श्रीशङ्करविष्णूप्रोक्तं शिवनाममहिमानुवर्णनम्
श्रीशङ्करः -
शिवनामसुधापाने प्रीतिः स्यात् कस्यचिद्भुवि ।
अपारपुण्यपुञ्जस्य सा नान्यस्येति निश्चयः ॥ ७०॥
मनुष्यदेहमासाद्याप्यास्वाद्य मुहुरादरात् ।
शिवनामसुधां धन्यः प्रयाति शिवमेव सः ॥ ७१॥
स्वाधीना रसना शिवामृतरसं पातुं प्रवृत्ता कथं
नासीदेव दुरात्मना कथमिदं भाग्यं महाघान्वये ।
को वा जीवति तत्सुधाशनमहोरात्रं क्षणं वा सकृत्
यस्य स्यादघकोटिनाशकतया ख्यातं स वन्द्यः सुरैः ॥ ७२॥
अघकोटिविनाशनाय दक्षं शिवनाम श्रुतमेकमेव वेदैः ।
अनुवारमिदं जनाः कथं वा न वदन्ति स्मृतिमात्रतोऽपि मुक्तेः ॥ ७३॥
मुक्ताफलामलमिदं शिवनाम लोके
सृष्टं शिवेन सकलार्तिविनाशनाय ।
तत्कोऽपि पुण्यपुरुषः श्रवणे निधाय
नृत्यत्युमापतिपदाम्बुजदर्शनाय ॥ ७४॥
नामानि सन्ति बहुधा गिरिशस्य तानि
तुल्यानि नैव शिववर्णयुगेन तत्र ।
प्रीतिः शिवस्य शिवरूपमिति प्रसिद्धं
नामापि तद्रुचिकरं खलु शङ्करस्य ॥ ७५॥
शिवा वाणी लोके शिवपदसमेता शिवपदं
ददात्युक्ता तावत् स्मरणपथमाप्तापि शिवदा ।
अतो धन्यैर्नित्यं शिव शिव शिवेति प्रजनने
नयन्त्यायुः प्रायः शिवपदसरोजार्चनबलात् ॥ ७६॥
यो वक्तुं यतते शिवाक्षरयुगं सायं प्रगे वा मुदा
मध्याह्नेऽपि समर्चयन्ति विबुधाः सर्वे मुनीन्द्रा अपि ।
तस्मादभ्यधिको न कोऽपि भुवनेष्वालोडितं भूतलं
ब्रह्माण्डान्यखिलानि तावदसकृन्नालोडितान्येव किम् ॥ ७७॥
जम्बूद्वीपे जन्म सम्प्राप्य को वा जारादन्यो जारजादप्यपारः ।
शैवं वक्तुं नाम वै चाद्य तस्य पापिष्ठानां तत्र तावन्न भक्तिः ॥ ७८॥
आकण्ठं शिवनामधेयसुसुधां पीत्वातिपीनो मुदा
यो वा नृत्यति शङ्गलिङ्गनिलये तत्पादपद्मं सुराः ।
दृष्ट्रवैव प्रणताः स्तुवन्ति बहुधा तत्पादुकाराधने
राधामाधवयोर्विधेरपि मनस्तावत्प्रवृत्तं मुहुः ॥ ७९॥
तञ्जन्मैव मनोहरं च सुकरं चानन्ददं सर्वदा
यस्य स्याद्रसना शिवाक्षरसुधापानप्रवृत्ता मुहुः ।
तन्माता सुभगा पिता च सुभगस्तस्यैव तत्पादुके
लोकानामुपकारिके स्मृतिपदं प्राप्ते विमुक्तिप्रदे ॥ ८०॥
अघकोटियुतोऽपि दैवयोगात् शिवनामस्मरणेन पूत एव ।
स पुनाति जगत्त्रयं सकृद्वा श्रुत एव स्मृत एव वा विशेषात् ॥ ८१॥
शिवनामसमानमस्ति किं वा भुवनेषु प्रथितेषु भूतलेषु ।
गिरिसुन्दरकन्दरेषु भूयोऽप्यटनेनापि न लभ्यते समानम् ॥ ८२॥
शिवाभिधानामृतपानपीनानदीनमानानभिमानगानान् ।
पश्यत्यवश्यान् शमनोऽपि नत्वा नारायणस्तान् कमलासनोऽपि ॥ ८५॥
