शिवोत्कर्षमञ्जरी

शिवोत्कर्षमञ्जरी

या लक्ष्मीस्त्रिजगच्छरण्य-चरणा तस्याः पतिर्यच्छरो यद्देयं निखिलैर्वदान्य-निवहैस्तद्यस्य जीर्णं धनुः । या संविच्छ्रुतिषु स्मृता रहसि सा यत्पाद-संसेविनी स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १॥ अर्चामीति धिया यदेव कुसुमं क्षिप्त्वा जनो मुच्यते विध्यामीति धिया तदेव विकिरन् भस्मीकृतो मन्मथः । इत्याभ्यन्तर-वृत्तिमात्र-रसिको बाह्यानपेक्षश्च यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २॥ यत्केशाग्र-विलग्नमम्बु जगतां तीर्थं परं पावनं यद्वीर्यं भुवि दक्षिणेति विहितं यज्ञेषु सर्वेष्वपि । श्वानो यस्य तपस्विनां च महतां कामप्रदा धेनवः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३॥ वक्त्राब्जेषु पितामहस्य जगतां वक्षःस्थले श्रीपतेः सर्वाङ्गेषु शतक्रतोरपि दृढानुच्छ्रित्य जैत्र-ध्वजान् । संप्राप्तो मदनोऽपि यस्य निटिलज्योतिःपतङ्गायितः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४॥ यद्दातुं कृतलोभ एव परमं धाम स्वभक्तान् पुरा काकुत्स्थोऽप्यतिसन्दधे स भुवनान्यन्यानि सृष्ट्वा तदा । आवेधो-मशकं तदेव तृणवद्दत्तेऽविमुक्ते तु यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ५॥ सेतुं यत्र निबद्ध्य यत्र वसुधामुद्धृत्य मग्नां पुरा विख्यातो मधुसूदनः स जलधिः यत्स्रोतसा पूरितः । सा जाह्नव्यपि यज्जटा-तनुशिखा-लम्बाम्बु-लेशायिता स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ६॥ दातव्यस्त्रिदिवः प्रतिक्षण-परिक्षीणः समस्तैः सुरैः तद्दानाय च ते कियत्कियदिव व्यापारयन्ते जनान् । अक्षय्यं पदमाप्यमत्र च सकृद्यत्कीर्तनं साधनं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ७॥ मन्त्रे वा क्वचिदर्थवाद-शकले दिष्टया गृहीते सकृत्- स्वे नाग्नि त्रिदशा वहन्ति महतीं कीर्तिं यदीयोक्तिषु । श्वानस्ते निगमा यदीय-भवनद्वारे चरन्ति स्वतः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ८॥ यः सान्तानिक-लोकदस्तनुभृतां यः सर्व-लोकेश्वरः सोऽप्याहूयत मर्त्यभाव-भजनात् काले न कालेन किम् । तादृक्षोऽपि स कस्यचिद्-द्विज-वटोस्त्राणाय येनाहतः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ९॥ कस्मैचिद्-द्विजबन्धवे कियदपि क्षीरं पुरा याचते दत्तो येन दयारसैक-वपुषा दुग्धोद एवार्णवः । श्रीश्रीवल्लभ-कल्पपादप-सुधा-चिन्तामणीभिः समं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १०॥ केनास्मानतिशेरते दिविचराः श्रुत्या गृहीता हि ते किं नास्मान् श्रुतिराह तान् परतया ब्रूते किमस्मान् स्वकान् । सर्वे चेत्पशवो वयं किमितरैः सर्वस्य यो मोचकः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ११॥ बाणो यस्य न बाणकर्म सहते चक्रे च ये द्वे तयोः एकं चक्रकुल-प्रतीपमितरच्चक्रानुकूल-क्रियम् । ज्या तु ज्यां शिरसा बिभर्ति भुवने सूतो न सूतः क्वचित्- स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १२॥ क्रत्वात्मा पुरुषः क्रतुः क्रतुभुजो वक्ता क्रतूनां क्रतोः आधारः क्रतुकाल-कल्पनपरौ सर्वेऽप्यमी संहताः । यस्यातिक्रमतः सह क्रतुकृता भ्रष्टाश्च नष्टाः क्षणात्- स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १३॥ आरोढुं वरमौपवाह्यमपहर्तुं सुन्दरीः कन्यका भोक्तुं भोज्यमुपस्थितं सुखमलङ्कर्तुं च रत्नैस्तनुम् । सन्नह्यन्त्यमृतान्धसो हि शमिते येनैव हालाहले स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १४॥ स्वं वासो दशधा विभज्य वितरन्नेकैक-खण्डं पुरा यश्चक्रे दश पाकशासन-हुताशादीन् दिशामीश्वरान् । यद्भिक्षाशन-भागभाक् त्रिजगतामन्न-प्रदात्री शिवा स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १५॥ स्वच्छन्दं चरतो हि यस्य चरणाङ्गुष्ठाग्र-सम्पादिता रेखा काचन हेतिराज-पदवीं प्राप्ता जगद्विश्रुताम् । लब्धा दैत्यभिदा तपोभिरुपदीकृत्य स्वकं लोचनं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १६॥ बाणं काचन बाणकोणमितरा बाणस्य मूलं परा यन्तारं कतिचिद्रथाङ्गमितरा शिष्टाः पुनः स्वामिनम् । इत्थं संस्तुवते चिरन्तन-गिरः साक्षात् प्रणाल्यापि यं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १७॥ प्राचीनेत्यधुनातनेति भुवने वाङ्नाम या यावती ताः सर्वाः परितः परीत्य चरणे यस्यायती विश्रमम् । श‍ृण्वन्नङ्गदतां गतः फणिपतिः शब्दागमं व्याकरोत्- स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १८॥ गान्धर्वागम-देशिकौ तनुभृतां यत्कर्णयोः कुण्डले यत्पादाङ्गद-निर्मितं पद-महाभाष्यं भुवि स्त्यायति । पुण्यं पापमिति व्यवस्थितिरियं यद्वाह-हेषाकृता स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १९॥ ध्यात्वा वर्षगणान् बहून्विरचितं यत्नेन यद्वेधसा यच्छौरिर्बिभराम्बभूव बहुधा भूत्वा च मृत्वा स्वयम् । तल्लोक-त्रयमीषदुल्लसित-यच्चक्षुःस्फुलिङ्गे हुतं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २०॥ सौम्याग्नेयतया क्षराक्षरतया शब्दार्थ-भावेन वा जीव-ब्रह्मतया जडाजडतया स्त्रीपुंस-भावेन वा । द्वेधा भिन्नमिदं हि यस्य वपुषी सव्यापसव्ये विदुः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २१॥ यल्लाभाय पुरा कियद्भिरमरैः सिन्धौ कियद्व्यापृतं लेभे यत्परिवेषणेन कियतीं कीर्तिं रमावल्लभः । यच्चूडा-कुसुम-क्षरन्मधुरस-स्रोतःकणः सा सुधा स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २२॥ यः स्रष्टा जगतां यतोऽयमभवत् तद्यस्य नाभेरभूत्- शेते यत्र स तं च यश्चुलुकयाञ्चक्रे सहान्यैः क्षणात् । तादृक्षाः शतशः पुराण-मुनयो यच्छिष्य-वर्गे स्थिताः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २३॥ निर्व्यापार-दशैव यस्य जगती-निर्वाह-धौरन्धरी मन्दस्मेर-मुखाब्जतैव परमो यस्य द्विषां निग्रहः । नित्यं यस्य च मौनमेव निखिलं छिन्ते सतां संशयं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २४॥ दत्ता श्रीरिषवे सिसाधयिषवे वासो गृहीतं सुरैः सूताय व्ययिता गिरश्च किमितो दातास्म्यहं केवलः । इत्यालोच्य दयानिधिर्दिशति यः कैवल्यमेवार्थिनां स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २५॥ शारीरः पृथिवी रवीन्दुदहना वायुर्वियत्तोयमि- त्यष्टाभिश्चिदचिद्गणैः परिणतं विश्वं तनुस्स्वेति यः । विश्वं विश्वविलक्षणः प्रभविता विश्वस्य विश्वाधिकः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २६॥ शब्द-ग्राम-मयी यदीय-गृहिणी ख्याता यदीयं वपुः त्रैलोक्यं जड-चेतनाष्टक-मयं यद्बाण-गुप्तं जगत् । सर्वासां दयितो गिरां सकल-लोकात्मा च सर्वेश्वरः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २७॥ यज्जातीय-कणाङ्किताननमहिं जीर्णं कमप्यावसन् पार्श्व-स्थापित-पन्नगाशन-पतिर्जागर्ति नित्यं हरिः । यत्कण्ठाभरणायितस्त्रिजगती-भीमः स हालाहलः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २८॥ अन्योन्य-श्वसिताशनैः फणधरैराविश्य सत्त्वान्बहिः भुञ्जानैः परिचारकैस्तृणकणैरानन्दिना नन्दिना । भिक्षान्नोपचितैश्च दार-तनयैः पुष्णाति विश्वानि यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २९॥ केयूराङ्गद-हार-कुण्डल-कटीसूत्रोपवीतीभव- द्भोगीन्द्रोद्भट-फूत्कृति-व्यतिकरोन्मृष्टाङ्गरागो मुहुः । संवर्तोपचितैस्त्रिलोक-भसितैर्भूयोऽपि यो लिप्यते स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३०॥ सर्वश्चेतनवर्ग एष पशुतामस्यानुमेने स्वयं तेषामेष पतिः प्रभुर्नियमने निर्मोचने च स्वतः । इत्याम्नाय-गिरः स्तुवन्ति बहुशः शाखासु शाखासु यं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३१॥ यच्छूलं गतसारमित्युपददे चक्रं जिघृक्षुर्हरिः तत्खण्डो निहितस्तु येन दनुजे तेनापि दुर्निग्रहः । निर्जेतुं लवणं प्रतीक्ष्य-विरहः शक्त्याऽभवत् सर्वधा स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३२॥ मां नाम्ना श्रुतिरग्रहीदिति सुराः ख्यातिं लभन्ते परां मां वेदाहमिति श्रुतिः कथयतीत्युत्सिच्यते माधवः । ता यद्दोरिषु-धन्व-मन्युषु नमोवाकान्वहन्ते शतं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३३॥ सर्गश्च प्रतिसञ्चरश्च जगतां यत्पक्ष्मणी संश्रितौ शास्त्राणि श्रुतयोऽपि वा यदधर-स्पन्दं प्रतीक्ष्यासते । बन्धो मोक्ष इति द्वयं तनुभृतां यस्याक्षि-कोणे स्थितं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३४॥ शक्त्यर्धं विनिवेशयामि परिगृह्णीतेत्युपच्छन्दिताः सम्भूयापि वयं तदर्ध-वहने न स्मः समर्था इति । जग्मुः प्रागमराः शरादि-विधया यस्य स्वयं शेषतां स स्वामी मम देवतं तदितरो नाम्नापि नाम्नायते ॥ ३५॥ यानब्धौ विनिमज्ज्य मीनवपुषा शौरिश्चिरायावहत्- यत्सन्धारणमेकमेव महतां माहात्म्यमुद्घुष्यते । यानद्यापि विधिर्बिभर्ति वदनैस्ते यं वहन्त्यागमाः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३६॥ जेतुं त्रीणि पुराणि येन सहसारूढे धरित्री-रथे वेदाश्वेषु विभुग्न-जानुषु वृषो भूत्वा प्रयस्यन्हरिः । वोढुं तं न रथं शशाक विधृतं शेषात्मनापि स्वयं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३७॥ अम्बा यद्गृह-मेधिनी त्रिजगतां शब्दान्तराण्यन्तरा सन्त्यज्योपपदं वदन्ति च जना एकं यमेवेश्वरम् । मुक्त्वा च प्रतियोगिनं वदति यत्सूनुं कुमारं श्रुतिः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३८॥ विश्वं मुञ्च बधान वेति हि पराशक्तिर्यदाज्ञापिता ज्ञानेच्छाकृति-शक्तिषु स्वयमिमं विन्यस्य सर्वं भरम् । आस्तेऽनुत्तर-सामरस्य-परमानन्दानुसन्धायिनी स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३९॥ उन्मीलच्चतुरग्र-विंशति-शत-द्वन्द्वात्मना सङ्ख्यया निर्भक्तैर्भुवनैः सनेतृभिरपि व्याप्तं कला-पञ्चकम् । यत्कोट्यंश-पराख्य-शक्ति-कणिका-लेशस्य लेशायते स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४०॥ यस्यानन्द-महार्णवस्य कणिका या काप्यविद्यानिल- व्याधूता शतधा विभिद्य भुवनं व्याप्ता श्रुतीनां गणैः । ब्रह्म त्वं तदसीति वाद-मुखरैरद्यापि चान्विष्यते स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४१॥ श्रेयः संसरतां किमस्ति परमं नामापवर्गाच्च नः तद्दानादधिको न कश्चन गुणोऽस्त्यस्मद्धियां गोचरः । तद्यद्-दर्पण-संप्रसाद-सुलभं नालं यदीय-स्तुतौ स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४२॥ प्लुष्टे स्थावर-जङ्गमे शतधृतौ नष्टे जगत्स्रष्टरि व्याप्ते दैत्यरिपौ हरेण विहरत्यस्मिन् महेशात्मना । अन्तर्भावयितुं स्वयं तमपि यस्येमे गणाः साक्षिणः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४३॥ नाश-व्याप्यममङ्गलं तदितरं माङ्गल्यमेवं स्थिते नश्यद्-दैवत-धारितैरलमलङ्कारैरभव्यैरिति । नित्यैर्भस्मभिरेव भूषयति यः स्वाङ्गं जगन्मङ्गलं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४४॥ गङ्गाम्भःपरिशोषणं स्मर-मदोच्छेदो जगद्-दाह इ- त्याद्यं निग्रह-वैशसं कलयते कण्ठादुपर्येव यः । अन्तः सन्ततमीहते तु शिवमाकीटं जगन्मात्रके स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४५॥ अभ्यर्चन्ति यमामनन्ति यमनुध्यायन्ति यं सन्ततं गीर्वाणाः फणिनो नरा इति किमित्याश्चर्यमाचक्ष्महे । यो देवः स्वयमप्यसौ शिवमनुध्यायन् शिवत्वं गतः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४६॥ यास्वप्सु द्रुहिणोऽजनिष्ट धरणौ यत्रावतारो हरेः लिल्ये यत्र हुताशने त्रिजगतां माता विदेहात्मजा । तद्भूत-त्रयमप्यभूदचतुरं यत्तेजसो धारणे स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४७॥ यद्धर्मानुचिकीर्षया प्रववृते भिक्षाश्रमोऽनुत्तमो यद्दास्य-व्रत-लाञ्छनं परमिति ख्याता विभूतिः श्रुतौ । यत्सूक्ति-श्रवणेच्छया सुकृतिनो मुञ्चन्ति काश्यामसून् स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४८॥ यत्सारथ्य-पदस्थितेः शतधृतेरायुः परार्धाधिकं शौरेर्यं प्रति मार्गणत्वमयतो जागर्ति लक्ष्मीः स्थिरा । यत्पादाश्रयिणः फणाधर-पतेर्वाचः प्रथन्तेतरां स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४९॥ पारम्ये निगमागमाः परम-सौलभ्ये पिशाचादयो वाञ्छातीत-पदार्पणे स भगवान् वैयाघ्रपादो मुनिः । सर्वागःसहनेऽन्धकश्च दनुजो यस्य स्थिताः साक्षिणः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ५०॥ साराः शब्द-कुलस्य येन निगमा वाहा इति स्वीकृताः सारावद्रिषु कार्मुकं गृहमिति द्वौ हेम-रूप्यौ हृतौ । सारा वारिषु जाह्नवीति विधृता भक्तानुकम्पाच्छलात्- स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ५१॥ भूमिर्भ्राम्यति बद्ध एव मरुति प्रत्यग्भ्रमोऽत्यद्भुतो भ्राम्यन्त्येव सहाश्रयेण च दिवि ज्योतींषि सर्वाण्यपि । आवर्तोऽयमपां भ्रमः परिणतो मूर्तिर्हरस्याष्टमी याऽसावप्पयदीक्षितो जयति सा त्वेका निरस्तभ्रमा ॥ ५२॥ इति श्रीनीलकण्ठदीक्षितविरचिता शिवोत्कर्षमञ्जरी समाप्ता । Proofread by Rajani Arjun Shankar
% Text title            : shivotkarShamanjarI by nIlkaNThadIkShita
% File name             : shivotkarShamanjarI.itx
% itxtitle              : shivotkarShamanjarI (nIlkaNThadIkShitavirachitAni)
% engtitle              : shivotkarShamanjarI by nIlkaNThadIkShita
% Category              : shiva, nIlakaNThadIkShita
% Location              : doc_shiva
% Author                : Nilakantha Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajani Arjun Shankar
% Indexextra            : (Scan 1, 2, 3, Info 1, 2)
% Latest update         : March 19, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org