॥
अतर्कितासन्नमरातिसैन्यमाकर्णयन् पाण्ड्यनृपो विशङ्कः ।
कृताभ्यनुज्ञो मधुरेश्वरेण जयं करम्थं कलयन् प्रतस्थे ॥ ८४॥
धनुर्धरेष्वेकतमो भवन् हरः शितैः शरौघैः शिवनामलाञ्छितैः ।
अवाकिरत् सैन्यमदृश्यपातिभिर्विशृङ्खलं विक्रमचोलभूपतेः ॥ ८५॥
अनुग्रहं स तमनवग्रहं विभोर्विचिन्तयन् क्षितिभृति वंशशेखरे ।
परित्यजन् गजतुरगान् पलायितो विना। रणं कियदपि चोलभूपतिः ॥ ८६॥
पराक्रमेणाप्रतिमेन पार्थिवान् गिरा सुधासारकिरा कवीनपि ।
जयन्नयं सप्तसमुद्रमुद्रितां बभार पृथ्वीं मधुरेश्वरार्पिताम् ॥ ८७॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णव एकोनविंशः सर्गः ।
अथ विंशः सर्गः ।
कपिलकीरमुखाः कवयस्ततः कतिचिदासत ताम्रनदीतटे ।
द्रुहिणशापवशाजननी गिरामवततार पुरा हि यदात्मना ॥ १॥
अथ चतुर्गुणिता व्यधिका दश त्रिदशदेशिकधिक्करणक्षमाः ।
प्रति ययुर्मधुरामभिवन्दितुं प्रमथनाथममी कविपुङ्गवाः ॥ २॥
कविशरीरभृता कवयस्तु ते समधिगम्य हरेण पुरस्कृताः ।
समवगाह्य सुवर्णसरोजिनीं ददृशुरद्रिसुतादयितं महः ॥ ३॥
दृढविनीतधियः सुधियस्तु ते द्रमिडसूत्ररहस्यविवेचने ।
मृदुसुगन्धिवचःकुसुमस्रजा विविधया मधुरेशमपूजयन् ॥ ४॥
अकवयः कतिचिद् विबुधाधमाः कुकवयश्च परे कृतसंविदः ।
कविभिरप्रतिमैर्भुवनेषु तैः कलहमादधिरेऽथ वितण्डया ॥ ५॥
शब्दार्थौ दोषनिर्मुक्तौ सालङ्कारौ गुणोत्तरौ ।
काव्यमातिष्ठमानेभ्यः कविभ्योऽयं कृतोऽञ्जलिः ॥ ६॥
आद्यं हि शब्ददोषाणामसाधुत्वं मतं च वः ।
स्वरमश्रद्दधानानां स्वरूपे केव साधुता ॥ ७॥
काव्यार्थादपि किं दुष्टं कामिदुश्चरितोत्तरात् ।
अत एव हि काव्यानामालापः सद्भिरुज्झितः ॥ ८॥
अथान्य एव कल्प्यन्ते गुणदोषा निजेच्छया ।
काकदन्ताः परीक्ष्यन्तां गृह्यन्तां ग्राम्यसूक्तयः ॥ ९॥
तत्र तत्र पुराणेषु तन्त्रेषु च यदि स्फुटम् ।
काव्यालापानुवादोऽस्ति का जिगीषा ततोऽपि वः १०॥
सर्वा वाचो वदन्तीति सप्ततन्तौ महाव्रते ।
ग्राम्योक्तयोऽपि किं शास्त्रे क्रत्वङ्गत्वेन नोदिताः ॥ ११॥
अयोग्यानां हि काव्यानामग्निसेकादिवाक्यवत् ।
मूकतैव हि दुर्भेदा मुह्यन्त्येषु कथं जनाः ॥ १२॥
कथञ्चिद्यदि सार्थक्यं कथञ्चित्तैव दूषणम् ।
सफलः क्लेश इति च सम्प्रदायागतो भ्रमः ॥ १३॥
अक्लेशेन फले लभ्ये न क्लेशो युक्तिमर्हति ।
यस्मै फलाय सा गौणी तदेव स्फुटमीर्यताम् ॥ १४॥
अर्थानपि व्याप्नुवती हतसर्वनियन्त्रणा ।
व्यञ्जना शब्दवृत्तिश्चेद् वेश्या पत्नी न किं भवेत् ॥ १५॥
धूमेन ध्वन्यतां वह्निश्चक्षुषा ध्वन्यतां घटः ।
अर्थश्चेद् ध्वनयेदर्थं का प्रमाणव्यवस्थितिः ॥ १६॥
दुःखतोऽपि तु काव्योक्तः सुखायार्थो भवेद्यदि ।
सुखं भवन्तः शृण्वन्तु स्वनिन्दां कविभिः कृताम् ॥ १७॥
अहो भावव्यक्तेः परिणतिरहो गूढरस इ-
त्यलीकव्यामीलन्नयनविगलद्बाष्पसलिलैः ।
उदञ्चद्रोमाञ्चैरुदरलुलितामैरिव मुहुः
कथं व्याप्ता भूमिः काविभिरपटुज्ञानपशुभिः ॥ १८॥
इति निगदितमेवाभीक्ष्णमावर्त्तयद्भिः
प्रतिकथकवचांसि क्वाप्यनाकर्णयद्भिः ।
अपथचिरविनीतैर्बालिशैरात्तगन्धाः
शरणमभिसमीयुश्चन्द्रचूडं कवीन्द्राः ॥ १९॥
नान्धाश्चक्षुस्समेता न च खलु बधिरा आक्षिपन्तः परोक्तीः
नाप्येते नाथ! मूका विफलमविरलं यत् तदुच्चैः स्वनन्तः ।
तत्तत्सैद्धान्तिकोक्तीरभिदधत इव क्वाप्यनाघ्राततत्त्वा
दृश्यन्ते केचिदेते शिव शिव कुधियामेष सर्गोऽद्भुतस्ते ॥ २०॥
काव्यागमज्ञाः सुखमाक्षिपन्तु का तत्र चिन्ता भवतः प्रसादात् ।
अहो वयं प्रव्यथिता अमीभिः काव्याध्वदुष्टश्वभिरेडमूकैः ॥ २१॥
दन्तोल्लेखनखक्षतादिदयितव्यापारपारम्परी-
निर्ग्लानापि हि कामिनी दिनमुखे निस्सीममानन्दति ।
मार्जारी नखराङ्कुराखुदशनव्याविध्द्यमाना मना-
गायुर्वेदविदोऽभिगच्छति रुदत्यासन्नमृत्युर्यथा ॥ २२॥
तदलं तरुणेन्दुचूड! नः परितापार्त्तिपरीक्षयानया ।
परिवर्जय पण्डिताधमैरिदमैकाधिकरण्यमद्य नः ॥ २३॥
विज्ञापितः कविवरैरिति सुन्दरेशः
स्मित्वा ददौ फलकमेकमदृष्टपूर्वम् ।
यत्रासते कवय एव यथाभिलाष-
मन्ये तु नाङ्घ्रिमपि विन्यसितुं क्षमन्ते ॥ २४॥
अध्यारूढाः पीठमीशादवाप्तं दुर्दर्शं तद् दुर्धियां दूरतोऽपि ।
अष्टाचत्वारिंशदाद्याः कवीन्द्राश्चक्रुर्भक्तिं भूयसीं चन्द्रचूडे ॥ २५॥
वंशचूडामणिः पाण्ड्यो वंशशेखरकस्ततः ।
जज्ञे यत्र भुवं न्यस्य जज्ञौ स परमामृतम् ॥ २६॥
स तु कदाचन चम्पककोरकैः परिचरन् प्रमथाधिपतिं मधौ ।
अजनि चम्पकपाण्ड्य इति प्रथामभिवहन् कविलोकशिखामाणः ॥ २७॥
स कामिनीरत्नसहस्रभोगभाग्योन्नतश्चम्पकपाण्ड्यदेवः ।
मासे मधौ मन्मथमारराध नवोढया नर्मपरो महिष्या ॥ २८॥
अपारयन्ती त्रपया गलन्तीं नीवीं नियन्तुं समुपेक्षितुं वा ।
पत्युर्मुखं नाभिपदं च बाला पर्यायतः केवलमालुलोके ॥ २९॥
आलिङ्गितुं चुम्बितुमन्ततस्तं स्प्रष्टुं समाभाषितुमीक्षितुं वा ।
नार्यै ददौ नावसरं कदाचिद् व्रीडा सपत्नीव निबद्धवैरा ॥ ३०॥
आच्छाद्य बिम्बाधरमङ्गुलीभिराबद्धमुग्धाञ्जलिना करेण ।
मा मेति मन्दाक्षरमर्थितं यदतः किमस्या मधुरोऽधरोष्ठः ॥ ३१॥
एकत्र विस्रम्भकथाविघातः पक्षोऽपरः शङ्कितुमेव नार्हः ।
कृच्छ्रे तदस्मिन्नधरं कृशाङ्ग्या गृह्णातु वा मुञ्चतु वा युवायम् ॥ ३२॥
दष्टाधरोष्ठा सुदृढं पुरैव पत्युः पुनश्चुम्बनलालसस्य ।
चाटूसहस्रं शपथाञ्छतं च तन्वी विशश्वास न लेशतोऽपि ॥ ३३॥
आबद्धसप्ताष्टनिषङ्गमन्वगासञ्जितद्वित्रकराङ्गुलित्रम् ।
आमर्दितैकद्वशरासमासीदन्यादृगूष्मायितमङ्गजस्य ॥ ३४॥
विन्यस्य गाढं भुजयोर्भुजौ सा मुखं मुखे वक्षसि चापि वक्षः ।
आलिङ्गति स्म स्मरबाणवर्षादाच्छादयन्तीव तनुं प्रियस्य ॥ ३५॥
सकृन्नखाग्रोल्लसितः कचौधः श्लथाश्लथं संयमिता च नीवी ।
