श्रीशिववेदपादस्तोत्रम् अथवा श्रीशिववेदपादस्तवः
श्रीजैमिनिमहर्षिणा प्रणीतो
॥ अथ श्रीवेदपादस्तोत्रप्रारम्भः ॥
(॥ अथ वेदपादस्तवप्रारम्भः ॥)
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ १॥
कुण्डलीकृतनागेन्द्रं खण्डेन्दुकृतशेखरम् ।
पिण्डीकृतमहाविघ्नं ढुण्डिराजं नमाम्यहम् ॥ २॥
मातामहमहाशैलं महस्तदपितामहम् ।
कारणं जगतां वन्दे कण्ठादुपरिवारणम् ॥ ३॥
ऋषय ऊचुः -
पुण्डरीकपुरं प्राप्य जैमिनिर्मुनिसत्तमः ।
किं चकार महायोगी नूतनो वक्तुमर्हसि ॥ १॥
सूत उवाच -
भगवान् जैमिनिर्धीमान्पुण्डरीकपुरे पुरा ।
महर्षिसिद्धगन्धर्वयक्षकिन्नरसेविते ॥ २॥
नृत्यद्भिरप्सरस्सङ्घैर्दिव्यगानैश्च शोभिते ।
नृत्यन्तं परमीशानं ददर्श सदसि प्रभुम् ॥ ३॥
ननाम दूरतो दृष्ट्वा दण्डवत्क्षितिमण्डले ।
वपावुत्थाय देवस्य ताण्डवामृतमङ्गलम् ॥ ४॥ (पपा?वुत्थाय, ताण्डवाऽमृतमागलम्)
पार्श्वस्थितां महादेवीं पश्यन्तीं तस्य ताण्डवम् ।
दृष्ट्वा सुसंहृष्टमनाः पपात पुरतो मुनिः ॥ ५॥
ततश्शिष्यास्समाहूय वेदशास्त्रार्थपारगान् । (सर्वशास्त्रार्थ)
अग्निकेशमकेशं च सतयोगं च माधवम् ॥ ६॥ (शतयागं जटाधरम्)
वक्रनासं समित्पाणिं धूमगन्धिं कुशासनम् ।
एतैस्सार्थं महादेवं पूजयामास जैमिनिः ॥ ७॥ (एतैस्सार्धम्)
ततोऽपि वेदवेदान्तसारार्थं तत्प्रसादतः ।
कृताञ्जलिरुवाचेदं वेदान्तस्तवमुत्तमम् ॥ ८॥
श्रीजैमिनिरुवाच -
ॐ विघ्नेशविधिमार्ताण्डचन्द्रेन्द्रोपेन्द्रवन्दित ।
नमो गणपते तुभ्यं ब्रह्म॑णां ब्रह्मणस्पते ॥ १॥ ऋ. २.६.२९
उमाकोमलहस्ताब्जसम्भावितललाटिकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्क॑रस्र॑जम् ॥ २॥ य. ३४.१
शिवं विष्णोश्च दुर्दर्शं नरः कस्स्तोतुमर्हति ।
तस्मान्मत्तस्स्तुतिस्सेयम॒भ्राद्वृष्टिरि॑वाजनि ॥ ३॥ ऋ. ५.६.१७
नमः शिवाय साम्बाय नमः शर्वाय शम्भवे ।
नमो नटाय रुद्राय सद॑स॒स्पत॑ये॒ नमः॑ ॥ ४॥ य. ३.२.४.४
पादभिन्नाहिलोकाय मौलिभिन्नाण्डभित्तये ।
भुजभ्रान्तदिगन्ताय भू॒तानां॒ पत॑ये॒ नमः॑ ॥ ५॥ य. ११.२.१९
क्वणन्नूपुरयुग्माय विलसत्कृत्तिवाससे ।
फणीन्द्रमेखलायास्तु पशू॒नां पत॑ये॒ नमः॑ ॥ ६॥ य. ४.५.२.१
कालकालाय सोमाय योगिने शूलपाणये ।
अस्थिभूषाय शुद्धाय जग॑तां॒ पत॑ये॒ नमः॑ ॥ ७॥ य. ४.५.२.१
पात्रे सर्वस्य जगतो नेत्रे सर्वदिवौकसाम् ।
गोत्राणां पतये तुभ्यं क्षेत्रा॑णां॒ पत॑ये॒ नमः॑ ॥ ८॥ य. ४.५.२.१
शङ्कराय नमस्तुभ्यं मङ्गलाय नमोऽस्तु ते ।
धनानां पतये तुभ्यमन्ना॑नां॒ पत॑ये॒ नमः॑ ॥ ९॥ य. ४.५.२.१
अष्टाङ्गयोगहृष्टाय क्लिष्टभक्तेष्टदायिने । (अष्टाङ्गायातिहृष्टाय)
इष्टिघ्नास्तुतयूष्टाय पुष्टा॑नां॒ पत॑ये॒ नमः॑ ॥ १०॥ य. ४.५.२.१ (इष्टिघ्नायेष्टितुष्टाय)
पञ्चभूताधिपतये कालाधिपतये नमः ।
नम आत्माधिपतये दि॒शां च॒ पत॑ये॒ नमः॑ ॥ ११॥ य. ४.५.२.१