शिवपदं पदमीप्सितसम्पदां पदमिदं पदमात्मसुखस्य च ।
अपदमेतदहो सकलापदां पदमनुत्तममुक्तिपदं पदम् ॥ ८६॥
सुधाधाराकारा शिवपदसरूपाऽपि भुवने
तया जन्मापायो न भवति जनिः किं शिवपदे ।
श्रुते जन्मापायो भवति न जरा नापि मरणं स्मृते
मुक्तिस्तेनेत्यपि वदति वेदोऽपि सततम् ॥
सुधाराशिः कोऽयं विजयति(?)शिवाख्यात्मकतया
महानन्दाकारान् जनयति सुधांशूनगणितान् ।
पुनस्तैरप्यन्थेऽप्यमृतकिरणा एव जनिताः
समाहारस्तेषां शिवचरणपङ्केरुहगतः ॥ ८८॥
न विज्ञातं सिद्धैः परममृतरूपं शिवपदं
न वा देवैः कैरप्यपरमुनिसङ्घैरपि गणैः ।
न वा वेदैर्ज्ञातं शिवपदमिदं वेद स शिवो
महानन्दाकारो निरुपमशिवज्ञानमहिमा ॥ ८९॥
इदं तावद्रूपं शिवपदमिदं तावदमृतं परं
नातः किञ्चित् जगति सकलाघक्षयकरम् ।
अनेनैवानन्दो भवति शिवपादाम्बुजरजः
प्रसादात् केषाञ्चित् गिरिशचरणाम्भोजभजनात् ॥ ९०॥
न जानीमस्तत्वं शिवपदमहिम्नः परमिदं
परां मुक्तिं दास्यत्यनुपदमविज्ञातविभवम् ।
कृतं वा केनापि श्रुतमपि किमेतादृशमिदं
पुरा सृष्टं दिव्यं जनिमरणनाशार्थमनिशम् ॥ ९१॥
अहो कल्पान्ते वा न भवति कथञ्चिद्विवरणं
महाकुम्भीपाकप्रभृतिषु महाक्लेशविरतिः ।
अकस्मादेतस्मात् जननमरणापायजनको
महारोगापायो भवति शिवशब्दस्मरणतः ॥ ९२॥
यद्गोपनीयं बहुभिः प्रयत्नैः तन्नामरत्नं तदिदं शिवस्य ।
कण्ठे सदा तिष्ठति यस्य तस्य पादाम्बुजाराधनतोऽपि मुक्तिः ॥ ९३॥
न ज्ञायते शङ्करनामशक्तिः केनापि तद्वस्तुनिभं न वस्तु ।
इतः समस्तामयनाश एव स्यादित्यवश्यं भजनीयमार्यैः ॥ ९४॥
स एव तावद्भुवि पावनश्च यः शङ्करं नाम मुहुर्मनःस्थम् ।
कृत्वा स्मरत्यन्वहमादरेण स एव तावत् परमोऽस्ति कश्चित् ॥ ९५॥
शिवशब्दसमानशब्दमस्मिन् भुवने वेदगणेऽपि नैव विद्मः ।
अमुमेव महौषधं विदित्वा भुवि धन्याः प्रचरन्ति रोगहीनाः ॥ ९६॥
मन्ये रोगविनाशनं शिवपदं धन्यैकभाव्यं सदा
धन्यानामपि धन्यता शिवपदं धन्येषु धन्यं परम् ।
मन्ये तं शिवशब्द एवं सततं धन्यं करोति स्मृतः
सद्यः पावयतीति तत्पदमहो दिव्यौषधं सौख्यदम् ॥ ९७॥
किमौषधाभासविचारणेन दिव्यौषधे शङ्करनामरूपे ।
तिष्ठत्यपारामयनाशकेऽस्मिन् अन्यं न वाञ्छा विषयीकरोति ॥ ९८॥
करोतु पापान्यमितानि किं तैः अपारसंसारमहामयेऽस्मिन् ।
किं तद्यतः शङ्करनामरूपं दिव्यौषधं तिष्ठति कण्ठभागे ॥ ९९॥
संसाररोगहरणाय शिवाभिधानं दिव्यौषधं तन्मुहुरादरेण ।
संसेवनीयं सकलाघशान्तिः तेनैव संसारभयापहारः ॥ १००॥
संसाररोगमपहर्तुमशक्त एव यः कोऽपि शङ्करपदस्मरणानुरक्तः ।
