अत्रिप्रोक्तसोमनाथलिङ्गार्चनोपदेशः

अत्रिप्रोक्तसोमनाथलिङ्गार्चनोपदेशः

(शिवगौरीसंवादे) अत्रिः - श्रृणुष्व मे वचो राजन्पुनराप्याययिष्यसि । शरणं गच्छ देवेशं तपसा शिवपूजया ॥ १॥ मुनिभिः प्रणतं लिङ्गं सौराष्ट्रे संस्थितं शशिन् । सोमनाथाभिधं लिङ्गं पयोष्णीतीरसंस्थितम् ॥ २॥ ब्रह्मविष्ण्वादिभिर्देवैः सेवितं सर्वकामदम् । तस्मिन्लिङ्गे महादेवो निवसत्यम्बिकासखः ॥ ३॥ इत्यत्रिवचसा सोमो ज्ञात्वा गत्वा महेश्वरम् । स्नात्वा नत्वा महादेवं पयोष्ण्यां धूतकिल्बिषः ॥ ४॥ भस्मनोद्धूल्य सर्वाङ्गं तताप परमं तपः । शिवलिङ्गार्चनरतः पञ्चाक्षरपरायणः ॥ ५॥ भस्मस्थण्डिलसंस्थश्च रुद्रमावर्तयन् सदा । शुश्रूषन्त्या च रोहिण्या कन्दपुष्पफलादिभिः ॥ ६॥ अतिष्ठत्स तदा मौनी दशवर्षाण्यथाम्बिके । तपस्यतोऽथ सोमस्य शक्तिरासीच्छिवाज्ञया ॥ ७॥ सोमनाथमहालिङ्गं बिल्वपत्रैः समर्चयन् । त्रिकालमप्रमादेन सोमार्धकृतशेखरम् ॥ ८॥ एवं संवसतस्तस्य सोमः सोमाय तोषितः । सोमनाथाह्वयाल्लिङ्गात् तस्मै प्रादुरभूच्छिवः ॥ ९॥ गङ्गाचन्द्रकलामैलिर्महोक्षवरवाहनः । उमासंश्लिष्टवामाङ्गो गणवृन्दनिषेवितः ॥ १०॥ ब्रह्मविष्ण्वादिभिर्देवैमंहेन्द्राद्यैः सुरोत्तमैः । कुमारगणनाथैश्च मया च परिसेवितः ॥ ११॥ गजगरुडाखुमयूरहंसयानैः सुरवर्यैरनुयायिभिः पृष्ठतोऽग्रे । राजताद्रिनिभप्रभाविभाविताङ्गं वृषभं केसरियानयानुयातः ॥ १२॥ अधिरुह्यामरचामरौघवातैर्व्यजनैः छत्रगणैर्विशोभिताङ्ग । परशुवरकुरङ्गबालपाणिर्भगवानाविरभूत् तदा महेशः ॥ १३॥ -- ईश्वरः - तथाऽऽगतं महादेवं दृष्ट्वा हृष्टतनूरुहः । प्रणम्य सोमः साष्टाङ्गमष्टमूर्तिं कृपाकरम् ॥ १४॥ तुष्टाव प्राञ्जलिर्धीरो मां साम्बं परमेश्वरि ॥ १५॥ -- राजा - नमस्ते महादेव विश्वधिकेश नमस्ते महेशान लोकेश शम्भो । नमस्ते गणाधीश वृन्दारवन्द्य नमस्ते हरिब्रह्ममृग्याङ्घ्रिमौले ॥ १६॥ नमस्ते महोक्षैकवाह प्रपन्नं सदाऽपाङ्गसङ्गाद्य दृष्ट्याद्य तुष्ट्या । (सङ्गाच्चयाजाद्य) नमस्ते त्वमीशान विश्वैकवन्द्य क्षयार्तिं विनाश्याशु मां तारयाद्य ॥ १७॥ नमस्ते भिषग्वर्य भैषज्यचिन्तां वहस्वाद्य मामद्य यक्ष्माघयुक्तम् । विमुक्तं कुरुष्वाद्य पापौघजालैर्नमस्तेऽस्तु शम्भो प्रसीद प्रसीद ॥ १८॥ -- ईश्वरः - इति सम्प्रार्थितो देवः सोमराज्ञाथ संस्तुतः । दयार्ददृष्ट्या तं वीक्ष्य समालभ्य च पाणिना ॥ १९॥ पुनः पुष्टिं तस्य गात्रे अमृतैः पूरयत् तदा । तमाह विनयोपेतं सोमं साम्बस्तदा मुदा ॥ २०॥ -- ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे अत्रिप्रोक्तसोमनाथलिङ्गार्चनोपदेशः ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १६। २६-४५॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 16. 26-45.. Notes: Rishi Atri addresses the King Brhadbala, detailing to him the way of worshipping Somanatha Jyotirlinga located in Saurashtra Shiva Kshetra, at the banks of River Payoshni. The story of Chandra and Rohini is outlined, whereby Chandra is relieved of Daksha's curse by worshipping at Somanatha as guided by Rishi Atri. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Somanatha Lingarchana Upadeshah by Atri
% File name             : somanAthalingArchanopadeshaHatriprokta.itx
% itxtitle              : somanAthaliNgArchanopadeshaH atriprokta (shivarahasyAntargatA)
% engtitle              : somanAthalingArchanopadeshaH atriprokta
% Category              : shiva, shivarahasya, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 16| 26-45||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org