विश्वकर्त्रे महेशाय विश्वभर्त्रे पिनाकिने ।
विश्वहर्त्रेऽग्निनेत्राय वि॒श्वरू॑पाय॒ वै नमः॑ ॥ १२॥ य. ११.१०.१२
ईशान ते तत्पुरुष नमो घोराय ते सदा ।
वामदेव नमस्तुभ्यं स॒द्योजा॒ताय॒ वै नमः॑ ॥ १३॥ य. ११.१०.४३ (नमस्तेऽस्तु)
भूतिभूषाय भक्तानां भीतिभङ्गरताय ते ।
नमो भवाय भर्गाय नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ॥ १४॥ य. १०.७.८
सहस्राङ्गाय साम्बाय सहस्राधीश ते नमः । (सहस्राभीषवे नमः )
सहस्रबाहवे तुभ्यं सहस्रा॒क्षाय॑ मी॒ढुषे॑ ॥ १५॥ य। ४.५.१.३
सुकपोलाय सोमाय सुललाटाय सुश्रुवे । (सुभ्रुवे)
सुदेहाय नमस्तुभ्यं सुमृडीकाय मी॒ढुषे॑ ॥ १६॥ ऋ. २.१.२६
भवक्लेशनिमित्तोरुभयच्छेदकृते सताम् । (भवक्लेशनिमित्ताय भवच्छेदकृते)
नमस्तुभ्यमषाढाय सह॑मानाय वे॒धसे॑ ॥ १७॥ ऋ. २.६.२७ (नमस्तुभ्यमषाह्ळाय)
वन्देऽहं देवमानन्दसन्दोहं लास्यसुन्दरम् ।
समस्तजगतां नाथं सद॑स॒स्पति॒मद्भु॑तम् ॥ १८॥ ऋ. १.१.३५
सुजङ्घं सूदरं सूरुं सुकण्ठं सोमभूषणम् । (सुन्दरं सूरुं)
सुगण्डं सुदृशं वन्दे सुगन्धिं᳚ पुष्टिवर्धनम् ॥ १९॥ ऋ. ५.४.३०
भिक्षाहारं हरित्क्षौमं रक्षाभूषं क्षितिक्षमम् । (तक्षाभूषं)
यक्षेशेष्टं नमामीशम॒क्षरं॑ पर॒मं प्र॒भुम् ॥ २०॥ य. ११.१०.१३ (परमं प॒दम्)
अर्धालकमवस्रार्धमस्थ्युत्पलदलस्रजम् ।
अर्ध पुंलक्षणं वन्दे पुरुषं॑ कृष्ण॒पिङ्ग॑लम् ॥ २१॥ य. ११.१०.१२
सकृत्प्रणतसंसारमहासागरतारकम् ।
प्रणमामि तमीशानं जग॑तस्त॒स्थुष॒स्पति॑म् ॥ २२॥ ऋ. ५.५.१०
त्रातारं जगतामीशं दातारं सर्वसम्पदाम् । (धातारं)
नेतारं मरुतां वन्दे जेता॑र॒मप॑राजितम् ॥ २३॥ ऋ. ४.१.१८
तं त्वामन्तकहन्तारं वन्दे मन्दाकिनीधरम् ।
ततानि विदधे योऽयमि॒मानि॒ त्रीणि॑ वि॒ष्टपा॑ ॥ २४॥ ऋ. ६.६.१४ (विष्टपान्)
सर्वज्ञं सर्वगं सर्वं कविं वन्दे तमीश्वरम् ।
यतश्च यजुषा सार्धमृचः॒ सामा॑नि जज्ञिरे ॥ २५॥ ऋ. ८.४.१८ (सार्थम्)
भवन्तं सुदृशं वन्दे भूतभव्यभवत्पतिम् । (भूतभव्यभवन्ति च)
त्यजन्तीतरकर्माणि यो विश्वा॒भि वि॒पश्य॑ति ॥ २६॥ ऋ. ८.८.४५ (विश्वा भुवि पश्यति)
हरं सुरनियन्तारं परं तमहमानतः ।
यदाज्ञया जगत्सर्वं व्या॒प्य ना॑राय॒णः स्थि॑तः ॥ २७॥ य. ११.१०.१३
तं नमामि महादेवं यन्नियोगादिदं जगत् ।
कल्पादौ भगवान् धाता य॑थापू॒र्वम॑कल्पयत् ॥ २८॥ ऋ. ८.८.४८
ईश्वरं तमहं वन्दे यस्य लिङ्गमहर्निशम् ।
यजन्ते सह भार्याभिरिन्द्र॑ज्येष्ठा॒ मरु॑द्गणाः ॥ २९॥ ऋ २.८.९
नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा ।
अवापुस्स्वं स्वमैश्वर्यं देवा॑सः॒ पूष॑रातयः ॥ ३०॥ ऋ. १.२.९
तं वन्दे देवमीशानं यं शिवं हृदयाम्बुजे ।
सततं यतयः शान्ताः स॒ञ्जाना॒ना उ॒पास॑ते ॥ ३१॥ ऋ. ८.८.४९
तदस्मै सततं कुर्मो नमः कमलकान्तये । (तदस्यै)
