स्कन्दकृताशिवस्तुतिः
योऽयं देवः सच्चिदानन्दरूपी रूपातीतो वेदवेदान्तवार्ताः ।
यस्मादस्मान्निर्गता एवं सत्यं तत्त्वं देवं तत्त्वतः कोऽपि वेद ॥ १॥
यस्मादेतज्जायते विश्वमादौ येनैवेदं लक्षितं रक्षणार्हम् ।
अन्ते तावन्नाशमेति प्रभूतं तत्त्वं वन्दे देवतासार्वभौमम् ॥ २॥
यत्पादाब्जं मृग्यमासीन्मुनीनां तत्त्वज्ञानापारसाराकराणाम् ।
तत्पादाब्जं दुर्लभं दुर्लभं मे देवाशास्यं सर्वथा दुर्लभं च ॥ ३॥
यत्पादाब्जं कामकामाः सुराद्याः सर्वे तावत् द्रष्टुमिच्छन्ति भक्त्या ।
तत्पादाब्जं दुर्लभं वेदगीतं तन्मच्चित्तं सन्ततं सावधानम् ॥ ४॥
यागैर्योगैः साधनैर्यन्न दृष्टं पादाम्भोजं विश्वनाथस्य तन्मे ।
नित्यं तावद् दुर्लभं दुर्लभानां मध्ये तावत् दुर्लभं तत्पदाब्जम् ॥ ५॥
त्वत्पादाब्जं द्रष्टुमद्यापि धन्याः योगाभ्यासं कर्तुमप्युद्यतास्ते ।
कृत्वा कृत्वा तं पुनः श्रान्तचित्ताः तत्पादाब्जं द्रष्टुमर्धेन्दुमौले ॥ ६॥
घोराकारापारसंसारसिन्धुः यत्पादाब्जालोकनेन प्रवृद्धः ।
तं त्वां सोमं देवतासार्वभौम वन्दे देवं सुन्दरानन्दकन्दम् ॥ ७॥ (वन्दे वन्दे)
नित्यानन्दानन्दसन्दोहबीजं यत्पादाब्जं सर्वविज्ञानबीजम् ।
पादाम्भोजं तं नमामि प्रणामः त्वत्पादाब्जे दुर्लभः सर्वदा मे ॥ ८॥ (प्रपन्नः त्वत्पादाब्जे दुर्लभं मे)
सुरापारकोटीरकोटिप्रभाभिः भवत्पादुकाकान्तिकान्ताभिरीश ।
प्रशान्तो विधुर्भानुमानिन्दुमौले कला षोडशी वा न तस्यास्तु तासाम् ॥ ९॥
भवत्पादपद्मप्रभामण्डलेन प्रभूतोऽपि माण्ड इत्येव मन्ये ।
जगन्मण्डलं भासयत्यम्बिकेश प्रकाशस्तवायं प्रकाशाय कस्य ॥ १०॥
तवायं प्रभावः प्रभूतः प्रभाति प्रभामण्डलस्यास्य कार्यं न विद्मः ।
स्फुलिङ्गेन नष्टेऽपि गाढान्धकारे क्व सूर्याद्यपेक्षाऽपि लोकेषु दृष्टा ॥ ११॥
तडित्कोटिसङ्घातजातप्रकाशं तिरस्कृत्य तेजस्तवेदं प्रवृत्तम् ।
स्फुरत्पादपद्मस्य तस्य स्फुलिङ्गा रविर्वह्निरिन्दुः ग्रहास्तारकाश्च ॥ १२॥
अचिन्त्यप्रभावो मनोगोचरो वा न वेदान्तवाग्गोचरो वा निवृत्ताः ।
यतो वाच एवेति मन्ये निवृत्ताः प्रवृत्तिः कथं तत्र मानान्तरस्य ॥ १३॥ (स्वतो वाच एवेति मन्ये सचित्ताः) (सचित्ताः)
अनन्तानि पापानि नाशं प्रयान्ति स्वतस्तत्पदाम्भोरुहानुग्रहेण ।
किमुग्रास्त्यशक्यं तवानुग्रहस्याप्ययं ते ममानुग्रहोयं महेश ॥ १४॥
महेशाद्य याचे भवत्पादपद्मे दृढां भक्तिमेकां त्वदन्यं न याचे ।
त्वमेवासि माता पिताऽसि त्वमेव त्वमेव प्रभुर्मे त्वमेवासि बन्धुः ॥ १५॥
अनाथैकनाथ प्रभो विश्वनाथ प्रभो मामनाथं सनाथं कुरु त्वम् ।
अनन्यावनं ते कथं वा न धर्मः त्वमेवासि धर्मस्वरूपः स्मरारे ॥ १६॥
स्मरामि स्मरामि स्मरारे भवन्तं विपद्ध्वान्तसंहारहेतु प्रशान्तम् ।
जगद्धेतुमेकं भवन्तं स्मरामि स्मरारे शरण्यो न कोऽप्यस्ति लोके ॥ १७॥
क्व वा ते पदाब्जं क्व वा वा मनो मे मनोवृत्तिरस्मिन्कथं त्वत्पदाब्जे ।
स्थिरा जायतामिन्दुमौले दयालो दयापात्रमस्मि त्रिनेत्राहमेकः ॥ १८॥
अहं सर्वदा त्वत्पदाम्भोजभृङ्गः भवाम्येव शम्भो भवत्पादपद्मम् ।
मनःसद्म तन्मे मनः पद्मयाऽपि प्रभो मोहकालेऽपि न क्रीडतीति ॥ १९॥
भवत्पादपद्मश्रिया साकमेतत्मनः क्रीडतीति प्रमोदो ममासौ ।
ततस्तावता हानिरीशान का ते तवाहं तवाहं तवाहं तवाहम् ॥ २०॥
न लोके ममान्यत्किमाशास्यमस्तीत्यवश्यं त्वया शङ्कनीयं महेश ।
इतो नाधिकं क्वापि लोकेषु शम्भो न चात्यल्पमाशास्यमस्तीति विमः ॥ २१॥
॥ इति शिवरहस्यान्तर्गते स्कन्दकृताशिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १४। ८-२८ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 14. 8-28 ..
Proofread by Ruma Dewan