शुकयमसंवादे शिवलिङ्गार्चनमहिमवर्णनम्

शुकयमसंवादे शिवलिङ्गार्चनमहिमवर्णनम्

अपारपुण्यनिधयो येन पुण्यैः समार्जिताः । तस्यैव तावद्विश्वासः शिवलिङ्गार्चने यम ॥ १॥ कल्पावसानपर्यन्तं धर्मैश्चेत् दिनयापनम् । तदा कथश्चिद्विश्वासो जायते शङ्करार्चने ॥ २॥ सुलभं पुण्यपुञ्जानां श्रीमृत्युञ्जयपूजनम् । अन्येषां दुर्लभं तावत् तदेव शिवपूजनम् ॥ ३॥ सुमेरुशिखरस्थानां चन्द्रेण सह संस्थितिः । पातालवासिनां सा तु दुलेभा स्यात् तथा खलु ॥ ४॥ अतः शिवाराधनेऽपि विघ्नाः सम्भावितास्ततः । तत्कार्यमप्रमादेन प्रमादे कुगतिर्भवेत् ॥ ५॥ अशाङ्करागारनारीनरनीरावलोकने । निमील्य लोचने पश्चात् कुर्यात् सूर्यविलोकनम् ॥ ६॥ अशाङ्करशरीराणि दृष्ट्वा नारकिणामिति । दृष्ट्वा भानुं विशिष्टश्चेत् दूरं भात्यपि धावति ॥ ७॥ शिवनेत्रत्वबुद्ध्येव कर्तव्यं भानुदर्शनम् । अन्यथा धीर्यदि ददा पुनर्नरकमश्नुते ॥ ८॥ ततः परं भस्मनाङ्ग सम्यगुद्धूल्य सादरम् । हरलिङ्गार्चनं कार्य कृत्वा मुक्तो भवेदघैः ॥ ९॥ उद्धूलितं भस्मनाङ्गं नवमेवोपजायते । भस्म पापशरीराणां भस्मीकरणसाधनम् ॥ १०॥ तत्पुण्यपरिपाकेन भस्माङ्ग उपयास्यति । तस्मादुद्धूलनेनान्यत् नवाङ्गमुपजायते ॥ ११॥ प्रविष्टा रोमकूपेषु शरीरस्थेषु कोटिशः । लिङ्गानि जनयत्येव तदन्ते भूतिमुत्तमाम् ॥ १२॥ मन्ये लिङ्गमयं कायं विभूत्युदधूलनान्मम । तदङ्गं चरलिङ्गं स्यादुत्तङ्गं चेतनाश्रयम् ॥ १३॥ अचेतनानि लिङ्गानि काश्मीरादीनि कोटिशः । सन्ति तत्पूजने तावत् न तावत् फलमश्नुते ॥ १४॥ प्रत्यक्षेण विरूपाक्षशाम्भवाकारमाश्रितः । गृह्णाति फलमन्नं वा नीरं वा पुष्पमेव वा ॥ १५॥ लिङ्गार्चकस्य महिमा तस्य लिङ्गार्चनस्य वा । वेदः कथञ्चिज्जानाति न विजानाति वा यमः ॥ १६॥ शाङ्कराग्रेसरस्याङ्गं विभूतिपरिवेष्टितम् । दृष्ट्वा भूतपतिस्तावत् नृत्यत्यम्बिकया सह ॥ १७॥ अभूतपूर्वमेवेदं चररिङ्गमिति शश्रुतम् । शैवाङ्गमुत्तमाङ्गं तु तस्य लिङ्गमनुत्तमम् ॥ १८॥ बहुद्वयप्रसारेण लिङ्गाकारतया परम् । उत्तमाङ्गं दृश्यमानं तस्य लिङ्गमिति स्मृतम् ॥ १९॥ अर्पितं चरलिङ्गेषु साक्षाद्भुक्तं महेश्वरः । ततः स्थावरलिङ्गेषु न तथा शिव सन्निधिः ॥ २०॥ रत्नलिङ्गं श्रुतिप्रोक्तं रत्नं शाम्भवपुङ्गवः । अतस्तदात्मकं लिङ्ग लिङ्गोत्तममिति स्मृतम् ॥ २१॥ यस्य शाम्भवलिङ्गेषु न भक्तिरुपजायते । तेन स्थावरलिङ्गेषु पूजा कार्या प्रयत्नतः ॥ २२॥ स्थावरस्यापि लिङ्गस्य पूजां कृत्वा ततः परम् । तदर्पितोपहारेण कर्तव्य हारतोषणम् ॥ २३॥ भुङ्क्ते हारमुखं प्राप्य सदारो हर इत्यपि । श्रुतिः श्रुता ततो हारं हारा हारोदरं विदुः ॥ २४॥ हारमाहारमास्वाद्य हारोऽपि हरतामियात् । ततो हारो हरः साक्षात् तदा हारोदरं च सः ॥ २५॥ येषां न हाररूपेण लिङ्गेषु न दृढा मतिः । तेनार्चनीयं तल्लिङ्गं स्थावरं गिरिगह्वरे ॥ २६॥ हारान्तःकरणाकारगुहामाश्रित्य शङ्करः । तिष्ठतीत्यवगन्तव्यं सा गुहा वेदबोधिता ॥ २७॥ तस्यां गुहायां संविष्टमम्बिकारमणं प्रभुम् । स्मृत्वा हर्षाश्रुधाराभिः धीरो हारोऽमृतो भवेत् ॥ २८॥ यथाधिकारं लिङ्गार्चां कृत्वा पापैर्विमुच्यते । यथाविभवमेतस्य पूजा कार्या विशेषतः ॥ २९॥ शिव एव यदा इष्टः चिदानन्दघनस्तदा । तदर्चनपरो भूयात् न लिङ्गार्चनतत्परः ॥ ३०॥ शिवसन्निधिरित्येव लिङ्गपूजा विधीयते । स चेत् सन्निहितः साक्षात् कार्यं तस्यैव पूजनम् ॥ ३१॥ अतः प्रकृतपापस्य नाशायापि प्रयत्नतः । शिवलिङ्गार्चनं कार्यं तन्नाशस्तेन जायते ॥ ३२॥ पापदावानलस्यायं शिवलिङ्गार्चनाम्बुदः । विनाशको भवत्येव सभाग्यानां भवेत्खलुः ॥ ३३॥ अतः परं कालकालपूजया कालयापनम् । कर्तव्यं कालनिलयं कालकालं स्मरन् व्रज ॥ ३४॥ -इत्युक्तं तद्वचः श‍ृत्वा तत्कृतं लिङ्गपूजनम् । तत्साधनानि दृष्ट्वापि यमः प्राह शुकं प्रति ॥ ३५॥ - -धन्योऽसि भाग्यवानेकः भवान् लोके शुकाधुना । सर्वलोकोपकाराय शिवपूजा तवेदृशी ॥ ३६॥ - शिवपूजासाधनानां साधनं तपसां फलम् । एतावतैव तपसा सर्वेषां कृतकृत्यता ॥ ३७॥ त्वया जन्मार्जितानन्ततपोरूपेण केवलम् । लिङ्गार्चनं कृतमिदं सर्वसाधनलिद्विदम् ॥ ३८॥ लोचनानां फलमिदं शिवलिङ्गविलोकनम् । अर्चितस्यास्य लिङ्गस्य दर्शनं तु विशेषतः ॥ ३९॥ शिवाराधनसामग्री दृष्टा सेयं मुहुर्मुहुः । तनोति परमानन्दं सेयमत्यद्भुता खलु ॥ ४०॥ न शिवार्चनसामग्रीप्रभावस्यापि वर्णनम् । अपाररसनाभिर्वा शक्यते कर्तुमेकदा ॥। ४१॥ कल्पिता रचना सेयं त्वया शङ्करमन्दिरे । अपारतपसामेव रचना फलमश्नुते ॥ ४२॥ जन्म ते सफलं माता धन्या धन्यः पिता तव । शाम्भवस्य त्वया सङ्गात् धन्य मामपि मन्महे ॥ ४३॥ भुवनेषु न कुत्रापि दृष्टः शाम्भपुङ्गवः । एतादृशः शिवरतो दुलभः खलु सर्वदा ॥ ४४॥ धन्यं नेत्रयुगं धन्यं धन्यं मम करद्वयम् । शिवपूजनमामग्रीकरणालोकनादरात् ॥ ४५॥ एतादृशमहादेवपूजया परयाऽनया । फलं शङ्करपादाब्ज मकरन्दतया मतम् ॥ ४६॥ ॥ इति शिवरहस्यान्तर्गते शुकयमसंवादे शिवलिङ्गार्चनविधानवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १७। २८-११४ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 17. 28-114 .. Proofread by Ruma Dewan
% Text title            : Shukayamasamvade Shivalingarchana Mahimavarnanam
% File name             : shivalingArchanamahimavarNanamshukayamasaMvAde.itx
% itxtitle              : shivaliNgArchanamahimavarNanam shukayamasaMvAde (shivarahasyAntargatam)
% engtitle              : shivalingArchanamahimavarNanamshukayamasaMvAde
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 17| 28-114 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org