उमाकुचपदोरस्का या ते॑ रुद्र शि॒वात॒नूः ॥ ३२॥ य. ४.५.१.१
नमस्ते रुद्रभावाय नमस्ते रुद्रकेलये ।
नमस्ते रुद्रशान्त्यै च नम॑स्ते रुद्रम॒न्यवे॑ ॥ ३३॥ य. ४.५.१.१
वेदाश्चरथनिष्ठाभ्यां पादाभ्यां त्रिपुरान्तक । (क्षताश्वरथनिष्ठाभ्यां)
बाणकार्मुकयुक्ताभ्यां बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ ३४॥ य. ४.५.१.१ (कार्मुकहस्ताभ्यां)
ईशानं सकलाराध्यं वन्दे सम्पत्समृद्धिदम् ।
यस्य चासीद्धरिः शस्त्रं ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥ ३५॥ ऋ २.३.१
नमः परशवे देव शूलायानलरोचिषे ।
हर्यग्नीन्द्रात्मने तुभ्यमु॒तोत॒ इष॑वे॒ नमः॑ ॥ ३६॥ य ४.५.१.१
नमस्ते वासुकिज्याय विष्फाराय च शङ्कर । 36 37 swapped in newer text
महते मेरुरूपाय नम॑स्ते अस्तु॒ धन्व॑ने ॥ ३७॥ य ४.५.१.१
सुरेतरवधूहार हारिणी हर यानि ते ।
अन्यान्यस्त्राण्यहं तूर्णमि॒दं तेभ्यो॑करं॒ नमः॑ ॥ ३८॥ ऋ. ८.३.२३ (तूर्णमहं)
धराधरसुतालीला सरोजाहतबाहवे ।
तस्मै तुभ्यमवोचाम नमो॑ अस्मां अव॒स्यवः॑ ॥ ३९॥ ऋ १.८.६
रक्ष मामक्षमं क्षीणमक्षक्षतमशिक्षितम् ।
अनाथं दीनमापन्नं दरि॑द्र॒न्नील॑लोहित ॥ ४०॥ य. ४.५.१०.१ (दरि॑द्रं॒ नील॑लोहित)
दुर्मुखं दुष्क्रियं दुष्टं रक्षमामीश दुर्दृशम् । (मादृशं)
मादृशानामहं न त्वद॒न्यं वि॒न्दामि॒ राध॑से ॥ ४१॥ ऋ. ६.२.१७ (रायसे)
भवाख्येनाग्निना शम्भो रागद्वेषमदार्चिषा ।
दयालो दह्यमानानाम॒स्माक॑मवि॒ता भ॑व ॥ ४२॥ ऋ. २.५.६
परदारं परावासं परवस्त्रं पराप्रियम् ।
हर पाहि परान्नं मां पुरु॑नाम॒न् पुरु॑ष्टुत ॥ ४३॥ ऋ. ६.६.२४
लौकिकैर्यत्कृतं पुष्टैर्नावमानं सहामहे ।
देवेश तव दासेभ्यो भूरि॑दा॒ भूरि॑देहिनः ॥ ४४॥ ऋ. ३.६.३० (दानेभ्यो)
लोकानामुपपन्नानां गर्विणामीश पश्यताम् ।
अस्मभ्यं क्षेत्रमायुश्च वसु॑स्स्पा॒र्हं तदाभ॑र ॥ ४५॥ ऋ. ६.३.४९ (वसुस्सार्हं तथा भर)
याञ्चादौ महतीं लज्जामस्मदीयां घृणानिधे ।
त्वमेव वेत्सि नस्तूर्णमिषं॑ स्तो॒तृभ्य॒ आभ॑र ॥ ४६॥ ऋ. ३.८.२२ (नस्तूर्णमिवग्)
जाया माता पिता चान्ये मां द्विषन्त्यमतिं कृशम् ।
देहि मे महतीं विद्यां रा॒या वि॑श्व॒पुषा॑ स॒ह ॥ ४७॥ ऋ. ६.२.२७ (विद्यां राधा)
अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु ।
मेरुधन्वन्नशक्तेभ्यो बलं॑ धेहि त॒नूषु॑ नः ॥ ४८॥ ऋ. ३.३.२२
लब्धानिष्टसहस्रस्य नित्यमिष्टवियोगिनः । (लब्धारिषसहस्रस्य)
हृद्रोगं मम देवेश हरि॒माणं॑ च नाशय ॥ ४९॥ ऋ. १.४.८
ये ये रोगाः पिशाचा वा नरा देवाश्च मामिह ।
बाधन्ते देव तान् सर्वान् निबा॑ध॑स्व म॒हाँ अ॑सि ॥ ५०॥ ऋ. ६.४.४४ (म॒हान॑सि)
त्वमेव रक्षितास्माकं नान्यः कश्चन विद्यते ।
तस्मात्स्वीकृत्य देवेश रक्षा॑णो ब्रह्मणस्पते ॥ ५१॥ ऋ. १.१.३४
त्वमेवोमापते माता त्वं पिता त्वं पितामहः ।
