शिवविद्याकथनं शिवविद्याप्रश्नः

शिवविद्याकथनं शिवविद्याप्रश्नः

शिवविद्या महाविद्या सा विद्या मुक्तिदायिनी । तां विद्यां वेद वेदो वा गौरी वा शङ्करोऽथवा ॥ १॥ कुमारो वा गणेशो वा नन्दिकेशोऽपि वा स्वयम् । यदि स्याद्गिरिजाकान्ते भक्तिरव्यभिचारिणी ॥ २॥ तदैव शिवविद्यायाः स्वरूपप्रवणो भवेत् । भक्तिरीशे तथा तावत् न कम्याप्यद्भुतं तपः ॥ ३॥ शिवविद्याप्रभावज्ञो दुर्लभो भूतले मुने । यथा भक्तिर्महादेवे तव सा तपसा खलु ॥ ४॥ तथाऽद्यापि न दृष्टैव भक्तिरव्यभिचारिणी । भक्तिरत्नतया ख्याता सैव भक्तिर्महेश्वरे ॥ ५॥ सा भक्तिर्मुक्तिदा नॄणां संसारभयमोचिनी । महादेवश्चिदाकारः परमानन्दविग्रहः ॥ ६॥ निर्गुणोऽपीति निर्णीतः पार्वतीपतिरित्यपि । चन्द्रचूड इति ख्यातः त्रिपुरान्तक इत्यपि ॥ ७॥ स्मरारिरिति विख्यातः कालकण्ठ इति स्मृतः । त्रिशूलपाणिः सर्वेशो जटामण्डलमण्डितः ॥ ८॥ उमार्धविग्रहत्वेन प्रख्यातः परमेश्वरः । अन्धकारिरिति ख्यातो वृषभध्वज इत्यपि ॥ ९॥ लिङ्गाकार इति ख्यातो भस्मोद्धूलितविग्रहः । रुद्राक्षभूषणः शान्तो नीलकण्ठ इति स्मृतः ॥ १०॥ विरूपाक्ष इति ख्यातो दक्षो दाक्षायणीप्रियः । कुमारगुरुरव्यक्तो व्यक्तः सुन्दरविग्रहः ॥ ११॥ कामारिरिति विख्यातः कामदत्वेन कीर्तितः । अक्षरत्वेन विज्ञातो विज्ञानानन्दसागरः ॥ १२॥ ईश्वरः परमात्मा च परमात्मा परात्परः । इत्यन्योन्यं विरुद्धं हि नाम सर्वे चिदात्मके ॥ १३॥ चिद्विलास इति ख्यातं चिदित्यपि विशेषतः । इदं सर्वं वदास्मभ्यं शिवधर्मान् विशेषतः ॥ १४॥ ॥ इति शिवरहस्यान्तर्गते शिवविद्याकथनं / शिवविद्याप्रश्नः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २। १-१४ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 2. 1-14 .. Proofread by Ruma Dewan
% Text title            : Shivavidyakathanam Shivavidyaprashnah
% File name             : shivavidyAkathanaMshivavidyAprashnaH.itx
% itxtitle              : shivavidyAkathanaM athavA shivavidyAprashnaH (shivarahasyAntargataH)
% engtitle              : shivavidyAkathanaM or shivavidyAprashnaH
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 2| 1-14 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org