सा चाङ्गयष्टिर्मुदिता तरुण्याः सत्यं मुनीनानामपि मोहहेतुः ३६॥
एकाकिनीं तामपहाय लज्जा याता पुरा यत् किल मारयुद्धे ।
ततोऽपराधादिव तामुपेतां पुरेव तन्वी न पुरश्चकार ॥ ३७॥
सा गन्तुमैच्छच्छयितुं स काल्ये साधत्त संव्यानमयं जहार ।
सा नीविमामुञ्चदयं व्यमुञ्चद् भावेऽपि तुल्ये विभिदे क्रियाभिः ॥ ३८॥
ससर्ज तस्यां कियतो विलासांश्चक्रे कथं नाम निशां त्रियामाम् ।
शृङ्गारसारं कलयापि वेधाः किं वेद वेदाक्षरजीर्णकोशः ॥ ३९॥
अनन्यजे वर्षति काममित्थमपव्यवस्थं शरमण्डलानि ।
आदिर्निशादिः सुरतस्य यूनोरन्तो निशान्तोऽपि च पर्यणंसीत् ॥ ४०॥
स जातु प्रासादे शयनमधिगच्छन् क्षितिपतिः
समाजघ्रौ गन्धं कुसुमकुलदुष्प्रापमतुलम् ।
महिष्याः पद्मिन्या मलयपवमानैरुपहृतं
प्रसूतं केशान्तात् प्रशिथिलदृढग्रन्थिशिथिलात् ॥ ४१॥
पद्मसौरभ्यजातीयं पद्मिनीकेशसम्भवम् ।
अनाघ्रातचरं गन्धमवासासीत् स तं नृपः ॥ ४२॥
मनोगतं मे कवयत्यवेत्य यः स एतदग्र्यं लभतां सुधीरिति ।
अलम्बयद् द्वारि सुवर्णमुद्रिकासहस्रमाबध्य स पाण्ड्यभूपतिः ॥ ४३॥
उच्चावचाभिरपि भङ्गिभिरुल्लिखन्तो
नाद्राक्षुरम्य हृदयं कवयो महान्तः ।
आसाद्य कश्चन वटुः पुनरादिशैवः
पद्यं प्रभोरधिसभं पठति स्म हृद्यम् ॥ ४४॥
तस्मै किलार्थितवते मुचिरं प्रसाद्य
दारक्रियार्थमधनाय धनं समग्रम् ।
पद्यं ददौ नृपतिभावनिबन्धहृद्य-
मार्यामयं तदखिलाशयविन्महेशः ॥ ४५॥
जानासि पुष्पगन्धान भ्रमर ! त्वं ब्रूहि तत्त्वतो मेऽद्य ।
देव्याः केशकलापे तुल्यो गन्धेन किं गन्धः ॥ ४६॥
इति तावदिमामार्यामिन्दुकलाभरणवदननिर्गलिताम् ।
पठति द्विजे सभायां प्रभोरभूद् विस्मयो भूयान् ॥ ४७॥
तदनुज्ञया स वर्णी तत् कनकं सदसि यावदादत्ते ।
तावत् तदसहमानः प्रत्यवतस्थे कविः कीरः ॥ ४८॥
अपरिप्कृते प्रसूनैरस्ति कचेऽपि किमसृङ्मले गन्धः ।
किं चिन्तितमवनिभृता किं दृष्टं धीमता भवता ॥ ४९॥
इति तस्य दुराक्षेपादप्रतिभे ब्रह्मचारिणि स्तब्धे ।
प्रादुर्भूयाह हरः कविवेषधरः पुरस्तेषाम् ॥ ५०॥
केन कुधिया सभायामन्तेवासी ममायमाक्षिप्तः ।
प्रकृतिः सा पद्मिन्याः पङ्कजगन्धः शरीरे यः ॥ ५१॥
पार्थिवकुसुमविहीने भवति शचीकुन्तले कथं गन्धः ।
कः शङ्कितोऽप्युपाधिः क्रमते कबरीपरीमले गौर्याः ॥ ५२॥
कार्मणमलात्ममूर्तिषु घटते यदि पार्थिवेषु सौरभ्यम् ।
किमिव खलु पद्मिनीनामपकृतमसृजां मलैः केशैः ॥ ५३॥
इति विजित्य तमुद्धतमुद्धतैः कविवरे परिगर्जति भाषितैः ।
अलभत द्रविणं स वटुर्झटित्यवानिपोऽप्यवरोधगृहं ययौ ॥ ५४॥
कविष्वेकीभूय स्वयमपि हरः सङ्घिषु चरन्
कथाः कुर्वन् हृद्याः स्वयमपि वसन् सङ्घफलके ।
वृतस्तैः स्वामित्वे विविधरचनाभिर्भणितिभिः
कदाचिद् गौरीशः कलहमभजत् कीरकविना ॥ ५५॥
अविश्रान्ते स कीरेऽस्मिन्नाक्षेपाभासदुर्ग्रहात् ।
प्रादर्शयत् स्वमात्मानं पञ्चवक्रं त्रिलोचनम् ॥ ५६॥
भक्तोऽपि करिः परमाद्भुतं तत् पश्यन्नपि प्रत्युत दुर्बभाषे ।
मौढ्यान्निरूढादपि पामराणां मौढ्यं चिदाभासगतं गरीयः ॥ ५७॥
चतसृष्वपि दिक्षु पश्यता चतुरेणापि महेश्वर ! त्वया ।
कविकर्माण नैक्षि दूषणं कथमुद्भावितमप्यहो मुहुः ॥ ५८॥
भावत्क्यः कृतयः श्रुतिः श्रुतिरिति प्रौढिं परां प्रापिता
अध्याहारविपर्ययप्रकरणोत्कर्षानुषङ्गादिभिः ।
तात्पर्यान्तरवर्णनेन च समर्थ्यन्ते यदस्मादृशै-
स्तज्जानन् कवितासु नः पशुपते! दोषेक्षिका मा कृथाः ॥ ५९॥
ईश! त्वमसि ननु ध्रुवमीशानः सर्वविद्यानाम् ।
कीरकृते त्वाक्षेपे कीरवदनुभाषणं ज्यायः ॥ ६०॥
ज्ञानाज्ञानव्यतिकरपरीणाममीशोऽस्य पश्यन्
भक्ताज्ञानप्रशममकृतं चिन्तयित्वा स्वमागः ।
कालेनास्य स्मृतिकलुषतामुद्दियीर्पुस्तिरोऽभू-
देतावन्तो यदि हि न गुणाः कः स नश्चन्द्रचूडः ॥ ६१॥
शिवातिवादप्रभवेन पाप्मना स तापितो दुर्विषहेण दुर्मतिः ।
पपात गाङ्गेयपयोजिनीजले तदेव जानन्नभिपज्यभेषजम् ॥ ६२॥
नित्याधमर्णस्य सकृत्प्रणत्या नीपाटवीसन्निहितस्य धाम्नः ।
कारुण्यतः सञ्जनितानुतापम्तुष्टाव कीरस्तुहिनांशुचूडम् ॥ ६३॥
अपि प्रणेता निगमागमानामाद्यः कविस्तम्य तुतोष सद्यः ।
विज्ञानखद्योतविजृम्भिताभिर्वाग्भिः स लुभ्यन् गुणगन्धतोऽपि ॥ ६४॥
उत्तार्यमाणे कनकाम्बुजिन्याः कीरे करालम्बसमर्पणेन ।
उत्तारितं तं भवसागरादप्यूहाम्बभूवुर्मुनयः पुराणाः ॥ ६५॥
अज्ञानमस्य कवितापदसम्प्ररूढ-
माद्यः कविः शमयितुं कलशोद्भवेन ।
उद्बोधयन् द्रमिडसूत्ररहस्यसार-
मुच्चैर्यशो जगति कीरकवेर्व्यतारीत् ॥ ६६॥
अधीत्य कीराद् द्रमिडागमार्थमथापरे सङ्घकविप्रवेकाः ।
वृत्तीर्विचित्राः स्वयमारचय्य पस्पर्धिरे ते तु परस्परेण ॥ ६७॥
स्वस्य प्रबन्धोत्तममध्यमत्वे संशय्य सर्वे कृतसंविदस्ते ।
सर्वज्ञमीशं शरणं प्रपन्नास्तस्मिन्नतिष्ठन्त कृतप्रणामाः ॥ ६८॥
आविर्भूय ततो लिङ्गादाह तान् मधुरेश्वरः ।
तदीयेषु प्रबन्धेषु तारतम्यविवेचने ॥ ६९॥
अस्ति रुद्र इति ख्यातो वैश्यः स्कन्दांशसम्भवः ।
शापान्मे मूकतां प्राप्तः स वश्छेत्स्यति संशयम् ॥ ७०॥
शृण्वतस्तस्य यां हर्षात् स्यन्दते बाष्पनिर्झरः ।
सकण्टकानि चाङ्गानि सा वृत्तिर्गृह्यतामिति ॥ ७१॥
तदनु तमुपगम्य श्रावयन्तः स्वसूक्तीः
पृथगुपचितबाष्पाः कण्टकोद्रेदरम्याः ।
कपिलभरणकारैः कल्पिता एव वृत्तीः
परिजगृहुरथान्यास्तत्यजुर्दूरतस्ते ॥ ७२॥
दिवं गते चम्पकपाण्ड्यदेवे ततश्चिरात् कोऽपि तदन्ववाये ।
राजा कवीनामपि पार्थिवानां राजा कुलेशो धरणीं बभार ॥ ७३॥
अथ सङ्घिषु कस्यचित् कवेरवमेने स यदा सरस्वतीम् ।
मधुराधिपतेर्मनस्यभूत् प्रतिधो भक्तदयानिधेस्तदा ॥ ७४॥
कदम्बमूलमुत्सृज्य कविभिः सह शङ्करः ।
स्थानमुत्तरहालास्यं प्राप वेगवतीतटे ॥ ७५॥
क्षितिपतिरथेशानं जानन् रुषा परिनिर्गतं
कविकुलमशेष कविभिः सह शङ्करः ।
