गायत्रीकृतशिवमन्त्रप्राप्त्याग्रहः
भगवन् देवदेवेश भर्ग संसारभर्जक ।
प्रसीद करुणा सिन्धो वरं देहि ममेप्सितम् ॥ १॥
मन्त्रः शिवपदाभावे जपायोग्य इति श्रुतिः ।
प्रसिद्धा सा श्रुतिस्तावत् मान्या धन्यस्य केवलम् ॥ २॥
मन्त्रे शिवपदं यत्र तेन सिद्धिः प्रजायते ।
अतो मुनीश्वराः सर्वे शिवमन्त्रजपोत्सुकाः ॥ ३॥
शिवमन्त्रे विद्यमाने सर्वविद्याप्रकाशके ।
अविद्यानाशके तस्मिन् अन्यो मन्त्रो न विद्यते ॥ ४॥ (जप्यते, जायते)
व्यर्थायासप्रदा मन्त्राः शिवशब्दविवर्जिताः ।
अतस्तैर्बहुधा जप्तैः अल्पं वा न फलं ध्रुवम् ॥ ५॥
नीरसैस्तरुभिः पुष्पं न फलं वा यथा तथा ।
शिवमन्त्रान्यमन्त्रेण प्रजप्तेनापि किं फलम् ॥ ६॥
किं वन्ध्या जरठा पुत्रं सूते विद्याविशारदम् ।
तथा मन्त्रास्तु ते वन्ध्याः शिवनामविवर्जिताः ॥ ७॥
शिवनामस्वरूपेण दोहदेन महेश्वर ।
फलं भक्तितरुः सूते भक्तिसिक्तः पुनः पुनः ॥ ८॥
शिवनामप्रवेशेन मन्त्रो भाति यथा रविः ।
उदयाचलमासाद्य सहस्रकिरणोऽपि सन् ॥ ९॥
शिवमन्त्राभावबद्धो न फलायोपयुज्यते ।
मन्त्राकारं दिनं भानुमपेक्ष्यासाद्य भासते ॥ १०॥
मन्त्ररूपदिनस्यायं भर्गशब्दस्तु भास्करः ।
दिनं न भास्कराभावे दिनत्वमपि यास्यति ॥ ११॥
यथा तथा मन्त्रताऽपि मन्त्रे तेन विना तु न ।
सृष्टं शिवपदं पूर्वं त्वया तावन्महात्मना ॥ १२॥
तद्यत्र मन्त्रे न भवेत् स मन्त्रो जप्य एव न ।
कण्ठे मङ्गलसूत्रं चेन्न नारी मङ्गलावहा ॥ १३॥
तथैव मन्त्रविद्याऽपि मङ्गलाय न तं विना ।
शिवमन्त्रस्तु मन्त्राणां तावन्मङ्गलसूत्रवत् ॥ १४॥
जातो मङ्गलदानाय किमन्यैः साधनैरपि ।
रत्नभूषणयुक्तापि न रण्डा भाति सर्वथा ॥ १५॥
विना मङ्गलसूत्रेण तथा मन्त्रो न तं विना ।
किं तया क्रियते धेन्वा न दोग्ध्री न च गर्भिणी ॥ १६॥
शिवमन्त्रविहीनेन जप्तेन मनुनाऽपि किम् ।
या गौः सगर्भा सा पोष्या साधनैर्विविधैस्तथा ॥ १७॥
शिवमन्त्रेण संयुक्तो मनुर्जप्यो मनीषिभिः ।
शिवमन्त्रात्मकं रत्नं मन्त्रः प्राप्य विराजते ॥ १८॥
यथा धरा रत्नगर्भा फलं सूते मनोहरम् ।
पतिव्रताऽपि या नारी पुत्रहीना न राजते ॥ १९॥
तथा शिवपदाभावे मन्त्रविद्या न राजते ।
मन्त्रो मन्त्रत्वमाप्नोति शिवमन्त्रप्रवेशनात् ॥ २०॥
तदभावे स मन्त्रः स्यादमन्त्रः केवलः शिवः ।
महिमा शिवशब्दानां न ज्ञातुं शक्यते मया ॥ २१॥
वेदैरपि न विज्ञातो मुनिभिश्च सुरैरपि ।
मन्मन्त्रे जपयोग्यत्वं नास्तीति मुनिभिः प्रभो ॥ २२॥
न जपाय प्रयुक्तोऽयं मनो दुःखमिदं मम ।
एतद्दुःखविनाशस्तु त्वत्प्रसादं विना कथम् ॥ २३॥
त्वयि प्रसन्ने भगवन् अप्राप्यमपि किं प्रभो ।
यन्न वेदैरपि ज्ञातं तव रूपं महेश्वर ॥ २४॥
॥ इति शिवरहस्यान्तर्गते गायत्रीकृतशिवमन्त्रप्राप्त्याग्रहः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २। ३३-५६ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 2. 33-56 ..
Proofread by Ruma Dewan