श्रीसिद्धलिङ्गमहाशिवयोगिनक्षत्रमालिकास्तोत्रम्
(पण्डित श्री बसवराजशास्त्रिविरचितम्)
विभ्राजत्सुजटाधिवास विभजद्गङ्गाविलासावृतम्
राराजद्रजताद्रिवास विलसद्गरी भुजालङ्कृतम् ।
चन्द्रादित्यधनञ्जयाख्यनयनं सन्त्यज्य निर्मायिकम्
सच्चिद्रूपमनादिदेवमतुलं श्री सिद्धलिङ्गं भजे ॥ १॥
आविर्भूय च भूतले सुमहसा श्री गोसलेशं चरम्
संसेव्यामृतसेचनेन ज्वलनं दीपस्यकृत्वा मुदा ।
तेनावाप्य सुजङ्गमाधिकरणं सञ्चार्यलोकेचरैः
भक्तोद्धारपरं समाधिनिरतं श्री सिद्धलिङ्गं भजे ॥ २॥
वैराग्यपूर्णं वरकामितार्थम्
दातारमानन्दपरं दयालुम् ।
सन्तोषरत्नाकर पूर्णचन्द्रम्
वन्दे महान्तं गुरुसिद्धलिङ्गम् ॥ ३॥
संसेव्य चन्नबसवेश महेश पादौ
सम्पूर्य शम्बरमहो गुरुदीपपात्रे ।
सम्प्राप्य जङ्गमपदं गुरुदेव हस्तात्
याचे कृपां गतिरतं गुरुसिद्धलिङ्गम् ॥ ४॥
मुक्तानां सृजमानिशीथसमये पञ्चावलीनां मुदा
शोणाद्रेरधिनाथ हस्तकमलात्सम्प्राप्य तत्रस्थितम् ।
दृष्ट्वा योगिवरं तदर्चनपराः सङ्क्रुध्य राज्ञेऽब्रुवन्
भूपालेन परीक्श्य वन्दितपदं श्री सिद्धलिङ्गं भजे ॥ ५॥
श्री त्र्यम्बकेशवदनेन महेश्वराय
देयं प्रसादमिति जङ्गमभुक्त शेषम् ।
सम्बोध्यजङ्गमपदोद्भव तीर्थसेकम्
जेतारमात्मनि भजे गुरुसिद्धलिङ्गम् ॥ ६॥
कः संसार विमोचको? गुरुवरः कोऽयं गुरुः? श्री महा
सिद्धेशो एडेयूरवासनिरतो मग्नस्समादौ सदा ।
यत्पादाम्बुजसङ्गमेन महतीगङ्गा समुद्भाविता
सह्याद्रिस्थ महाबलेश शिरसस्तं सिद्धलिङ्गं भजे ॥ ७॥
श्री माहेशव्रतयुतं वरसिद्धनाथम्
वादप्रसक्तमनिशं विमुखं च कृत्वा ।
उत्तुङ्गयोगिनमलं परिरक्षितारम्
योगीश्वरं खलु भजे गुरु सिद्धलिङ्गम् ॥ ८॥
क्षेत्रेवसानमुळवीति महाप्रसिद्धे
दुर्वादसक्त हृदयस्य जनार्दनस्य ।
वाग्बन्धनं विदधतं श्रुति शास्त्रवाक्यैः
सिद्धेन्द्रयोगिनमहं सततं नमामि ॥ ९॥
दुर्वादस्थान् जिनमतजनान् वाद भूमौ नितान्तम्
श्रुत्याधारैर्विजयिनमलं भूरिदृष्टान्तपूर्वम् ।
नानारीत्या सरसवचनैर्भङ्गयन्तं महान्तम्
सिद्धेन्द्राख्यं यतिकुल गुरुं चन्द्रचूडं नमामि ॥ १०॥
कन्दर्पदर्पहरमानतरक्षितारम्
वात्सल्यपूर्णहृदयं करुणासमुद्रम् ।
श्रीमल्लिनाथ वरजङ्गम सत्कृतं च
योगीश्वरं हृदि भजे गुरुसिद्धलिङ्गम् ॥ ११॥
गिरिशजङ्गमपूजितमादरात्
सरसभाषण तोषित मानसम् ।
वरसमाधिरतं चरपुङ्गवम्
हृदि भजे गुरुसिद्धयतीश्वरम् ॥ १२॥
वल्मीकस्थितयोगिराजमनघं नम्बेण्ण भक्तस्य वै
गोदोहेन विबोध्य साधु जनता क्षीरेणसंलीयतम् ।
कुम्भेष्वेव शतेषु सञ्चितवता शान्तं महान्तं यतिम्
सम्प्राप्याति तुतोष तं गुरुवरं वन्दे सदा सौख्यदम् ॥ १३॥
सिद्धेन्द्रं वरकग्गेरीयजनतासंसेव्यमानं मुदा
सन्दश्याशु मृतं करालभुजगं सञ्जीवयन्तं यतिम् ।
भूताभ्यां वरमुक्तिदं हि सहसा नम्बेण्णभक्तस्य वै