प्रतिनवसुधाधारासारास्पदैर्वचनैः स्तुवन्
नगरमनयद् भूयः श्रेयस्करं जगतां हरम् ॥ ७६॥
कालेन केनापि तु कारणेन देवीं क्वचिद् दाशकुलेऽवतीर्णाम् ।
पाणौ ग्रहीष्यन् प्रमथाधिनाथस्तीरं ययौ दक्षिणवारिराशेः ॥ ७७॥
स दाशमाशंसितकन्यकावरं समेत्य देवो मधुरेश्वरो युवा ।
सुतां ययाचे स्वयमुद्गिरन् गिरा स्वमद्भुतं वागुरिकत्वकौशलम् ॥ ७८॥
अदृष्टचरमद्भुतं वपुरमुष्य पश्यन्नपि
प्रभावमवधारयन्नपि ततः स्फुटं धीवरः ।
परीक्षितुममुं पुनर्जलधिगर्भसञ्चारिणं
मया समुपदर्शितं मकरमाहरेत्यादिशत् ॥ ७९॥
आसाद्य वैसारिणतां चरन्तमम्भोनिधौ नन्दिनमात्मशापात् ।
सन्दर्शितं दाशकुलेश्वरेण सानन्दमालोकत चन्द्रचूडः ॥ ८०॥
महामायाजालं महदपि निजं स्वप्रपदनाद्
विजित्य स्वच्छन्दं पयसि विहरन्तं जलनिधेः ।
ग्रहीतुं शैलादिं किल करुणया वागुरिकया
विशालं चिक्षेप त्रिपुरमथनो जालमुदधौ ॥ ८१॥
तद्भक्तिवागुराबद्धस्तरुणेन्दुशिखामणिः ।
आक्षिप्य करुणाजालमाचकर्ष तमर्णवात् ॥ ८२॥
मीनग्रहायापि कृतप्रवृत्तिं मृगाङ्कमौलिं वनितादरेण ।
पश्यन्ननङ्गो विजयध्वजं स्वं प्रायेण चक्रे तदुपक्रमं तम् ॥ ८३॥
आसाद्य सञ्चरं देहमागमान्वेषणोचितम् ।
आलुलोके परं तत्त्वमागमान्विष्टमैश्वरम् ॥ ८४॥
पर्युपासितपादोऽयं प्रकृतिस्थेन नन्दिना ।
कैवर्तकन्यां जग्राह कैरवप्रियशेखरः ॥ ८५॥
समुत्सृजन् स मत्स्यतां ननन्द नन्दिकेश्वरः
स धीवरश्च भूतले सुधीवरत्वमागतः ।
विमानमागमय्य तां समागते पुरं शिवे
तदा तदाशये मुदं ददाश दाशकन्यका ॥ ८६॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलालार्णवे विंशः सर्गः ।
अथैकविंशः सर्गः ।
कुलेशमाराधयतो महेशं कुलेशपाण्ड्यादभवत् कुमारः ।
अन्वयर्थन् स्वामरिमर्दनाख्यां बभार पित्रा विधृतां भुवं यः ॥ १॥
आस्थानभूषामणिरस्य राज्ञः सर्वागमज्ञः सचिवः सुमेधाः ।
आसीद् द्विजो वातपुरीशनामा वाचस्पतिर्वासवसंसदीव ॥ २॥
स सञ्जिघृक्षुस्तुरगानुदारान् सर्वैर्धनौघैरपि पाण्ड्यदेवः ।
तमादिशद् वातपुरीशमेव चोलेषु गन्तुं तटमम्बुराशेः ॥ ३॥
लब्धाभ्यनुज्ञः सचिवः स गच्छन् द्वित्रैर्दिनैः प्रेक्षत चोलदेशम् ।
स्तोतुं प्रसक्ते विषयान्तरेऽपि जागर्त्ति यास्मिन्नुपमानभावः ॥ ४॥
कान्तासहस्रोपगतस्य सिन्धोः का वा रतिः प्रावृषि सेवयेति ।
सङ्गच्छते तेन निदाघ एव सह्यात्मजा यत्र हि निस्सपत्नम् ॥ ५॥
वर्षास्ववज्ञैव शरद्युपेक्षा द्वेषो हिमे वाथ हिमात्यये वा ।
यत्राप्सु रागः सुरभौ शुचौ च तत्रैव यस्मिन् सरितो वहन्ति ॥ ६॥
प्रावृड्विमर्दो दिशि पश्चिमायामुत्पीडपीडा पुनरुत्तरस्याम् ।
स्वैरोपयोगो यदि सह्यजाया यत्रैव सौभाग्यमितः किमस्य ॥ ७॥
प्रत्यग्रपूगाभिगतेषु यस्मिन् प्रस्निग्धरम्भावनमेदुरेषु । (प्रत्यग्रपूराभिगतेषु)
कवेरकन्यातटकाननेषु कामः समुन्मीलति धर्म एव ॥ ८॥
हव्याय यत्रापततां सुराणामातिथ्यनिर्वर्त्तनतोऽनुवेलम् ।
गन्धर्वविद्याधरकिन्नराद्या निर्विद्य निन्दन्ति पथि स्थितिं स्वाम् ॥ ९॥
अध्येतुमध्यापयितुं च तन्त्राण्याहर्तुमर्थानथ चोपभोक्तुम् ।
स्वर्गापवर्गौ च वशे विधातुं जात्यैव यस्मिन् द्रमिडा निरूढाः ॥ १०॥
स्वादीयसी यत्र कवेरजैव ततस्तरां केरफलोदकानि ।
ततस्तमां चाथ गिरां विलासाः प्रसन्नगम्भीरपदाः कवीनाम् ॥ ११॥
द्रष्टुं न रम्भापनसाम्रकेरच्छायावृते यत्र हि शक्यमर्कम् ।
शक्यं तु सम्भावयितुं सरोजसौरभ्यसम्भारहरैः समीरैः ॥ १२॥
ये जातिभेदाः क्रमुकामकेरशालीक्षुरम्भाफणिवल्लरीणाम् ।
व्युत्पित्सवस्त्रेषु चरन्ति पान्था विश्रम्य विश्रम्य चिराय यस्मिन् ॥ १३॥
आदाय शस्त्राण्यवगाह्य सिन्धुं तपांसि विक्रीय च तन्त्रयन्ते ।
यत्रान्यतस्तत्र कलौ यदीया यजन्त्यविच्छिन्नमधीयते च ॥ १४॥
सान्यत्र सिन्धुर्ननु यात्र कुल्या तेऽन्यत्र धन्या इह ये कदर्याः ।
अभ्यस्तविद्या इव येऽत्र किञ्चिदन्यत्र विद्यागुरवस्त एव ॥ १५॥
गच्छन्नहोभिः कतिभिश्चिदस्मिन् स पश्चिमे योजनतः पयोधेः ।
माकन्दरम्भावनसान्द्रमेकं माहेश्वरं धाम समालुलोके ॥ १६॥
अध्यासितं पाशुपतैर्महद्भिरालोक्य वल्मीकपतेः पदं तत् ।
अप्राकृतीं भाग्यवशात् ततोऽयमाध्यात्मिकीं तामपि शुद्धिमूहे ॥ १७॥
आस्थाय कारुण्यरसैकरूपामाचार्यमूर्त्तिं मधुरैर्वचोभिः ।
प्रबोधयन्तं शतशो महर्षीन् प्रत्यक्षमैक्षिष्ट स चन्द्रचूडम् ॥ १८॥
अङ्गैः क्षितावष्टभिरानमन्तं तं दूरतो बाष्पतरङ्गिताक्षम् ।
दृष्ट्या दयाशीलतयानुगृह्णन् देवः समीपस्थितिमादिदेश ॥ १९॥
उत्प्रेक्षितस्योद्बणशक्तिपातं शुद्धाध्वलिप्सासुभगैर्वचोभिः ।
सम्भावयन् नैष्ठिकदीक्षया तं चन्द्रार्धचूडः स्वयमन्वगृह्णात् ॥ २०॥
आरुह्य माहेश्वरमाश्रमं सः सञ्छिन्नपाशः सचिवः क्षणेन ।
अश्वाय नीतैर्द्रविणैर्महेशमाराधयन् पार्थिवमप्यरक्षत् ॥ २१॥
आकारितो दूतमुखेन राज्ञा कर्णेजपालापकलङ्कितेन ।
अश्वैः सहैवागमनं स्वकीयं शम्भोर्निदेशेन स सन्दिदेश ॥ २२॥
अश्वानसङ्ख्यानहमानयेयमासीद राजानमपेतशङ्कः ।
इति स्थिर व्याहृतमिन्दुमौलेर्विश्वस्य भूयः स पुरीमविक्षत् ॥ २३॥
अश्वानमूल्यानमितान् समीपमासादितानप्यरिमर्दनाय ।
निवेदयन् वृत्तमिदं स सर्वं न्यवेदयन्नीपवनेश्वरेऽपि ॥ २४॥
पन्थानमालक्ष्य तुरङ्गमाणां पाण्ड्ये परेद्युः स्वयमादिनान्तात् ।
क्रुद्ध्यत्युदाकुर्वत राजभृत्याः क्रूराशया मन्त्रिणि लब्धरन्ध्राः ॥ २५॥
कृताभ्यनुज्ञैः कुपितेन राज्ञा क्रूरैश्चिरद्वेषिभिरस्य भृत्यैः ।
कदर्थ्यमानः करुणं स भूयो विसृज्य धैर्यं विललाप धीरः ॥ २९॥
व्यासज्जसे किमधुना विधिकेशवाद्यै-
र्व्यासज्जसे किमथवा ललितैर्भवान्याः ।
क्रन्दन्ति कत्यशरणा इह मादृशोऽन्ये
कर्णातिथिर्भवतु कस्य तवार्त्तनादः ॥ २७॥
बद्धस्य दुष्परिहरैर्मलकर्ममाया-