त्वमायुस्त्वं मतिस्त्वं श्रीरु॒त भ्रातो॒त॑ नः॒ सखा॑ ॥ ५२॥ ऋ. ८.८.४४ (भ्रातोतमस्सखा)
यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः ।
ततः क्षमस्व तत्सर्वं यन्म॒या दु॑ष्कृतं कृतम् ॥ ५३॥ य. ११.१०.१
त्वत्समो न प्रभुत्वेन फल्गुत्वेन च मत्समः ।
अतो देव महादेव त्वम॒स्माकं॒ तव॑स्मसि ॥ ५४॥ ऋ. ६.६.२० (तवस्तसि)
सुस्मितं भस्मगौराङ्गं तरुणादित्यविग्रहम् । (सुस्थितं)
प्रसन्नवदनं सौम्यं गाये॑द्वा॒ मन॑सा गिरा ॥ ५५॥ ऋ. ६.४.४ (नम॑सा, मनसा)
एष एव वरोस्माकं नृत्यन्तन्त्वां सभापते ।
(एष एवतु सोऽस्माकं नृत्यन्तं त्वावभासते ।)
लोकयन्तमुमाकान्तं पश्ये॑म श॒रदः॑ श॒तम् ॥ ५६॥ ऋ. ५.५.११
अरोगिणो महाभागा विद्वांसश्च बहुश्रुताः ।
भवन्ति त्वत्प्रसादेन जीवे॑म श॒रदः॑ श॒तम् ॥ ५७॥ ऋ. ५.५.११ (भगवन् त्वत्प्रसादेन)
सदा च बन्धुभिस्सार्धं त्वदीयं ताण्डवामृतम् । (बन्धुभिस्सार्थं)
(पिबतः काममीशानं ददाम श॒रदः॑ श॒तम् ॥)
पिबन्तः काममीशान नन्दा॑म श॒रदः॑ श॒तम् ॥ ५८॥ य. ११.४.४२
देवदेव महादेव त्वदीयाङ्घ्रिसरोरुहम् ।
कामं मधुमयं पीत्वा मोदा॑म श॒रदः॑ श॒तम् ॥ ५९॥ य. ११.४.४२
कीटा नागाः पिशाचा वा ये वा के वा भवे भवे ।
तव दासा महादेव भवा॑म श॒रदः॑ श॒तम् ॥ ६०॥ य. ११.४.४२
सभायामीश ते दिव्यं नृत्यवाद्यकलस्वनम् । (नृत्तवाद्य)
श्रवणाभ्यां महादेव शृण॑वाम श॒रदः॑ श॒तम् ॥ ६१॥ य. ११.४.४२
स्मृतिमात्रेण संसारविनाशनकराणि ते ।
नामानि तव दिव्यानि प्रब्र॑वाम श॒रदः॑ श॒तम् ॥ ६२॥ य. ११.४.४२
इषुसन्धानमात्रेण दग्धत्रिपुर धूर्जटे ।
आधिभिर्व्याधिभिर्नित्यमजी॑तास्स्याम श॒रदः॑ श॒तम् ॥ ६३॥ य. ११.४.४२
चारुचामीकराभासं गौरीकुचपदोरसम् ।
कदानु लोकयिष्यामि युवा॑नं वि॒श्पतिं॑ क॒विम् ॥ ६४॥ ऋ. ६.३.१४( कदानुलोपयिष्यामि, विश्रुतं कविम्)
प्रमथेन्द्रावृतं प्रीतवदनं प्रियभाषिणम् ।
सेविष्येऽहं कदा साम्ब सु॒भासं॑ शु॒क्रशो॑चिषम् ॥ ६५॥ ऋ. ६.२.१२ (साम्बं)
बह्वेनसं मामकृतपुण्यलेशं च दुर्मतिम् ।
स्वीकरिष्यति किन्त्वीशो नील॑ग्रीवो॒ विलो॑हितः ॥ ६६॥ य. ४.५.१
कालशूलानलासक्तभीतिव्याकुलमानसम् । (कालशूरानलासक्त)
(कदानु रक्ष्यतीशो मां तु सुग्रीवो अवानतः ॥)
कदा नु द्रक्ष्यतीशो मां तुवि॒ग्रीवो॒ अना॑नतः ॥ ६७॥ ऋ. ६.४.४५
गायका यूयमायात यदि रायादिलिप्सवः ।
धनदस्य सखेशोयमुपा॑स्मै गायता नरः ॥ ६८॥ ऋ. ६.७.३६ (सखेसायमुपास्मै)
आगच्छत सखायो मे यदि यूयं मुमुक्षवः ।
स्तुतेशमेवं मुक्तयर्थमे॒षविप्रै॑र॒भिष्टु॑तः ॥ ६९॥ ऋ. ६.७.२१ (स्तुतेशमेनं)
पदे पदे पदे देवपदं नः सेत्स्यति ध्रुवम् । (स्नेह्यति)
प्रदक्षिणं प्रकुरुतमध्यक्षं॒ धर्म॑णामि॒मम् ॥ ७०॥ ऋ. ६.३.३३ (प्रकुर्वीतमध्यक्षं)
सर्वं कार्यं युवाभ्यां हि सुकृतं सुहृदौ मम ।
अञ्जलिं कुरुतं हस्तौ रु॒द्राय॑ स्थि॒रध॑न्विने ॥ ७१॥ य. १०.८.८
