शिवपार्वतीसंवादे शिवरहस्यम्
देवी -
किं ते प्रियकरं शम्भो रहस्य तद्वदस्व मे ।
इति पृष्टो महादेवो जगाद जगदम्बिकाम् ॥ ४५॥
ईश्वरः -
श्रृणु त्वममरेशानि रहस्यं मम शङ्करि ।
धर्मपञ्चकमित्याहुः पञ्चपातकनाशनम् ॥ ४६॥
श्रृणुष्वावहिता भूत्वा जगतां पापनुत्तये ॥ ४७॥ (पापनुत्तमम्)
पचेलिमतपःफलैरमितजन्मसङ्घार्जितैः
भवे भसितधारणे मतिरुदेति विश्वाधिके ।
त्रिपुण्ड्ररचनाक्रमः करगलादिफाले तथा
उरोदरशिरःथले भवति भाग्यपूर्णे जने ॥ ४८॥
रुद्राक्षेति वदन्स्पृशन्नपि नरो जन्तुः स गोदानभाक्
धृत्वा तच्छतकं महेन्द्रसदनं प्राप्येन्द्रसालोक्यगः ।
तत्साहस्रधरोऽपि तत्र दशकं तस्मादनन्ताक्षधृक्-
ब्राह्मं वैष्णवमैश्वरं पदसुखं प्राप्येश्वरे लीयते ॥ ४९॥
पञ्चपातकविनाशनं परं पञ्चकोशविनिवारणं सदा ।
पञ्चवक्त्रकृपया शुभप्रदं पञ्चमन्त्रपरमं तथाक्षरम् ॥ ५०॥
कुम्भसम्भवमुखैर्मुनीश्वरैर्जम्भमारकमुखैरमरेन्द्रैः ।
कुम्भवक्त्रमुखरैर्गणेश्वरैर्दम्भनाशनकरं परं मनुम् ॥ ५१॥
जप्तमाप्तफलदं शुभाप्तये सप्तमन्त्रकृतधूलनादरैः ।
उप्तमुक्तिफलदं भवभूम्यां बीजमेकमनिशं शिवभक्तैः ॥ ५२॥
श्रीरुद्रं यजुषां गणेषु विहितं जप्त्वा परं प्रीतिमान्
मुक्तः पातकसङ्घतो गिरिवराज्जाते स पुण्यैकभाक् ।
तन्नम्नां फलवादसूक्तिपरमैर्मन्त्रं जपन्मुक्तिभा-
ग्भस्माभ्यक्ततनुस्तथा च शयितो यो भस्मनिष्ठो भवेत् ॥ ५३॥
यो रुद्राक्षविभूतिभूषणयुतो जप्त्वा प्रियो जायते
यः पुण्ड्रान्तरधारिणे मतिरुमे नैवाप्नुयात् तत्फलम् ।
जप्त्वापि श्रुतिशेखरोत्तमपदान् ज्ञात्वापि तस्यार्थकं
लिङ्गेषु प्रथितं सदापचितिजं पुण्यं न हि प्राप्नुयात् ॥ ५४॥
पुन्नागनागवकुलार्जुनचम्पकैश्च
मन्दारपाटलकदम्बकवर्णिकारैः ।
जम्ब्वाम्रदाडिमसुगन्धिशमीशमीक-
लोध्रोद्भवैश्च बकुलैः करवीरपुष्पैः ॥ ५५॥
पद्मार्कैः कनकैस्तथा दमनकैर्बन्धूककोकैर्वकैः
कुन्दैर्जातिकुसुम्भसम्भवसुमैः सन्मल्लिकासम्भवैः ।
अङ्कोलैर्गिरिमल्लिकादिकुसुमैः सप्तारिजातादिभिः
नन्द्यावर्तमरुत्वकैश्च तुलसीसद्द्रोण दूर्वाङ्कुरैः ॥ ५६॥
विष्णुक्रान्त कुशापमार्गजलदैः काशैस्तथैवार्जुनैः ।
कापित्थैरघहारिपत्रकबरैर्यः पञ्चवक्त्रार्चनम् ।
पञ्चब्रह्मनमांसि यस्य वदने सद्यः स मुक्तो भवेत् ॥ ५७॥
सहस्रनीलोत्पलमालया शिवं समुल्लसच्चारुशशाङ्कमौलिम् ।
मुदा मुकुन्दाजविमृग्यमौलिपादाम्बुजं पूजयिता स धन्यः ॥ ५८॥
यो बिल्वोत्तममालयाऽनुदिवसं मन्दारमालादिभि-
र्लिङ्गं मङ्गलमेतदद्य सुमनःसौरभ्यगन्धायितम् ।
पश्यन् नश्वरपातकोत्थशमनाद् व्याघातभीतिं हरे-