बन्धैस्त्रिभिर्मम चिरादपि दीनबन्धो! ।
बन्धं हरिष्यसि किलेति घृतक्षणस्य
बन्धं तुरीयमपि हा कथमद्य दत्से ॥ २८॥
कर्मेति काल इति वापदिशन्ति येऽन्ये
किं तैरिति त्रिजगतीं तृणवद् विचिन्त्य ।
त्वामेव संश्रितवतोऽपि दशा यदीयं
त्वं बुध्यसे क्वनु भवत्ययशो यशो वा ॥ २९॥
नाहं बिभेमि नृपतेर्नच तद्भटेभ्यः
कुर्वन्ति नाम किममी परतोऽपि मृत्योः ।
इत्थं कृतान्तवशगेऽपि हि मय्युपेक्षा
किं ते भवेदिति विषीदति किन्तु चेतः ॥ ३०॥
एकं विधेयमवलम्बनमित्युपेक्ष्य
नीतिं श्रितोऽस्मि चरणौ तव चन्द्रमौले! ।
आतः किमित्थमियमापदि मे महत्या-
मन्योन्यदत्तभरयोरनयोरुपेक्षा ॥ ३१॥
किं ज्ञानयोगविभवैः शिव! किं तपोभिः
किं कर्मभिश्च हृदयं तव रञ्जयेयम् ।
क्रन्दल्लुठत्कृपणदर्शनकौतुकं वा
निर्वर्त्त्य दास्यपदवीं तव निर्वहेयम् ॥ ३२॥
प्रारब्धकर्मणि चलत्यविलङ्घनीये
भाक्तिः करिष्यति किमीशपदार्पितेति ।
दुर्निश्चयो हतधियामिह दुःश्रवोऽयं
निन्देव ते मनसि मे परिवर्तमानः ॥ ३३॥
किं मत्कृतेऽवतरितव्यमशिक्षितं ते
किं वा भुजाभुजि परैः कलहायितव्यम् ।
सङ्कल्पमात्रमपि चेन्न चिकीर्षसि त्वं
शम्भो ! ममैव तु जितं दुरितैर्दुरन्तैः ॥ ३४॥
भक्तिर्दृढा यदि ममास्ति भवेत् किमेवं
को वेद तत्त्वमिदमस्ति तु मेऽन्तरङ्गे ।
लोकास्तु भक्त इति मां जगृहुर्यथा ते
त्वां भक्तवश्यमवयन्ति तथा दयेथाः ॥ ३५॥
कः स्वापराधिषु पराक्रमते न लोकः
शृङ्गेण हन्ति ननु गौरपि दण्डहस्तम् ।
भक्तापदक्षमतयैव तवेश्वरत्वं
तां नाशय द्रढय वा समयस्तवायम् ॥ ३६॥
यत् प्रालपं चरणयोस्तव यत्तदित्थं
मुग्धो विदग्ध इव मुग्धशशाङ्कमौले! ।
तत् क्षम्यतां मम तु को वचनेऽधिकारः
स्वामी परामृशतु वा स्वमुपेक्षतां वा ॥ ३७॥
इति निशम्य स वातपुरीशितुः करुणमालपितं करुणानिधिः ।
तुरगलक्षखुरक्षतरेणुभिः परिपतन् ददृशे विधुशेखरः ॥ ३८॥
शिवे तुरगसादित्वं श्रिते भक्तानुकम्पया ।
शिवा स्वयं तुरगतां शिश्राय बहुधा तदा ॥ ३९॥
कुमुदकज्जलकुङ्कुमदाडिमीकुसुमहेमकुवेलसमत्विषः ।
परुषहेषितभीषितशात्रवा ददृशिरे दिशि दिश्यपि सैन्धवाः ॥ ४०॥
समुत्तुङ्गत्वङ्गत्तरतुरगरिङ्खाशतहत-
क्षमारेणुश्रेणिक्षणचुलकितैरम्बुनिधिभिः ।
स्थलीभूतैः सद्यः सति धरणिभागे द्विगुणिते
भविष्यन् कैमुत्यादजनि विशदस्तस्य विजयः ॥ ४१॥
यदि मरुद् विजितं विजितं मनो यदि मनो विजितं विजितं जगत् ।
जितवतां मरुतं च तदर्वतां किमभिधेयमतस्त्रिजगज्जये ॥ ४२॥
उदात्तेष्वारोहन प्रसभमनुदात्तेष्ववतर-
ञ्छनैः क्रामन्नेव स्वरितपथमेकश्रुतिमपि
समुद्यन्मीमांसाद्वयमयखलीनेकविधृतः
पुरः प्रादुर्भूतः पुरमथितुराम्नायतुरगः ॥ ४३॥
तत्र कञ्चिदतिचित्रतेजसं सादिनं प्रपतनप्रसादिनम् ।
पश्यति स्म बहुमानविस्मयस्मेरदृष्टिररिमर्दनो नृपः ॥ ४४॥
व्रीडानुतापव्यथितोऽथ पाण्ड्यः प्रकाशयन् वातपुरीशमग्रे ।
समीपमासेदुषि सादिवर्ये प्रत्युद्ययौ तेन समं प्रहृष्टः ॥ ४५॥
कृतप्रणामेन कृतप्रणामः स्तुवन् नृपेण स्तुवता स भूयः ।
कृताः कथाः काश्चिदथान्ततोऽश्वान् विक्रीय यच्छन्निदमाचचक्षे ॥ ४६॥
आनीतमासीद् धनमश्चहेतोरनेन यत् ते सचिवेन राजन् ! ।
तत् सर्वमादाय तवैव भूत्यै मयाहृताः पश्य शिवास्तुरङ्गाः ॥ ४७॥
गुल्मेषु कुञ्जेषु वनोदरेषु केदारकेषूपवनेषु चामी ।
स्वच्छन्दचारा लघुविक्रमाश्च तरन्ति तोयेष्वपि दुस्तरेषु ॥ ४८॥
न श्वोऽयमस्तीति किलाश्वशब्दस्तन्त्रैर्निरुक्तो विदितस्तवापि ।
सम्यक् परीक्ष्य त्वमिमं गृहाण धनं ममैतत् तुरगास्तवेमे ॥ ४९॥
तथेति तस्य प्रतिनन्द्य वाचं तं भूषणैर्हेमभिरम्बरैश्च ।
सम्भाव्य सद्यो विसृजन नृपालस्तृप्तिं न लेभे तुरगान् स पश्यन् ॥ ५०॥
आज्ञापिता द्रागरिमर्दनेन पाण्ड्येन भृत्याः परितो भ्रमन्तः ।
बबन्धुरश्वानथ मन्दुरासु सार्धं विनीतैस्तुरगैः पुराणैः ॥ ५१॥
परेद्युरश्वावसथे नियुक्ताः प्रातः समैक्षन्त नृपालभृत्याः ।
समन्ततोऽश्वान् दशतः पुराणाञ् शब्दायमानाञ् शतशः सृगालान् ॥ ५२॥
आकर्ण्य वृत्तं महदद्भुतं तत् पाण्ड्यः प्रजज्वाल रुषा स भूयः ।
इत्थं किलेदं कृतमिन्द्रजालमनेन नूनं मयि मन्त्रिणेति ॥ ५३॥
दुष्टैः स्वतो राजनिदेशरूक्षैः कदर्थितो राजभटैः स भूयः ।
आत्मानमात्मन्यनुसन्दधानो न क्लेशलेशं गणयाम्बभूव ॥ ५४॥
अत्रान्तरे भक्तमनुग्रहीतुमालोच्य कारुण्यनिधिर्महेशः ।
भयानका दुर्ललितैस्तरङ्गैः प्रावर्त्तयद् वेगवतीमकाण्डे ॥ ५५॥
सा निष्पतन्त्येव पुरं समस्तं कल्लोलजालैः कबलीचकार ।
संरुध्य ये मन्त्रिणमभ्यहिंसन् सम्भ्रम्य दूरे परिदुद्रुवुस्ते ॥ ५६॥
पूरेण तस्याः पुरशासनस्य कारुण्यपूरेण विनिर्यतेव ।
निर्मोचितो वातपुरीश्वरोऽपि हालास्यनाथान्तिकमाससाद ॥ ५७॥
तां बध्यमानां शतशोऽपि मर्त्यैः पात्रोदरे वेगवतीममान्तीम् ।
आलक्ष्य बन्धुं नृपतिः स पौरानाबालवृद्धाङ्गनमादिदेश ॥ ५८॥
बध्नत्सु पौरेषु विभज्य सीमामापूपिकी काचिदतीव जीर्णा ।
निर्बध्यमाना नृपतेर्भुजिष्यैर्विचिन्वती कर्मकरं चचार ॥ ५९॥
सा पिष्टकानेव सदा पचन्ती निवेदयन्ती मनसा महेशे ।
तद्विक्रयेणापि च वर्तयन्ती दयास्पदं भूतपतेर्बभूव ॥ ६०॥
गवेषयन्ती जरती समन्ताद् गवेप्यमाणं निगमैः समस्तैः ।
ऐक्षिष्ट सा कर्मकरं युवानमंसोपरिन्यस्तखनित्रमेकम् ॥ ६१॥
तामाह वृद्धामभिगम्य देवः किं कर्म कुर्यां तव शंस मातः! ।
अनाश्रयः कर्मकरो जनानामासे चिरादत्र हि नाथकामः ॥ ६२॥
आपूपिकी किं धनमर्थयिष्ये भक्ष्येण मे कर्मकृतो हि भाव्यम् ।
विक्रीय पूर्णान् वितरत्वपूपान् क्षामानथामाञ्च्छिथिलांश्च मह्यम् ॥ ६३॥
कियानयं वेगवतीनिरोधः कियानयं राजभटानुरोधः ।
प्रतीहि मातः! पच पिष्टकं त्वं विन्यस्य भारं मयि वीतशङ्का ॥ ६४॥
आमन्त्रणैरेव विमोहयंस्तामम्बेति देवीति पितामहीति ।
