शिवपूजनमहिमा

शिवपूजनमहिमा

शिवपूजनमुत्कृष्टं सर्वसिद्धिप्रदायकम् । तदेव न कृतं तस्य जन्म तावन्निरर्थकम् ॥ १७॥ शिवप्रसादलब्धानि धनधान्यादिकान्यतः । तैरर्चनं महेशस्य कृत्वा मुक्तिमवाप्नुयात् ॥ १८॥ तदीयमेव दत्वापि तस्मै भाग्यमनुत्तमम् । प्राध्यमित्येव यत्नेन कर्तव्यं शिवपूजनम् ॥ १९॥ विना न पुण्यपुञ्जेन भक्तिर्मृत्युञ्जयार्चने । अतः पुण्यात्मना नित्यं कर्तव्यं शिवपूजनम् ॥ २०॥ शिवार्चनेन विज्ञेयः पुण्यवानिति मानवः । तदभावेन विज्ञेयो महापातकवानिति ॥ २१॥ अतः स दूरतस्त्याज्यो यो नार्चयति शङ्करम् । तत्संयोगाभिलापाद्यैर्मानवः पापवान् भवेत् ॥ २२॥ येन केनापि रूपेण शरीरं प्राप्य मानवः । शिवार्चनपरो भूयात् स भूयः पुण्यवान् भवेत् ॥ २३॥ शिवार्चनपरो मर्त्यः प्रणतः संस्तुतः स्मृतः । हरत्यघान्यनन्तानि घोराणि विविधान्यपि ॥ २४॥ घोरपापवनस्यायं कुठारः शङ्करार्चकः । अतः सर्वप्रयत्नैश्च कर्तव्यं शिवपूजनम् ॥ २५॥ अतः परं त्वयोन्मादः परित्याज्यः प्रयत्नतः । शिवपूजां कुरु प्रीत्या तव मुक्तिर्भविष्यति ॥ २६॥ शरीरं शिवपूजायै यौवने दक्षमित्यतः । प्रयत्नेन महादेवं पूजयस्व यथोचितम् ॥ २७॥ स्नानं कुरु प्रयत्नेन शिवकुण्डे शिवोदके । उद्धूल्य भस्मनाङ्गानि त्रिपुण्ड्र च प्रयत्नतः ॥ २८॥ शिरोललाटवक्षःसु स्कन्धे च मणिबन्धने । कूर्परे नाभिदेशेच पार्श्वयोर्गण्डमण्डले ॥ २९॥ ऊरुप्रदेशे गुल्फेच त्रिपुण्ड्रं धारयेन्मुहुः । रुद्राक्षधारणं कार्यं द्वात्रिंशत् कण्ठमालया ॥ ३०॥ शिखायामेकमेव स्यात् द्विचत्वारिंशदुत्तमाः । रुद्राक्षाः शिरसा धार्याः कर्णयोर्द्वादश द्वयोः ॥ ३१॥ शतत्रयं तूपवीते बाह्वोः षोडश षोडश । चतुर्विंशति रुद्राक्षाः द्वयोस्तु मणिबन्धयोः ॥ ३२॥ अष्टोत्तरशतैरेव रुद्राक्षैर्जपमालिका । तया पञ्चाक्षरं जप्त्वा शैवः शिवमवाप्नुयात् ॥ ३३॥ त्रिभिराचमनं स्त्रीणां पुंसामिव यथाविधि । भवाद्यैर्नामभिर्यद्वा शिवपञ्चाक्षरेण वा ॥ ३४॥ पश्चात् कुशासने स्थित्वा यद्वा व्याघ्राजिनादिषु । उदङ्मुखः प्राङ्मुखो वा पूजयेद्गिरिजापतिम् ॥ ३५॥ पञ्चामृताभिषेकाद्यैः कर्पूरादिसमन्वितैः । जलैः फलोदकैरीशं आम्रादिकरसैरपि ॥ ३६॥ शुद्धोदकैः कवोष्णैर्वा शीतलैर्वा मनोहरैः । पश्चात् दुकूलवसनैः पूजयित्वा सदाशिवम् ॥ ३७॥ सुगन्धचन्दनेनापि पूजयेद्गिरिजापतिम् । बिल्वपत्रैरक्षतैश्च प्रफुल्लकुसुमैरपि ॥ ३८॥ मन्दारादिप्रसूनानां मालिकाभिः समर्चयेत् । पश्चाद्धूपय धूपैश्च दीपैः कर्पूरसम्भवैः ॥ ३९॥ ओदनैराज्यसंयुक्तैः शाकसूपसमन्वितैः । परमान्नैर्घृतयुतैः शर्कराराशिसंयुतैः ॥ ४०॥ लड्डुकैर्वटुकैराज्यैः अपूपैर्मण्डकादिभिः । भक्ष्यैर्लेह्येश्च चोष्यैश्च पेयैश्च विविधैरपि ॥ ४१॥ कदलीनारिकेलाद्यैः अपारैः फलमण्डलैः । इक्षुदण्डैश्च मण्डैश्च दधिक्षीररसोद्भवैः ॥ ४२॥ दध्योदनैश्च क्षीरैश्च दधिर्पूरैर्मनोरमैः । सुगन्धजलपूरैश्च नवेक्षुरसपूरकैः ॥ ४३॥ द्राक्षाराशिरसैरेता लवङ्गपरिवेष्टितैः । अन्यैरपि रसद्रव्यैः पूजयित्वा महेश्वरम् ॥ ४४॥ पश्चादाभरणं दद्यात् रत्नराशिविराजितम् । पुनर्वस्त्राणि रम्याणि रत्नछत्रादिकं तथा ॥ ४५॥ दर्पणं चारु व्यजनं चामीकरविराजितम् । चामरं पुष्पमालाश्च पताकाश्च मनोहराः ॥ ४६॥ देयं कर्पूरदीपानां नीराजनमनुत्तमम् । पश्चादास्वेदमीशाय प्रणतो नर्तनोत्सवैः ॥ ४७॥ रुद्राध्यायादिमन्त्राणां स्तोत्रैः शाम्भवशोभनैः । पुण्यैः शिवकथालापैः कालो नेयः प्रयत्नतः ॥ ४८॥ एवमासायमीशार्चा कर्तव्या मुक्तिकाङ्क्षिभिः । सायङ्काले विशेषेण पुनः पूजां समारभेत् ॥ ४९॥ उक्तैनैव प्रकारेण मोक्षदं शिवपूजनम् । लिङ्गरूपिणमीशानं प्रदोषे यस्तु पश्यति ॥ ५०॥ स वंशकोटिसंयुक्तः शिवलोकं प्रयच्छति । ब्रह्महत्यादिपापानां प्रलयाय प्रजायते ॥ ५१॥ ॥ इति शिवरहस्यान्तर्गते शिवपूजनमहिमा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १ - याज्ञवल्क्यजनकसंवादे राजपुत्रेण राजपत्न्युपदेशवर्णनम् । १७-५१॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 1 - yAjnavalkyajanakasaMvAde rAjaputreNa rAjapatnyupadeshavarNanam . 17-51.. Proofread by Ruma Dewan
% Text title            : Shivapujanamahima
% File name             : shivapUjanamahimA.itx
% itxtitle              : shivapUjanamahimA (shivarahasyAntargataA)
% engtitle              : shivapUjanamahimA
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 1 | 17-51 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org