नारदप्रोक्तं शिवप्रसङ्गश्रुतिमहिमावर्णनम्

नारदप्रोक्तं शिवप्रसङ्गश्रुतिमहिमावर्णनम्

शिवप्रसङ्गः शिवदायको मे यतः शिवावल्लभसन्निधानम् । तस्मिन् प्रसङ्गे सति सर्वथापि नान्यत्र तिष्ठत्यगजापतिस्तु ॥ १०॥ शिवप्रसङ्गः क्व भविष्यतीति विचार्य तिष्ठत्यपि चन्द्रमौलिः । अतः परं मङ्गलहेतुरीशो महेश्वरः सन्निहितः स्वभावात् ॥ ११॥ महेश्वराभ्यागमने भवानी कुमारमादाय गणेशमादौ । आयास्यतीति द्रुतमेव नन्दी भृङ्गी च सर्वैः स्वगणैः समेतः ॥ १२॥ अयं प्रसङ्गः श्रुत एव नूनं कैलाससिंहासनसंस्थितेन । शिवेन गौर्याऽपि गणेश्वरेण स्कन्देन नन्दीशमुखैः सुरैश्च ॥ १३॥ तीर्थानि सर्वाण्यपि मूर्तिमन्ति शिवेन साकं गिरिशप्रसङ्गे । आगत्य धन्यत्वमुपेत्य तावत् यास्यन्ति नूनं नृपसत्तमाद्याः ॥ १४॥ शिवप्रसङ्गः स्वयमेव पूजा महेश्वरस्येति मतिर्ममाऽपि । शिवप्रसङ्गेन समानपूजा यतः शिवोत्कर्षक एव सोऽयम् ॥ १५॥ यतः शिवोत्कर्षविशेषवार्ता शिवस्य पूजा परमुक्तिहेतुः । तद्वार्तया सा न सुधा समाना सा मुक्तिदा नेति विनिश्चयेन ॥ १६॥ शिवप्रसङ्गः स्वयमेव मुक्तिं करोति सद्यः श्रुत एव साक्षात् । यतो विरूपाक्षहितप्रसङ्गः संसारसङ्गाङ्कुरपावकोऽयम् ॥ १७॥ शिवप्रसङ्गाय मनोऽस्मदीयं न चोरहार्यं न तदन्यहार्यम् । श्रुतोऽपि भूयो भवति प्रवृद्धः हृतोऽपि संसारहरः स्वभावात् ॥ १८॥ शिवप्रसङ्गे च विमुक्तिलाभः कथासुधाराशिकृतोपकारः । न कोऽपि तावत् स परं महेशः गौरीसमाकर्षणहेतुभूतः ॥ १९॥ शिवप्रसङ्गयुक्तानामस्माकं गिरिजापतिः । प्रसन्नोऽपि विशेषेण किमस्मभ्यं प्रदास्यति ॥ २०॥ महामुक्तिर्महाम्भोजचरणाम्बुजरेणुभिः । सहवासः स तावत् स्यात् तत्कथाश्रवणान्नृप ॥ २१॥ महेश्वरकथासुधां पिवति शङ्करः शङ्करी- कुमारगणनायकप्रमथदेववृन्दैः सह । इयं खलु सुधाऽपरा परममुक्तिदानोत्सवा तयापि न समानमित्यपि मतिः प्रवृद्धा भुवि ॥ २२॥ आनन्देन निधीयते नियमतः सा दुर्लभा दुर्लभं तद्भिन्नं ननु सर्वथाऽपि न कृतिस्तस्यां सुधायां नृप । सा तावत्स्वयमेव शङ्करकृपारूपापि नित्यापि सा तद्भानेन समा समानमितरत् जन्यं न तेनास्त्यपि ॥ २३॥ सा तावद्गिरिशप्रसादजनिता जन्मादिदुःखाटवी- कल्पान्तानल एव सा न सुलभा विश्वेश्वरानुग्रहे । सा तावत् सुलभा भवत्यपि सुधा तद्गोपनं सर्वथा कर्तव्यं शिवयोगिने परमिदं देयं सुधामुक्तये ॥ २४॥ शिवकथामृतपानपानरतः सदा धनपतेर्धनमिच्छति कः पुमान् । तदिदमस्य धनं न धरापते धनदकोशगृहेऽपि न तद्धनम् ॥ २५॥ धनानि तावद्विविधानि लोके व्यथाकराण्येव तदार्जनेऽपि । व्ययेऽपि विश्वेशकथानिधानं न दुर्लभं शाम्भवपुङ्गवानाम् ॥ २६॥ अपारपुण्ययोगेन श्रुता शिवकथासुधा । पापाग्नितप्तजिह्वाग्रतृषामपहरिष्यति ॥ २७॥ संसारानलसागरानलमहाज्वालाकुलव्याकुलो निर्दग्धस्तृषितः क्षुधानलकुलव्याप्तोदरः सादरम् । यो भक्तया सकृदेव वा शिवकथापीयूषराशिं मुदा श्रुत्वा तृप्तिमुपैति तस्य न तृषा क्षुद्वा न तद्वेदना ॥ २८॥ आनन्दामृतसिन्धुरेव गिरिजाकान्तप्रभावप्रथा पीयूषार्णववर्णनं शिवकथासारः स सारः परम् । संसारार्णवमोचकोत्तम इति ज्ञातस्ततस्तत्परं किं वा स्यादिति चिन्तनेऽपि न समस्तेनास्ति लोकत्रये ॥ २९॥ अतः शिवकथालापैरपलापोऽपि संसृतेः । अतः सत्सङ्गतेरेव तत्कथास्वर्धुनी हृदि ॥ ३०॥ ॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं शिवप्रसङ्गश्रुतिमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १०। १०-३० ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 10. 10-30 .. Notes: Nārada नारद narrates to Magadharāja मगधराज, the merits of listening to discourses about Śiva शिव. Proofread by Ruma Dewan
% Text title            : Naradaproktam Shivaprasangashrutimahima
% File name             : shivaprasangashrutimahimA.itx
% itxtitle              : shivaprasaNgashrutimahimA (shivarahasyAntargataA)
% engtitle              : shivaprasangashrutimahimA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 10 | 10-30 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org