विसंसयन्नूष्मलमूष्मलं स जग्राह तत् सर्वमपूपजातम् ॥ ६५॥
जगौ जहास प्रणनर्त्त चित्रं ववल्ग वल्गूनि वचास्यमाणीत् ।
व्यासञ्जयन् कर्मकृतः समस्तान् विस्रब्धमेको विजहार देवः ॥ ६६॥
इदं खनित्रं पिटकोऽयमेष राशिर्मृदामद्य मयोपनीतः ।
पश्यति राज्ञो गणकान् समेतान् प्रसारयंस्तानहसीन्निवृत्तान् ॥ ६७॥
उच्छृङ्खलैरूर्मिभिरुत्पतन्तीं भूयोऽप्यमान्तीं तटयोः स्रवन्तीम् ।
भीता भटा भूमिभुजे शशंसुः पाण्ड्योऽपि तां प्रेक्षितुमाजगाम ॥ ६८॥
आलक्ष्य राजागममप्रमत्तान् कर्मान्तिकान् कर्मकृतः स पश्यन् ।
खनन्निव क्ष्मां मृदमापगायां क्षिपन्निवान्तः स्वयमप्यचारीत् ॥ ६९॥
ततस्ततस्तत्र तटीर्निबद्धाः परामृशन् पाण्ड्यनृपोऽतिरुष्टः ।
अपूरितं क्वापि स वीक्ष्य निम्नं केनेदमित्थं कृतमित्यपृच्छत् ॥ ७०॥
आपूपिकीकर्मकरं युवानमालक्षयन्तो गणकास्ततस्तम् ।
हस्ते गृहीत्वा पुरतः क्षिपन्तो विवव्रिरे तस्य विचेष्टितानि ॥ ७१॥
आपूपिकी काचिदतीव जीर्णा सेयं दृढं कर्मकरं न्ययुक्त ।
अयं नियुक्तोऽपि भृतोऽपि सम्यङ् न स्पन्दते किञ्चन दुर्विनीतः ॥ ७२॥
ब्रूते पुरस्ताद् विनयोक्तिमेव किञ्चिन्निवृत्ते गणके तु भूयः ।
विडम्बयन् भाषितचेष्टितैस्तं पार्श्वस्थितान् हासयते विशङ्कः ॥ ७३॥
दत्तं कियद् दारुणया जरत्या दत्ते तु किञ्चिच्छिथिलानपूपान् ।
अहो ममाभाग्यमियं किलासीन्नाथेति शेते मुहुरातशोकः ॥ ७४॥
किं मेऽस्ति तातो जननी किमास्ते किमास्पदं किं धनमस्ति किञ्चित् ।
किं राजभृत्याः कृपणेषु कुर्युर्यातेति नोऽधःकुरुते कदापि ॥ ७५॥
अन्यायवृत्ते नृपतावमुष्मिन्नाप्लाव्यते किन्नगरं न तोयैः ।
किं ताडितैः कर्मकरैरिहेति तत्त्वं ब्रवीतीव कदापि मन्दम् ॥ ७६॥
आकर्णयन् वृत्तमिदं स सर्वमन्तर्हसन्तं च तमीक्षमाणः ।
आवर्त्य वेत्रेण तमाजघान पाण्ड्यः क्रुधा प्रस्फुरिताधरोष्ठः ॥ ७७॥
अङ्गं त्रिलोकीमयमिन्दुमौलेरभ्याहतं तेन यदा तदैव ।
वक्ता च हन्ता च निरीक्षिता च वेत्राहतं विश्वमभूत् समस्तम् ॥ ७८॥
आलम्ब्य संज्ञां कथमप्यथैनमालोकते यावदयं नरेन्द्रः ।
तावत् तिरोऽभूत् तरुणेन्दुमौलिः सा च स्रवन्ती विरराम सद्यः ॥ ७९॥
आलोक्य लीलायितमद्भुतं तदानन्दबाष्पस्थगितैर्वचोभिः ।
अस्ताविषुः स्वस्वधियोऽनुरूपैः पौराः सपाण्ड्याः पतिमम्बिकायाः ॥ ८०॥
चूडाबद्धभुजङ्गपुङ्गवशिरोविन्यस्तपृथ्वीभर-
प्रान्तप्रस्खलितैः कणैः कतिपयैरीषत्करे पूरणे ।
मिथ्यारोपितयत्नगौरवकथाविज्ञापनाचातुरी-
सम्मुह्यज्जरतीगृहीतशिथिलापूपाय तुभ्यं नमः ॥ ८१॥
योगक्षेमभरः समस्तजगतां न्यस्तस्तवाङ्घ्रिद्वये
कुक्षौ त्रीणि जगन्ति मूर्ध्नि शशभृद्गङ्गाकपालस्रजः ।
वोढव्यस्तदुपर्ययं यदि मृदां भारोऽपि गौरीपते!
कस्ते मद्भरणे श्रमः क इव मे त्रासस्तदभ्यर्थने ॥ ८२॥
हे सन्तः शृणुताधुनैव मिलितैरस्माभिरेतच्छिने
वाच्यं वेत्रहतिं विभज्य न वयं भोक्तुं समर्था इति ।
नो चेत् पादहतिः शिलाप्रहरणं कोदण्डदण्डाहति-
र्गण्डूषोदकसेक इत्यपि भवेत् सर्वं विभाज्यं हि नः ॥ ८३॥
ध्यायन्ध्यायमुपायकोटिभिरहं त्वत्प्राप्त्युपायं चिरं
निर्विण्णो निरचैषमेकमधुना हालास्यचूडामणे! ।
दिष्ट्या वेगवतीतटे यदि पतेदेतद्वपुर्मामकं
संरोहेदपि जातु तत्तटमृदा साकं त्वदीयं शिरः ॥ ८४॥
धूलीधूसरितं शशाङ्कशकलं जम्बालिता जाह्नवी
भग्नं ब्रह्मकपालदाम फणिनो भूषोचिताः क्लेशिताः ।
मृद्भारोद्वहनं कुतोऽभ्युपगतं को वा गुणः पिष्टके
सा दुष्टा जरती किमौषधमदात् तत्रेति न ज्ञायते ॥ ८५॥
पभ्द्यां किन्निहतः सुतो दिनमणेर्भग्नाश्चपेटाहतै ।
र्दन्ताः किं तरणेः किमित्यपहृतं धातुः शिरः पञ्चमम् ।
कामं त्वं जगदीश्वरो भव ततः कर्मापि किं जीर्यति
प्रत्यक्षं निनु पाण्ड्यवेत्रलतिकाघातोऽयमासादितः ॥ ८६॥
देवा दूरतरं प्रयात मुनयो गृह्णीत मौनं क्षणं
मातुः शंसत मा चिरं गणवरा देवस्य दृष्टां दशाम् ।
पुष्पैश्चन्दनसम्भृतैरपि सुरैर्यन्मन्दमभ्यर्च्यते
तद् दिव्यं वपुरैश्वरं विलुलितं पाण्ड्यस्य वेत्राहतैः ॥ ८७॥
अम्ब! स्विद्यति वक्रमम्ब! किमपि श्रान्त्या गतिर्मन्थरा
मातः! सीदति शङ्करे प्रहृतवान् वेत्रेण पाण्ड्यो विभुः ।
इत्यावेदयतां मुखादनुपदं श्रुत्वा गणानां शिवा
प्रेमोदीर्णपतिव्रतप्रशमितक्रोधा कथं वर्त्तते ॥ ८८॥
त्राणे योऽधिकृतः समस्तजगतां तस्याम्बुराशौ सुखं
निद्राणस्य तथाविधेऽपि समये प्रष्टैव नालक्ष्यते ।
विष्टिं कृर्वति ताम्यति श्रमभराद्वेत्राहतिस्त्वय्यभूत्
कस्याग्रे कथयिष्यसीममनयं स्वामिन्ननाथो ह्यसि ॥ ८९॥
लीलाधारितसिन्धुतीरसिकताभारान्तरालस्थितो
भूयासं मशकोऽप्यहं पशुपते! तावच्च नार्हामि किम् ।
यत् कीदृग्विधमैश्वरं शिर इति प्रष्टुं प्रवृत्ते विधा-
वीद्दक् तादृगिदं तदित्युपदिशंस्तस्यापि च स्यां गुरुः ॥ ९०॥
पाण्ड्यो दण्डयितास्तु पाण्ड्यतनया द्रष्ट्री कथं वर्त्तते
कामं सा जननी ममैव किमतो युक्तं तु वाच्यं मया ।
सव्ये स्थापय मूर्ध्नि मृद्भरममुं सव्यं वपुर्दर्शय
प्राप्ते वेत्रलताहते च तदनु द्रक्ष्यामि देव्याः स्थितिम् ॥ ९१॥
वोढुं प्रवृत्ते त्वयि वेगवत्याः शीर्षेण शम्भो! सिकतावितानम् ।
भारं द्वयोः पर्यवसन्नमूहे चित्ते यतीनां शिरसि श्रुतीनाम् ॥ ९२॥
अर्धं पौरुषमर्धमेव भवति स्त्रैणं च यत् तावकं
साम्राज्यं गृहकर्म वा किमपि तन्नायाति निर्व्यूढताम् ।
त्वं राज्ञी मधुरापुरस्य दयितस्तत्रैव ते ताड्यते
त्वं मातः! स्वयमन्नदासि जगतां कान्तस्तु ते भिक्षते ॥ ९३॥
आखेटधर्ममनुपालयतानुभूतः
पार्थप्रहार इति यत् तदवैमि युक्तम् ।
आयासवृत्त्यनुगुणां भृतिमप्यविन्द-
न्नङ्गीकरोषि किमपार्थममुं प्रहारम् ॥ ९४॥
वेत्राहति विभक्तुं विश्वात्मकता प्रदर्शिता भवता ।