न्निर्गुण्डीशुकपत्रबिल्वजदलैः सद्भावलिङ्गोद्भवैः ॥ ५९॥
वसन्तनवमल्लिकाकुसुमदिव्यमालादिभिः
दिनान्तसमयोल्लसन्मधुरगन्धजाजीसरैः ।
महेशजनिमार्चनं प्रकुरुते प्रदोषेतु यः (महेशकृतमर्चनं)
स चादिभिषगुत्तमप्रिय अघौघतूलानलः ॥ ६०॥
ब्रह्मा शैलभवं हरिन्मणिभवं विष्णुर्निशानायको
मुक्ताजालमयं प्रवालजमुमा ताम्रोद्भवं भानुमान् ।
हैरण्यं धनदस्तथैव वरुणः श्रीचन्द्रकान्तोद्भवं
वह्निश्चान्नमयं सुपित्तलभवं वायुश्च नीलं हरिः ॥ ६१॥
अन्ये सर्वमरुद्गणाश्च दितिजा गन्धर्वविद्याधरा
यक्षा राक्षसकिन्नरोरगगणा रुद्रा मुनीनां गणाः ।
चित्रं चारु महेशलिङ्गममलं सम्पूजयन्त्यादरा-
द्बिल्वीकोमलपल्लवैर्दिविषदो मन्दारमालादिभिः ॥ ६२॥
उत्फुल्लरक्तकमलैरमलैः कदम्बैर्नीलोत्पलैर्विकसितैः कुमुदैश्च नित्यम् ॥ ६३॥
मालूरप्रभवैर्नवारुणदलैर्दूर्वाङ्कुरैः शङ्करं लिङ्गेऽभ्यर्च्य
भवेदनेकविभवैर्युक्तस्तथा मुक्तिभाक् ।
सायं कुन्दमरन्दबन्धुरलसद्गन्धौघगन्धीकृतै-
र्दिग्वातैर्विपिनप्रफुल्लसुमनोधूलिप्रभाभासुरैः ॥ ६४॥
शर्वाणीरमणार्चनैः कृतमतिर्मन्दारमालादिभिः
भस्माभ्यक्ततनुर्भवेत् स सुभगो भावोऽपि कश्चित् कलौ ॥ ६५॥
प्राल्यैर्मध्वाज्यदुग्धप्रभवदधिघटैर्नारिकेलेक्षुसारैः
रम्भाजम्बीरचूतप्रभवफलरसैः पानसोद्धूतकोशैः ।
श्रीखण्डद्रवसारसागरमहाकर्पूरखण्डद्रवैः
पाटीरैर्मृगनाभिजातसुरसैः सच्छर्करापूरकैः ॥ ६६॥
आसिच्यालिम्प्य गन्धैर्मृदुतरवसनावेष्टनैर्वेष्टयित्वा
नेपथ्यैर्मणिकल्पितैः सुमनसां भारैश्च बिल्वीदलैः ।
अभ्यर्च्याभूष्य धूमैरगरुपरिमलामोदितैर्दीपजालैः
नैवेद्यैर्बहुभक्षभोज्यसहितैस्ताम्बूलनीराजनैः ॥ ६७॥
कुन्देन्दुप्रतिमानचारणगणैः छत्रैश्च मुक्ताफलोद्दाम-
स्वर्णपरिष्कृतैर्व्यजनजामोदोत्थवातार्पणैः ।
आदर्शैरतिनिर्मलैर्मृदुलकैः सद्वाद्यभेदोत्थितध्वानैः
प्रक्रमसंस्तवप्रणमनैर्नृत्यैश्च गेयैरपि ॥ ६८॥
लिङ्गं मङ्गलमङ्गलापतिमहासान्निध्यहेतुस्थले
वारं वारमघौघनाशनकरं पुण्ये प्रदोषेऽपि च ।
सम्पूज्यालोक्य पुण्यैर्जनिशवतिततैः किं वदामीशतुल्यः
स्कन्दो नन्दिश्च भृङ्गिर्गिरिशकरुणया धन्यधन्यः स एव ॥ ६९॥
॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे शिवरहस्यम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३। ४५-६९॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 3. 45-69..
Notes:
Shiva describes to Devi, the DharmaPanchaka (the five signifiers of ShaivaDharma).
The shloka numbers are maintained per the referenced source text.
Proofread by Ruma Dewan