मन्मूर्धन् मरुतामूर्ध्वं भवं चन्द्रार्धमूर्धजम् । (यन्मूर्धं)
मूर्धघ्नं च चतुर्मूर्ध्नो न॒म॒स्या क॑ल्मली॒किन॑म् ॥ ७२॥ ऋ. २.७.१७ (मरुतामूर्ध्वं कल्मनीकिनम्)
नयने नयनोद्भूतदहनालीढमन्मथम् । (दमना)
पश्यन्तं तरुणं सौम्यं भ्राज॑मानं हिर॒ण्मय॑म् ॥ ७३॥ ऋ. ६.७.२५
सभायां शूलिनस्सन्ध्यानृत्तवाद्यस्वनामृतम् ।
कर्णौ तूर्णं यथाकामं पा॒तं गौ॒रा वि॒वेरि॑णे ॥ ७४॥ ऋ. ६.६.१०
नासिके वासुकिश्वासवासिताभासितोरसम् ।
घ्रायतं गरलग्रीवमस्म॑भ्यं॒ शर्म॑ यच्छतम् ॥ ७५॥ ऋ. १.१.३३
स्वस्त्यस्तु सुखिते जिह्वे विद्यादातुरुमापतेः । (सखि ते)
स्तवमुच्चतरं ब्रूहि जय॑तामिव दुन्दु॒भिः ॥ ७६॥ ऋ. १.२.२५
चेतःपोत न शोचस्त्वं निन्द्यं विन्दाखिलं जगत् ।
अस्य नृत्तामृतं शम्भोर्गौ॒रो न तृ॑षि॒तः पिब ॥ ७७॥ ऋ. १.१.३०
सुगन्धिं सुखसंस्पर्शं कामदं सोमभूषणम् ।
गाढमालिङ्ग मच्चित्त योषा॑ जा॒रमि॑व प्रि॒यम् ॥ ७८॥ ऋ. ६.८.२२
महामयूखाय महाभुजाय
महाशरीराय महाम्बराय ।
महाकिरीटाय महेश्वराय
म॒होम॒हीं सुष्टु॒तिमी॑रयामि ॥ ७९॥ ऋ. २.७.१७ (महोमहाय सुष्टुतमीरयामि)
यथा कथञ्चिद्रचिताभिरीश
प्रसादतश्चारुभिरादरेण ।
प्रपूजयामस्स्तुतिभिर्महेश
मषा॑ढमुग्रं सह॑मानमा॒भिः ॥ ८०॥ ऋ. ४.६.४
नमश्शिवाय त्रिपुरान्तकाय
जगत्त्रयेशाय दिगम्बराय । (जगत्त्रयीशाय)
नमोऽस्तु मुख्याय हराय शम्भो (हराय भूयो)
नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च ॥ ८१॥ य. ४.५.६
नमोऽविकाराय विकारिणे ते (नमो विकाराय)
नमो भवायास्तु भवोद्भवाय ।
बहु प्रजात्यन्त विचित्ररूपा
यतः॑ प्रसू॒ता ज॒गतः प्रसू॑ती ॥ ८२॥ य. ११.१०.१
तस्मै सुरेशोरुकिरीटनाना-
रत्नावृताष्टापदविष्टराय ।
भस्माङ्गरागाय नमः परस्मै
यस्मा॒त्परं॒ नापर॒मस्ति॒ किञ्चि॑त् ॥ ८३॥ य. ११.१०.१२
सर्पाधिराजौषधिनाथ युद्ध-
क्षुभ्यज्जटामण्डलगह्वराय ।
तुभ्यं नमस्सुन्दरताण्डवाय
यस्मिन्निदꣳसं॑ च॒ विचैति॒ सर्व॑म् ॥ ८४॥ य. १०.१.११
मुरारिनेत्रार्चितपादपद्म-
मुमाङ्घ्रिलाक्षापरिरक्तपाणिम् । (लाक्षारससक्तपाणिम्)
नमामि देवं विषनीलकण्ठं
हि॑रण्यदन्तं॒ शुचिवर्णमा॒रात् ॥ ८५॥ ऋ. ३.६.१४
नमामि नित्यं त्रिपुरारिमेनं
यमान्तकं षण्मुखतातमीशम् ।
ललाटनेत्रार्दितपुष्पचापं
विश्वं पुरा॒णं तम॑सः॒ पर॑स्तात् ॥ ८६॥ य. ११.१०.१
अनन्तमव्यक्तमचिन्त्यमेकं
हरन्तमाशाम्बरमम्बराङ्गम् ।
अजं पुराणं प्रणमामि योऽय-
म॒णोर॑णीयान्मह॒तो म॑हीयान् ॥ ८७॥ य. १०.१०.११
अन्तस्थमात्मानमजं न दृष्ट्वा
भ्रमन्ति मूढा गिरिगह्वरेषु ।
पश्चादुदक्दक्षिणतः पुरस्ता॑-
द॒धस्वि॑दा॒सी दु॒परि॑ स्विदासी३त् ॥ ८८॥ ऋ. ८.७.१७
इमं नमामीश्वरमिन्दुमौलिं
शिवं महानन्दमशोकदुःखम् ।
हृदम्बुजे तिष्ठति यः परात्मा
प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च ॥ ८९॥ य. ११.१०.१