करगतकबलग्रासे पुनरभिनीतं शिवाद्वैतम् ॥ ९५॥
वेत्राहतिमतिघोरां विभज्य ये भुञ्जते जना नियतम् ।
भवतापतापितेष्वपि तेषूपेक्षैव ते कथं लीला ॥ ९६॥
आनम्यानम्य मौलिं त्वयि किरति मृदं संसते मूर्ध्नि गङ्गा
बद्ध्वाबद्ध्वा कपर्दं स्पृशति फणधरा दारुणं निश्श्वसन्ति ।
औत्सुक्यात् ताड्यमाने त्वयि जगदखिलं ताड्यते वेत्रयष्ट्या
भक्तस्यैकस्य रक्षा भवति पशुपते! सर्वलोकस्य शिक्षा ॥ ९७॥
अस्मत्तो बहुधो गृहीतमधुनाप्यस्मद्भवस्रोतसां
संरोधे न किमप्ययं प्रयतते देवः प्रमाणं ततः ।
इत्यग्रे विनिपत्य पाण्ड्यनृपतेर्ब्रूमो वयं चेत् ततः
कोपात् कोपमुपेयुषः क्षितिपतेः किं भावि सम्भाव्यताम् ॥ ९८॥
वोढव्यानि वहानि ते सुरनदीवेधःकपालादिका-
न्यात्मानं च निवेदयाम्यथ भवद्भक्त्यामृतेनाप्लुतम् ।
इत्यभ्यर्थयमानमीषदपि मामप्रेक्षमाणो भवान्
पिष्टापूपकृते मृदं वहसि चेद् देवः प्रमाणं ततः ॥ ९९॥
प्रहृतं प्रहृतमिति त्वं पाण्ड्य! विषीदसि किमम्बिकारमणे ।
प्रहृतं यदि साधु कृतं पाशुपतं गणय सिद्धमस्त्रं तत् ॥ १००॥
पाण्ड्येन प्रहृतोऽसि वेत्रलतया पार्थेन गाण्डीवतः
पादेनापि किरातकेन वटुना केनापि च प्रस्तरैः ।
तत्तत् प्रत्युत तेषु तेषु तप इत्यग्राहि मत्पूजने
त्वागांस्येव पदे पदे गणयसे दैवं ममैवंविधम् ॥ १०१॥
इत्थं स्तवोक्त्या मुखरेषु पोरेष्वाश्चर्यमग्नेषु गणाः पुरारेः ।
आपूपिकीमद्भुतवेषरूपां निन्युर्दिवं दिव्यविमानरूढाम् ॥ १०२॥
अथावसीदन्नरिमर्दनोऽपि पाण्ड्यः स्वयं पाशुपतापचारात् ।
पादप्रणामैः प्रियभाषितश्च प्रसादयामास स मन्त्रिवर्यम् ॥ १०३॥
वैहायसीं गिरमथाकलयन् पुरारेर्भीतस्तदैव सचिवं प्रजिघाय पाण्ड्यः ।
वैराग्यमेव हृदि वातपुरीश्वरोऽपि कृत्वा चिदम्बरमगाहत सर्ववेदी ॥ १०४॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णव एकविंशः सर्गः ।
अथ द्वाविंशः सर्गः ।
अथाविरासीदरिमर्दनस्य कुले नृपः कोऽपि गुणैरुदारः ।
अप्युन्नतं स्फारतरैर्यशोभिराचक्षते यं किल कुब्जपाण्ड्यम् ॥ १॥
स पाण्ड्यवंशप्रभवोऽपि देवः संसर्गदोषाच्चिरमार्हतानाम् ।
अवाप दीक्षामपि तन्मतेन दुरुत्तरो दुर्जनसम्प्रयोगः ॥ २॥
आशङ्कनीयोऽपि न वेदवेद्योराब्रह्मणो यत्र किलान्तरायः ।
तस्मिन् विशुद्धे शिवदासवंशे सम्बन्ध इत्याविरभूत् कुमारः ॥ ३॥
तं मातृहीनं शिशुमुल्ललन्तं स्तन्येन गौरी बिभराम्बभूव ।
यं ज्ञानपूर्णापरनामधेयं तदादि लोकाः समुदाहरन्ति ॥ ४॥
स्कन्दांशजः स द्विजसार्वभौमस्तारुण्य एवाखिलतन्त्रवेदी ।
त्रय्यन्तसिद्धान्तदृशा पुरारेरुत्कर्षमुच्चैर्विशदीचकार ॥ ५॥
तं भस्मरुद्राक्षषडक्षराणां तत्त्वावबोधैकनिधिं महान्तम् ।
आराध्य केचित् कलिमभ्यजैषुः पचेलिमप्राक्तनपुण्ययोगात् ॥ ६॥
तथागताचार्यकदुर्विपाकतमोवृते राजकुले तदानीम् ।
मन्त्री च राज्ञो महिषी च तस्य भक्तिं परामूहतुरिन्दुचूडे ॥ ७॥
सम्बन्धनाथाङ्घ्रिसरोजयोस्तावाबध्य भक्तिं महतीमनन्याम् ।
प्रायस्यतां त्रातुममुं प्रदर्श्य मग्नं नृपं बाह्यमतान्धकूपे ॥ ८॥
कदाचिदासीदथ कुब्जपाण्ड्यस्तापज्वरेण ज्वलताभिभूतः ।
यत्रार्हतानां नृपदेशिकानां यत्नः समस्तो विफलीबभूव ॥ ९॥
देवी तदा देशिकसार्वभौममारोग्यहेतोरवनीश्वरस्य ।
सर्वज्ञमभ्यर्थनया महत्या सम्बन्धनाथं स्वयमानिनाय ॥ १०॥
स ज्ञानपूर्णः प्रविशन् दृशा तं सम्भावयामास रुजाभितप्तम् ।
कोटीरकोटीन्दुगलसुधार्द्रमन्तःस्मरन् देवमहङ्ग्रहेण ॥ ११॥
अत्याश्रमस्थो मुनिरस्य राज्ञो भाग्येन फाले भसितं निधाय ।
पस्पर्श हस्तेन च तं महेशपादारविन्दार्चनभावितेन ॥ १२॥
स स्पृष्टमात्रो भगवत्तरेण शिवाभिमर्शेन गुरोः करेण ।
तत्याज विश्वत्रयभेवजेन तापज्वरार्त्ति सहसा नरेन्द्रः ॥ १३॥
औदर्यवह्निज्वलनोत्थितां तामार्तिं निवृत्तां मुमुदे स पश्यन् ।
देवी तु शान्तं विदती जहर्ष भवज्वरज्वालमहाभिषङ्गम् ॥ १४॥
तापज्वरो भूमिभृतः शरीरात् तस्यापनीतः करुणादृशायम् ।
तथागतानां द्विगुणस्तदादि चिन्तात्मना चेतसि सञ्जजम्भे ॥ १५॥
अष्टौ सहस्राणि तथागतानामष्टासु शैलेषु कृतास्पदानाम् ।
जातेऽभिषङ्गे मधुरामवापुर्जल्पेन जेतुं शिवदेशिकं तम् ॥ १६॥
पारीणमेनं पदवाक्यमाने त्रय्यन्तसिद्धान्तगुरुं महान्तम् ।
आसाद्य जल्पाय सकृत् प्रवृत्ता आसन् क्षणादप्रतिभा जिनेन्द्राः ॥ १७॥
उत्सृज्य सर्वाण्युपबृंहणानि मीमांसितन्यायदृढीकृतानि ।
उल्लङ्घय तर्कानपि पामरास्ते सम्भूय तं प्रत्ययतोऽजिगीषन् ॥ १८॥
संसारतापानखिलान् निहन्तुं शक्नोत्यहिंसैव हि शाक्यदृष्टा ।
नार्यो महेशो न शिवा विभूतिरित्यार्हताः स्वामलिखन् प्रतिज्ञाम् ॥ १९॥
वेदाः प्रमाणं सह कामिकाद्यैर्विश्वाधिकः शङ्कर एक एव ।
भस्मैव धार्यं भुवि मोक्षमाणैरित्यालिखत् स्वां स गुरुः प्रतिज्ञाम् ॥ २०॥
जैना अथोचुर्ज्वलने क्षिपामो द्वये वयं स्वस्वकृतान्तलेखम् ।
दाहाददाहादपि सर्वलोकाः पश्यन्तु नो भङ्गजयाविहेति ॥ २१॥
तथेति सम्बन्धकरार्पितेन लेखेन जग्लेऽपि न हव्यवाहे ।
अदह्यत द्राक् पुनरार्हतानां लेखः सहायुर्लिपिभिस्तु तेषाम् ॥ २२॥
पराजये शूलशिखाधिरोहं पणं वृणानाः स्वयमेव जैनाः ।
विचिक्षिपुः स्रोतसि वेगवत्याः पत्रं प्रवाहाभिमुखं चलेति ॥ २३॥
तत् स्रोतसा सत्क्षणमेव सिन्धोरनीयत प्राग्दिशमासमुद्रात् ।
प्रत्यग्दृशा तद् गुरुणार्पितं तु प्रत्यङ्मुखं स्रोतसि सञ्चचाल ॥ २४॥
ततः क्षणाद् देशिकसार्वभौमविज्ञानसिन्धोरिव वीचिघोषः ।
समन्ततः शङ्करकिङ्कराणां समुज्जजृम्भे विजयाट्टहासः ॥ २५॥
चार्वाकशिष्या विजितास्ततस्ते सौत्रान्तिका माध्यमिकाश्च जैनाः
अवीक्षितान्योन्यमुखाः प्रचेलुरारोढुकामाः स्वयमेव शूलम् ॥ २६॥
ते बोध्यमाना अपि शैवधर्मं शूलाधिरोहाय रुचिं बबन्धुः ।
प्राणान्तिकां निप्कृतिमेव युक्तां पश्यन् स चैतेषु तथानुमेने ॥ २७॥
