शिवसपर्यालोकः

शिवसपर्यालोकः

लेखकः - नन्दप्रदीप्तकुमारः जिष्णुना जिष्णुना लोकान् विष्णुना प्रभविष्णुना । ब्रह्मणा ब्रह्मणाद्येन स्तुताय स्वामिने नमः ॥ ॐ नमः शिवाय । तत्र सकलकुशलकरं शिवनाम एव । शैवदर्शनमपि बहुपुरातनं निखिलेस्मिन् भारतमण्डले नूनमतीव प्राचीनं धार्मिक-संप्रदायेषु स्वकीयं महत्वपूर्णस्थानं भजते । ऋग्वेदे रुद्ररूपेण शिवस्य स्वरूपप्रतिपादकाः सन्ति बहवो मन्रा इति नापरोक्षं प्रेक्षावताम् । कथ्यते द्राविडदेशे एव शिवस्याविर्भावो जातः । द्राविडदेश एव शिवस्य शिवपूजायाश्च जन्मभूमिर्विराजतेतराम् । ये महेश्वरनियुक्ते श्रौते स्मार्ते च कर्मणि प्रवर्तन्ते ते मुच्यन्ते । ये तु न प्रवर्तन्ते ते संसरन्ति । तथाहि ऐतरेयोपनिषदि- पन्था एतत्कर्म तस्मान्न प्रमाद्येत नातीयात् न ह्यत्यायंस्ते । इति । अग्नि-समुपासकानां वैदिकानां धर्मे लिंगात्मकरूपेणोपास्यस्य शिवस्याविर्भावः कथं समजनि इत्यस्मिन् विषये कानपि विचारान् विपश्चितां मनस्तोषाय स्तोकमुदीरयामि । वैदिकसंहितासु शिव एव रुद्रनाम्ना व्यपदिश्यते । अथर्ववेदे (११/२/९) शिव एव भव-शर्व-पशुपति- भूतपत्यादिभिर्नामभिः समुदीर्यते स्तुतिप्रसंगे । पशुपतिशब्दो न गवादीनां चतुष्पादपशूनां कृते प्रयुक्तः । रुद्रशब्दविषये पोषकाः मन्त्राः ब्राह्म्णवाक्यानि चात्र समुपन्यस्यन्ते । ऋग्वेदे- त्वमग्ने रुद्रो असुरो महोदिवः(२/१/६) अथर्वे- ``यो अग्नौ रुद्रो य अप्स्वन्तर्य औषधीर्विरुध आविवेश । य इमा विश्वा भुवनानि चाक्लृपे तस्मै रुद्राय नमो अस्त्वग्नये ॥(७/८७/१) शतपथेपि-``अग्निर्वै स देवः तस्यैतानि नामानि । शर्व इति प्राच्या आचक्ष्यते । भव इति यथा वाहीकाः । पशूनां पती रुद्रोग्निरिति तानस्याशान्तान्येवेतराणि नामानि । अग्निरित्येव शान्ततमम् ।'' ( ब्रा०-१/७/३/८) इति । एताभिः रुद्रस्य अग्निरूपत्वं सिद्धम् । साम्प्रतिकी शिवोपासनापद्धतिरपि सिद्धान्तमिमं सुतरां द्रढयति । जलधारीति नाम्ना ख्यातस्य स्थलस्य मध्ये विराजते ऊर्ध्वमूलं शिवलिंगम् । अभिषेकप्रियः शम्भुः इति वचनात् जलस्याभिषेकेणैव शम्भुः परमां प्रीतिमावहति । भस्मनो धारणं शैवानां मुख्यं कर्तव्यम् । इत्ययं सार्वकालिकः सार्वभौमश्चोपासनापन्था शिवस्याग्निपूजया नितान्तं साम्यं भजते । ऊर्ध्वमूलं शिवलिंगं वेदिमध्ये प्रोदीप्तवह्निः । इत्यस्मिन् विषये शिवलिंगस्य कृते ज्योतिर्लिंगस्य प्रयोगो जातः । रुद्र एव अन्तरिक्षस्थितवह्निरूपाया विद्युतोध्यक्षरूपेण वेदेषु मुहुर्मुहुश्चिन्त्यते । तथाहि आथर्वणे- ``मा नो रुद्र तवमना मा विषेण मानः सं स्रा दिव्येनाग्निना । अन्यत्रास्मद् विद्युतं पातयैताम्'' ॥ (११/२/२६) इति । अत्र अग्ने रूपद्वयम् प्रसिद्धम् घोराऽघोरातनुभेदात् । भयावहं यत् घोरं तत्तु भीषणानां संहारकरम् । अघोररूपं सुखसौख्यविवर्धकं प्राणिनां सर्वदा कल्याणकरम् । संहारकोऽपि रुद्रो जगतः सृष्टिकर्मण्येव प्रवर्तते । यदुक्तं महकविना कालिदासेन-``कृष्यां दहन्नपि खलु क्षितिभिन्धनेद्धो । बीज-प्ररोह-जननीं ज्वलनः करोति'' ॥ (रघु०९/८०) सृष्टि-प्रलययोः परस्परं सापेक्षत्वात् । करुणया हि भगवतः सदाशिवस्य सृष्टिः । शं सुखं तस्मिन् भवतीति शम्भुः स्वयमानन्दरूपः । विज्ञानमनन्दं ब्रह्मेत्यादि श्रुतेः आनन्दमजमव्यक्तं निष्कलं तदुदाहृतमित्यादीश्वर्गीतास्मृतेश्च तदवगमः । ननु शिवस्य आनन्दमयत्वे प्रीत्यात्मक-सत्त्वगुणरूपत्वेन सगुणत्वात् परिणामादिदोषप्रसंगः ॥ यच्चोक्तं सांख्ये- ``प्रीत्यप्रीतिविषदात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनप्रवृत्तयश्च गुणाः'' ॥( सां०का-१२) इति मैवम् । प्रीत्यानन्दशब्दयोर्भिन्नत्वात् । तथाहि तत्त्वप्रकाशकारेण-विषयेन्द्रियसम्प्रयोगजन्यं यत्सुखं तत्तु प्रीतिशब्देनोच्यते । सततैकतानताप्रवाहरूपं नित्यं निरतिश्रयात्मसुखमानन्दशब्दवाच्यमिति नोक्तदोषावकाशः । अन्ये तु सत्त्वगुणे निर्मले पुण्यहेतुना विषयेन्द्रियसंप्रयोगेन परिणते नित्यसुखमेव प्रीतिशब्देनोपदिष्टम् । प्रादौ शैवदर्शनं द्वैताऽद्वैतभेदेन द्विविधम् । अभिनवगुप्तपादाऽद्वैतशैवमतस्य प्रवर्तकाः । इतरे द्वैतवादमाश्रितं प्रचलन्ति । द्वैताश्रितधर्मरूपेण शैवमतस्य प्रचारः प्रसारश्च न केवलं द्वादशज्योतिर्लिंगस्थलेषु सोमनाथ-महाकाल-विश्वनाथ-मल्लिकार्जुन-औंकारेश्वर-केदारेश्वर-भीमशंकर-त्र्यम्बकेश्वर-वैद्यनाथ-नागेश्वर-रामेश्वर-घृष्णेश्वरेषु क्रियते अपितु प्रतिग्रामं प्रतिनगरं प्रतिशिवमन्दिरेषु प्रमाणयतितराम् । दशविधानि शैवदर्शनानि । यद्यपि बहूनि शैवमतानि । तेषु कालमुख-कापालिक-कारुणिकादीनि तद्विषयकसाहित्यस्य विलुप्तत्वात् नाममात्रज्ञातानि भवन्ति । दशेषु द्वैतवादधुरन्धरा पाशुपता शैवाः द्विप्रकारकाः । अनयोर्द्वितीयः सिद्धान्तशैवः भिन्नः दक्षिणभारतीयः । द्वैताऽद्वैतपरको नकुलीशपाशुपतः । श्रीकंठसमर्थकः विशिष्टाद्वैती । श्रीपतिस्थापित शुद्धद्वैताऽद्वैत-सेश्वराऽद्वैत-शिवाऽद्वैत-विशेषाऽद्वैत -रसेश्वरभेदेन वीरशैवाः प्रसिद्धाः । चत्वारि अद्वैतशैवदर्शनानि । तेषु पाणिनिगुरु-नन्दिकेश्वरप्रतिपादितमेकम् । काश्मीरिकैः प्रतिपादितानि प्रत्यभिज्ञा-क्रम-कुलेति नामभिः प्रसिद्धानि च त्रीणि । गौतम-कणादौ शैवौ आस्ताम् । वादरायणेन पाशुपतमतं समालोचितम् । प्रधानं चात्र उपादानकारणम् । महत् आरभ्य पृथिव्यन्ताः त्रयोविंशति-पदार्थाः कार्यान्तर्गताः । पश्चात्कापिले मुख्यः प्रकृतिपदार्थः स्वीकृतः । महदादीनि त्रयोविंशतिः कार्याणि इति विचारधारा पाशुपतप्रभावकृता वेति संभाव्यते । पातञ्जलयोगदर्शनं तु शैवप्रतिपादितस्य षडंगयोगस्य अंगद्वयमन्यत् द्वयं यम-नियमं तत्र