रागादिकापथ्यसमुद्भवेन
भग्नं भवाख्येन महामयेन ।
विलोक्य मां पालय चन्द्रमौले
भि॒षक्त॑मन्त्वा भि॒षजां॑ शृणोमि ॥ ९०॥ ऋ. २.७.१६
दुःखाम्बुराशिं सुखलेशहीन-
मस्पृष्टपुण्यं बहुपातकं माम् ।
मृत्योः करस्थं भवसर्पभीतं (भव रक्श बीतं)
प॒श्चात्पुरस्ता॑दध॒रादुद॑क्तात् ॥ ९१॥ ऋ. ८.४.९
गिरीन्द्रजाचारुमुखावलोक-
सुशीतया देव तवैव दृष्ट्या । (सुगीतया चारु)
वयं दयापूरितयैव तूर्ण-
म॒पो नना॒वा दुरि॒ता त॑रेम ॥ ९२॥ ऋ. ५.१.१२
अपारसंसारसमुद्रमध्ये
निमग्नमुत्क्रोशमनल्परागम् ।
मामक्षयं पाहि महेश जुष्ट- (मामक्षमं)
मोजि॑ष्ठया॒ दक्षि॑णयैवरा॒तिम् ॥ ९३॥ ऋ. २.४.८
स्मरन् पुरा सञ्चितपातकानि
खरं यमस्याभिमुखं यमारे ।
बिभेमि मे देहि यथेष्टमायु-
र्यदि॑ क्षि॒तायुर्यदि॑ वा॒ परे॑तः ॥ ९४॥ ऋ. ८.८.१९
सुगन्धिभिः सुन्दरभस्मगौरै- (सुगन्धगस्सुन्दर)
रनन्तभोगैर्मृदुलैरघोरैः ।
इमं कदालिङ्गति मां पिनाकी
स्थि॒रेभि॒रङ्गैः॑ पुरु॒रूप॑ उ॒ग्रः ॥ ९५॥ ऋ. २.७.१७
क्रोशन्तमीशः पतितं भवाब्धौ
नागास्यमण्डूकमिवातिभीतम् ।
कदा नु मां रक्ष्यति देवदेवो
हिरण्यरूपः स॒हिर॑ण्यसन्दृक् ॥ ९६॥ ऋ. २.७.२३
चारुस्मितं चन्द्रकलावतंसं
गौरीकटाक्षार्हमयुग्मनेत्रम् ।
आलोकयिष्यामि कदा नु देव-
मादि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ॥ ९७॥ य. ११.३.१३.१
आगच्छतात्राशु मुमुक्षवो ये
यूयं शिवं चिन्तयतोऽन्तरब्जे । (चिन्तयतान्तरब्जे)
ध्यायन्ति मुक्त्यर्थमिमं हि नित्यं
वेदान्तवि॒ज्ञान॒सुनि॑श्चिता॒र्थाः ॥ ९८॥ य. १०.१०.११
आयात यूयं भुवनाधिपत्य-
कामा महेशं सकृदर्चयध्वम् ।
एनं पुराभ्यर्च्य हिरण्यगर्भो
भूतस्य॑ जा॒तः पति॒रेक॑ आसीत् ॥ ९९॥ ऋ. ८.७.३
ये कामयन्ते विपुलां श्रियं ते
श्रीकण्ठमेनं सकृदानमन्ताम् ।
श्रीमानयं श्रीपतिवन्द्यपादः
श्री॒णामुदा॒रो ध॒रुणो॑रयी॒णाम् ॥ १००॥ ऋ. ७.८.२८
सुपुत्रकामा अपि ये मनुष्या
युवानमेनं गिरिशं यजन्ताम् ।
यतस्स्वयम्भूर्जगतां विधाता
हिरण्यग॒र्भः सम॑वर्त॒ताग्रे॑ ॥ १०१॥ ऋ. ८.७.३
अलं किमुक्तैर्बहुभिस्समीहितं (समीरितं)
समस्तमस्याश्रयणेन सिध्यति ।
पुरैनमाश्रित्य हि कुम्भसम्भवो
दिवा॒ न नक्तं॑ पलि॒तो इवा॑जनि ॥ १०२॥ ऋ. २.२.१३ (दिवा न सक्तं)
अन्यत्परित्यज्य ममाक्षिभृङ्गौ (भृङ्गाः)
सर्वं सदैनं शिवमाश्रयेथाम् । (शिवमाश्रयध्वम्)
आमोदवानेष मृदुश्शिवोऽयं
स्वा॒दुष्कि॑ला॒यं मधु॑मां उ॒तायम् ॥ १०३॥ ऋ. ४.७.३०
भविष्यसि त्वं प्रतिमानहीनो (प्रतिमाविहीना)
विनिर्जिताऽशेषनरामरा च ।
नमोऽस्तु ते वाणि महेशमेनं
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नम् ॥ १०४॥ ऋ. २.७.१८
यद्यन्मनश्चिन्तयसि त्वमिष्टं
तत्तद्भविष्यत्यखिलं ध्रुवं ते ।
दुःखे निवृत्तेः विषये कदाचि- (निवृत्तिर्विषये)