तं तारयत्यनुदिनं पदमेकमेव तन्नान्यदिच्छति तदीयभयापनुत्त्यै ॥ १०१॥
अहो केऽपि संसाररोगापहारप्रयासप्रवृत्ताः प्रमत्ताः परं ते ।
अनायाससिद्धेऽपि विश्वेशनाम्नि प्रकृष्टाघनाशाय के वा प्रवृत्ताः ॥ १०२॥
संसाररोगविनिवारकमेकमेव दिव्यौषधं शिवपदाभिधमामनन्ति ।
तेनैव तस्य विलयो भवतीति सिद्धं सिद्धान्त एव मम तावदसंशयोऽत्र ॥ १०३॥
विष्णुः -
शिवाख्या श्रुता तेन तस्पापराशिः महासर्परूपेण दग्धः प्रयाति ।
अतः पुण्यवानेव सोऽयं महात्मा मया पूज्य एव त्वयाऽप्यत्र काल ॥ १४२॥
अनेनान्तकाले श्रुतं नाम शैवं तदेवाघकोटिप्रणाशाय शक्तम् ।
न तत्कृत्यमेतावदेवेति मन्ये शिवाग्रेऽपि नृत्यं करिष्यत्ययं हि ॥ १४३॥
अयं पुण्यवानस्य पुण्यस्य नान्तो यतो नाम दिव्यं श्रुतं शाम्भवं हि ।
कथं वा न धन्योऽपि पूज्यश्च देवैर्महद्भाग्यमेतस्य सौभाग्यमेवम् ॥ १४४॥
पुण्यानि सन्ति विविधानि तथापि किं तैरन्ते कृतान्त जनिदुःखकराणि तानि ।
पुण्यप्रणाशमुपयान्ति पुनश्च गर्भे वासो भवत्यपि पुनर्मरणं जनिश्च ॥ १४५॥
एकं शङ्करनामरूपमनघं दिव्यास्त्रमत्यद्भुतं
तद्येन श्रुतमन्ततः स्मृतमपि ध्यातं च दैवात् स तु ।
तेर्नैवाशु विनाशयत्यघकुलाकारान् रिपून् कोटिशः
संसारार्णवलक्षणं रिपुमपि स्वच्छन्दवृत्तिः स्वतः ॥ १४६॥
ध्यातं पुण्यमहाम्बुधिं जनयति ज्ञातं स्मृतं वा श्रुतं
नामेदं यम शाम्भवं महदिदं शस्त्रं रिपूणां क्षये ।
संसारामयशत्रुरूपविलयोपायः परं तत्पदं
मुक्तिं दातुमपि प्रवृत्तमसकृद् यद्वा सकृद्वा स्मृतम् ॥ १४७॥
दत्तं शङ्करनामरूपममृतं सेव्यं सुरैः सर्वदा
पुण्यैः सर्वसमाश्रयैर्मुनिवरैः सिद्धैः फणीन्द्रादिभिः ।
गन्धर्वैरपि किन्नरैर्नरवरैः संसारभूरिव्यथाव्यर्था-
यासकदर्थनाय बहुधा तत्तुल्यमन्यत्तु न ॥ १४८॥
मुक्तिश्चेत् समवेक्षिता शिवपदध्याने रताः सन्ततं
सन्तः सन्तु सहस्रशोऽपि निगमप्रोक्ताश्च धर्माः परम् ।
किन्तैर्मुक्तिरवाप्यते यदि भवेत् स्वर्गः परं तैर्भवेत्
अन्ते जन्म जरा च मृत्युरपि तैर्मुक्तिः कथं वा भवेत् ॥ १४९॥
शिवस्मरणलालसं यदि भवेत् तदा मानसं पुनर्न जनिसाध्वसं मरणसाध्वसं वा यम ।
ततस्तदमृतामृतं मृतजनस्य सञ्जीवनं जरामरणजन्मनामपि विनाशने साधनम् ॥ १५७॥
॥ इति शिवरहस्यान्तर्गते श्रीशङ्करविष्णूप्रोक्तं शिवनाममहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २०। वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 20. vAvRRittashlokAH ..
Proofread by Ruma Dewan