पाण्ड्यस्ततः प्रत्ययदर्शनेन सम्बन्धनाथं शरणं प्रपन्नः ।
अशेषपापच्छिदुरामयाचद् दीक्षां शिवज्ञानविधानदक्षाम् ॥ २८॥
आचार्यवर्योऽप्यधिवासितं प्राक् छिष्यं शुभस्वप्ननिरस्तशोकम् ।
आराधितस्य ज्वलने पुरारेरनुज्ञया सन्निधिमानिनाय ॥ २९॥
षडध्वनः पञ्च कलाश्च तस्य संशोधयन् देशिकसार्वभौमः ।
दुर्दीक्षया दूषितमप्ययत्नात् सम्भावयामास शरीरकोशम् ॥ ३०॥
शरीरमाविश्य स तस्य नाडीसन्धानमार्गेण गुरुः पुनानः ।
जातिं समुद्धृत्य दयासमुद्रश्चक्रे शिवज्ञाननिधानमेनम् ॥ ३१॥
वित्तं शरीरं हृदयं च तस्य विन्यस्य पाण्ड्यश्चरणारविन्दे ।
अभ्यर्थयन्नर्धशशाङ्कचूडं शैवाध्वपान्थः प्रशशास पृथ्वीम् ॥ ३३॥
शिवव्रतस्थाः शिवमन्त्रसक्ताः शिवागमज्ञानसुधारसज्ञाः ।
प्रजा बभूवुः सकलास्तदानीं प्रजेश्वरे शैवपदाधिरूढे ॥ ३३॥
अध्यात्मविद्याभिरयं प्रबुद्धान् मन्दान् विचित्राभिरुपासनाभिः ।
बाह्यार्चनैरेव परांश्च शम्भोर्धीरोऽनुजग्राह यथाधिकारम् ॥ ३४॥
अधीष्व वेदानवधारयार्थानधीहि शम्भुं वह भूतिमङ्गे ।
तपांसि तप्यस्व सुरान् यजेति सर्वे जनाः शङ्करमारराधुः ॥ ३५॥
काले ततो वैश्यकुले बभूव कश्चिन्महार्थो मधुरानगर्याम् ।
करग्रहं मातुलकन्यकायाः कर्तुं प्रतस्थे स कदापि चोलान् ॥ ३१॥
अतीतयोर्मातुलयोस्ततस्तामादातुकामः स्वजनानुमत्या ।
वैश्यस्तया साकमनूढयैव भूयः स्वमावासमभि प्रतस्थे ॥ ३७॥
मध्येपथं क्वापि महेशधाम्नि शैवानि तीर्थान्यटता स दिष्ट्या ।
सम्बन्धनाथेन समाजगाम सञ्जीवितश्चात्र स सर्पदष्टः ॥ ३८॥
सम्बन्धनाथेन तदा नियुक्तः स बालिकोद्वाहकृते कुमारः ।
पाणिग्रहं साक्षिषु बान्धवेषु चिकीर्षमाणः समशेत किञ्चित् ॥ ३९॥
शम्भुः शमी कूप इति त्रयं तत् तत्र स्थितं साक्षिपदे वृणानः ।
अग्राहयत् पाणिमनेन सद्यः स देशिको मातुलकन्यकायाः ॥ ४०॥
स तां समादाय वधूं नवोढां सम्प्राप्य भूयो मधुरां विशालाम् ।
आराधयन्नार्तशरण्यमीशं हालास्यनाथं मुमुदे चिरेण ॥ ४१॥
कालेन तस्यास्तनया बभूवुः कारुण्ययोगेन शशाङ्कमौलेः ।
स्तनन्धयांस्तानपथे द्विषत्या सा जातु लेभे कलहं सपत्न्या ॥ ४२॥
वेश्येव काचित् त्वमसीह गेहे करग्रहे कस्तव दासि ! साक्षी ।
इति प्रवृत्तं कलहेऽतिवादमेषा सपत्न्या ममृषे न साध्वी ॥ ४३॥
सा बाष्पमत्यूष्मलमुद्वहन्ती सद्यो विनिर्गत्य गृहाद् विषण्णा ।
आपन्नबन्धोश्चरणं पुरारेर्हालास्यनेतुः शरणं प्रपेदे ॥ ४४॥
साक्षी भवानेव करग्रहे मे शम्भो ! शमीकूपसमीपवर्ती ।
साक्ष्यं न धत्से यदि मे सपत्न्याः सद्यो विहास्यामि तनूमिहेति ॥ ४५॥
हालास्यनाथान्तिकमभ्युपेत्य सम्पश्य पाणिग्रहसाक्षिणो मे ।
इति त्वमाकर्ष बलात् सपत्नीमित्याह तां व्योमगिरा महेशः ॥ ४६॥
सा प्रेयसा बन्धुजनैश्च साकं तामानयन्ती प्रसभं सपत्नीम् ।
यावच्छिवस्यान्तिकमेति तावत् तत्र स्वयं तत् त्रयमाविरासीत् ॥ ४७॥
इमे समेताः सदनं पुरारेरीशानकोणेऽस्य कदाप्यदृष्टम् ।
अन्धुं शमीवृक्षमनाथबन्धुं लिङ्गं च दृष्ट्वा बिभयाम्बभूवुः ॥ ४८॥
भोगाङ्गपूजावसरे पुरारेः समागतास्तत्र सुराः समस्ताः ।
आलोक्य लीलायितमद्भुतं तद् भक्त्या नतास्तुष्टुवुरिन्दुचूडम् ॥ ४९॥
क्व ते दया वाङ्मनसातिभूमिः क्व दुर्लभो वा त्वदवाप्त्युपायः ।
अहो जितं सुन्दरनाथ! मर्त्त्यैरहो जितं तत्र च दीनदीनैः ॥ ५०॥
गुप्तं वृथा कोटिभिरागमानां गुप्तं वृथाहो गुरुभिः पुराणैः ।
कोणे यदत्र त्वमिहानुकम्पाकोशालयद्वारमपावृणोषि ॥ ५१॥
अस्माभिरज्ञानपि तारयद्भिः कियान् प्रकर्षो विबुधेषु कार्यः ।
इति त्वया चिन्तयता किमीश! प्रतारिता स्मस्त्रिदिवार्पणेन ॥ ५२॥
पाण्ड्यप्रियं त्वां विदती शिवापि पाण्ड्यात्मजासीद्यदि का कथा नः ।
पाण्ड्येषु जायेमहि खञ्जरीटाः कोयष्टयः कोलकिशोरका वा ॥ ५३॥
लीलासु ते लब्धसरूपभावा ग्राम्या इमे पाण्डुषु चन्द्रमौले! ।
जिघ्रन्ति केचिद् विलिखन्ति केचिच्चर्वन्ति केचिच्च वतंसमिन्दुम् ॥ ५४॥
त्वं तावदत्यन्तमृदुः प्रजासु त्वत्तोऽपि मृद्वी गृहिणी तवेयम् ।
अद्यायतौ वा चरतोः किलैवमात्मैकशेषो भविता ध्रुवं वाम् ॥ ५५॥
कैवल्यदानाय कृतप्रतिज्ञौ काशीपतिः पाण्ड्यपतिर्युवां द्वौ ।
शिष्यैकविश्रान्तममुष्य दानं सार्वत्रिकं तावकमेव शम्भो! ॥ ५६॥
विश्वस्य दीर्घां श्रवणादिभङ्गी वीतोद्यमाः स्मश्चिरमीश! मोक्षे ।
सम्प्रत्यवाबुध्द्यत वाक्यशेषपञ्चाक्षरीयं मधुरा विनेति ॥ ५७॥
ये ये जना यद्यदिहार्थयन्ते तत्तन्निरस्तोपधि तेषु तेषु ।
मोमित्यलोभादनुजानतः किमोमित्यभिख्यैव तवेयमासीत् ॥ ५८॥
अन्वेषणीयं किमनाहते ते तत्त्वं हताः स्मो वयमागमौधैः ।
विस्पष्टमत्राहत एव तत्त्वं वेत्रेण पाण्ड्यस्य यदीक्षितं तत् ॥ ५९॥
स्वरूपमेतत् तव सुन्दरेश! शुद्धा दयेत्येव तु लक्षयामः ।
कदम्बमूलन्तु तटस्थलक्ष्म कारुण्यसिन्धो! तव तर्कयामः ॥ ६०॥
यद्धामसीमाक्रममात्र एव वृत्रद्रुहस्तत् कलुषं विलिल्ये ।
सकृद् विगाह्यैव यदीयतीर्थे शापं मुनेरिन्द्रगजो मुमोच ॥ ६१॥
नीपाटवीं यः कुलशेखरेण निर्मापयामास च राजधानीम् ।
प्राप्ता शिवा पाण्ड्यकुलेऽवतारमनुज्ञया यस्य तटातकेति ॥ ६२॥
उपायत स्वं युधि जेतुकामामुपायतस्तामपि लीलया यः ।
पतञ्जलेभक्तिमवेत्य नृत्तं प्रादर्शयद् रूप्यसभान्तरे यः ॥ ६३॥
कुण्डोदरस्योदरपूरणेऽपि कुण्ठोद्यमा येन कृतान्नपूर्णा ।
नालं पिपासोपशमाय यस्य नदी च सा वेगवती यतोऽभूत् ॥ ६४॥
समाहृताः काञ्चनमालिकायाः स्नानाय येनाम्बुधयः समस्ताः ।
महीपतिं यो मलयध्वजं च दिवं गतं दर्शयति स्म पत्नीम् ॥ ६५॥
मीनेक्षणायां सुतमुग्रपाण्ड्यमवाप यः सुन्दरपाण्ड्यदेवः ।
तस्मै च यं शक्तिधराय वज्रं चण्डायुधं चक्रमपि व्यतारीत् ॥ ६६॥