द्यक्ष्वा॑म॒हे सौ॑मन॒साय॑ रु॒द्रम् ॥ १०५॥ ऋ. ४.२.१९
अज्ञानयोगादपचारकर्म
यत्पूर्वमस्माभिरनुष्ठितं ते ।
तद्देव सोढ्वा सकलं दयालो
पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ॥ १०६॥ ऋ. ५.४.२१
संसाराख्यक्रुद्धसर्पेण तीव्रैः
रागद्वेषोन्मादलोभादिदन्तैः ।
दष्टं दृष्ट्वा मां दयालुः पिनाकी
दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑यच्छन् ॥ १०७॥ ऋ. १.७.२४
इत्युक्त्वान्ते यत्समाधेर्नमन्तो (यत्समाधेर्न मन्त्रो)
रुद्राद्यास्त्वां यान्ति जन्माहिदष्टाः । (रुद्रं ध्यात्वा)
सन्तो नीलग्रीवसूत्रात्मनाहं (नीलग्रीवमन्त्रात्मनाहं)
तत्त्वा॑यामि॒ ब्रह्म॑णां॒ वन्द॑मानः ॥ १०८॥ ऋ. १.२.१५
भवातिभीषणज्वरेण पीडितान् महाभयान-
शेषपातकालयानदूरकाललोचनान् ।
अनाथनाथ ते करेण भेषजेन कालहन्नु-
दूषणो व॒सो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ॥ १०९॥ ऋ. ६.५.९
जयेम येन सर्वमेतदिष्टमष्टदिग्गजं
भुवः स्थलं नभः स्थलं दिवःस्थलं च तद्गतम् ।
य एष सर्वदेवदानवानतः सभापतिः
स नो ददातु॒ तं र॒यिं र॒यिं पि॒शङ्ग॑सदृशम् ॥ ११०॥ ऋ. ८.८.१० (पिशङ्गसन्धृतं)
नमो भवाय ते हराय भूतिभासितोरसे
नमो मृडाय ते हराय भूतभीतिभङ्गिने ।
(नमो भवारये भवार्तिभीतिभङ्गदायिने ।)
नमश्शिवाय विश्वरूपशाश्वताय शूलिने
न यस्य॑ ह॒न्यते॒ सखा॒ न जी॑यते॒ कदा॑चन ॥ १११॥ ऋ. ८.८.१०
सुरपतिपतये नमो नमः
क्षितिपतिपतये नमो नमः प्रजापतिपतये ।
नमो नमोऽम्बिकापतये
उमापतये पशुपतये॑ नमो॒ नमः॑ ॥ ११२॥ य. ११.१०.२२
विनायकं वन्दनमस्तकाहति-
प्रणामसङ्घुष्टसमस्तविष्टपम् ।
नमामि नित्यं प्रणतार्तिनाशनं
क॒विं कवी॒नामुप॒मश्र॑वस्तमम् ॥ ११३॥ ऋ. २.६.२६
देवा युद्धे यागे विप्राः
स्वीयां सिद्धिं ह्वायन् ह्वायन् । (ह्वायं ह्वायम्)
यं सिद्ध्यन्ति स्कन्दं वन्दे
सुब्रह्म॒ण्योꣳ सुब्रह्म॒ण्योम् ॥ ११४॥ य. ११.१.१२.३
नमश्शिवायै जगदम्बिकायै
शिवप्रियायै शिवविग्रहायै ।
समुद्बभूवाद्रिपतेस्सुतायै
चतु॑ष्कवर्दायुव॒तिस्सु॒पेशाः॑ ॥ ११५॥ ऋ. ८.६.१६ (चतु॑ष्कपर्द्रा)
हिरण्यवर्णां मणिनूपुराङ्घ्रिं
प्रसन्नवक्त्रांशुकपद्महस्ताम् ।
विशालनेत्रां प्रणमामि गौरीं
व॒चो॒ विदं॒ वाच॑मुदी॒रय॑न्तीम् ॥ ११६॥ ऋ. ६.७.८
नमामि मेनातनयाममेया-
मुमामिमां मानवतीं च मान्याम् ।
करोति या भूतिसितौ स्तनौ द्वौ
प्रियं॒ सखा॑यं परिषस्वजा॒ना ॥ ११७॥ ऋ ५.१.१९
कान्तामुमाकान्त नितान्तकान्ति- (कान्तामिमां कान्त)
भ्रान्तामुपान्तानतहर्यजेन्द्राम् । (भ्रान्तामुमां तां)
नतोस्मियास्ते गिरिशस्य पार्श्वे (नकोस्मियास्ते)
विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ ॥ ११८॥ ऋ. १.६.२५
वन्दे गौरीं तुङ्गपीनस्तनीं त्वां (तां)
चन्द्राचूडां श्लिष्टसर्वाङ्गरागाम् । (चन्द्रापीडां मृष्टसर्वाङ्गरागाम्)
