श्रीशिवस्तुती लङ्केश्वरकृत
श्रीगणेशाय नमः ।
गले कलितकालिमः प्रकटितेन्दुभालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे ।
उदञ्चितकपालकं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १॥
वृषोपरि परिस्फुरद्धवलधामधामश्रियां कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् ।
क्वचित्पुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २॥
उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम् ।
विकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरङ्गिणीतरलचूडमीडे मृडम् ॥ ३॥
विहाय कमलालयाविलसितानि विद्युन्नटीविडम्बनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥ ४॥
भवद्भवनदेहलीविकटतुण्डदण्डाहतित्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ।
व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पदः प्रमथनाथ नाथामहे ॥ ५॥
त्वदर्चनपरायणप्रमथकन्यकालुण्ठितप्रसूनसफलद्रुमं कमपि शैलमाशास्महे ।
अलं तटवितर्दिकाशयितसिद्धिसीमन्तिनीप्रकीर्णसुमनोमनोरमणमेरुणामेरुणा ॥ ६॥
न जातु हर यातु मे विषयदुर्विलासं मनोमनोभवकथास्तु मे न च मनोरथातिथ्यभूः ।
स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव भवानि पूजापरः ॥ ७॥
विभूषणसुरापगाशुचितरालवालावलीवलद्वहलसीकरप्रकरसेकसंवर्धिता ।
महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी नमज्जनफलप्रदा मम नु हन्त भूयादियम् ॥ ८॥
बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं बटुविमृश्यमानां भजे ॥ ९॥
त्वदीयसुरवाहिनीविमलवारिधारावलज्जटागहनगाहिनी मतिरियं मम क्रामतु ।
उपोत्तमसरित्तटीविटपिताटवी प्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥ १०॥
इति श्रीलङ्केश्वरविरचिता शिवस्तुतिः समाप्ता ॥
Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com