श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम्

श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम्

श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीउमामहेश्वराभ्यां नमः ॥ अरुन्धत्युवाच । मुने वद महाभाग नारदेन यथा स्तुतः । सहस्रनामभिः पुण्यैः पापघ्नैः सर्वकामदैः ॥ १॥ यानि यानि च नामानि नारदोक्तानि वै मुने । रागोत्पत्तिं विस्तरेण नामानि च वद प्रिय ॥ २॥ वसिष्ठ उवाच । साधु साधु महाभागे शिवभक्तिर्यतस्त्वयि । तपःशुद्धो नारदोऽसौ ददर्श परमेश्वरम् ॥ ३॥ दृष्ट्वा तद्वै परं ब्रह्म सर्वज्ञो मुनिपुङ्गवः । सस्मार प्रियनामानि शिवोक्तानि प्रियां प्रति ॥ ४॥ नारदोऽस्य ऋषिः प्रोक्तोऽनुष्टुप्च्छन्दः प्रकीर्तितः । श्रीशिवः परमात्मा वै देवता समुदाहृता ॥ ५॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । सर्वारम्भप्रसिद्ध्यर्थमाधिव्याधिनिवृत्तये ॥ ६॥ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः । अनुष्टुप् छन्दः । परमात्मा श्रीशिवो देवता । धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिध्यर्थे सर्व कर्म(कामना) सिध्यर्थे सर्व आधि व्याधि निवृत्यर्थे सहस्रनामजपे विनियोगः ॥ नारद उवाच । ॐ श्रीशिवः शिवदो भव्यो भावगम्यो वृषाकपिः । वृषध्वजो वृषारूढो वृषक वृषेश्वरः ॥ ७॥ शिवाधिपः शितः शम्भुः स्वयम्भूरात्मविद्विभुः । सर्वज्ञोबहुहन्ताचभवानीपतिरच्युतः ॥ ८॥ तन्त्रशास्त्रप्रमोदी च तन्त्रशास्त्रप्रदर्शकः । तन्त्रप्रियस्तन्त्रग्मयोतन्त्रोवानन्ततन्त्रकः ॥ ९॥ तन्त्रीनादप्रियोदेवोभक्ततन्त्रविमोहितः । तन्त्रात्मातन्त्रनिलयस्तन्त्रदर्शीसुतन्त्रकः ॥ १०॥ महादेव उमाकान्तश्चन्द्रशेखर ईश्वरः । धूर्ज्जटिस्त्र्यम्बको धूर्तो धूर्तशत्रुरमावसुः ॥ ११॥ वामदेवो मृडः शम्भुः सुरेशो दैत्यमर्दनः । अन्धकारहरो दण्डो ज्योतिष्मान् हरिवल्लभः ॥ १२॥ गङ्गाधरो रमाकान्तः सर्वनाथः सुरारिहा । प्रचण्डदैत्यविध्वंसी जम्भारातिररिन्दमः ॥ १३॥ दानप्रियो दानदो दानतृप्तो दानवान्तकः । करिदानप्रियो दानी दानात्मा दानपूजितः ॥ १४॥ दानगम्यो ययातिश्च दयासिन्धुर्दयावहः । भक्तिगम्यो भक्तसेव्यो भक्तिसन्तुष्टमानसः ॥ १५॥ भक्ताभयप्रदो भक्तो भक्ताभीष्टप्रदायकः । भानुमान् भानुनेत्रश्च भानुवृन्दसमप्रभः ॥ १६॥ सहस्रभानुः स्वर्भानुरात्मभानुर्जयावहः । जयन्तो जयदो यज्ञो यज्ञात्मा यज्ञविज्जयः ॥ १७॥ जयसेनो जयत्सेनो विजयो विजयप्रियः । जाज्वल्यमानो ज्यायांश्च जलात्मा जलजो जवः ॥ १८॥ पुरातनः पुरारातिस्त्रिपुरघ्नो रिपुघ्नकः । पुराणः पुरुषः पुण्यः पुण्यगम्योऽतिपुण्यदः ॥ १९॥ प्रभञ्जनः प्रभु पूर्णः पूर्णदेवः प्रतापवान् । प्रबलोऽतिबलो देवो वेदवेद्यो जनाधिपः ॥ २०॥ नरेशो नारदो मानी दैत्यमानविमर्दनः । अमानो निर्ममो मान्यो मानवो मधुसूदनः ॥ २१॥ मनुपुत्रो मयारातिर्मङ्गलो मङ्गलास्पदः । मालवो मलयावासो महोभिः संयुतोनलः ॥ २२॥ नलाराध्यो नीलवासा नलात्मा नलपूजितः । नलाधीशो नैगमिको निगमेन सुपूजितः ॥ २३॥ निगमावेद्यरूपो हि धन्यो धेनुरमित्रहा । कल्पवृक्षः कामधेनुर्धनुर्धारी महेश्वरः ॥ २४॥ दामनो दामिनीकान्तो दामोदर हरेश्वरः । दमो दान्ता दयावान्श्च दानवेशो दनुप्रियः ॥ २५॥ दन्वीश्वरो दमी दन्ती दन्वाराध्यो जनुप्रदः । आनन्दकन्दो मन्दारिर्मन्दारसुमपूजितः ॥ २६॥ नित्यानन्दो महानन्दो रमानन्दो निराश्रयः । निर्जरो निर्जरप्रीतो निर्जरेश्वरपूजितः ॥ २७॥ कैलासवासी विश्वात्मा विश्वेशो विश्वतत्परः । विश्वम्भरो विश्वसहो विश्वरूपो महीधरः ॥ २८॥ केदारनिलयो भर्ता धर्ता हर्ता हरीश्वरः । विष्णुसेव्यो जिष्णुनाथो जिष्णुः कृष्णो धरापतिः ॥ २९॥ बदरीनायको नेता रामभक्तो रमाप्रियः । रमानाथो रामसेव्यः शैब्यापतिरकल्मषः ॥ ३०॥ धराधीशो महानेत्रस्त्रिनेत्रश्चारुविक्रमः । त्रिविक्रमो विक्रमेशस्त्रिलोकेशस्त्रयीमयः ॥ ३१॥ वेदगम्यो वेदवादी वेदात्मा वेदवर्द्धनः । देवेश्वरो देवपूज्यो वेदान्तार्थप्रचारकः ॥ ३२॥ वेदान्तवेद्यो वैष्णवश्च कविः काव्यकलाधरः । कालात्मा कालहृत्कालः कलात्मा कालसूदनः ॥ ३३॥ केलीप्रियः सुकेलिश्च कलङ्करहितः क्रमः । कर्मकर्ता सुकर्मा च कर्मेशः कर्मवर्जितः ॥ ३४॥ मीमांसाशास्त्रवेत्ता यः शर्वो मीमांसकप्रियः । प्रकृतिः पुरुषः पञ्चतत्त्वज्ञो ज्ञानिनां वरः ॥ ३५॥ साङ्ख्यशास्त्रप्रमोदी च सङ्ख्यावान्पण्डितः प्रभुः । असङ्ख्यातगुणग्रामो गुणात्मा गुणवर्जितः ॥ ३६॥ निर्गुणो निरहङ्कारो रसाधीशो रसप्रियः । रसास्वादी रसावेद्यो नीरसो नीरजप्रियः ॥ ३७॥ निर्मलो निरनुक्रोशी निर्दन्तो निर्भयप्रदः । गङ्गाख्योतोयं च मीनध्वजविमर्दनः ॥ ३८॥ अन्धकारिबृहद्दंष्ट्रो बृहदश्वो बृहत्तनुः । बृहस्पतिः सुराचार्यो गीर्वाणगणपूजितः ॥ ३९॥ वासुदेवो महाबाहुर्विरूपाक्षो विरूपकः । पूष्णो दन्तविनाशी च मुरारिर्भगनेत्रहा ॥ ४०॥ वेदव्यासो नागहारा विषहा विषनायकः । विरजाः सजलोऽनन्तो वासुकिश्चापराजितः ॥ ४१॥ बालो वृद्धो युवा मृत्युर्मुत्युहा भालचन्द्रकः । बलभद्रो बलारातिर्दृढधन्वावृषध्वजः ॥ ४२॥ प्रमथेशो गणपतिः कार्तिकेयो वृकोदरः । अग्निगर्भोऽग्निनाभश्च पद्मनाभः प्रभाकरः ॥ ४३॥ हिरण्यगर्भो लोकेशो वेणुनादः प्रतर्दनः । वायुर्भगो वसुर्भर्गो दक्षः प्राचेतसो मुनिः ॥ ४४॥ नादब्रह्मरतो नादी नन्दनावास अम्बरः । अम्बरीषोम्बुनिलयो जामदग्न्यः परात्परः ॥ ४५॥ कृतवीर्यसुतो राजा कार्तवीर्यप्रमर्दनः । जमदग्निर्जातरूपो जातरूपपरिच्छदः ॥ ४६॥ कर्पूरगौरो गौरीशो गोपतिर्गोपनायकः । प्राणीश्वरः प्रमाणज्ञो प्रमेयोऽज्ञाननाशनः ॥ ४७॥ हंसो हंसगतिर्मीनो ब्रह्मा लोकपितामहः । यमुनाधीश्वरो याम्यो यमभीतिविमर्दनः ॥ ४८॥ नारायणो नारपूज्यो वसुवर्णो वसुप्रियः । वासवो बलहा वृत्रहन्ता यन्ता पराक्रमी ॥ ४९॥ बृहदीशो बृहद्भानुर्वर्द्धनो बालवः परः । शरभो नरसंहारी कोलशत्रुर्विभाकरः ॥ ५०॥ रथचक्रो दशरथो रामः शस्त्रभृतां वरः । नारदीयो नरानन्दो नायकः प्रमथारिहा ॥ ५१॥ रुद्रो रौद्रौ रुद्रमुख्यो रौद्रात्मा रोमवर्जितः । जलन्धरहरो हव्यो हविर्द्धामा बृहद्धविः ॥ ५२॥ रविः सप्तार्चिरनघो द्वादशात्मा दिवाकरः । प्रद्योतनो दिनपतिः सप्तसप्तिर्मरीचिमान् ॥ ५३॥ सोमोब्जो ग्लौश्च रात्रीशः कुजो जैवात्रिको बुधः । शुक्रो दैत्यगुरुर्भौमो भीमो भीमपराक्रमः ॥ ५४॥ शनिः पङ्गुर्मदान्धो वै भङ्गाभक्षणतत्परः । राहुः केतुः सैंहिकेयो ग्रहात्माग्रहपूजितः ॥ ५५॥ नक्षत्रेशोऽश्विनीनाथो मैनाकनिलयः शुभः । विन्ध्याटवीसमाच्छन्नः सेतुबन्धनिकेतनः ॥ ५६॥ कूर्मपर्वतवासी च वागीशो वाग्विदाम्वरः । योगेश्वरो महीनाथः पातालभुवनेश्वरः ॥ ५७॥ काशिनाथो नीलकेशो हरिकेशो मनोहरः । उमाकान्तो यमारातिर्बौद्धपर्वतनायकः ॥ ५८॥ तटासुरनिहन्ता च सर्वयज्ञसुपूजितः । गङ्गाद्वारनिवासो वै वीरभद्रो भयानकः ॥ ५९॥ भानुदत्तो भानुनाथो जरासन्धविमर्दनः । यवमालीश्वरः पारो गण्डकीनिलयो हरः ॥ ६०॥ शालग्रामशिलावासी नर्मदातटपूजितः । बाणलिङ्गो बाणपिता बाणधिर्बाणपूजितः ॥ ६१॥ बाणासुरनिहन्ता च रामबाणो भयापहः । रामदूतो रामनाथो रामनारायणोऽव्ययः ॥ ६२॥ पार्वतीशः परामृष्टो नारदो नारपूजितः । पर्वतेशः पार्वतीयः पार्वतीप्राणवल्लभः ॥ ६३॥ सर्वेश्वरः सर्वकर्ता लोकाध्यक्षो महामतिः । निरालम्बो हठाध्यक्षो वननाथो वनाश्रयः ॥ ६४॥ श्मशानवासी दमनो मदनारिर्मदालयः । भूतवेतालसर्वस्वः स्कन्दः स्कन्दजनिर्जनः ॥ ६५॥ वेतालशतनाथो वै वेतालशतपूजितः । वेतालो भैरवाकारो वेतालनिलयो बलः ॥ ६६॥ भूर्भुवः स्वर्वषट्कारो भूतभव्यविभुर्महः । जनो महस्तपः सत्यं पातालनिलयो लयः ॥ ६७॥ पत्री पुष्पी फली तोयी महीरूपसमाश्रितः । स्वधा स्वाहा नमस्कारो भद्रो भद्रपतिर्भवः ॥ ६८॥ उमापतिर्व्योमकेशो भीमधन्वा भयानकः । पुष्टस्तुष्टोधराधारो बलिदो बलिभृद्बली ॥ ६९॥ ओङ्कारो नृमयो मायी विघ्नहर्ता गणाधिपः । ह्रीं ह्रौं गम्यो हौं जूँ सः हौं शिवायनमो ज्वरः ॥ ७०॥ द्राँ द्राँ रूपो दुराधर्षो नादबिन्द्वात्मकोऽनिलः । रस्तारो नेत्रनादश्च चण्डीशो मलयाचलः ॥ ७१॥ षडक्षरमहामन्त्रः शस्त्रभृच्छस्त्रनायकः । शास्त्रवेत्ता तु शास्त्रीशः शस्त्रमन्त्रप्रपूजितः ॥ ७२॥ निर्वपुः सुवपुः कान्तः कान्ताजनमनोहरः । भगमाली भगो भाग्यो भगहा भगपूजितः ॥ ७३॥ भगपूजनसन्तुष्टो महाभाग्यसुपूजितः । पूजारतो विपाप्मा च क्षितिबीजो धरोप्तिकृत् ॥ ७४॥ मण्डलो मण्डलाभासो मण्डलार्द्धो विमण्डलः । चन्द्रमण्डलपूज्यो वै रविमण्डलमन्दिरः ॥ ७५॥ सर्वमण्डलसर्वस्वः पूजामण्डलमण्डितः । पृथ्वीमण्डलवासश्च भक्तमण्डलपूजितः ॥ ७६॥ मण्डलात्परसिद्धिश्च महामण्डलमण्डलः । मुखमण्डलशोभाढ्यो राजमण्डलवर्जितः ॥ ७७॥ निष्प्रभः प्रभुरीशानो मृगव्याधो मृगारिहा । मृगाङ्कशोभो हेमाढ्यो हिमात्मा हिमसुन्दरः ॥ ७८॥ हेमहेमनिधिर्हेमो हिमानीशो हिमप्रियः । शीतवातसहः शीतो ह्यशीतिगणसेवितः ॥ ७९॥ आशाश्रयो दिगात्मा च जीवो जीवाश्रयः पतिः । पतिताशी पतिः पान्थो निःपान्थोनर्थनाशकः ॥ ८०॥ बुद्धिदो बुद्धिनिलयो बुद्धो बुद्धपतिर्धवः । मेधाकरो मेधमानो मध्यो मध्यो मधुप्रियः ॥ ८१॥ मधुव्यो मधुमान्बन्धुर्धन्धुमारो धवाश्रयः । धर्मी धर्मप्रियो धन्यो धान्यराशिर्धनावहः ॥ ८२॥ धरात्मजो धनो धान्यो मान्यनाथो मदालसः । लम्बोदरो लङ्करिष्णुर्लङ्कानाथसुपूजितः ॥ ८३॥ लङ्काभस्मप्रियो लङ्को लङ्केशरिपुपूजितः । समुद्रो मकरावासो मकरन्दो मदान्वितः ॥ ८४॥ मथुरानाथको तन्द्रो मथुरावासतत्परः । वृन्दावनमनः प्रीतिर्वृन्दापूजितविग्रहः ॥ ८५॥ यमुनापुलिनावासः कंसचाणूरमर्दनः । अरिष्टहा शुभतनुर्माधवो माधवाग्रजः ॥ ८६॥ वसुदेवसुतः कृष्णः कृष्णाप्रियतमः शुचिः । कृष्णद्वैपायनो वेधाः सृष्टिसंहारकारकः ॥ ८७॥ चतुर्विधो विश्वहर्ता धाता धर्मपरायणः । यातुधानो महाकायो रक्षःकुलविनाशनः ॥ ८८॥ घण्टानादो महानादो भेरीशब्दपरायणः । परमेशः पराविज्ञो ज्ञानगम्यो गणेश्वरः ॥ ८९॥ पार्श्वमौलिश्चन्द्रमौलिर्धर्ममौलिः सुरारिहा । जङ्घाप्रतर्दनो जम्भो जम्भारातिरिन्दमः ॥ ९०॥ ओङ्कारगम्यो नादेशः सोमेशः सिद्धिकारणम् । अकारोऽमृतकल्पश्च आनन्दो वृषभध्वजः ॥ ९१॥ आत्मा रतिश्चात्मगम्यो यथार्थात्मा नरारिहा । इकारश्चेतिकालश्च इति होतिप्रभञ्जनः ॥ ९२॥ ईशितारिभवो ऋक्ष ऋकारवरपूजितः । ऌवर्णरूपो ऌकारो ऌवर्णस्थो ऌरात्मवान् ॥ ९३॥ (लरात्मवान्) ऐरूपो महानेत्रो जन्ममृत्युविवर्जितः । ओतुरौतुरन्डजस्थो हन्तहन्ता कलाकरः ॥ ९४॥ कालीनाथः खञ्जनाक्षो खण्डोखण्डितविक्रमः । गन्धर्वेशो गणारातिर्घण्टाभरणपूजितः ॥ ९५॥ ङकारो ङीप्रत्ययश्च चामरश्चामराश्रयः । चीराम्बरधरश्चारुश्चारुचञ्चुश्वरेश्वरः ॥ ९६॥ छत्री छत्रपतिश्छात्रश्छत्रेशश्छात्रपूजितः । झर्झरो झङ्कृतिर्झञ्जा झञ्झेशो झम्परो झरः ॥ ९७॥ झङ्केशाण्डधरो झारिष्टं कष्टं कारपूजितः । रोमहारिर्वृषारिश्च ढुण्ढिराजो झलात्मजः ॥ ९८॥ ढोलशब्दरतो ढक्का ढकारेण प्रपूजितः । तारापतिस्ततस्तन्तुस्तारेशः स्तम्भसंश्रितः ॥ ९९॥ थवर्णस्थूत्करःस्थूलो दनुजो दनुजान्तकृत् । दाडिमीकुसुमप्रख्यो दान्तारिर्दर्दरातिगः ॥ १००॥ दन्तवक्रो दन्तजिह्वा दन्तवक्रविनाशनः । धवो धवाग्रजो धुन्धुधौन्धुमारिर्धराधरः ॥ १०१॥ धम्मिल्लिनीजनानन्दो धर्माधर्मविवर्जितः । नागेशो नागनिलियो नारदादिभिरार्चितः ॥ १०२॥ नन्दो नन्दीपतिर्नन्दी नन्दीश्वरसहायवान् । पणः प्रणीश्वरः पान्थः पाथेयः पथिकार्चितः ॥ १०३॥ पानीयाधिपतिः पाथः फलवान् फलसंस्कृतः । फणीशतविभूषा च फणीफूत्कारमण्डितः ॥ १०४॥ फालः फल्गुरथः फान्तो वेणुनाथो वनेचरः । वन्यप्रियो वनानन्दो वनस्पतिगणेश्वरः ॥ १०५॥ वालीनिहन्ता वाल्मीको वृन्दावनकुतूहली । वेणुनादप्रियो वैद्यो भगणो भगणार्चितः ॥ १०६॥ भेरूण्डो भासको भासी भास्करो भानुपूजितः । भद्रो भाद्रपदो भाद्रो भद्रदो भाद्रतत्परः ॥ १०७॥ मेनकापतिमन्द्राश्वो महामैनाकपर्वतः । मानवो मनुनाथश्च मदहा मदलोचनः ॥ १०८॥ यज्ञाशी याज्ञिको यामी यमभीतिविमर्दनः । यमको यमुनावासो यमसंयमदायकः ॥ १०९॥ रक्ताक्षो रक्तदन्तश्च राजसो राजसप्रियः । रन्तिदेवो रत्नमतीरामनाथो रमाप्रियः ॥ ११०॥ लक्ष्मीकरो लाक्षणिको लक्षेशो लक्षपूजितः । लम्बोदरो लाङ्गलिको लक्षलाभपितामहः ॥ १११॥ बालको बालकप्रीतो वरेण्यो बालपूजितः । शर्वः शर्वी शरी शास्त्री शर्वरीगणसुन्दरः ॥ ११२॥ शाकम्भरीपीठसंस्थः शाकद्वीपनिवासकः । षोढासमासनिलयः षण्ढः षाढवमन्दिरः ॥ ११३॥ षाण्डवाडम्बरः षाण्ड्यः षष्ठीपूजनतत्परः । सर्वेश्वरः सर्वतत्त्वः सामगम्योसमानकः ॥ ११४॥ सेतुः संसारसंहर्ता सारः सारस्वतप्रियः । हर्म्यनाथो हर्म्यकर्ता हेतुहा निहनो हरः ॥ ११५॥ हालाप्रियो हलापाङ्गो हनुमान्पतिरव्ययः । सर्वायुधधरोभीष्टो भयो भास्वान् भयान्तकृत् ॥ ११६॥ कुब्जाम्रकनिवासश्च झिण्टीशो वाग्विदांवरः । रेणुकादुःखहन्ता च विराटनगरस्थितः ॥ ११७॥ जमदग्निर्भार्गवो वै पुलस्त्यः पुलहः क्रतुः । क्रान्तिराजो द्रोणपुत्रोऽश्वत्थामा सुरथी कृपः ॥ ११८॥ कामाख्यनिलयो विश्वनिलयो भुवनेश्वरः । रघूद्वहो राज्यदाता राजनीतिकरोव्रणः ॥ ११९॥ राजराजेश्वरीकान्तो राजराजसुपूजितः । सर्वबन्धविनिर्मुक्तः सर्वदारिद्र्यनाशनः ॥ १२०॥ जटामण्डलसर्वस्वो गङ्गाधारासुमण्डितः । जीवदाताशयो धेनुर्यादवो यदुपुङ्गवः ॥ १२१॥ मूर्खवागीश्वरो भर्गो मूर्खविद्या दयानिधिः । दीनदुःखनिहन्ता च दीनदाता दयार्णवः ॥ १२२॥ गङ्गातरङ्गभूषा च गङ्गाभक्तिपरायणः । भगीरथप्राणदाता ककुत्स्थनृपपूजितः ॥ १२३॥ मान्धातृजयदो वेणुः पृथुः पृथुयशः स्थिरः । जाल्मपादो जाल्मनाथो जाल्मप्रीतिविवर्द्धनः ॥ १२४॥ सन्ध्याभर्ता रौद्रवपुर्महानीलशिलास्थितः । शम्भलग्रामवासश्च प्रियानूपमपत्तनः ॥ १२५॥ शाण्डिल्यो ब्रह्मशौण्डाख्यः शारदो वैद्यजीवनः । राजवृक्षो ज्वरघ्नश्च निर्गुण्डीमूलसंस्थितः ॥ १२६॥ अतिसारहरो जातीवल्कबीजो जलं नभः । जाह्नवीदेशनिलयो भक्तग्रामनिकेतनः ॥ १२७॥ पुराणगम्यो गम्येशः स्कान्दादिप्रतिपादकः । अष्टादशपुराणानां कर्ता काव्येश्वरः प्रभुः ॥ १२८॥ जलयन्त्रो जलावासो जलधेनुर्जलोदरः । चिकित्सको भिषग्वैद्यो निर्लोभो लोभतस्करः ॥ १२९॥ चिदानन्दश्चिदाभासचिदात्मा चित्तवर्जितः । चित्स्वरूपश्चिरायुश्च चिरायुरभिदायकः ॥ १३०॥ चीत्कारगुणसन्तुष्टोऽचलोऽनन्तप्रदायकः । मासः पक्षो ह्यहोरात्रमृतुस्त्वयनरूपकः ॥ १३१॥ संवत्सरः परः कालः कलाकाष्ठात्मकः कलिः । सत्यं त्रेता द्वापरश्च तथा स्वायम्भुवः स्मृतः ॥ १३२॥ स्वारोचिषस्तामसश्च औत्तमी रैवतस्तथा । चाक्षुषो वैवस्वतश्च सावर्णिः सूर्यसम्भवः ॥ १३३॥ दक्षसावर्णिको मेरुसावर्णिक इतिप्रभः । रौच्यो भौत्यस्तथा गव्यो भूतिदश्च तथा दरः ॥ १३४॥ रागज्ञानप्रदो रागी रागी रागपरायणः । नारदः प्राणनिलयो नीलाम्बरधरोऽव्ययः ॥ १३५॥ अनेकनामा गङ्गेशो गङ्गातीरनिकेतनः । गङ्गाजलनिवासश्च गङ्गाजलपरायणः ॥ १३६॥ वसिष्ठ उवाच । नाम्नोमेतत्सहस्रं वै नारदेनोदितं तु यत् । तत्तेद्य कथितं देवि सर्वापत्तिनिवारणम् ॥ १३७॥ पठतः स्तोत्रमेतद्वै नाम्नां साहस्रमीशितुः । दारिद्र्यं नश्यते क्षिप्रं षड्भिर्मासैर्वरानने ॥ १३८॥ यस्येदं लिखितं गेहे स्तोत्रं वै परमात्मनः । नित्यं सन्निहतस्तत्र महादेवः शिवान्वितः ॥ १३९॥ स एव त्रिषु लोकेषु धन्यः स्याच्छिवभक्तितः । शिव एव परं ब्रह्म शिवान्नास्त्यपरः क्वचित् ॥ १४०॥ ब्रह्मरूपेण सृजति पाल्यते विष्णुरूपिणा । रुद्ररूपेण नयति भस्मसात् स चराचरम् ॥ १४१॥ (नश्यति) तस्मात्सर्वप्रयत्नेन मुमुक्षुः शिवमभ्यसेत् । स्तोत्रं सहस्रनामाख्यं पठित्वा श्रीशिवो भवेत् ॥ १४२॥ यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयम् । पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥ १४३॥ राज्यार्थी लभते राज्यं यस्त्विदं नियतः पठेत् । दुःस्वप्ननाशनं पुण्यं सर्वपापप्रणाशनम् ॥ १४४॥ नास्मात्किञ्चिन्महाभागे ह्यन्यदस्ति महीतले । तावद्गर्जन्ति पापानि शरीरस्थान्यरुन्धति ॥ १४५॥ यावन्नपठते स्तोत्रं श्रीशिवस्य परात्मनः । सिंहचौरग्रहग्रस्तो मुच्यते पठनात्प्रिये ॥ १४६॥ सर्वव्याधिविनिर्मुक्तो लभते परमं सुखम् । प्रातरुत्थाय यः स्तोत्रं पठेत भक्तितत्परः ॥ १४७॥ सर्वापत्तिविनिर्मुक्तो धनधान्यसुतान्वितः । जायते नात्र सन्देह शिवस्य वचनं यथा ॥ १४८॥ इति स्कन्दपुराणान्तर्गतं श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् । Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay gmail.com
% Text title            : Shiva Sahasranama Stotram
% File name             : shivasahasranAmastotramskanda.itx
% itxtitle              : shivasahasranAmastotram (skandapurANAntargataM shrIshivaH shivado bhavyo)
% engtitle              : shivasahasranAmastotram
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyay gmail.com
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (nAmAvalI)
% Latest update         : January 22, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org