दासीदत्तमहो पिबन्तमनघं क्षीरं सदा प्रार्थये ॥ १४॥
लिङ्गण्णार्यात्परमकुटिलात् धूर्तभावेनप्राप्तम्
जानन् योगी परमदयया तस्य दौर्जन्यभावम् ।
आमूलाग्रन्निरसनधिया क्ष्वेडरूपात्तमन्नम्
स्विकृत्यालं विमलमनसा वर्तमानं भजेहम् ॥ १५॥
भूतिं मुदा स्पटिकलिङ्गमहो विधाता
वृष्टिं च द्रोणकुसुमैर्महतीं वितन्वन् ।
कासारनीरचलितं घटमानयन् मामम्
पायात्सदा यतिवरो गुरुसिद्धलिङ्गः ॥ १६॥
रात्रौद्वारं विघटनपरं कल्लिनाथेन प्रीत्या
मायादेवी रचितयजनं सादरं मानयन्तम् ।
द्वन्द्वातीतं त्रिदशनमितं सिद्धलिङ्गं यतीन्द्रम्
वन्दे भाक्त्यानतसुरतरुं कालकालं महेशम् ॥ १७॥
जम्बालजाताम्बक नेत्रयुक्त
पादारविन्दं शमनान्तकं तम् ।
अध्वन्यमाशं परिपूर्णनद्याम्
भजेऽहमेतं गुरुसिद्धलिङ्गुम् ॥ १८॥
कामध्वंसी करणविजयी कामितार्थप्रदायी
सौवर्णाद्रिं त्रिपुरविजये कार्मुकं संविधानः ।
द्वन्द्वातीतो निगमवचनैस्तूयमानो य ईशः
तं वन्देऽहं यतिकुलपतिं लिङ्गपूजानिमग्नम् ॥ १९॥
तत्त्वं शक्तिविलासमद्वयममुं षद्भाग संशोभितम्
लिङ्गाङ्गाभिधभेद भिन्नमतुलं चैकोत्तरावान्तरम् ।
श्रुत्यादिप्रतिपाद्यमानमनघं श्रीबोळदेवं प्रति
बोधं तं गुरुसिद्धलिङ्गमनिशं सम्प्रार्थये भक्तये ॥ २०॥
तत्त्वं षट्स्थलमार्गयुक्तमनघं श्रीवीरशैवानुगम्
संसृष्टिर्जगतः क्रमं च निखिलं वेदागमैरादृतम् ।
जिज्ञासुं नितरां हि बोळबसवं सम्बोधयन्तं मुदा
वन्देऽहं सततं शिलामठगतं श्री सिद्धलिङ्गेश्वरम् ॥ २१॥
लिङ्गं वै वरवीरशैवसमये संसार सन्तारकम्
षट्स्थानुनुगमं हि बोळबसवं सम्बोधयन्तं मुदा ।
सिद्धेन्द्रं वरशैलमण्टपगतं चानन्दपूर्णं सदा
सद्भक्त्यासततं नमामि परमं वात्सल्यपूर्णं शिवम् ॥ २२॥
भक्तस्थलं चान्यविभागपूर्णं
ह्याचारलिङ्गेन सुश्रद्धाया च ।
श्री बोळदेवं प्रति बोधयन्तं
श्री सिद्धलिङ्गं सहितं भजेऽहम् ॥ २३॥
निष्ठाभक्तिसमन्वितं वरगुरोर्लिङ्गाश्रयं सन्ततम्
सन्माहेश्वरनामकं स्थलमिदं श्री बोळदेवं प्रति ।
बोधं तं शिवलिङ्गयुक्तमवधान भक्ति संशोभितं
प्रासादिस्थलमात्मभेदसहितं श्री सिद्धलिङ्गं भजे ॥ २४॥
श्री बोळदेवं ह्यनुभावभक्तया
संशोभितं जङ्गमलिङ्गकेन ।
सम्भोधयन्तं वरप्राणलिङ्गिस्थलं
भजेऽहं गुरुसिद्धलिङ्गम् ॥ २५॥
श्री सिद्धलिङ्गयति पञ्चप्रसादलिङ्गा-
नन्दाख्य भक्तिसहितं शरणस्थलं हि ।
ऐक्यं च सामरसभक्ति, महात्मलिङ्गं
सम्बोधयन्तमनिशं बसवार्यमीडे ॥ २६॥
श्री सिद्धलिङ्गं यतिवृन्दवन्द्यं
भक्तानुरागाब्धि सुधाकरं तम् ।
लीलामसङ्ख्यां विरचय्य बाढं
शान्तं महान्तं सततं नमामि ॥ २७॥
इति श्रीबसवराजशास्त्रिविरचितं श्रीमदविरळ-परञ्ज्योति-
चरकुलचक्रवर्ति श्री जगद्गुरु श्रीसिद्धलिङ्ग महाशिवयोगिनां
नक्षत्रमालिकास्तोत्रं सम्पूर्णम् ।
Proofread by Vani V.