उद्वेलमप्यर्णवमुग्रपाण्ड्यो यद्दत्तया शोषयति स्म शक्त्या ।
वज्रेण मौलिं बिभिदे मघोनश्चण्डायुधेनापि जघान मेरुम् ॥ ६७॥
आचष्ट यश्चाशयमागमानां जिज्ञासमानेषु तपोधनेषु ।
यद्दत्तरत्नाहितमौलिनैव पाण्ड्यार्भको राजपदेऽभिषिक्तः ॥ ६८॥
कपर्दजैर्यस्य घनाफ्नौधैः पपे पयोधिः परिजृम्भमाणः ।
प्राप्तैश्च तैर्यः पटमण्डपत्वमवारयद् वृष्टिमतिप्रवृद्धाम् ॥ ६९॥
सिद्धात्मना यो विततार सर्वाः सिद्धीः प्रजानां मधुरानगर्याम् ।
यः सुन्दरेशानविमानसक्तं शिलागजञ्चाशयदिक्षुकाण्डान् ॥ ७०॥
अस्त्रेण तुर्यावतरेण शौरर्हस्ती हतो येन तथागतानाम् ।
श्वश्रूदुरालापविवासिताया यः प्रादुरासीद् द्विजकन्यकायाः ॥ ७१॥
व्यत्यस्य नृत्तं विदधे दयालुः पाण्ड्यस्य यः प्रार्थनया महत्या ।
पान्थद्विजस्त्रीवधपापवादं व्याजेन यो व्याधवटोरहार्षीत् ॥ ७२॥
स्वमातृजारं पितृघातिनं च विप्राधमं यो विमलीचकार ।
अङ्कस्य भार्याहरमस्त्रशिष्यमङ्कात्मनैवाजयदाहवे यः ॥ ७३॥
मायोरगं यः शमयाम्बभूव मायागवीं यस्य पुनर्महोक्षः ।
यः पाण्ड्यसेनान्यमनुग्रहीतुं सन्दर्शयामास चमूं नृपालम् ॥ ७४॥
पाण्ड्याय यः प्रादित हेम यश्च वैश्याङ्गनाभ्यो वलमान् दयार्द्रः ।
अष्टापि सिद्धीः प्रतिपादयन् यो यक्षाङ्गनासु प्रससाद भूयः ॥ ७५॥
द्वारं समुद्धाट्य निशि स्वयं यश्चोलाय सेवामदिशन्निगूढम् ।
पानीयदानेन च पाण्ड्यसेनामुज्जीव्य चोलेन्द्रमजापयद् यः ॥ ७६॥
स्वर्णं दिशन् सिद्धरसं प्रयुज्य पुपोष वेश्यां शिवधर्मिणीं यः ।
पाण्ड्यस्य यः स्वैकपरायणस्य सादी भवन् साधयति स्म चोलम् ॥ ७७॥
अक्षय्यमप्यक्षतमर्पयन् यो भक्ताय भक्तार्पणमन्वगृह्णात् ।
येनादृतो। मातुलरूपभाजा वैश्यो वटुर्झतिजनान् विजिग्ये ॥ ७८॥
आस्थाय यश्चार्जुननाथलिङ्गं पाण्ड्ये महत् पातकमुन्ममार्ज ।
काष्ठानि मूर्धा कलयन् न्यधत्त काष्ठां परां गायति यः स्वभक्ते ॥ ७९॥
भद्राय भूरि द्रविणं दिदेश पुत्रं ददौ चेरमहीभुजे यः ।
भद्राय दिव्यं फलकं दिदेश वृष्टौ महत्यामपि गायते यः ॥ ८०॥
द्वीपान्तरीयामवमापि गीत्या भद्रा विजिग्ये यदनुग्रहेण ।
वाराहमास्थाय वपुर्ददौ यः स्तन्यामृतं कोलकिशोरकाणाम् ॥ ८१॥
प्रापय्य मानुष्यकमद्भुतं यः पाण्ड्यस्य तान् मन्त्रिपदेऽभ्यषिञ्चत् ।
यः खञ्जरीटं शरणं प्रपन्नं चक्रे बलिभ्यो बलिनं खगेभ्यः ॥ ८२॥
जहार कोयष्टिमनुग्रहीतुं यादांसि यः काञ्चनपङ्कजिन्याः ।
कल्पान्तलुप्तां कटकाहिना यः सीमा विवत्रे मधुरानगर्याः ॥ ८३॥
प्राद्रावयत् पाण्ड्यकृतेऽरिसेनां बाणैः स्वनामाक्षरलाञ्छितैर्यः ।
दुरासदं दुष्कविभिः स्क्यं यः प्रादाद् विचित्रं फलकं कवीनाम् ॥ ८४॥
पाण्ड्यस्य चिन्तानुगुणं निबध्य पद्यं ददौ यश्च निजार्चकाय ।
विद्याविवादे विहितातिवादं कीरं कविं यः पुनरन्वगृह्णात् ॥ ८५॥
अपि स्वयं कुम्भभवेन यस्तमबोधयद् द्रामिडसूत्रतत्त्वम् ।
व्यवेचयन्मूकमुखेन यश्च तत्तत्कृता द्रामिडसूत्रवृत्तीः ॥ ८६॥
भक्ते कवौ क्वापि विमाननेन पाण्ड्याय कुप्यन्नगराद्ययौ यः ।
दाशो भवन् दाशकुलेऽवतीर्णा जग्राह पाणौ जगदाम्बिकां यः ॥ ८७॥
आचार्यमूर्तिं परिगृह्य नम्रमदीक्षयद् वातपुरीश्वरं यः ।
अदर्शयद् यस्तुरगान् सृगालानभ्यर्थितो वातपुरीश्वरेण ॥ ८८॥
प्रावर्तयद् वेगवतीमथैनं पाण्ड्येन यः पालयितुं निरुद्धम् ।
विश्वात्मता यो विशदीचकार वेत्राहतिं स्वां भुवने विवृण्वन् ॥ ८९॥
सम्बन्धनाथस्य मुखादकार्षीच्छान्तं ज्वरं पाण्ड्यमहीपतेर्यः ।
विद्याविवादे विजिताननेन यः शूलमारोपयति स्म बौद्धान् ॥ ९०॥
आनीय यः कूपशमीमहेशान् वैश्याविवाहे विववार साक्ष्यम् ।
लीलास्वनन्तास्वपि यस्य दृष्टा लीला चतुष्षष्टिरियं पुराणे ॥ ९१॥
आलम्बमेकं जगतां त्रयाणामव्याजकारुण्यसुधानिधानम् ।
तं तादृशं त्वामपहाय शम्भो! किं तावदन्यैरिह किम्पचानैः ॥ ९२॥
इति स्तवोक्त्या मुदितः सुराणामीशः स वेश्यां सह वल्लभेन ।
निर्विष्टभोगामवनौ चिराय निन्ये परं धाम दयार्द्रचेताः ॥ ९३॥
इत्थं समस्तार्त्तिहरः प्रजानामीशः कदम्बद्रुममूलधामा ।
आस्ते त्रिलोकीमनुकम्पमानः साचिव्यतो मीनविलोचनायाः ॥ ९४॥
श्रोतव्यं निधिरस्ति कोऽपि निहितो हालास्य इत्यग्रतो
मन्तव्यं स निधिर्जगन्निधिरिति न्यायैरथोच्चावचैः ।
ध्यातव्यं हृदि मूललिङ्गमथ च श्रीसुन्दरेशाभिधं
द्रष्टव्यं शफरेक्षणासहचरं तत्त्वं ततः शाङ्करम् ॥ ९५॥
लीलां चतुष्षष्टिमिमां प्रणीतां हालास्यनेतुस्तरुणेन्दुमौलेः ।
श्रीनीलकण्ठे मयि कर्णजाहमानीय मीनाक्षि ! चिरं दयेथाः ॥ ९६॥
कृतिः समर्प्या विरसा मयेति कस्यैष दोषः स परं भवान्याः ।
रम्यां कृतिं सा यदि रोचयेत तथानुगृह्णातु निवारितं कैः ॥ ९७॥
मा भूवन् नव च रसाः कविप्रणीताः
काव्येऽस्मिन् पदकमलार्पिते पुरारेः ।
आस्ते तु ध्रुवमखिलाभिनन्दनीयां
कारुण्यामृतरसकन्दली जनन्याः ॥ ९८॥
हालास्येशितुरीशितुर्यदि सखे! लीलासु शुश्रूषसे
तत्सर्वागमगुप्तमस्य यदि वा तत्त्वं विजिज्ञाससे ।
पारं वाथ दिदृक्षसे यदि परं काव्यागमस्रोतसां
तत् कर्णे कुरु नीलकण्ठमखिनो वाचं शिवैकाश्रयाम् ॥ ९९॥
मलयध्वजपाण्ड्यकन्यका-
चरणद्वन्द्वनिवेशितात्मना ।
शिवयोः कविनेदमार्पितं
शिवलीलार्णवकाव्यमद्भुतम् ॥ १००॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्य-
चतुरधिकशतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजि-
श्रीमदप्पयदीक्षितसोदर्याच्चान्दीक्षित-
पौत्रेण नारायणदीक्षितात्मजेन भूमिदेवीगर्भसम्भवेन महाकवि-
श्रीनीलकण्ठदीक्षितेन विरचिते शिवलीलार्णवे महाकाव्ये द्वाविंशः सर्गः ।
समाप्तश्चायं
शिवलीलार्णवः ।
दृष्टेष्विवानुश्रविकेषु यस्मिन् धीरा वितृष्णा इति नादुताय ।
स्वर्गाधिके धामनि संवसन्तः स्वर्ग्याणि कर्माणि
Proofread by Rajesh Thyagarajan