शाम्भवप्रोक्तं श्रीशैलादिलिङ्गानिमहिमावर्णनम्

शाम्भवप्रोक्तं श्रीशैलादिलिङ्गानिमहिमावर्णनम्

लिङ्गानि बहुधा सन्ति भुक्तिमुक्तिप्रदान्यापि । तेषु सर्वेषु लिङ्गेषु नार्मदं लिङ्गमुत्तमम् ॥ १॥ यद् दत्तं नार्मदे लिङ्गे जलं कुसुममेव वा । फलं बिल्वदलं वापि तदानन्दाम्बुधिप्रदम् ॥ २॥ दुर्लभं नार्मदं लिङ्गं दुर्लभा बिल्वमञ्जरी । दुलभा शाम्भवी विद्या दुर्लभः शाङ्करः कलौ ॥ ३॥ शाङ्करत्वं समासाद्य रेवालिङ्गे मनोहरे । बिल्वाधैरर्चनं कृत्वा मुक्तो भवति मानवः ॥ ४॥ अत्रापि सन्ति लिङ्गानि श्रीशैले शङ्करालये । पर्वताराधितं लिङ्ग त्रिपुरान्तकसंज्ञितम् ॥ ५॥ तल्लिङ्गपूजनादेव मुक्तः स्यादघसागरात् । तस्य दर्शनमात्रेण मुक्तः स्यादघसागरात् ॥ ६॥ त्रिपुरासुरसंहारं कृत्वा भालविलोचनः । लिङ्गाकारं समासाद्य स्थितः श्रीपर्वते खलु ॥ ७॥ भूमण्डलेषु तीर्थानि यानि तानि विशेषतः । श्रीशैले मूर्तिमासाद्य तिष्ठत्येव न संशयः ॥ ८॥ तल्लिङ्गार्चनजं पुण्यं सम्पन्मुक्तिकरं परम् । तत्र येनार्पितं द्रव्यं तदनन्तफलप्रदम् ॥ ९॥ दूर्वाङ्कुरैर्बिल्वपत्रैः नीरैर्वा त्रिपुरान्तकम् । यः पूजयति पुष्पेण स मुक्तो भवति ध्रुवम् ॥ १०॥ तत्र गोक्षीरकलशं यो दद्याभक्तिपूर्वकम् । शाम्भवाय स पुण्यात्मा सुधासागरराड् भवेत् ॥ ११॥ श्रीपर्वते शाम्भवाय यो दद्यादन्नमादरात् । स तावदन्नराशीनामधिपो भवति ध्रुवम् ॥ १२॥ तत्र रत्नानि यो दद्यात् भक्त्या शिवपरायणः । स रत्नकोशाधिपतिः भवत्येव न संशयः ॥ १३॥ त्रिपुरान्तकमुद्दिश्य यः सुवर्ण प्रयच्छति । स सुवर्णपतिर्भूत्वा मुक्तो भवति मानवः ॥ १४॥ शिवचिन्तनशीलं चेदसृतं चित्तमन्ततः । वित्तेशो याति पत्तित्वं पतिपत्तेरपि स्वतः (?)॥ १५॥ शिवचिन्तनशीलानां यो दद्याद्वित्तमन्ततः । सोऽपि वित्तेशतां याति ऋषिवर्यैरपि स्तुतः ॥ १६॥ घण्टाकर्णेश्वरं नाम लिङ्गमस्त्येकमुत्तमम् । तत्पूजनेन पापानि विनश्यन्ति न संशयः ॥ १७॥ तत्रापि कुण्डमस्त्येकं सुधाकुण्डमिति श्रुतम् । तत्र स्नात्वा नरः सद्यः शुद्धो भवति सर्वथा ॥ १८॥ तत्कुण्डजलमध्यस्थो घण्टाकर्णेश्वरं स्मतत् । सर्वपापविनाशानां हेतुरेव प्रजायते ॥ १९॥ घण्टाकर्णेश्वरं नत्वा सम्पूजय कुसुमादिभिः । तत्पुष्पसङ्ख्यया तत्र सम्पत् (?) प्राप्नोति मानवः ॥ २०॥ सारङ्गेश्वरालोक्य तत्र स्नात्वाऽतिपावने । तत्परोजलपानेन मुक्तो भवति मानवः ॥ २१॥ पुण्यकोटिसमाक्रान्तः शिखरेश्वरपूजनम् । करोति पुण्यकालेषु बिल्वदूर्वादिभिर्मुदा ॥ २२॥ विभूतिकुण्डमस्त्येकं तत्तु पावनपावनम् । तस्मिन् कुण्डे प्रविष्टानि तीर्थानि विमलान्यपि ॥ २३॥ तत्कुण्डजलयोगेन तीर्थानां तीर्था मता । ततः सर्वाणि तीर्थानि तत्र यान्ति दिने दिने ॥ २४॥ श्रीशैलो दुर्लभो लोके भस्मकुण्डं च दुर्लभम् । त्रिपुरान्तकलिङ्गं च दुर्लभं जगतीतले ॥ २५॥ शिखरेश्वरमालोक्य विमुक्तः पापपञ्जरात् । पश्चान्मुक्तो भवत्येव यत्र कुत्रापि वा मृतः ॥ २६॥ तत्रास्ति हाटकेशाख्यं लिङ्गं हाटकनिर्मितम् । तत्रास्ति हाटकं कुण्डं तालं पापनाशनम् ॥ २७॥ तत्र स्नात्वा प्रयत्नेन तल्लिङ्गं भक्तिपूर्वकम् । बिल्वपत्रैः समभ्यर्च्य मुक्तो भवति मानवः ॥ २८॥ श्रीशैलभ्रमराम्बायाः कृत्वा दर्शनमादरात् । सर्वपापविनिर्मुक्तः सम्पन्नाथो भविष्यति ॥ २९॥ भ्रमराम्बापदाम्भोजं कोमलैर्बिल्वपत्रकैः । समभ्यर्च्य प्रयत्नेन सर्वराष्ट्राधिपो भवेत् ॥ ३०॥ भ्रमराम्बां समभ्यर्च्य यस्तु रात्रौ प्रदक्षिणम् । करोति तत्करस्था सात् सर्वसम्पद्वराङ्गना ॥ ३१॥ तस्य स्यान्महदैश्वर्यं सन्ततिस्तस्य वर्धते । यच्चित्तं भ्रमराम्बायाश्चरणाम्बुरुहार्चने ॥ ३२॥ तस्य तावद्विपत्तिः स्यात् यावन्नाराधिता शिवा । आराधितायां तस्यां तु सम्पवृद्धिर्दिने दिने ॥ ३३॥ तत्र सम्पत्प्रदानाय दीक्षिता भ्रमराम्बिका । तत्पादाम्बुरुहोत्पन्नाः सर्वदा सर्वसम्पदः ॥ ३४॥ सम्पत्खनिरिति ख्याता श्रीशैले भ्रमराम्बिका । तस्याः प्रभावो वेदैर्वा न ज्ञातः सर्वथा खलु ॥ ३५॥ अलमलमभिलापैरिन्दुमौलेः प्रसादात सकलभुवननाथो जायते मानवोऽपि । इति मनसि विचिन्त्यानुग्रमुग्रं विदित्वा भज भज भगवन्तं पार्वतीकान्तमेकम् ॥ ३६॥ ॥ इति शिवरहस्यान्तर्गते शाम्भवप्रोक्तं श्रीशैलादिलिङ्गानिमहिमावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३२। ७०-१०५ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 32. 70-105 .. Proofread by Ruma Dewan
% Text title            : Shambhavaproktam Shri Shailadilingani Mahimavarnanam
% File name             : shrIshailAdilingAnimahimAvarNanaMshAmbhavaproktam.itx
% itxtitle              : shrIshailAdiliNgAnimahimAvarNanaM shAmbhavaproktam (shivarahasyAntargatam)
% engtitle              : shrIshailAdilingAnimahimAvarNanaM shAmbhavaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 32| 70-105 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org