परिवर्धनमात्रम् । अद्वैत-शैवदर्शने शंकरस्य न विरोधः । शंकरोऽपि स्वकीये भाष्ये माया ईश्वरशक्ति इति शैवानां मौलिकसिद्धान्तं स्वीकरोति । तत्रादौ परमेश्वरप्रोक्ते शिवसूत्रे पञ्चचत्वारिंशत् (४५)सूत्राणि विद्यन्ते । तत्र चैतन्यमात्मा(शि०सू०-१) । शिव एव विश्वस्यात्मा । सश्चैतन्यस्वरूपः । विशालं शैवदर्शनम् । काश्मीरे हृष्टपृष्टम् । तेषु त्रिकस्य प्रभावो बलवत्तरः । शैवधर्मः प्रागैतिहासिके वेदोपनिषत्सु इतिहासेषु दृश्यते । शैवानां स्वतन्त्रसिद्धान्तेषु प्रकाशो विमर्शः, परिपूर्णता, सत्कार्यवादः,शिवशक्तितत्त्वम्, स्वातन्त्र्यं स्पन्दः, परमेश्वरतादिविषयाः समुपवर्णिताः । माया-काल-पुरुष-प्रकृति-गुण -नाथतत्त्व-अवस्थात्रय-अन्तःकरण-बाह्यकरण-प्रमेयतत्त्व-लोकसृष्टि-कलापञ्चक-अण्डचतुष्टय-मलस्वरूप-मलत्रय-अकलप्रमाता-मन्त्रमहेश्वर-मन्त्रविद्येश्वर-विज्ञानाकल-प्रलयाकल-सकल-लीलाविलास-अज्ञान-ज्ञान-जीवन्मुक्ति-मुक्तशिव-देहस्थशिव-विदेहमुक्ति-शक्तिपात-सौषुप्तमुक्ति-मुक्त्याभासादीनां विषयास्तत्र परिशीलनीयाः । धर्मपालने बाह्यपूजा-साधना-भक्ति-चर्या-आचार-समावेश-अनुपाय-शाम्भवोपाय- मातृका-मालिनीत्यादिशाक्तोपायगम्यज्ञानयोगा आणवोपाय-क्रियायोग-ध्यानयोग-उच्चारयोग-करणयोग-ध्वनियोग-दीक्षादीनि विषयाश्च उक्ताः । शाक्तदृष्टि-पञ्चशक्ति-विद्या-महामाया-द्वादशकालीशक्तयः सनातनसिद्धान्तरूपेण संकलितः । एतत्सर्वं शैवदर्शने सुस्पष्टम् । तत्र तत्र शैवदर्शनं काश्मीरे, कान्यकुब्जे, मध्यप्रदेशे च द्वैतशैवसिद्धान्तः प्रचारितः । शैव-दर्शनेषु द्वैतशैवसिद्धान्त-वैशेषिकयोः, सिद्धान्तशैव-सांख्ययोः,सिद्धान्त-शैवाद्वैतयोः, सिद्धान्तशैव-वैयाकरणयोः, द्वैतपाशुपत-सिद्धान्तद्वैतयोश्च बहुधा भेदः प्रतीयते । सर्वत्र पति-पाश-पशु इति त्रीणि तत्त्वानि मुख्यानि । सिद्धान्तशैवे षड् त्रिंशत्मतानि । पतिः शिवः । द्विविधा सृष्टिः । मल-माया-कर्म-निरोध-विन्दवो पञ्चपाशाः । पशुस्तृतीयो जीवात्मा त्रिप्रकारकः । पाशान्ते शिवताश्रुते इति मृगेन्द्रे- चैतन्यं दृक् क्रियारूपं तदस्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ (स०द०सं०-२०) अथादौ शिवलिंग-पूजन-महिमा भविष्ये- लिंगे देवो महादेवः सर्वदेवनमस्कृतः । अनुग्रहाय लोकानां तस्मान्नित्यं प्रपूजयेत् ॥ इति । अपिच तत्र- यस्तु पूजयते नित्यं शिवं त्रिभुवनेश्वरम् । सः स्वर्गराज्यमोक्षाणां क्षिप्रं भवति भाजनम् ॥ इति । लिंगार्चनात्किंचिदधिकं पुण्यं नास्ति । लिंगपूजनेन तु सर्वदेवार्चनं भवति । यदुक्तं लिंगपुराणे- लिंगेतु पूजिते सर्वमर्चितं स्याच्चराचरम् । तस्मात् सदार्चनं कार्यं लिंगस्य सुमहात्मनः ॥ इति । शिवपूजकस्य शिवलोकप्राप्तिर्भवति । सः शिवसायुज्यतां प्राप्नोति । तथाहि लिंगे- अनेकजन्मसाहस्रं भ्राम्यमाणस्तु योनिषु । कः समाप्नोति वैमुक्तिं लिंगार्चनमृतेनरः ॥ सर्वेन्द्रियप्रसक्तोऽपि युक्तो वा सर्वपातकैः । सः प्रयाति शिवं देवि लिंगं योऽर्चयतीहमे ॥ इदं सर्वं शिवपूजायाः वैशिष्ट्यं पुराणसमर्थितम् । शिवपूजनं विना भोजनग्रहणमपिनिषिद्धम् । उक्तं च भविष्ये- वरंप्राणपरित्यागः शिरसोवापिकर्त्तनम् । नत्वसम्पूज्य भुञ्जीत भगवन्तं त्रिलोचनम् ॥ सर्वदैवनमस्कृतं शिवलिंगं यो द्वेष्टिः सो नूनं नर्कगामी भवति । तस्य कृते भुक्तिमुक्ती न स्तः । शिवपुराणे शिवपूजनस्य मह्त्फलं समुपदिष्टम् । तत्तु शतगोदानादपिश्रेष्ठतरम् । हविर्यज्ञादपिश्रेष्ठतममिति । तथा चोक्तं- यत्फलं पाकयज्ञेषु हविर्यज्ञेषु यत्फलम् । एकाह्नातदवाप्नोति शिवलिंगार्चने रतः ॥ अपिच- गवां शतसहस्रस्य सम्यग् दत्तस्य यत्फलम् । दशाहात्तदवाप्नोति शिवलिंगार्चने रतः ॥ इति । लिंगशब्दार्थ उच्यते । -आकाशंलिंगमित्याहुः पृथिवीतस्य पीठिका । आलयः सर्वभूतानां लयनात्लिंगमुच्यते ॥ स्पष्टः । शास्रान्तरे बहुविधानां लिंगानां वर्णनं विद्यते । अपि च कस्य लिंगस्य कः पूजकः इत्यस्मिन् विषये ब्रह्मोक्तिः देवीपुराणे- वार्क्षंवित्तप्रदं लिंगं स्फाटिकं सर्वकामदम् । नार्मदं गिरिजं श्रेष्ठमन्यद्वापि हि लिंगवत् ॥ पार्थिवलिंगस्य वाणलिंगस्य च महिमा सर्वतन्त्रेषु प्रसिद्धा । यदुक्तं भविष्ये- वाणलिंगानि राजेन्द्र ख्यातानि भुवनत्रये । न प्रतिष्ठा न संस्कारस्तेषामावाहनं तथा ॥ अन्यच्च- यः कृत्वा पार्थिवं लिंगमर्चयेत् शुभवेदिकम् । इहेव धनवान् श्रीमान् सोऽन्तेरुद्रोऽभिजायते ॥ ब्रह्मणः शैलजं, हरेः नीलमणिमयं, इन्द्रस्य मणिमयं, विश्वदेवानां रोप्यमयं, वायोः पैत्तलं, वसूनां कांस्यजं, अश्विनिकुमारयोः हिरण्मयं, वरुणस्य स्फाटिकं, वह्नेः रत्नमयं, सोमस्य मौक्तिकं, सूर्यस्य इन्द्रनीलजं, दानवानामायसं, पिशाचानां त्रपुजं, योगिनां सीसजं, गुह्यकानां ताम्रजं, मातॄणां वज्रलौहं, ग्रहनक्षत्राणां तु वैडूर्य-लिंगानि उपासनार्थं स्थिरीकृतानि । अन्यत्र शालग्रामशिलायां शिवार्चनमपि बहुपुण्यप्रदमुक्तम् । यदुक्तं पाद्मे- शालग्रामशिलालिंगे यः करोति ममार्चनम् । तेनार्चितः कार्त्तिकेय युगानामेकसप्ततिः ॥ शिवकैवल्यभोजने यदि वा दोषादोषो विद्यते किन्तु शालग्रामशिलायां शिवार्चनेन न कश्चिद् दोषो विद्यते । यदुक्तं- अग्राह्यं मम नैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलालिंगे सर्वं याति पवित्रताम् ॥ इति । संप्रति शिवस्नानाख्यमभिषेकप्रयोगा उच्यन्ते । आदौ ब्राह्मं स्नानम् । तत्तु कपिलापञ्चगव्यं कुशवारियुक्तम् । तत्फलं ब्रह्मपुराणे- एकाहमपि यो लिंगे ब्राह्मं स्नानं समाचरेत् । विधूय सर्वपापानि रुद्रलोके महीयते । कपिलापंचगव्येन दधिक्षीरघृतेन च । स्नानं शतगुणं प्रोक्तमितरेभ्यो न संशयः ॥ कृष्णाष्टम्यां घृतस्नानं विंशतिकुलोद्धरणम् । क्षीरस्नानस्य महिमा अतीव श्रेष्ठा । तथाहि- अयुतं यो गवां दद्याद् दोग्ध्रीणां वेदपारगे । वस्त्रहेमादियुक्तानां क्षीरस्नानस्य तत्फलम् ॥ दधिस्नानस्य फलं- दध्नातु स्नापयेल्लिंगं सकृद् भक्त्या तु यो नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ मधुस्नानस्य फलम्- मधुना स्नापयित्वा तु सकृद् भक्त्या तु यो नरः । पापकञ्चुकमुत्सृज्य वह्निलोके महीयते ॥ शर्करया विद्याधरलोकप्राप्तिः । तिलतैलेन शैवपदप्राप्तिः । कर्पूरागरुतोयेन शिवसायुज्यतालाभः । कुंकुमजलेन श्रियोलाभः । फलतोयेन ब्रह्मज्ञो भवति । सहस्राकुम्भाभिषेकेन चिरंजीविता । वस्त्रपूततोयेन तु सर्वकामाप्तिः । कुशोदकेन ब्रह्मलोकाप्तिः । चन्दनोदकेन गन्धर्वलोकलाभः । पुष्पोदकेन सूर्यलोकाप्तिः । सुवर्णतोयेन कुवेरलोकप्राप्तिः । रत्नोदकेन इन्द्रलोकेवासः । सितोष्णोदकेन च प्रमोदता जायतेति भविष्यपुराणात् ज्ञायते । एतदतिरिक्तं पाटली-उत्पल-पद्म- करवीरादीनि पत्राणि योजयित्वा सुरभिजलेन यः शिवाभिषेकं करोति सः साक्षाद् शिवलोकं गच्छति । शर्करायुक्तहीमजलेन धारोष्णपयसा च शिवं संस्नाप्य चान्ते घृताभिषेकेन यः शिवं सन्तोषयति सः सहस्राश्वमेधयज्ञफलं प्राप्नोति । मृत्तिकाकुम्भेन ताम्रकुम्भेन गवयश‍ृंगेण गोमुखिना वा पात्रेण शिवस्याभिषेकः श्रूयते । एतेषां पात्राणां विनियोगेनोत्तरत्तरफलानि जायन्ते । यच्चोक्तं- मृत्कुम्भात्ताम्रजैः कुम्भैः स्नानं शतगुणोत्तरम् । रोपैर्लक्षोत्तरं ज्ञेयं हेमैः कोटिगुणोत्तरम् ॥ लिंगस्य दर्शनात्पुण्यं दर्शनात्स्पर्शनं वरम् । स्पर्शनाच्चार्चनं पुण्यं घृतस्नानमतःपरम् ॥ दशापराधांस्तोयेन क्षीरेण च शतं लभेत् । सहस्रं क्षमते दध्ना घृतेनाप्ययुतं लभेत् ॥ इति । स्कान्धेऽपि क्षीरस्नानस्य महती प्रशंसा क्रियते । तथाहि- सम्बत्सरंतु यः कुर्यात्क्षीरेण स्नपनं शुचिः । गाणपत्यं च लभते वल्लभत्वं च नित्यशः ॥ अन्यत्रापि- जलेन वृष्टिमाप्नोति व्याधिशान्त्यैः कुशोदकैः । दध्ना च पशुकामाय श्रिया इक्षुरसेन च ॥ मध्वाज्येन धनार्थीस्यान्मुमुक्षुस्तीर्थवारिणा । पुत्रार्थी पुत्रमाप्नोति पयसा चाभिषेचनात् ॥ वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याऽङ्गना । सद्यः पुत्रमवाप्नोति पयसा चाभिषेचनात् । कामनाभेदेन अन्येप्रयोगा अपि विद्यन्ते । विस्तरभयात् नोच्यतेऽत्र । हर हर महादेव । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Shivasaparyalokah
% File name             : shivasaparyAlokaH.itx
% itxtitle              : shivasaparyAlokaH (lekhaH)
% engtitle              : shivasaparyAlokaH
% Category              : shiva, article, pradIptakumArananda
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org