एषा देवी प्राणिनामन्तरात्मा
दे॒वं दे॑वं॒ राध॑से चो॒दय॑न्तीम् ॥ ११९॥ ऋ. ५.५.२६
एनां वन्दे दीनरक्षाविनोदा-
मेनां कन्यामानतानन्ददात्रीम् ।
या विद्यानां मङ्लानां च वाचा-
मे॒षा ने॒त्री राध॑सस्सू॒नृता॑नाम् ॥ १२०॥ ऋ. ५.५.२३
भवाभिभीतोरुभयापहन्त्रि (भवानुभूतोरुभयापहन्त्रीं)
भवानि भोग्याभरणैकभोगैः । (भवानुभागाभरणैकभोगी)
श्रियं परां देहि शिवप्रिये नो (मे)
ययाति॒ विश्वा॑ दुरि॒ता तरे॑म ॥ १२१॥ ऋ. ६.३.२८
शिवे कथं त्वं स्तुतिभिस्तु गीयसे (मतिभिस्तु)
जगत्त्रयी केलिरयं शिवः पतिः । (जगत्कृतिः)
हरिस्तु दासोऽनुचरेन्दिरा शची
सर॑स्वती वा सु॒भगा॑द॒दिर्वसु॑ ॥ १२२॥ ऋ. ६.२.४
इमं स्तवं जैमिनिना प्रचोदितं (समीरितं)
द्विजोत्तमो यः पठतीशभक्तितः ।
तमिष्टवाक्सिद्धिमतिश्रियः परं (तमिष्टवाक्सिद्धिमतिद्युतिश्रियः)
परि॑ष्वजन्ते॒ जन॑यो॒ यथा॒मति॑म् ॥ १२३॥ ऋ. ७.८.२४
महीपतिर्यस्तु युयुत्सुरादरा-
दिदं पठत्याशु तथैव सादरात् ।
(महीपतिर्यस्तु युयुत्सुरादरादिमं
पठत्यस्य तथैव सुन्दरम् ।)
प्रयान्ति वा शीघ्रमथान्तकान्तिकं (शीघ्रमथान्तकं)
भियं परं दधा॑ना॒ हृद॑येषु॒ शत्र॑वः ॥ १२४॥ ऋ. ८.३.१९
त्रैवर्णिकेष्वन्यतमो य एनं
नित्यं कदाचित् पठतीशभक्तितः ।
कलेवरान्ते शिवपार्श्ववर्ती
निरञ्ज॒नः साम्यमुपै॑ति दि॒व्यम् ॥ १२५॥ मुण्डकोपनिषदि. ५०
लभन्ते पठन्तो मतिं बुद्धिकामा
लभन्ते चिरायुस्तथाऽऽयुष्यकामाः ।
लभन्ते तथैव श्रियं पुष्टिकामा (लभन्ते पठन्तः श्रियं)
ल॒भ॒न्ते॒ ह॒ पुत्राँल्लभन्ते॑ ह पौ॒त्रान् ॥ १२६॥ ऋ. ९.१०
सूत उवाच -
इत्यनेन स्तवेनेशं स्तुत्वासौ जैमिनिर्मुनिः ।
स्नेहाश्रुपूर्णनयनः प्रणनाम सभापतिम् ॥ १२७॥
मुहुर्मुहुः पिबन्नीश-ताण्डवामृतमागलम् ।
सर्वान् कामानवाप्यान्ते गाणपत्यमवाप सः ॥ १२८॥
पादं वाप्यर्धपादं वा श्लोकं श्लोकार्धमेव वा ।
यस्तु वाचयते नित्यं समोक्षमधिगच्छति ॥ १२९॥
वेदः शिवः शिवो वेदो वेदाध्यायी सदाशिवः ।
तस्मात्सर्वप्रयत्नेन वेदाध्यायिनमर्चयेत् ॥ १३०॥
अधीतविस्मृतो वेदो वेदपादस्तवं पठन् ।
स चतुर्वेदसाहस्रपारायणफलं लभेत् ॥ १३१॥
कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतिवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
विश्वेश्वरं त्वां हृदि भावयामि ॥ १३२॥
आनन्दनृत्यसमये नटनायकस्य
पादारविन्दमणिनूपुरशिञ्जितानि ।
आनन्दयन्ति मदयन्ति विमोहयन्ति
रोमाञ्चयन्ति नयनानि कृतार्थयन्ति ॥ १३३॥
अतिभीषण-कटुभाषण-यमकिङ्कर-पटली-
कृतताडन-परिपीडन-मरणागम-समये ।
उमया सह मम चेतसि यम-शासन-निवसन्
हर शङ्कर शिव शङ्कर हर मे हर दुरितम् ॥ १३४॥
इति श्रीजैमिनिमहर्षिणा प्रणीतो वेदपादस्तवस्सम्पूर्णः ।
(इति जैमिनिकृत-वेदपादस्तोत्रं सम्पूर्णम् ।)
शुभम् ॥
Proofread by Aruna Narayanan